लघुयमस्मृति · श्लोक 81 -99
वर्षे वर्षे तु कुर्वीत मातापित्रोस् तु सत्कृतिम् ।
अदैवं भोजयेच् छ्राद्धं पिण्डम् एकं तु निर्वपेत् ॥
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धम् अथापरम् ।
पार्वणं चेति विज्ञेयं श्राद्धं पञ्चविधं बुधैः ॥
ग्रहोपरागे संक्रान्तौ पर्वोत्सवमहालये ।
निर्वपेत् त्रीन् नरः पिण्डान् एकम् एव मृते ऽहनि ॥
अनूढा न पृथक् कन्या पिण्डे गोत्रे च सूतके ।
पाणिग्रहणमन्त्राभ्यां स्वगोत्राद् भ्रश्यते ततः ॥
येन येन तु वर्णेन या कन्या परिणीयते ।
तत् समं सूतकं याति तथा पिण्डोदके ऽपि च ॥
विवाहे चैव संवृत्ते चतुर्थे ऽहनि रात्रिषु ।
एकत्वं सा व्रजेद् भर्तुः पिण्डे गोत्रे च सूतके ॥
प्रथमे ऽह्नि द्वितीये वा तृतीये वा चतुर्थके ।
अस्थि संचयनं कार्यं बन्धुभिर् हितबुद्धिभिः ॥
चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा ।
अस्थिसंचयनं प्रोक्तं वर्णानाम् अनुपूर्वशः ॥
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ।
मुच्यते प्रेतलोकात् स स्वर्गलोके महीयते ॥
गङ्गा तोयेषु यस्यास्थि प्लवते शुभकर्मणः ।
न तस्य पुनर् आवृत्तिर् ब्रह्मलोकात् कथञ्चन ॥
यावदस्थि मनुष्याणां गङ्गातोयेषु तिष्ठति ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
नाभिमात्रे जले स्थित्वा हृदयेनानुचिन्तयेत् ।
आगच्छन्तु मे पितरो गृह्णन्त्व् एताञ् जलाञ्जलीन् ॥
हस्तौ कृत्वा सुसंयुक्तौ पूरयित्वा जलेन च ।
गोशृङ्गमाट्रम् उद्धृत्य जलमध्ये जलं क्षिपेत् ॥
आकाशे च क्षिपेद् वारि वारिस्थो दक्षिणामुखः ।
पितॄणां स्थानम् आकाशं दक्षिणा दिक् तथैव च ॥
आपो देवगणाः प्रोक्ता आपः पितृगणास् तथा ।
तस्माद् अप्सु जलं देयं पितॄणां हितम् इच्छता ॥
दिवा सूर्यांशुभिस् तप्तं रात्रौ नक्षत्रमारुतैः ।
संध्ययोर् अप्य् उभाभ्यां च पवित्रं सर्वदा जलम् ॥
स्वभावयुक्तम् अव्याप्तम् अमेध्येन सदा शुचि ।
भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम् ॥
देवतानां पितॄणां च जले दद्याज् जलाञ्जलीन् ।
असंस्कृतप्रमीतानां स्थले दद्याज् जलाञ्जलीन् ॥
श्राद्धे हवनकाले च दद्याद् एकेन पाणिना ।
उभाभ्यां तर्पणे दद्याद् इति धर्मो व्यवस्थितः ॥
मूल पाठ: Laghuyamasmṛti (Yamasmṛti, 99-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0