भाषा

ENहिગુ
ग्रंथ पाठ

लघुयमस्मृति · श्लोक 1 -20

1

श्रुतिस्मृत्युदितं धर्मं वर्णानाम् अनुपूर्वशः ।
प्राब्रवीद् ऋषिभिः पृष्टो मुनीनाम् अग्रणीर् यमः ॥

2

यो भुञ्जानो ऽशुचिर् वापि चण्डालं पतितं स्पृशेत् ।
क्रोधाद् अज्ञानतो वापि तस्य वक्ष्यामि निष्कृतिम् ॥

3

षड्रात्रं वा त्रिरात्रं वा यथासंख्यं समाचरेत् ।
स्नात्वा त्रिषवणं विप्रः पञ्चगव्येन शुध्यति ॥

4

भुञ्जानस्य तु विप्रस्य कदाचित् स्रवते गुदम् ।
उच्छिष्टत्वे ऽशुचित्वे च तस्य शौचं विनिर्दिशेत् ॥

5

पूर्वं कृत्वा द्विजः शौचं पश्चाद् अप उपस्पृशेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ॥

6

निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते ।
अहोरात्रोषितो भूत्वा जुहुयात् सर्पिषाहुतीः ॥

7

यदा भोजनकाले स्याद् अशुचिर् ब्राह्मणः क्वचित् ।
भूमौ निधाय तद् ग्रासं स्नात्वा शुद्धिम् अवाप्नुयात् ॥

8

भक्षयित्वा तु तद् ग्रासम् उपवासेन शुध्यति ।
अशित्वा चैव तत् सर्वं त्रिरात्रेणैव शुध्यति ॥

9

अश्नतश् चेद् विरेकः स्याद् अस्वस्थस् त्रिशतं जपेत् ।
स्वस्थस् त्रीणि सहस्राणि गायत्र्याः शोधनं परम् ॥

10

चण्डालैः श्वपचैः स्पृष्टो विण्मूत्रे तु कृते द्विजः ।
त्रिरात्रं तु प्रकुर्वीत भुक्त्वोच्छिष्टः षड् आचरेत् ॥

11

उदक्यां सूतिकां वापि संस्पृशेद् अन्त्यजो यदि ।
त्रिरात्रेण विशुद्धिः स्याद् इति शातातपो ऽब्रवीत् ॥

12

रजस्वला तु संस्पृष्टा श्वमातङ्गादिवायसैः ।
निराहारा शुचिस् तिष्ठेत् कालस्नानेन शुध्यति ॥

13

रजस्वले यदा नार्याव् अन्योन्यं स्पृशते(तः) क्वचित् ।
शुध्यतः पञ्चगव्येन ब्रह्मकूर्चेन चोपरि ॥

14

उच्छिष्टेन च संस्पृष्टा कदाचित् स्त्री रजस्वला ।
कृच्छ्रेण शुद्धिम् आप्नोति शूद्रा दानोपवासतः ॥

15

अनुच्छिष्टेन संस्पृष्टे स्नानं येन विधीयते ।
तेनैवोच्छिष्टसंस्पृष्टः प्राजापत्यं समाचरेत् ॥

16

ऋतौ तु गर्भशङ्कित्वात् स्नानं मैथुनिनः स्मृतम् ।
अनृतौ तु स्त्रियं गत्वा शौचं मूत्रपुरीषवत् ॥

17

उभाव् अप्य् अशुची स्यातां दंपती शयनं गतौ ।
शयनाद् उत्थिता नारी शुचिः स्याद् अशुचिः पुमान् ॥

18

भर्तुः शरीरं शुश्रूषां दौरात्म्याद् अप्रकुर्वती ।
दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना ॥

19

त्यजन्तो ऽपतितान् बन्धून् दण्ड्या उत्तमसाहसम् ।
पिता हि पतितः कामं न तु माता कदाचन ॥

20

आत्मानं घातयेद् यस् तु रज्ज्वादिभिर् उपक्रमैः ।
मृतो ऽमेध्येन लेप्तव्यो जीवतो द्विशतं दमः ॥

मूल पाठ: Laghuyamasmṛti (Yamasmṛti, 99-verse version) · Edition: Vinayaka Ganesa Apte Smṛtīnāṃ Samuccayaḥ Pune Ānandāśrama Ānandāśramasaṃskṛtagranthāvaliḥ 48 · Data entry Jürgen Neuß · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc