लघुयमस्मृति · श्लोक 61 -80
प्रायश्चित्ते ततश् चीर्णे कुर्याद् ब्राह्मणभोजनम् ।
विंशतिं गावृषं चैव दद्यात् तेषां च दक्षिणाम् ॥
कृमिभिर् व्रणसंभूतैर् मक्षिकाभिश् च पातितैः ।
कृच्छ्रार्धं संप्रकुर्वीत शक्त्या दद्याच् च दक्षिणाम् ॥
प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् ।
सुवर्णम् आषकं दद्यात् ततः शुद्धिर् विधीयते ॥
चण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयते ।
न वसेत् तत्र रात्रौ तु सद्यः स्नानेन शुध्यति ॥
अथ वसेद् यदा रात्राव् अज्ञानाद् अविचक्षणः ।
तदा तस्य तु तत् पापं शतधा परिवर्तते ॥
उद्गच्छन्ति हि नक्षत्राण्य् उपरिष्टाच् च ये ग्रहाः ।
संस्पृष्टे रश्मिभिस् तेषाम् उदके स्नानम् आचरेत् ॥
कुड्यान्तर्जलवल्मीक मूषिकोत्करवर्त्मसु ।
श्मशाने शौचशेषे च न ग्राह्याः सप्त मृत्तिकाः ॥
इष्टापूर्तं तु कर्तव्यं ब्राह्मणेन प्रयत्नतः ।
इष्टेन लभते स्वर्गं पूर्ते मोक्षं समश्नुते ॥
वित्तापेक्षं भवेद् इष्टं तडागं पूर्तम् उच्यते ।
आरामश् च विशेषेण देवद्रोण्यस् तथैव च ॥
वापी कूपतडागानि देवतायतनानि च ।
पतितान्य् उद्धरेद् यस् तु स पूर्तफलम् अश्नुते ॥
शुक्लाया मूत्रं गृह्णीयात् कृष्णाया गोः शकृत् तथा ।
ताम्रायाश् च पयो ग्राह्यं श्वेताया दधि चोच्यते ॥
कपिलाया घृतं ग्राह्यं महापातकनाशनम् ।
सर्वतीर्थे नदी तोये कुशैर् द्रव्यं पृथक् पृथक् ॥
आहृत्य प्रणवेनैव ह्य् उत्थाप्य प्रणवेन च ।
प्रणवेन समालोड्य प्रणवेन तु संपिबेत् ॥
पालाशे मध्यमे पर्णे भाण्डे ताम्रमये तथा ।
पिबेत् पुष्करपर्णे वा ताम्रे वा मृन्मये शुभे ॥
सूतके तु समुत्पन्ने द्वितीये समुपस्थिते ।
द्वितीये नास्ति दोषस् तु प्रथमेनैव शुध्यति ॥
जातेन शुध्यते जातं मृतेन मृतकं तथा ।
गर्भसंस्रवणे मासे त्रीण्य् अहानि विनिर्दिशेत् ॥
रात्रिभिर् मासतुल्याभिर् गर्भस्रावे विशुध्यति ।
रजस्य् उपरते साध्वी स्नानेन स्त्री रजस्वला ॥
स्वगोत्राद् भ्रश्यते नारी विवाहात् सप्तमे पदे ।
स्वामिगोत्रेण कर्तव्यास् तस्याः पिण्डोदकं क्रियाः ॥
द्वे पितुः पिण्डदानं स्यात् पिण्डे पिण्डे द्विनामता ।
षण्णां देयास् त्रयः पिण्डा एवं दाता न मुह्यति ॥
स्वेन भर्त्रा सह श्राद्धं माता भुक्त्वा स दैवतम् ।
पितामह्य् अपि स्वेनैव स्वेनैव प्रपितामही ॥
मूल पाठ: Laghuyamasmṛti (Yamasmṛti, 99-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0