भाषा

ENहिગુ
ग्रंथ पाठ

लक्ष्मीतन्त्रम् · अध्याय 13

13.1

त्रयोदशोऽध्यायः - 13
श्रीः---
अनुग्रहात्मिका शक्र शक्तिर्मे पञ्चमी स्मृता।
तामिमां तत्त्वतो वत्स वदामि तव सांप्रतम्

13.2

अविद्यया समाविद्धा अस्मितादिवशीकृताः।
मच्छक्त्यैव तिरोभूतास्तिरोधानाभिधानया

13.3

उच्चान्नीचे पतन्तस्ते नीचादुत्पतयालवः।
निबद्धास्त्रिविधैर्बन्धैः स्थानत्रयविवर्तिनः

13.4

संसाराङ्गारमध्यस्थाः पच्यमानाः स्वकर्मणा।
सुखाभिमानिनो दुःखे नित्यमज्ञानधर्षिताः

13.5

ता योनीरनुधावन्तश्चराचरविभेदिनीः।
अपूर्वापूर्वभूताभिश्चित्रिताभिः स्वहेतुभिः

13.6

देहेन्द्रियमनोबुद्धिवेदनाभिरहर्निशम्।
जननानि प्रबध्नन्तो मरणानि तथा तथा

13.7

क्लिश्यमाना इति क्लेशैस्तैस्तैर्योगवियोगजैः।
उद्यत्कारुण्यसंताननिर्वापिततदागसा

13.8

मया जीवाः समीक्ष्यन्ते श्रिया दुःखविवर्जिताः।
सोऽनुग्रह इति प्रोक्तः शक्तिपातापराह्वयः

13.9

कर्मसाम्यं भजन्त्येते प्रेक्ष्यमाणा मया तदा।
अपश्चिमा तनुः सा स्याज्जीवानां प्रेक्षिता मया

13.10

अहमेव हि जानामि शक्तिपातक्षणं च तम्।
नासौ पुरुषकारेण न चाप्यन्येन हेतुना

13.11

केवलं स्वेच्छयैवाहं प्रेक्षे कंचित् कदाप्यहम्।
ततः प्रभृति स स्वच्छस्वच्छान्तःकरणः पुमान्

13.12

कर्मसाम्यं समासाद्य शुक्लकर्मव्यपाश्रयः।
वेदान्तज्ञानसंपन्नः सांख्ययोगपरायणः

13.14

सम्यक्सात्त्वतविज्ञानाद्विष्णौ सद्भक्तिमुद्वहन्।
कालेन महता योगी निर्धूतक्लेशसंचयः । 13 ॥
विधूय विविधं बन्धं द्योतमानस्ततस्ततः।
प्राप्नोति परमं ब्रह्म लक्ष्मीनारायणात्मकम्

13.15

एषा तु पञ्चमी शक्तिर्मदीयानुग्रहात्मिका।
स्वाच्छन्द्यमेव मे हेतुस्तिरोभावादिकर्मणि

13.16

इत्थं शक्र विजानीहि नानुयोज्यमतः परम्।
शक्रः---
नमः सरोरुहावासे नमो नारायणाश्रये

13.17

नमो नित्यानवद्यायै कल्याणगुणसिन्धवे।
त्वद्वागमृतसंदोहक्षालितं मे महत्तमः

13.18

भूयोऽहं श्रोतुमिच्छामि चिच्छ्कते रूपमुत्तमम्।
श्रीः---
एको नारायणो देवः परमात्मा सनातनः

13.19

सदा ज्ञानबलैश्वर्यवीर्यशक्त्योजसां निधिः॥
अनादिरपरिच्छेद्यो देशकालस्वरूपतः

13.20

तस्याहं परमा देवी षाड्‌गुण्यमहिमोज्ज्वला।
सर्वकार्यकरी शक्तिरहंता नाम शाश्वती

13.21

संविदेका स्वरूपं मे स्वच्छस्वच्छन्दनिर्भरा।
सिद्धयो विश्वजीवानामायतन्तेऽखिला मयि

13.22

आत्मभित्तौ जगत्सर्वं स्वेच्छयोन्मीलयाम्यहम्।
मयि लोकाः स्फुरन्त्येते जले शकुनयो यथा

13.23

स्वाच्छन्द्यादवरोहामि पञ्चकृत्यविधायिनी।
साहं यदवरोहामि सा हि चिच्छक्तिरुच्यते

13.24

संकोचो मामकः सोऽयं स्वच्छस्वच्छन्दचिद्धनः।
अस्मिन्नपि जगद्भाति दर्पणोदरशैलवत्

13.25

वज्ररत्नवदेवैष स्वच्छः स्फुरति सर्वदा।
चैतन्यमस्य धर्मो यः प्रभा भानोरिवामला

13.26

तया स्फुरति जीवोऽसौ स्वत एवानुरूपया।
विधत्ते पञ्च कृत्यानि जीवोऽयमपि नित्यदा

13.27

या वृत्तिर्नीलपीतादौ सृष्टिः सा कथिता बुधैः।
सक्तिर्या विषये तत्र सा स्थितिः परिकीर्त्यते

13.28

गृहीताद्विषयाद्योऽस्य विरामोऽन्यजिघृक्षया।
सा संहृतिः समाख्याता तत्त्वशास्रविशारदैः

13.29

तद्वासना तिरोभावोऽनुग्रहस्तद्विलापनम्।
ग्राह्यग्रसनशीलोऽयं वह्निवद्ग्रसनः सदा

13.30

पुष्यत्येष सदा जीवो मात्रया मे समिन्धनम्।
आविद्यं मत्स्वरूपं तु व्याक्यातं ते पुरा मया

13.31

शुद्धविद्यासमायोगात् संकोचं यज्जहात्यसौ।
तदा प्रद्योतमानोऽयं सर्वतो मुक्तबन्धनः

13.32

ज्ञानक्रियासमायोगात् सर्ववित्सर्वकृत्सदा।
अनणुश्चाप्यसंकोचान्मद्भावायोपपद्यते

13.33

यावन्निरीक्ष्यते नायं मया कारुण्यवत्तया।
तावत्संकुचितज्ञानः करणैर्विश्वमीक्षते

13.34

चक्षुषालोक्य वस्तूनि विकल्प्य मनसा तथा।
अभिमत्याप्यहंकाराद् बुद्धयैव ह्यध्यवस्यति

13.35

जागराजामथ स्वप्ने करणैरान्तरैश्चरन्।
विहाय तत् सुषुप्तौ तु स्वरूपेणावतिष्ठते

13.36

अवस्थास्ता इमास्तिस्रः प्राकृत्यो नैव जीवगा।
तुर्यापि या दशा जीवे समाधिस्थे प्रजायते

13.37

सापि नैवास्य किं त्वेषा शुद्धसत्त्वव्यवस्थितिः।
अनवस्थमनाघ्रातमखिलैः प्राकृतैर्गुणैः

13.38

अनौपाधिकमच्छेद्यं जीवरूपं तु चिन्मयप्त्।
एवंरूपमपि त्वेतच्छाद्यतेऽनाद्यविद्यया

13.39

सुदृश्यामात्मभूतां मां नैव पश्यत्यसौ ततः।
शक्रः---
सुदृश्यासि कथं देवि त्वं प्रमाणातिगा सती

13.40

वेदान्ता अपि नैवत्वां विदुरित्थंतयाम्बुजे।
श्रीः---
मां तु शक्र विजानीहिप्रत्यक्षां सर्वदेहिनाम्।
समाहितमना भूत्वा श्रृणुष्वेदं मतं मम

इति श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे जीवस्वरूपप्रकाशो नाम त्रयोदशोऽध्यायः
********इति त्रयोदशोऽध्यायः********

मूल पाठ: lakṣmītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc