भाषा

ENहिગુ
ग्रंथ पाठ

कूर्म पुराण · अध्याय 2.35

2.35.1

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुस्त्रिंशो ऽध्यायः
सूत उवाच
अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् ।
रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः

2.35.2

पुरा पुण्यतमे काले देवदर्शनतत्पराः ।
कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम्

2.35.3

अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् ।
अन्यो ऽन्यं भक्तियुक्तानां व्याघातो जायते किल

2.35.4

तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः ।
कोटिरूपो ऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः

2.35.5

ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् ।
पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियो ऽभवन्

2.35.6

अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् ।
दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियो ऽभवन्

2.35.7

अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् ।
ज्योतिस्तत्रैव ते सर्वे ऽभिलषन्तः परं पदम्

2.35.8

एतत् सदेशाध्युषितं तीर्थं पुण्यतमं शुभम् ।
दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात्

2.35.9

अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् ।
तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत्

2.35.10

अथान्यत्पुष्पनगरी देशः पुण्यतमः शुभः ।
तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम्

2.35.11

कालञ्जरं महातीर्थं लोके रुद्रो महेश्वरः ।
कालं जरितवान् देवो यत्र भक्तिप्रियो हरः

2.35.12

श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा ।
तदाशीस्तन्नमस्कारः पूजयामास शूलिनम्

2.35.13

संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः ।
जजाप रुद्रमनिशं तत्र संन्यस्तमानसः

2.35.14

स तं कालो ऽथ दीप्तात्मा शूलमादाय भीषणम् ।
नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति

2.35.15

वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् ।
कालं कालकरं घोरं भीषणं चण्डदीधितिम्

2.35.16

उबाभ्यामथ हस्ताभ्यां स्पृट्वासौ लिङ्गमैश्वरम् ।
ननाम शिरसा रुद्रं जजाप शतरुद्रियम्

2.35.17

जपन्तमाह राजानं नमन्तमसकृद् भवम् ।
एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव

2.35.18

तमुवाच भयाविष्टो राजा रुद्रपरायणः ।
एकमीशार्चनरतं विहायान्यं निषूदय

2.35.19

इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् ।
रुद्रार्चनरतो वान्यो मद्वशे को न तिष्ठति

2.35.20

एवमुक्त्वा स राजानं कालो लोकप्रकालनः ।
बबन्ध पाशै राजापि जजाप शतरुद्रियम्

2.35.21

अथान्तरिक्षे विमलं दीप्यमानं
तेजोराशिं भूतभर्तुः पुराणम् ।
ज्वालामालासंवृतं व्याप्य विश्वं
प्रादुर्भूतं संस्थितं संददर्श

2.35.22

तन्मध्ये ऽसौ पुरुषं रुक्मवर्णं
देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् ।
तेजोरूपं पश्यति स्मातिहृष्टो
मेने चास्मन्नाथ आगच्छतीति

2.35.23

आगच्छन्तं नातिदूरे ऽथ दृष्ट्वा
कालो रुद्रं देवदेव्या महेशम् ।
व्यपेतभीरखिलेशैकनाथं
राजर्षिस्तं नेतुमभ्याजगाम

2.35.24

आलोक्यासौ भगवानुग्रकर्मा
देवो रुद्रो भूतभर्ता पुराणः ।
एकं भक्तं मत्परं मां स्मरन्तं
देहीतीमं कालमूचे ममेति

2.35.25

श्रुत्वा वाख्यं गोपतेरुग्रभावः
कालात्मासौ मन्यमानः स्वभावम् ।
बद्ध्वा भक्तं पुनरेवाथ पाशैः
क्रुद्धो रुद्रमभिदुद्राव वेगात्

2.35.26

प्रेक्ष्यायान्तं शैलपुत्रीमथेशः
सो ऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः ।
सावज्ञं वै वामपादेन मृत्युं
श्वेतस्यैनं पश्यतो व्याजघान

2.35.27

ममार सो ऽतिभीषणो महेशपादघातितः ।
रराज देवतापतिः सहोमया पिनाकधृक्

2.35.28

निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् ।
ननाम साम्बमव्ययं स राजपुङ्गवस्तदा

2.35.29

नमो भवाय हेतवे हराय विश्वसंभवे ।
नमः शिवाय धीमते नमो ऽपवर्गदायिने

2.35.30

नमो नमो नमो ऽस्तु ते महाविभूतये नमः ।
विभागहीनरूपिणे नमो नराधिपाय ते

2.35.31

नमो ऽस्तु ते गणेश्वर प्रपन्नदुः खनाशन ।
अनादिनित्यभूतये वराहशृङ्गधारिणे

2.35.32

नमो वृषध्वजाय ते कपालमालिने नमः ।
नमो महानटाय ते नमो वृषध्वजाय ते

2.35.33

अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् ।
स्वगाणपत्यमव्ययं सरूपतामथो ददौ

2.35.34

सहोमया सपार्षदः सराजपुङ्गवो हरः ।
मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात्

2.35.35

काले महेशाभिहते लोकनाथः पितामहः ।
अयाचत वरं रुद्रं सजीवो ऽयं भवत्विति

2.35.36

नास्ति कश्चिदपीशान दोषलेशो वृषध्वज ।
कृतान्तस्यैव भवता तत्कार्ये विनियोजितः

2.35.37

स देवदेववचनाद् देवदेवेश्वरो हरः ।
तथास्त्वित्याह विश्वात्मा सो ऽपि तादृग्विधो ऽभवत्

2.35.38

इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् ।
गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति

मूल पाठ: Kūrmapurāṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc