लक्ष्मीतन्त्रम् · अध्याय 25
पञ्चविंशोऽध्यायः - 25
श्रीः---
इत्थं ते कथितः शक्र तारकस्यैष विस्तरः।
संसारतारिकाया मे तारिकायाः शृणु क्रमम्
वर्णानां विधिसिद्ध्यर्थं संज्ञाः पूर्वं निशामय।
श्रुतासु विधिवद्यासु विधिर्मान्त्रः प्रवर्तते
अकारश्चाप्रमेयश्च प्रथमो व्यापकः स्मृतः।
आदिदेवस्तथाकार आनन्दो गोपनः स्मृतः
रामसंज्ञ इकारश्च इद्ध इष्टः प्रकीर्तितः।
ईकारः पञ्चबिन्दुर्वै विष्णुर्माया पुरंदर
उकारो भुवनाख्यश्च उद्दाम उदयस्तथा।
ऊकार ऊर्जो लोकेशः प्रज्ञाधाराख्य एव च
सत्यश्च ऋतधामा च ऋकारः स तु चाङ्कुशः।
ॠकारो विष्टराख्यश्च ज्वाला चैव प्रसारणम्
लिङ्गात्मा भगवान् प्रोक्तो लृकारस्तारकः स्मृतः।
लृकारो दीर्घघोणश्च देवदत्तस्तथा विराट्
त्र्यश्र एकारसंज्ञश्च जगद्योनिरविग्रहः।
ऐश्वर्यं योगधाता च ऐ स ऐरावणः स्मृतः
ओकार ओतदेहश्च ओदनश्चैव विक्रमी।
और्वोऽथ भूधराख्यश्च औ स्मृतो ह्यौषधात्मकः
त्रैलोक्यैश्वर्यदो व्यापी व्योमेशोंऽकार एव च।
विसर्गः सृष्टिकृत्ख्यातो ह्यःकारः परमेश्वरः
कमलश्च करालश्च ककारः प्रकृतिः परा।
खकारः खर्वदेहश्च वेदात्मा विश्वभावनः
गदध्वंसी गकारस्तु गोविन्दश्च गदाधरः।
घकारस्त्वथ घर्मांशुस्तेजस्वी दीप्तिमांस्तथा
ङकार एकदंष्ट्राख्यो भूतात्मा भूतभावनः।
चकारश्चञ्चलश्चक्री चन्द्रांशुः स तु कथ्यते
छन्दःपतिश्छलध्वंसी छकारश्छन्द एव च।
जन्महन्ताजितश्चैव जकारश्चैव शाश्वतः
झकारो झषसंज्ञश्च सामगः सामपाठकः।
ईश्वरश्चोत्तमाख्यश्च ञकारस्तत्त्वधारकः
चन्द्री टकार आह्लादो विश्वाप्यायकरस्तथा।
धाराधरष्ठकारश्च नेमिः कौस्तुभ उच्यते
दण्डधारो डकारश्च मौसलोऽखण्डविक्रमः।
ढकारो विश्वरूपश्च वृषकर्मा प्रतर्दनः
णकारोऽभयदः शास्ता वैकुण्ठ इति कीर्तितः।
तकारस्ताललक्ष्मा च वैराजः स्रघ्धरः स्मृतः
धन्वी भुवनपालश्च थकारः सर्वरोधकः।
दत्तावकाशो दमनो दकारः शान्तिदः स्मृतः
धकारः शार्ङ्गधृद्धर्ता माधवश्च प्रकीर्तितः।
नरो नारायणः पन्था नकारः समुदाहृतः
पकारः पद्मनाभश्च पवित्रः पश्चिमाननः।
फकारः फुल्लनयनो लाङ्गली श्वेतसंज्ञितः
बकारो वामनो ह्रस्वः पूर्णाङ्गः स च कथ्यते।
भल्लातको भकारश्च ज्ञेयः सिद्धिप्रदो ध्रुवः
मकारो मर्दनः कालः प्रधानः परिपठ्यते।
चतुर्गतिर्यकारश्च सुसूक्ष्मः शङ्ख उच्यते
अशेषभुवनाधारो रोऽनलः कालपावकः।
लकारो विबुधाख्यश्च धरेशः पुरुषेश्वरः
वराहश्चामृताधारो वकारो वरुणः स्मृतः।
शकारः शंकरः शान्तः पुण्डरीकः प्रकीर्तितः
नृसिंहश्चाग्निरूपश्च षकारो भास्करस्तथा।
सकारस्त्वमृतस्तृप्तिः सोमश्च परिकीर्तितः
सूर्यो हकारः प्राणस्तु परमात्मा प्रकीर्तितः।
अनन्तेशः क्षकारस्तु वर्गान्तो गरुडस्तथा
अशेषसंज्ञा वर्णानामित्येताः कीर्तिता मया।
अनुलोमविलोमेन वर्ण्या वर्णस्य वै पुनः
28. संज्ञायामनुलोमेन संख्यायां विलोमेन चेत्यर्थः। "अङ्कानां वामतो गतिः" इति प्रसिद्धम्।
संज्ञा संख्या च या शक्र सामान्या सा महामते।
चिदंशाः सर्व एवैते वर्णा भास्वरविग्रहाः
कारणं सर्वमन्त्राणां लक्ष्मीशक्त्युपबृंहिताः।
स्तुता संपूजिता ध्याता वर्णाः संज्ञाभिरादरात्
प्रयच्छन्ति परामृद्धिं विज्ञानं भावयन्त्यपि।
परस्पराङ्गभावं च मन्त्रोत्पत्तौ व्रजन्त्यमी
चराचरेऽस्मिंस्तन्नास्ति यदमीभिर्न भावितम्।
नित्या यद्यपि ता दिव्या मन्त्राणां मूर्तयः पराः
तथाप्येवंविधैर्वर्णैर्भाविता इति चिन्तना।
भवन्ति पूर्णसामर्थ्या मन्त्राः शास्रनिदर्शनात्
आलम्बनं धियां चैव भवन्त्येवं महामते।
अभागेऽपि यथा व्योम्नि धिया भागः प्रकल्प्यते
सौकर्याय तथा मन्त्रे वर्णभागोऽनुचिन्त्यते।
कृत्वैव भावगां व्याप्तिं वर्णानां पूजनं त्रिधा
भूमौ पद्मे तथा देव्यास्तनौ मन्त्रान् समुद्धरेत्।
परमात्मानमादाय योजयेत् कालवह्निना
36. तारिकामन्त्रमुद्धरति---परमात्मानमिति। परमात्मा हकारः। कालवह्निः रेफः। माया ईकारः। त्रैलोक्यैश्वर्यदः अनुस्वारः। एषां योगे ह्रीं इति तारिकामन्त्रः।
त्रैलोक्यैश्वर्यदोपेतमायामस्मिन्नियोजयेत्।
इयं सा परमा शक्तिर्वैष्णवी सर्वकामदा
सत्ता पूर्णा चिदानन्दा मम मूर्तिर्निरन्तरा।
इयं सा परमा निष्ठा या सा ब्रह्मविदां ध्रुवा
अस्यां निष्ठाय तत्त्वज्ञा विशन्ति ब्रह्म मन्मयम्।
सैषा तत्त्वविदां मुख्यैः शास्रे शास्रे विचिन्त्यते
ओतं प्रोतममुष्यां वै जगच्छब्दार्थतामयम्।
अनयैव सदा सांख्यैः संख्यायेऽहं सनातनी
अनयैव समाधिस्थैः समाधीये समाधिना।
अभिधीयेऽनयैवाहं शैवैः षट्त्रिंशदन्तिमा
महाराज्ञी तथैवाहमनयैव त्रयी परा।
ऋग्यजुःसामसंघाते चिन्त्ये सौरे च मण्डले
तरुणीं रूपसंपन्नां सर्वावयवसुन्दरीम्।
अनयैव व्यवस्यन्ति लोकायतविचक्षणाः
क्षणभङ्गविधानज्ञैश्चिन्त्ये निर्विषया च धीः।
आर्हतैश्चानयैवाहं यक्षीनाम्ना सदोदिता
परमा तारिका शक्तिस्तारिणी तारिकाकृतिः।
लक्ष्मीः पद्मा महालक्ष्मीस्तारा गौरी निरञ्जना
हृल्लेखा परमात्मस्था या शक्तिर्भुवनेश्वरी।
चिच्छक्तिः शान्तिरूपा च घोषणी घोषसंभवा
कामधेनुर्महाधेनुर्जगद्योनिर्विभावरी।
एवमादीनि नामानि शास्रे शास्रे विचक्षणैः
तारिकाया निरुक्तानि वेदे वेदे च पण्डितैः।
अस्या एवापरा मूर्तिर्विज्ञेया त्वनुतारिका
शान्तं नियोजयेत् स्थाने पूर्वस्य परमात्मनः।
शेषमन्यत्समं ह्येषा तनुर्मेऽन्यानुतारिका
49. शान्तः शकारः। अन्यत् सममिति। तारिकया समम्। रीं इति योजनीयमित्यर्थः। श्रीं इत्यनुतारिकामन्त्रः।
तारिकायामिवास्यां च विज्ञेयं वैभवं महत्।
इमे शक्ती परे दिव्ये मम तन्वौ पुरंदर
यत्किंचिदेतया साध्यं साधनीयं तदन्यया।
इमे पूर्वापरीभावं प्रजतोऽन्योन्यवाञ्छया॥
सम्यक्साधयतश्चैव साधकानामभीप्सितम्
इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे तारानुताराप्रकाशो नाम पञ्चविंशोऽध्यायः
********इति पञ्चविंशोऽध्यायः********
मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0