भाषा

ENहिગુ
ग्रंथ पाठ

लघुयमस्मृति · श्लोक 41 -60

41

अङ्गुष्ठमात्रस्थूलस् तु बाहुमात्रप्रमाणकः ।
सार्द्रश् च स पलाशश् च गोदण्डः परिकीर्तितः ॥

42

गवां निपातने चैव गर्भो ऽपि संपतेद् यदि ।
एकैकशश् चरेत् कृच्छ्रं यथा पूर्वं तथा पुनः ॥

43

पादम् उत्पन्नमात्रे तु द्वौ पादौ गात्रसंभवे ।
पादोनं कृच्छ्रम् आचष्टे हत्वा गर्भम् अचेतनम् ॥

44

अङ्गप्रत्यङ्गसंपूर्णे गर्भे रेतः समन्विते ।
एकैकशश् चरेत् कृच्छ्रम् एषा गोघ्नस्य निष्कृतिः ॥

45

बन्धने रोधने चैव पाषाणे वा गवां रुजा ।
संपद्यते चेन् मरणं निमित्ती नैव लिप्यते ॥

46

मूर्छितः पतितो वापि दण्डेनाभिहतस् तथा ।
उत्थाय षट्पदं गच्छेत् सप्त पञ्च दशापि वा ॥

47

ग्रासं वा यदि गृह्णीयात् तोयं वापि पिबेद् यदि ।
पूर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते ॥

48

काष्ठलोष्टाश्मभिर् गावः शस्त्रैर् वा निहता यदि ।
प्रायश्चित्तं कथं तत्र शास्त्रे शास्त्रे निगद्यते ॥

49

काष्ठे सांतपनं कुर्यात् प्राजापत्यं तु लोष्टके ।
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्य् अतिकृच्छ्रकम् ॥

50

औषधं स्नेहम् आहारं ददद् गोब्राह्मणेषु तु ।
दीयमाने विपत्तिः स्यात् प्रायश्चित्तं न विद्यते ॥

51

तैलभैषज्यपाने च भेषजानां च भक्षणे ।
निःशल्यकरणे चैव प्रायश्चित्तं न विद्यते ॥

52

वत्सानां कण्ठबन्धेन क्रियया भेषजेन तु ।
सायं संगोपनार्थं च न दोषो रोध बन्धयोः ॥

53

पादे चैवास्य रोमाणि द्वि पादे श्मश्रुकेवलम् ।
त्रिपादे तु शिखावर्जं मूले सर्वं समाचरेत् ॥

54

सर्वान् केशान् समुद्धृत्य च्छेदयेद् अङ्गुलद्वयम् ।
एवम् एव हि नारीणां मुण्डमुण्डापनं स्मृतम् ॥

55

न स्त्रिया वपनं कार्यं न च वीरासनं तथा ।
न च गोष्ठे निवासं च न गच्छन्तीम् अनुव्रजेत् ॥

56

राजा वा राज पुत्रो वा ब्राह्मणो वा बहुश्रुतः ।
अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्दिशेत् ॥

57

केशानां रक्षणार्थं च द्विगुणं व्रतम् आदिशेत् ।
द्विगुणे तु व्रते चीर्णे द्विगुणैव तु दक्षिणा ॥

58

द्विगुणं चेन् न दत्तं च केशांश् च परिरक्षयेत् ।
पापं न क्षीयते हन्तुर् दाता च नरकं व्रजेत् ॥

59

अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये ।
तान् धर्मविघ्नकर्तॄंश् च राजा दण्डेन पीडयेत् ॥

60

न चेत् तान् पीडयेद् राजा कथञ्चित् काममोहितः ।
तत् पापं शतधा भूत्वा तम् एव परिसर्पति ॥

मूल पाठ: Laghuyamasmṛti (Yamasmṛti, 99-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc