कूर्म पुराण · अध्याय 1.2
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे प्रथमो ऽध्यायः
श्रीकूर्म उवाच
शृणुध्वमृषयः सर्वे यत्पृष्टो ऽहं जगद्धितम् ।
वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम्
भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् ।
पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम्
अहं नारायणो देवः पूर्वमासं न मे परम् ।
उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः
चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु ।
ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा
चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः ।
तदन्तरे ऽभवत् क्रोधः कस्माच्चित् कारणात् तदा
आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः ।
रुद्रः क्रोधात्मजो जज्ञे शूलपाणिस्त्रिलोचनः ।
तेजसा सूर्यसंकाशस्त्रैलोक्यं संहरन्निव
ततः श्रीरभवद् देवि कमलायतलोचना ।
सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम्
शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा ।
दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता
नारायणी महामाया मूलप्रकृतिरव्यया ।
स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत्
तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिः ।
मोहायाशेषभूतानां नियोजय सुरूपिणीम् ।
येनेयं विपुला सृष्टिर्वर्धते मम माधव
तथोक्तो ऽहं श्रियं देवीमब्रुवं प्रहसन्निव ।
देवीदमखिलं विश्वं सदेवासुरमानुषम् ।
मोहयित्वा ममादेशात् संसारे विनिपातय
ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः ।
अक्रोधनान् सत्यपरान् दूरतः परिवर्जय
ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् ।
जापिनस्तापसान् विप्रान् दूरतः परिवर्जय
वेदवेदान्तविज्ञानसंछिन्नाशेषसंशयान् ।
महायज्ञपरान् विप्रान् दूरतः परिवर्जय
ये यजन्ति जपैर्हेमैर्देवदेवं महेश्वरम् ।
स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय
भक्तियोगसमायुक्तानीश्वरार्पितमानसान् ।
प्राणायामादिषु रतान् दूरात् परिहरामलान्
प्रणवासक्तमनसो रुद्रजप्यपरायणान् ।
अथर्वशिरसो ऽध्येतृन् धर्मज्ञान् परिवर्जय
बहुनात्र किमुक्तेन स्वधर्मपरिपालकान् ।
ईश्वराराधनरतान् मन्नियोगान्न मोहय
एवं मया महामाया प्रेरिता हरिवल्लभा ।
यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत्
श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् ।
अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत्
ततो ऽसृजत् स भगवान् ब्रह्मा लोकपितामहः ।
चराचराणि भूतानि यथापूर्वं ममाज्ञया
परीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् ।
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया
नवैते ब्रह्मणः पुत्रा ब्रह्माणो ब्राह्मणोत्तमाः ।
ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः
ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः ।
वैश्यानूरुद्वयाद् देवः पादार्छूद्रान् पितामहः
यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह ।
गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ
ऋचो यजूंषि सामानि तथैवाथर्वणानि च ।
ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया
अनादिनिधना दिव्या वागुत्सृष्टा स्वयंभुवा ।
आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः
अतो ऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् ।
न तेषु रमते धीरः पाषण्डी तेन जायते
वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा ।
स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः ।
सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः
पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः ।
शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा
ततः कालवशात् तासां रागद्वेषादिको ऽभवत् ।
अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः
ततः सा सहजा सिद्धिस्तासां नातीव जायते ।
रजोमात्रात्मिकास्तासां सिद्धयो ऽन्यास्तदाभवन्
तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः ।
वार्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् ।
ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत्
स्वायंभुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् ।
साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः ।
भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे
यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहम् ।
अध्यापनं चाध्ययनं षट् कर्माणि द्विजोत्तमाः
दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः ।
दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते
शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।
कारुकर्म तथाजीवः पाकयज्ञो ऽपि धर्मतः
ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् ।
गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम्
अग्नयो ऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।
गृहस्थस्य समासेन धर्मो ऽयं मुनिपुङ्गवाः
होमो मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्मो ऽयं वनवासिनाम्
भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यग्ज्ञानं च वैराग्यं धर्मो ऽयं भिक्षुके मतः
भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्माग्निकार्यं च धर्मो ऽयं ब्रह्मचारिणाम्
ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः ।
साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः
ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः ।
पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम्
आगर्भसंभवादाद्यात् कार्यं तेनाप्रमादतः ।
अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते
वेदाभ्यासो ऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् ।
गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा
वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि ।
देशान्तरगतो वाथ मृतपत्नीक एव वा
त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते ।
अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी
ऐकाश्रम्यं गृहस्थस्य त्रयाणां श्रुतिदर्शनात् ।
तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम्
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु
धर्मात् संजायते ह्यर्थो धर्मात् कामो ऽभिजायते ।
धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत्
धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः ।
सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत्
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः
यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ ।
इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते
धर्मात् संजायते मोक्षो ह्यर्थात् कामो ऽभिजायते ।
एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम्
य एवं वेद धर्मार्थकाममोक्षस्य मानवः ।
माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते
तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् ।
धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः
धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् ।
अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः
कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः ।
तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत्
प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतो ऽन्यथा
निवृत्तं सेवमानस्तु याति तत् परमं पदम् ।
तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः
क्षमा दमो दया दानमलोभस्त्याग एव च ।
आर्जवं चानसूया च तीर्थानुसरणं तथा
सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः ।
देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः
आहिंसा प्रियवादित्वमपैशुन्यमकल्कता ।
सामासिकमिमं धर्मं चातुर्वर्ण्ये ऽब्रवीन्मनुः
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम्
वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् ।
गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम्
अष्टाशीतिसहस्त्राणामृषीणामूर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम्
सप्तर्षोणां तु यत्स्थानं स्मृतं तद् वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा
यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् ।
हैरण्यगर्भं तत् स्थानं यस्मान्नावर्तते पुनः
योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् ।
आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः
ऋषच ऊचुः
भगवन् देवतारिघ्न हिरण्याक्षनिषूदन ।
चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते
श्रीकूर्म ऊवाच
सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः ।
य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः
सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतदर्शितम् ।
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः
यो ऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः
उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणे यत्तः साधको ऽसौ गृही भवेत्
ऋणानित्रीण्यपाकृत्यत्यक्त्वा भार्याधनादिकम् ।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः
तपस्तप्यति यो ऽरण्ये यजेद् देवान् जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसो मतः
तपसा कर्षितो ऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः
योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः
यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यग् दर्शनसंपन्नः स योगी भिक्षुरुच्यते
ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनो ऽपरे ।
कर्मसन्यासिनः केचित् त्रिविधाः परामेष्ठिकाः
योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च ।
तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः
प्रथमा भावना पूर्वे सांख्ये त्वक्षरभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी
तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् ।
सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते
एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः ।
दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः
ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः ।
असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः
इत्येष भगवान् ब्रह्मा स्त्रष्ट्वत्वे स व्यवस्थितः ।
अहं वै पालयामीदं संहरिष्यति शूलभृत्
तिस्त्रस्तु मूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः ।
रजः सत्त्वतमोयोगात् परस्य परमात्मनः
अनोयन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः ।
अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः
ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना ।
तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः
प्रवर्तते मय्यजस्त्रमाद्या चाक्षरभावना ।
द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना
अहं चैव महादेवो न भिन्नौ परमार्थतः ।
विभज्यस्वेच्छयात्मानं सो ऽन्यर्यामीश्वरः स्थितः
त्रैलोक्यमखिलं स्त्रष्टुं सदेवासुरमानुषम् ।
पुरुषः परतो ऽव्यक्ताद् ब्रह्मत्वं समुपागमत्
तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः ।
एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात् प्रभोः
तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः प्रयत्नतः ।
यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम्
वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः ।
पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया
चतुर्णामाश्रमाणां तु प्रोक्तो ऽयं विधिवद्द्विजाः ।
आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः
तल्लिङ्गधारी सततं तद्भक्तजनवत्सलः ।
ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः
सर्वेषामेव भक्तानां शंभोर्लिङ्गमनुत्तमम् ।
सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम्
यस्तु नारायणं देवं प्रपन्नः परमं पदम् ।
धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः
प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् ।
तेषां ललाटे तिलकं धारणीयं तु सर्वदा
यो ऽसावनादिर्भूतादिः कालात्मासौ धृतो भवेत् ।
उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात्
यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् ।
धृतं त्रिशूलधरणाद् भवत्येव न संशयः
ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः ।
भवत्येव धृतं स्थानमैश्वरं तिलके कृते
तस्मात् कार्यं त्रिशूलाङ्कं तथा च तिलकं शुभम् ।
त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम्
यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः ।
शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित्
एवं परिचरेद् देवान् यावज्जीवं समाहितः ।
तेषां संस्थानमचलं सो ऽचिरादधिगच्छति
मूल पाठ: Kūrmapurāṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0