कूर्म पुराण · अध्याय 1.7
इति श्रीकूर्मपुराणे षटसाहस्त्र्यां संहितायां पूर्वविभागे षष्ठो ऽध्यायः
श्रीकूर्म उवाच
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः
तमो मोहो महामोहस्तामिस्त्रश्चान्धसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः
पञ्चधावस्थितः सर्गो ध्यायतः सो ऽभिमानिनः ।
संवृतस्तमसा चैव बीजकम्भुवनावृतः
वर्हिरन्तश्चाप्रकाशः स्तब्धो निः संज्ञ एव च ।
मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः
तं दृष्ट्वासाधकं सर्गममन्यदपरं प्रभुः ।
तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतो ऽभ्यवर्तत
यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्स्त्रोतस्ततः स्मृतः ।
पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः
तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह ।
ऊर्ध्वस्त्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः
ते सुखप्रतिबहुला बहिरन्तश्च नावृताः ।
प्रकाशा बहिरन्तश्च स्वभावाद् देवसंज्ञिताः
ततो ऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा ।
प्रादुरासीत् तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ।
दुः खोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता
तं दृष्ट्वा चापरं सर्गममन्यद् भगवानजः ।
तस्याभिध्यायतः सर्गं सर्गो भूतादिको ऽभवत्
ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ।
खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ।
इत्येते पञ्च कथिताः सर्गा वै द्विजपुङ्गवाः
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः संभूतो ऽबुद्धिपूर्वकः
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः
तथोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।
ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः
अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः ।
नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे
प्राकृतास्तु त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ।
बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्या मुनिपुङ्गवाः
अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ।
सनकं सनातनं चैव तथैव च सनन्दनम् ।
ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः
पञ्चैते योगिनो विप्राः परं वैराग्यमास्थिताः ।
ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम्
तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः ।
मुमोह मायया सद्यो मायिनः परमेष्ठिनः
तं बोधयामास सुतं जगन्मायो महामुनिः ।
नारायणो महायोगी योगिचित्तानुरञ्जनः
बोधितस्तेन विश्वात्मा तताप परमं तपः ।
स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत
ततो दीर्घेण कालेन दुखात् क्रोधो व्यजायत ।
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रु बिन्दवः
भ्रुकुटीकुटिलात् तस्य ललाटात् परमेश्वरः ।
समुत्पन्नो महादेवः शरण्यो नीललोहितः
स एव भगवानीशस्तेजोराशिः सनातनः ।
यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम्
ओङ्कारं समनुस्मृत्य प्रणम्य च कृताञ्जलिः ।
ताम भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः
निशम्य भगवान् वाक्यं शङ्करो धर्मवाहनः ।
स्वात्मना सद्शान् रुद्रान् ससर्ज मनसा शिवः ।
कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान्
तं प्राह भगवान् ब्रह्मा जन्ममृत्युयुताः प्रजाः ।
सृजेति सो ऽब्रवीदीशो नाहं मृत्युजरान्विताः ।
प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः
निवार्य च तदा रुद्रं ससर्ज कमलोद्भवः ।
स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत
अपो ऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा ।
नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च
लवाः काष्ठाः कलाश्चैव मुहूर्ता दिवसाः क्षपाः ।
अर्धमासाश्च मासाश्च अयनाब्दयुगादयः
स्थानाबिमानिनः सृष्ट्वा साधकानसृजत् पुनः ।
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च
प्राणाद् ब्रह्मासृजद् दक्षं चक्षुषश्च मरीचिनम् ।
शिरसो ऽङ्गिरसं देवो हृदयाद् भृगुमेव च
श्रोत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः ।
संकल्पं चैव संकल्पात् सर्वलोकपितामहः
पुलस्त्यं च तथोदानाद् व्यनाच्च पुलहं मुनिम् ।
अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम्
इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः ।
आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्तितः
ततो देवासुरपितृन् मनुष्यांश्च चतुष्टयम् ।
सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत्
युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः ।
ततो ऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः
उत्ससर्जासुरान् सृष्ट्वा तां तनुं पुरुषोत्तमः ।
सा चोत्सृष्टा तनुस्तेन सद्यो रात्रिरजायत ।
सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः
सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत ।
ततो ऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे
त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद् दिनम् ।
तस्मादहो धर्मयुक्ता देवताः समुपासते
सत्त्वमात्रात्मिकामेव ततो ऽन्यां जगृहे तनुम् ।
पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे
उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् ।
सापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत
तस्मादहर्देवतानां रात्रिः स्याद् देवविद्विषाम् ।
तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी
तस्माद् देवासुराः सर्वे मनवो मानवास्तथा ।
उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम्
रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत ।
ततो ऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः
तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योत्स्त्रा सा चाभवद्विप्राः प्राक्सन्ध्या याबिधीयते
ततः स भगवान् ब्रह्मा संप्राप्य द्विजपुङ्गवाः ।
मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत्
अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ।
पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः
सर्पा यक्षास्तथा बूता गन्धर्वाः संप्रजज्ञिरे ।
रजस्तमोभ्यामाविष्टांस्ततो ऽन्यानसृजत् प्रभुः
वयांसि वयसः सृष्ट्वा अवयो वक्षसो ऽसृजत् ।
मुखतो ऽजान् ससर्जान्यान् उदराद्गाश्चनिर्ममे
पद्भ्याञ्चाश्वान् समातङ्गान् रासभान् गवयान् मृगान् ।
उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्यांश्व जातयः ।
औपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे
गायत्रं च ऋचं चैव त्रिवृत्साम रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात्
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात्
सामानि जागतं छन्दस्तोमं सप्तदशं तथा ।
वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात्
एकविशमथर्वाणमाप्तोर्यामाणमेव च ।
अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात्
उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ।
ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः
सृष्ट्वा चतुष्टयं सर्गं देवर्षिपितृमानुषम् ।
ततो ऽसृजच्च भूतानि स्थावराणि चराणि च
यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसः शुभाः ।
नरकिन्नररक्षांसि वयः पुशुमृगोरगान् ।
अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम्
तेषां ये यानि कर्माणि प्राक्सृष्टौ प्रतिपेदिरे ।
तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः
हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते
महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु ।
विनियोगं च भूतानां धातैव विदधात् स्वयम्
नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः
आर्षाणि चैव नामानि याश्च वेदेषु दृष्टयः ।
शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु
मूल पाठ: Kūrmapurāṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0