कूर्म पुराण · अध्याय 1.11
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे देशमो ऽध्यायः
श्रीकूर्म उवाच
एवं सृष्ट्वा परीच्यादीन् देवदेवः पितामहः ।
सहैव मानसैः पुत्रैस्तताप परमं तपः
तस्यैवं तपतो वक्त्राद् रुद्रः कालाग्निसन्निभः ।
त्रिशूलपाणिरीशानः प्रदुरासीत् त्रिलोचनः
अर्धनारीनरवपुः दुष्प्रेक्ष्यो ऽतिभयङ्करः ।
विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात्
तथोक्तो ऽसौ द्विधा स्त्रीत्वं पुरुषत्वमथाकरोत् ।
बिभेद पुरुषत्वं च दशधा चैकधा पुनः
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ।
कपालोशादयो विप्रा देवकार्ये नियोजिताः
सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
बिभेद बहुधा देवः स्वरूपैरसितैः सितैः
ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि ।
लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी
विभज्य पुररीशानी स्वात्मानं शङ्कराद् विभोः ।
महादेवनियोगेन पितामहमुपस्थिता
तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव ।
सापि तस्य नियोगेन प्रादुरासीत् प्रजापतेः
नियोगाद् ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् ।
दक्षाद् रुद्रो ऽपि जग्राह स्वकीयामेव शूलभृत्
प्रजापतिं विनिन्द्यैषा कालेन परमेश्वरी ।
मेनायामभवत् पुत्री तदा हिमवतः सती
स चापि पर्वतवरो ददौ रुद्राय पार्वतीम् ।
हिताय सर्वदेवानां त्रिलोकस्यात्मनो ऽपि च
सैषा माहेश्वरी देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती सुरासुरनमस्कृता
तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः ।
विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः
एतद् वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः ।
ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः
सूत उवाच
इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् ।
विष्णुना पुनरेवैनं प्रणता हरिम्
ऋषय ऊचुः
कैषा भगवती देवी शङ्करार्धशरीरिणी ।
शिवा सती हैमवती यथावद् ब्रूहि पृच्छताम्
तेषां तद् वचनं श्रुत्वा मुनीनां पुरुषोत्तमः ।
प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम्
श्रीकूर्म उवाच
पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् ।
रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः
सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् ।
संसारार्णवमग्नानां जन्तूनामेकमोचनम्
या सा माहेश्वरी शक्तिर्ज्ञानरूपातिलालसा ।
व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता
शिवा सर्वगतानान्ता गुणातीता सुनिष्कला ।
एकानेकविभागस्था ज्ञानरूपातिलालसा
अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा ।
स्वाभाविकी च तन्मूला प्रभा भानोरिवामला
एका माहेश्वरी शक्तिरनेकोपाधियोगतः ।
परावरेण रूपेण क्रीडते तस्य सन्निधौ
सेयं करोति सकलं तस्याः कार्यमिदं जगत् ।
न कार्यं नापि करणमीश्वरस्येति सूरयः
चतस्त्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः ।
अधिष्ठानवशात् तस्याः शृणुध्वं मुनिपुङ्गवाः
शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेतिताः स्मृतः ।
चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः
अनया परया देवः स्वात्मानन्दं समश्नुते ।
चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः
अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् ।
तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना
सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका ।
प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः
तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् ।
स कालो ऽग्निर्हरो रुद्रो गीयते वेदवादिभिः
कालः सृजति भूतानि कालः संहरते प्रजाः ।
सर्वे कालस्य वशगा न कालः कस्यचिद् वशे
प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहङ्कृतिः ।
कालेनान्यानि तत्त्वानि समाविष्टानि योगिना
तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता ।
तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः
सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी ।
वैश्वरूप्यं महेशस्य सर्वदा संप्रकाशयेत्
अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः ।
ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम्
सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः ।
माययैवाथ विप्रेन्द्राः सा चानादिरनन्तया
सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया ।
मायावी सर्वशक्तीशः कालः कालकारः प्रभुः
करोति कालः सकलं संहरेत् काल एव हि ।
कालः स्थापयते विश्वं कालाधीनमिदं जगत्
लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः ।
अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः
प्रधानं पुरुषो माया माया चैवं प्रपद्यते ।
एका सर्वगतानन्ता केवला निष्कला शिवा
एका शक्तिः शिवैको ऽपि शक्तिमानुच्यते शिवः ।
शक्तयः शक्तिमन्तो ऽन्ये सर्वशक्तिसमुद्भवाः
शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः ।
अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः
शक्तयो गिरजा देवी शक्तिमन्तो ऽथ शङ्करः ।
विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः
भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता ।
प्रोच्यते भगवान् भोक्ता कपर्दे नीललोहितः
मन्ता विश्वेश्वरो देवः शङ्करो मन्मथान्तकः ।
प्रोच्यते मतिरीशानी मन्तव्या च विचारतः
इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् ।
प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः
एतत् प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् ।
सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः
एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् ।
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम्
आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् ।
योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम्
परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् ।
अनन्तप्रकृतौ लीनं देव्यास्तत् परमं पदम्
शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् ।
आत्मोपलब्धिविषयं देव्यास्तत् परमं पदम्
सैषा धात्री विधात्री च परमानन्दमिच्छताम् ।
संसारतापानखिलान् निहन्तीश्वरसंश्रया
तस्माद् विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् ।
आश्रयेत् सर्वभावानामात्मभूतां शिवात्मिकाम्
लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरम् ।
सभार्यः शरं यातः पार्वतीं परमेश्वरीम्
तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् ।
मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम्
मेनोवाच
पश्य बालामिमां राजन् राजीवसदृशाननाम् ।
हिताय सर्वभूतानां जाता च तपसावयोः
सो ऽपि दृष्ट्वा ततः पुत्रीं तरुणादित्यसन्निभाम् ।
कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम्
अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् ।
निर्गुणां सगुणां साक्षात् सदसद्व्यक्तिवर्जिताम्
प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः ।
भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम्
हीमवानुवाच
का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते
गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार महाशैलं योगिनामभयप्रदा
देव्युवाच
मां विद्ध परमां शक्तिं परमेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः
अहं वै सर्वभावानात्मा सर्वान्तरा शिवा ।
शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका
अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम्
एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् ।
स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम्
कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् ।
ज्वालामालासहस्त्राढ्यं कालानलशतोपमम्
दंष्ट्राकरालं दुर्धर्ष जटामण्डलमण्डितम् ।
त्रिशूलवरहस्तं च घोररूपं भयानकम्
प्रशान्तं सौम्यवदनमनन्ताश्चर्यसंयुतम् ।
चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम्
किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम्
शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् ।
अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम्
सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् ।
ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम्
सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् ।
सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम्
दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् ।
भयेन च समाविष्टः स राजा हृष्टमानसः
आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ।
नाम्नामष्टसहस्त्रेण तुष्टाव परमेश्वरीम्
हीमवानुवाच
शिवोमा परमा शक्तिरनन्ता निष्कलामला ।
शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा
अचिन्त्या केवलानन्त्या शिवात्मा परमात्मिका ।
अनादिरव्यया शुद्धा देवात्मा सर्वगाचला
एकानेकविभागस्था मायातीता सुनिर्मला ।
महामाहेश्वरी सत्या महादेवी निरञ्जना
काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा ।
नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ।
व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा
अनादिनिधनामोघा कारणात्मा कलाकला ।
क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया
प्राणेश्वरप्रिया माता महामहिषघातिनी ।
प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी
सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा ।
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी
अनादिरव्यक्तगुहा महानन्दा सनातनी ।
आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी
महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी ।
संसारयोनिः सकला सर्वशक्तिसमुद्भवा
संसारपारा दुर्वारा दुर्निरोक्ष्या दुरासदा ।
प्राणशक्तिः प्रणविद्या योगिनी परमा कला
महाविभूतिर्दुर्धर्षा मूलप्रकृतिसंभवा ।
अनाद्यनन्तविभवा परार्था पुरुषारणिः
सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ।
शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ।
पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ।
जन्ममृत्युजरातीता सर्वशक्तिसमन्विता
व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी ।
क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता
अनादिमायसंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा ।
महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा
व्यक्ताव्यक्तात्मिकाकृष्णा रक्ताशुक्ला प्रसूतिका ।
अकार्या कार्यजननी नित्यं प्रसवधर्मिणी
सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी ।
ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका
वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया ।
सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता
विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी ।
महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भावा
महाविमानमध्यस्था महानिद्रात्महेतुका ।
सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका
अनन्तरूपानन्तस्था देवी पुरुषमोहिनी ।
अनेकाकारसंस्थाना कालत्रयविवर्जिता
ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका ।
ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ।
वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता ।
अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा
ईश्वराणी च शर्वाणी शङ्करार्धशरीरिणी ।
भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका
महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा
ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी ।
ईश्वरार्धासनगता महेश्वरपतिव्रता
सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी
गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता
सरोजनिलया मुद्रा योगनिद्रा सुरार्दिना ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला
वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका ।
योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना
गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता ।
स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः
नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी ।
अजा विभावरी सौम्या भोगिनी भोगदायिनी
शोभा वंशकरी लोला मालिनी परमेष्ठिनी ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी
महानुभावा सत्त्वस्था महामहिषमर्दनी ।
पद्ममाला पापहरा विचित्रा मुकुटानना
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी
निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा कौमारी मयूरवरवाहिनी
वृषासनगता गौरो महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा विवाहना
विरूपाक्षी लेलिहाना महापुरनिवासिनी ।
महाफलानवद्याङ्गी कामपूरा विभावरी
विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी ।
कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।
भक्तार्तिशमनी भव्या भवभावविनाशनी
निर्गुणा नित्यविभवा निः सारा निरपत्रपा ।
यशस्विनी सामगीतिर्भवाङ्गनिलयालया
दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी
सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी ।
अकलङ्का निराधारा नित्यसिद्धा निरामया
कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी ।
निः सङ्कल्पा निरातङ्का विनया विनयप्रदा
ज्वालामालासहस्त्राढ्या देवदेवी मनोन्मनी ।
महाभगवती दुर्गा वासुदेवसमुद्भवा
महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा ।
ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः
दक्षिणा दहना दाह्या सर्वभूतनमस्कृता ।
योगमाया विभावज्ञा महामाया महीयसी
संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः ।
बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः
ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी ।
विकृतिः शांसरी शास्त्री गणगन्धर्वसेविता
वैश्वानरी महाशाला देवसेना गुहप्रिया ।
महारात्रिः शिवानन्दा शची दुः स्वप्ननाशिनी
इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी ।
गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता
हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा ।
जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा
बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी ।
तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता
सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता ।
संसारतारिणी विद्या ब्रह्मवादिमनोलया
ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः ।
हिरण्मयी महारात्रिः संसारपरिवर्तिका
सुमालिनी सुरूपा च भाविनी तारिणी प्रभा ।
उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी
सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी
जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ।
निराश्रया निराहारा निरङ्कुरवनोद्भवा
चन्द्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी ।
परावरविधानज्ञा महापुरुषपूर्वजा
विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा ।
विद्यामयी सहस्त्राक्षी सहस्त्रवदनात्मजा
सहस्त्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया ।
क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका
महामायाश्रया मान्या महादेवमनोरमा ।
व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा
वीरेश्वरी विमानस्था विशोकाशोकनाशिनी ।
अनाहता कुण्डलिना नलिनी पद्मवासिनी
सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलारणिः
ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः
क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता ।
अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी
गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नी सकला कालकारिणी
सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः ।
प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी
कपिला कापिला कान्ताकनकाभाकलान्तरा ।
पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरस्सरा
पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ।
पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा
धर्मोदया भानुमती योगिज्ञेय मनोजवा ।
मनोहरा मनोरक्षा तापसी वेदरूपिणी
वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी
विश्वावस्था वियन्मूर्तिर्विद्युन्माला विहायसी ।
किंनरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा
भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी
अचिन्त्याचिन्त्यविभवा हृल्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी
त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया ।
सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना
शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता गवां मता रणप्रिया
सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा ।
दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा
हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी
रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ।
पद्मानना पद्मनिभा नित्यतुष्टामृतोद्भवा
धुन्वती दुः प्रकम्प्या च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता
कल्याणी कमला रामा पञ्चभूता वरप्रदा ।
वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा
कालरात्रिर्महावेगा वीरभद्रप्रिया हिता ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी
कराला पिङ्गलाकारा नामभेदामहामदा ।
यशस्विनी यशोदा च षडध्वपरिवर्तिका
शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका ।
चैत्रा संवत्सरारूढा जगत्संपूरणीन्द्रजा
शुम्भारिः खेचरीस्वस्था कम्बुग्रीवा कलिप्रिया ।
खगध्वजी खगारूढा परार्घ्या परमालिनी
ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना ।
जयन्ती हृद्गुहा रम्या गह्विरेष्ठा गणाग्रणीः
संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्पषहन्त्री च गुह्योपनिषदुत्तमा
निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तीः शिवामृता
लोहिता सर्पमाला च भीषणी वनमालिनी ।
अनन्तशयनानन्या नरनारायणोद्भवा
नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा ।
संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया
महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा
भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः ।
महाविभूतिदा मध्या सरोजनयना समा
अष्टादशभुजानाद्या नीलोत्पलदलप्रभा ।
सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता
वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया ।
विचित्रगहनाधारा शाश्वतस्थानवासिनी
स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।
अशेषदेवतामूर्तिर्देवता वरदेवता ।
गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी
अवर्ण वर्णरहिता निवर्णा बीजसंभवा ।
अनन्तवर्णानन्यस्था शङ्करी शान्तमानसा
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा ।
गौर्गोर्गव्यप्रिया गौणी गणेश्वरनमस्कृता
सत्यमात्रा सत्यसंधा त्रिसंध्या संधिवर्जिता ।
सर्ववादाश्रया संख्या संख्ययोगसमुद्भवा
असंख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ।
बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा
विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ।
महाश्रीः श्रीसमुत्पत्तिस्तमः पारे प्रतिष्ठिता
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ।
शान्त्यतीता मलातीता निर्विकारा निराश्रया
शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी ।
दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ।
नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी
कामुकी ललिता भावा परापरविभूतिदा ।
परान्तजातमहिमा बडवा वामलोचना
सुभद्रा देवकी सीता वेदवेदाङ्गपारगा ।
मनस्विनी मन्युमाता महामन्युसमुद्भवा
अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता ।
अशोच्या भिन्नविषया हिरण्यरजतप्रिया
हिरण्या राजती हैमी हेमाभरणभूषिता ।
विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा
महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता ।
दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्धिनी
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ।
त्रिशक्तिजननी जन्या षडूर्मिपरिर्जिता
सुधामा कर्मकरणी युगान्तदहनात्मिका ।
संकर्षणी जगद्धात्री कामयोनिः किरीटिनी
ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी ।
प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना
मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा ।
वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी
हिमवन्मेरुनिलया कैलासगिरिवासिनी ।
चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी
वेदविद्याव्रतस्नाता धर्मशीलानिलाशना ।
वीरभद्रप्रिया वीरा महाकालसमुद्भवा
विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः ।
आप्यायनी हरन्ती च पावनी पोषणी खिला
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ।
करीषिणी सुधावाणी वीणावादनतत्परा
सेविता सेविका सेव्या सिनीवाली गरुत्मती ।
अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी
वसुप्रदा वसुमती वसोर्धारा वसुंधरा ।
धाराधरा वरारोहा वरावरसहस्त्रदा
श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया ।
श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ।
निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना
सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ।
रसज्ञा रसदा रामा लेलिहानामृतस्त्रवा
नित्योदिता स्वयञ्ज्योतिरुत्सुका मृतजीवनी ।
वज्रदण्डा वज्रजिह्वा वैदेवी वज्रविग्रहा
मङ्गल्या मङ्गला माला मलिना मलहारिणी ।
गान्धर्वो गारुडी चान्द्री कम्बलाश्वतरप्रिया
सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना ।
कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी
युगन्धरा युगावर्ता त्रिसंध्या हर्षवर्धनी ।
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा
शक्रासनगता शाक्री साध्वी नारी शवासना ।
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता
शतरूपा शतावर्ता विनता सुरभिः सुरा ।
सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता
समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा ।
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना
धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा ।
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी
धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा ।
धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा
कापाली शाकला मूर्तिः कला कलितविग्रहा ।
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया
सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी ।
प्रधानपुरुषेशेशा महादेवैकसाक्षिणी ।
सदाशिवा वियन्मूर्तिर्विश्वमूर्तिरमूर्तिका
एवं नाम्नां सहस्त्रेण स्तुत्वासौ हिमवान् गिरिः ।
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः
यदेतदैश्वरं रूपं घोरं ते परमेश्वरि ।
भीतो ऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय
एवमुक्ताथ सा देवी तेन शैलेन पार्वती ।
संहृत्य दर्शयामास स्वरूपमपरं पुनः
नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् ।
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम्
रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् ।
श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम्
भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् ।
दधानमुरसा मालां विशालां हेमनिर्मिताम्
ईषत्स्मितं सुविम्बोष्ठं नूपुरारावसंयुतम् ।
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम्
तदीदृशं समालोक्य स्वरूपं शैलसत्तमः ।
भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम्
हिमवानुवाच
अद्य मे सफलं जन्म अद्य मे सफलं तपः ।
यन्मे साक्षात् त्वमव्यक्ताप्रसन्ना दृष्टिगोचरा
त्वया सृष्टं जगत् सर्वं प्रधानाद्यन्त्वयि स्थितम् ।
त्वय्येव लीयते देवि त्वमेव च परा गतिः
वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम् ।
अपरे परमार्थज्ञाः शिवेति शिवसंश्रये
त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ।
अविद्या नियतिर्माया कलाद्याः शतशो ऽभवन्
त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ।
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रया निजा
त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ।
प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च
त्वयैव संगतो देवः स्वमानन्दं समश्नुते ।
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी
त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ।
शिवं सर्वगतं सूक्ष्मं परं ब्रह्मा सनातनम्
त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ।
वायुर्बलवतां देवि योगिनां त्वं कुमारकः
ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ।
सांख्यानां कपिलो देवो रुद्राणामसि शङ्करः
आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ।
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि
अध्यात्मविद्या विद्यानां गतीनां परम् गतिः ।
माया त्वं सर्वशक्तीनां कालः कलयतामसि
ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः ।
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः
पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ।
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते
ईशानश्चासि कल्पानां युगानां कृतमेव च ।
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती
त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ।
अरुन्धती सतीनां त्वं सुपर्णः पततामसि
सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ।
सावित्री चासि जप्यानां यजुषां शतरुद्रियम्
पर्वतानां महामेरुरनन्तो भोगिनामसि ।
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि
रूपं तवोशेषकलाविहीन-
मगोचरं निर्मलमेकरूपम् ।
अनादिमध्यान्तमनन्तामाद्यं
नमामि सत्यं तमसः परस्तात्
यदेव पश्यन्ति जगत्प्रसूतिं
वेदान्तविज्ञानविनिश्चितार्थाः ।
आनन्दमात्रं प्रणवाभिधानं
तदेव रूपं शरणं प्रपद्ये
अशेषभूतान्तरसन्निविष्टं
प्रधानपुंयोगवियोगहेतुम् ।
तेजोमयं जन्मविनाशहीनं
प्राणाभिधानं प्रणतो ऽस्मि रूपम्
आद्यन्तहीनं जगदात्मभूतं
विभिन्नसंस्थं प्रकृतेः परस्तात् ।
कूटस्थमव्यक्तवपुस्तवैव
नमामि रूपं पुरुषाभिधानम्
सर्वाश्रयं सर्वजगद्विधानं
सर्वत्रगं जन्मविनाशहीनम् ।
सूक्ष्मं विचित्रं त्रिगुणं प्रधानं
नतो ऽस्मि ते रूपमलुप्तभेदम्
आद्यं महत् ते पुरुषात्मरूपं
प्रकृत्यवस्थं त्रिगुणात्मबीजम् ।
ऐश्वर्यविज्ञानविरागधर्मैः
समन्वितं देवि नतो ऽस्मि रूपम्
द्विसप्तलोकात्मकमम्बुसंस्थं
विचित्रभेदं पुरुषैकनाथम् ।
अनन्तभूतैरधिवासितं ते
नतो ऽस्मि रूपं जगदण्डसंज्ञम्
अशेषवेदात्मकमेकमाद्यं
स्वतेजसा पूरितलोकभेदम् ।
त्रिकालहेतुं रपमेष्ठिसंज्ञं
नमामि रूपं रविमण्डलस्थम्
सहस्त्रमूर्धानमनन्तशक्तिं
सहस्त्रबाहुं पुरुषं पुराणम् ।
शयानमन्तः सलिले तथैव
नारायणाख्यं प्रणतो ऽस्मि रूपम्
दंष्ट्राकरालं त्रिदशाभिवन्द्यं
युगान्तकालानलकल्परूपम् ।
अशेषभूताण्डविनाशहेतुं
नमामि रूपं तव कालसंज्ञम्
फणासहस्त्रेण विराजमानं
भोगीन्द्रमुख्यैरभिपूज्यमानम् ।
जनार्दनारूढतनुं प्रसुप्तं
नतो ऽस्मि रूपं तव शेषसंज्ञम्
अव्याहतैश्वर्यमयुग्मनेत्रं
ब्रह्मामृतानन्दरसज्ञमेकम् ।
युगान्तशेषं दिवि नृत्यमानं
नतो ऽस्मि रूपं तव रुद्रसंज्ञम्
प्रहीणशोकं विमलं पवित्रं
सुरासुरैरर्चितापादपद्मम् ।
सुकोमलं देवि विशालशुम्रं
नमामि ते रूपमिदं नमासि
ओं नमस्ते महादेवि नमस्ते परमेश्वरि ।
नमो भगवतीशानि शिवायै ते नमो नमः
त्वन्मयो ऽहं त्वदाधारस्त्वमेव च गतिर्मम ।
त्वामेव शरणं यास्ये प्रसीद परमेश्वरि
मया नास्ति समो लोके देवो वादानवो ऽपि वा ।
जगन्मातैव मत्पुत्री संभूता तपसा यतः
एषा तवाम्बिका देवि किलाभूत पितृकन्यका ।
मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम्
पाहि माममरेशानि मेनया सह सर्वदा ।
नमामि तव पादाब्जं व्रजामि शरणं शिवाम्
अहो मे सुमहद् भाग्यं महादेवीसमागमात् ।
आज्ञापय महादेवि किं करिष्यामि शङ्करि
एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः ।
संप्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतो ऽभवत्
अथ सा तस्य वचनं निशम्य जगतो ऽरणिः ।
सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम्
देव्युवाच
शृणुष्व चैतत् परमं गुह्यमीश्वरगोचरम् ।
उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः
यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् ।
सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम्
शान्तः समाहितमना दम्भाहङ्कारवर्जितः ।
तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज
भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः ।
सर्वयज्ञतपोदानैस्तदेवार्चय सर्वदा
तदेव मनसा पश्य तद् ध्यायस्व जपस्व च ।
ममोपदेशात् संसारं नाशयामि तवानघ
अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् ।
संसारसागरादस्मादुद्धराम्यचिरेण तु
ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि ।
प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः
श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् ।
अध्यात्मज्ञानसहितं मुक्तये सततं कुरु
धर्मात् संजायते भक्तिर्भक्त्या संप्राप्यते परम् ।
श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः
नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ ।
तस्मान्मुमुक्षुर्धर्मार्थो मद्रूपं वेदमाश्रयेत्
ममैवैषा परा शक्तिर्वेदसंज्ञा पुरातनी ।
ऋग्यजुः सामरूपेण सर्गादौ संप्रवर्तते
तेषामेव च गुप्त्यर्थं वेदानां भगवानजः ।
ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत्
ये न कुर्वन्ति तद् धर्मं तदर्थं ब्रह्मनिर्मितम् ।
तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत्
न च वेदाद् ऋते किञ्चिच्छास्त्रधर्माभिधायकम् ।
यो ऽन्यत्ररमतेसो ऽसौनसंभाष्यो द्विजातिभिः
यानि शास्त्राणि दृश्यन्ते लोके ऽस्मिन् विविधानितु ।
श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी
कापालं पञ्चरात्रं च यामलं वाममार्हतम् ।
एवंविधानि चान्यानि मोहनार्थानि तानि तु
ये कुशास्त्राभियोगेन मोहयन्तीह मानवान् ।
मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे
वेदार्थवित्तमैः कार्यं यत् स्मृतं कर्म वैदिकम् ।
तत् प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः
वर्णानामनुकम्पार्थं मन्नियोगाद् विराट् स्वयम् ।
स्वायंभुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवाना
श्रुत्वा चान्ये ऽपि मुनयस्तन्मुखाद् धर्ममुत्तमम् ।
चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि
तेषु चान्तर्हितेष्वेवं युगान्तेषु महर्षयः ।
ब्रह्मणो वचनात् तानि करिष्यन्ति युगे युगे
अष्टादश पुराणानि व्यासेन कथितानि तु ।
नियोगाद् ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः
अन्यान्युपपुराणानि तच्छिष्यैः कथितानि तु ।
युगे युगे ऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित्
शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च ।
ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम्
एवं चतुर्दशैतानि विद्यास्थानानि सत्तम ।
चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते
एवं पैतामहं धर्मं मनुव्यासादयः परम् ।
स्थापयन्ति ममादेशाद् यावदाभूतसंप्लवम्
ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्
तस्मात् सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् ।
धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत्
ये तु सङ्गान् परित्यज्य मामेव शरणं गताः ।
उपासते सदा भक्त्या योगमैश्वरमास्थिताः
सर्वभूतदयावन्तः शान्ता दान्ता विमत्सराः ।
अमानिनो बुद्धिमन्तस्तापसाः शंसितव्रताः
मच्चित्ता मद्गतप्राणा मज्ज्ञानकथने रताः ।
संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः
तेषां नित्याभियुक्तानां मायातत्त्वसमुत्थितम् ।
नाशयामि तमः कृत्स्नं ज्ञानदीपने मा चिरात्
ते सुनिर्धूततमसो ज्ञानेनैकेन मन्मयाः ।
सदानन्दास्तु संसारे न जायन्ते पुनः पुनः
तस्मात् सर्वप्रकारेण मद्भक्तो मत्परायणः ।
मामेवार्चय सर्वत्र मेनया सह संगतः
अशक्तो यदि मे ध्यातुमैश्वरं रूपमव्ययम् ।
ततो मे सकलं रूपं कालाद्यं शरणं व्रज
यद् यत् स्वरूपं मे तात मनसो गोचरं भवेत् ।
तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव
यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् ।
सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम्
ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् ।
ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः
मामनाश्रित्य परमं निर्वाणममलं पदम् ।
प्राप्यते न हि राजेन्द्र ततो मां शरणं व्रज
एकत्वेन पृथक्त्वेन तथा चोभयतो ऽपि वा ।
मामुपास्य महाराज ततो यास्यासि तत्पदम्
मामनाश्रित्य तत् तत्त्वं स्वभावविमलं शिवम् ।
ज्ञायते न हि राजेन्द्र ततो मां शरणं व्रज
तस्मात् त्वमक्षरं रूपं नित्यं चारूपमैश्वरम् ।
आराधय प्रयत्नेन ततो बन्धं प्रहास्यसि
कर्मणा मनसा वाचा शिवं सर्वत्र सर्वदा ।
समाराधय भावेन ततो यास्यसि तत्पदम्
न वै पश्यन्ति तत् तत्त्वं मोहिता मम मायया ।
अनाद्यनन्तं परमं महेश्वरमजं शिवम्
सर्वभूतात्मभूतस्थं सर्वाधारं निरञ्जनम् ।
नित्यानन्दं निराभासं निर्गुणं तमसः परम्
अद्वैतमचलं ब्रह्म निष्कलं निष्प्रपञ्चकम् ।
स्वसंवेद्यमवेद्यं तत् परे व्योम्नि व्यवस्थितम्
सूक्ष्मेण तमसा नित्यं वेष्टिता मम मायया ।
संसारसागरे घोरे जायन्ते च पुनः पुनः
भक्त्या त्वनन्यया राजन् सम्यग् ज्ञानेन चैव हि ।
अन्वेष्टव्यं हि तद् ब्रह्म जन्मबन्धनिवृत्तये
अहङ्कारं च मात्सर्यं कामं क्रोधं परिग्रहम् ।
अधर्माभिनिवेशं च त्यक्त्वा वैराग्यमास्थितः
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
अन्वीक्ष्य चात्मनात्मानं ब्रह्मभूयाय कल्पते
ब्रह्मभूतः प्रसन्नात्मा सर्वभूताभयप्रदः ।
ऐश्वरीं परमां भक्तिं विन्देतानन्यगामिनीम्
वीक्षते तत् परं तत्त्वमैश्वरं ब्रह्मनिष्कलम् ।
सर्वसंसारनिर्मुक्तो ब्रह्मणेयवावतिष्ठते
ब्रह्मणो हि प्रतिष्ठायं परस्य परमः शिवः ।
अनन्तस्याव्ययस्यैकः स्वात्माधारो महेश्वरः
ज्ञानेन कर्मयोगेन भक्तियोगेन वा नृप ।
सर्वसंसारमुक्त्यर्थमीश्वरं सततं श्रय
एष गुह्योपदेशस्ते मया दत्तो गिरीश्वर ।
अन्वीक्ष्य चैतदखिलं यथेष्टं कर्तुमर्हसि
अहं वै याचिता देवैः संजाता परमेश्वरात् ।
विनिन्द्य दक्षं पितरं महेश्वरविनिन्दकम्
धर्मसंस्थापनार्थाय तवाराधनकारणात् ।
मेनादेहसमुत्पन्ना त्वामेव पितरं श्रिता
स त्वं नियोगाद् देवस्य ब्रह्मणः परमात्मनः ।
प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे
तत्संबन्धाच्च ते राजन् सर्वे देवाः सवासवाः ।
त्वां नमस्यन्ति वै तात प्रसीदति च शङ्करः
तस्मात् सर्वप्रयत्नेन मां विद्धीश्वरगोचराम् ।
संपूज्य देवमीशानं शरण्यं शरणं व्रज
स एवमुक्तो भगवान् देवदेव्या गिरीश्वरः ।
प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत्
विस्तरेण महेशानि योगं माहेश्वरं परम् ।
ज्ञानं चैवात्मनो योगं साधनानि प्रचक्ष्व मे
तस्यैतत् परमं ज्ञानमात्मयोगमनुत्तमम् ।
यथावद् व्याजहारेशासाधनानिच विस्तरात्
निशम्य वदनाम्भोजाद् गिरीन्द्रो लोकपूजितः ।
लोकमातुः परं ज्ञानं योगासक्तो ऽभवत्पुनः
प्रददौ च महेशाय पार्वतीं भाग्यगौरवात् ।
नियोगाद् ब्रह्मणः साध्वीं देवानां चैव संनिधौ
य इमं पठते ऽध्यायं देव्या माहात्म्यकीर्तनम् ।
शिवस्य संनिधौ भक्त्या सुचिस्तद्भावभावितः
सर्वपापविनिर्मुक्तो दिव्ययोगसमन्वितः ।
उल्लङ्घ्य ब्रह्मणो लोकन्देव्याः स्थानमवाप्नुयात्
यश्चैतत् पठते स्तोत्रं ब्राह्मणानां समीपतः ।
देव्याः समाहितमनाः सर्वपापैः प्रमुच्यते
नाम्नामष्टसहस्त्रं तु देव्या यत् समुदीरितम् ।
ज्ञात्वार्ऽकमण्डलगतां संभाव्य परमेश्वरीम्
अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः ।
संस्मरन् परमं भावं देव्या माहेश्वरं परम्
अनन्यमानसो नित्यं जपेदामरणाद् द्विजः ।
सो ऽन्तकाले स्मृतिं लब्ध्वापरं ब्रह्माधिगच्छति
अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ ।
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्य सः
संप्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् ।
शान्तः सर्वगातो भूत्वा शिवसायुज्यमानप्नुयात्
प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् ।
पूतनादिकृतैर्देषैर्ग्रहदोषैश्च मुच्यते
जपेद् वाहरहर्नित्यं संवत्सरमतन्द्रितः ।
श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः
संपूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः ।
लभते महतीं लक्ष्मीं महादेवप्रसादतः
तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः ।
सर्वपापानोदार्थं देव्या नाम सहस्त्रकम्
प्रसङ्गात् कथितं विप्रा देव्या माहात्म्यमुत्तमम् ।
अतः परं प्रजासर्गं भृग्वादीनां निबोधत
मूल पाठ: Kūrmapurāṇa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0