भाषा

ENहिગુ
ग्रंथ पाठ

कूर्म पुराण · अध्याय 1.31

1.31.1

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेत्रिंशो ऽध्यायः
सूत उवाच
समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः ।
जगाम लिङ्गं तद् द्रष्टुं कपर्देश्वरमव्ययम्

1.31.2

स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः ।
पिशाचमोचने तीर्थे पूजयामास शूलिनम्

1.31.3

तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह ।
मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम्

1.31.4

कश्चिदभ्याजगामेदं शार्दूलो घोररूपधृक् ।
मृगीमेकां भक्षयितुं कपर्देश्वरमुत्तमम्

1.31.5

तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् ।
धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता

1.31.6

तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः ।
जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान्

1.31.7

मृतमात्रा च सा बाला कपर्देशाग्रतो मृगी ।
अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा

1.31.8

त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा ।
वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता

1.31.9

पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि ।
गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः

1.31.10

दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा द्विजाः ।
कपर्देश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम्

1.31.11

तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः ।
कपर्देशस्य माहात्म्यं प्रणम्य वृषभध्वजम्

1.31.12

इदं देवस्य तल्लिङ्गं कपर्दोश्वरमुत्तमम् ।
स्मृत्वैवाशेषपापौघं क्षिप्रमस्य विमुञ्चति

1.31.13

कामक्रोधादयो दोषा वाराणसीनिवासिनाम् ।
विघ्नाः सर्वे विनश्यन्ति कपर्देश्वरपूजनात्

1.31.14

तस्मात् सदैव द्रष्टव्यं कपर्देश्वरमुत्तमम् ।
पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः

1.31.15

ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् ।
जायते योगसंसिद्धिः सा षण्मासे न संशयः

1.31.16

ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात् ।
पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः

1.31.17

अस्मिन् क्षेत्रे पुरा विप्रास्तपस्वी शंसितव्रतः ।
शङ्कुकर्ण इति ख्यातः पूजयामास शङ्करम् ।
जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम्

1.31.18

पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः ।
उवास तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम

1.31.19

कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् ।
अस्थिचर्मपिनद्धाङ्गं निः श्वसन्तं मुहुर्मुहुः

1.31.20

तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः ।
प्रोवाच को भवान् कस्माद् देशाद् देशमिमंश्रितः

1.31.21

तस्मै पिशाचः क्षुधया पीड्यमानो ऽब्रवीद् वचः ।
पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः ।
पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः

1.31.22

न पूजिता मया देवा गावो ऽप्यतिथयस्तथा ।
न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा

1.31.23

एकदा भगवान् देवो गोवृषेश्वरवाहनः ।
विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टे नमस्कृतः

1.31.24

तदाचिरेण कालेन पञ्चत्वमहमागतः ।
न दृष्टं नन्मया घोरं यमस्य वदनं मुने

1.31.25

ईदृशीं योनिमापन्नः पैशाचीं क्षुधयान्वितः ।
पिपासयाधुनाक्रान्तो न जानामि हिताहितम्

1.31.26

यदि कञ्चित् समुद्धर्तुमुपायं पश्यसि प्रभो ।
कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः

1.31.27

इत्युक्तः शङ्कुकर्णो ऽथ पिशाचमिदमब्रवीत् ।
त्वादृशो न हि लोके ऽस्मिन् विद्यते पुण्यकृत्तमः

1.31.28

यत् त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः ।
संस्पृष्टो वन्दितो भूयः को ऽन्यस्त्वत्सदृशो भुवि

1.31.29

तेन कर्मविपाकेन देशमेतं समागतः ।
स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः ।
येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि

1.31.30

स एवमुक्तो मुनिना पिशाचो
दयालुना देववरं त्रिनेत्रम् ।
स्मृत्वा कपर्देश्वरमीशितारं
चक्रे समाधाय मनो ऽवगाहम्

1.31.31

तदावगाढो मुनिसंनिधाने
ममार दिव्याभरणोपपन्नः ।
अदृश्यतार्कप्रतिमे विमाने
शशाङ्कचिह्नाङ्कितचारुमौलिः

1.31.32

विभाति रुद्रैरभितो दिवस्थैः
समावृतो योगिभैरप्रमेयैः ।
सबालखिल्यादिभिरेष देवो
यथोदये भानुरशेषदेवः

1.31.33

स्तुवन्ति सिद्धा दिवि देवसङ्घा
नृत्यन्ति दिव्याप्सरसो ऽभिरामाः ।
मुञ्चन्ति वृष्टिं कुसुमाम्बुमिश्रां
गन्धर्वविद्याधरकिंनराद्याः

1.31.34

संस्तूयमानो ऽथ मुनीन्द्रसङ्घै-
रवाप्य बोधं भगवात्प्रसादात् ।
समाविशन्मण्डलमेतदग्र्यं
त्रयीमयं यत्र विभाति रुद्रः

1.31.35

दृष्ट्वा विमुक्तं स पिशाचभूतं
मुनिः प्रहृष्टो मनसा महेशम् ।
विचिन्त्य रुद्रं कविमेकमग्निं
प्रणम्य तुष्टाव कपर्दिनं तम्

1.31.36

शङ्कुकर्ण उवाच
कपर्दिनं त्वां परतः परस्ताद्
गोप्तारमेकं पुरुषं पुराणम् ।
व्रजामि योगेश्वरमीशितार-
मादित्यमग्निं कपिलाधिरूढम्

1.31.37

त्वां ब्रह्मपारं हृदि सन्निविष्टं
हिरण्मयं योगिनमादिमन्तम् ।
व्रजामि रुद्रं शरणं दिवस्थं
महामुनिं ब्रह्ममयं पवित्रम्

1.31.38

सहस्त्रपादाक्षिशिरो ऽभियुक्तं
सहस्त्रबाहुं नमसः परस्तात् ।
त्वां ब्रहामपारं प्रणमामि शंभुं
हिरण्यगर्भाधिपतिं त्रिनेत्रम्

1.31.39

यतः प्रसूतिर्जगतो विनाशो
येनावृतं सर्वमिदं शिवेन ।
तं ब्रह्मपारं भगवन्तमीशं
प्रणम्य नित्यं शरणं प्रपद्ये

1.31.40

अलिङ्गमालोकविहीनरूपं
स्वयंप्रभं चित्पतिमेकरुद्रम् ।
तं ब्रह्मपारं परमेश्वरं त्वां
नमस्करिष्ये न यतो ऽन्यदस्ति

1.31.41

यं योगिनस्त्यक्तसबीजयोगा
लब्ध्वा समाधिं परमार्थभूताः ।
पश्यन्ति देवं प्रणतो ऽस्मि नित्यं
तं ब्रह्मपारं भवतः स्वरूपम्

1.31.42

न यत्र नामादिविशेषकॢप्ति-
र् न संदृशे तिष्ठति यत्स्वरूपम् ।
तं ब्रह्मपारं प्रणतो ऽस्मि नित्यं
स्वयंभुवं त्वां शरणं प्रपद्ये

1.31.43

यद् वेदवादाभिरता विदेहं
सब्रह्मविज्ञानमभेदमेकम् ।
पश्यन्त्यनेकं भवतः स्वरूपं
सब्रह्मपारं प्रणतो ऽस्मि नित्यम्

1.31.44

यतः प्रधानं पुरुषः पुराणो
विवर्तते यं प्रणमन्ति देवाः ।
नमामि तं ज्योतिषि संनिविष्टं
कालं बृहन्तं भवतः स्वरूपम्

1.31.45

व्रजामि नित्यं शरणं गुहेशं
स्थाणुं प्रपद्ये गिरिशं पुरारिम् ।
शिवं प्रपद्ये हरमिन्दुमौलिं
पिनाकिनं त्वां शरणं व्रजामि

1.31.46

स्तुत्वैवं शङ्कुकर्णो ऽसौ भगवन्तं कपर्दिनम् ।
पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम्

1.31.47

तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् ।
ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम्

1.31.48

शङ्कुकर्णो ऽथ मुक्तात्मा तदात्मा सर्वगो ऽमलः ।
निलिल्ये विमले लिङ्गे तद्भुतमिवाभवत्

1.31.49

एतद् रहस्यमाख्यातं माहात्म्यं वः कपर्दिनः ।
न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति

1.31.50

य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् ।
भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात्

1.31.51

पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् ।
प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम्

1.31.52

इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् ।
द्रक्ष्यामः सततं देवं पूजयामो ऽथ शूलिनम्

1.31.53

इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः ।
उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम्

मूल पाठ: Kūrmapurāṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc