लघुयमस्मृति · श्लोक 21 -40
दण्ड्यास् तत् पुत्रमित्राणि प्रत्येकं पणिकं दमम् ।
प्रायश्चित्तं ततः कुर्युर् यथा शास्त्रप्रचोदितम् ॥
जलाद्युद्बन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।
विषप्रपतनप्राय शस्त्रघातहताश् च ये ॥
नवैते प्रत्यवसिताः सर्वलोकबहिष्कृताः ।
चान्द्रायणेन शुध्यन्ति तप्तकृच्छ्रद्वयेन वा ॥
उभयावसितः पापः श्यामाच् छबलकाच् च्युतः ।
चान्द्रायणाभ्यां शुध्येत दत्त्वा धेनुं तथा वृषम् ॥
श्वशृगालप्लवङ्गाद्यैर् मानुषैश् च रतिं विना ।
दष्टः स्नात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ॥
अज्ञानाद् ब्राह्मणो भुक्त्वा चण्डालान्नं कदाचन ।
गोमूत्रयावकाहारो मासार्धेन विशुध्यति ॥
गोब्राह्मणगृहं दग्धा मृतं चोद्बन्धनादिना ।
पाशांश् छित्त्वा तथा तस्य कृच्छ्रम् एकं चरेद् द्विजः ॥
चण्डालपुक्कसानां च भुक्त्वा गत्वा च योषितम् ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद् अज्ञानाद् ऐन्दवद्वयम् ॥
कापालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद् अज्ञानाद् ऐन्दवद्वयम् ॥
अगम्यागमने विप्रो मद्यगोमांसभक्सणे ।
तप्तकृच्छ्रपरिक्षिप्तो मौञ्जी होमेन शुध्यति ॥
महापातककर्तारश् चत्वारो ऽप्य् अविशेषतः ।
अग्निं प्रविश्य शुध्यन्ति स्थित्वा वा महति क्रतौ ॥
रहस्यकरणे ऽप्य् एवं मासम् अभ्यस्य पूरुषः ।
अघमर्षणसूक्तं वा शुध्येद् अन्तर्जले स्थितः ॥
रजकश् चर्मकारश् च नटो बुरुड एव च ।
कैवर्तमेदभिल्लाश् च सप्तैते अन्त्यजाः स्मृताः ॥
भुक्त्वा चैषां स्त्रियो गत्वा पीत्वापः प्रतिगृह्य च ।
कृच्छ्राब्दम् आचरेज् ज्ञानाद् अज्ञानाद् ऐन्दवद्वयम् ॥
मातरं गुरुपत्नीं च स्वसृदुहितरौ स्नुषाम् ।
गत्वैताः प्रविशेद् अग्निं नान्या शुद्धिर् विधीयते ॥
राज्ञां प्रव्रजितां धात्रीं तथा वर्णोत्तमाम् अपि ।
कृच्छ्रद्वयं प्रकुर्वीत स गोत्राम् अभिगम्य च ॥
अन्यासु पितृगोत्रासु मातृगोत्रगतास्व् अपि ।
परदारेषु सर्वेषु कृच्छ्रं सांतपनं चरेत् ॥
वेश्याभिगमने पापं व्यपोहन्ति द्विजातयः ।
पीत्वा सकृत् सुतप्तं च पञ्चरात्रं कुशोदकम् ॥
गुरुतल्पव्रतं केचित् केचिद् ब्रह्महणो व्रतम् ।
गोघ्नस्य केचिद् इच्छन्ति केचिच् चैवावकीर्णिनः ॥
दण्डाद् ऊर्ध्वप्रहारेण यस् तु गां विनिपातयेत् ।
द्विगुणं गो व्रतं तस्य प्रायश्चित्तं विनिर्दिशेत् ॥
मूल पाठ: Laghuyamasmṛti (Yamasmṛti, 99-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0