भाषा

ENहिગુ
ग्रंथ पाठ

क्रियासंग्रहकारिका · अध्याय 1

1.1

क्रियासंग्रहकारिका
परीक्षा गुरुशिष्याणां गुरोरध्येषणा ततः ।
मन्त्रसेवां गुरुः कुर्यात् ततो भूमेः परीक्षणम्

1.2

देवतायोगयुक्तः सन् महीपूजां विधाय च ।
देवतोत्थापनं कृत्वा शोधयेन्मेदिनीं ततः

1.3

यवानां रोपणं कृत्वा जाङ्गुली चापि पूजयेत् ।
सूत्रं संपात्य यत्नेन वास्तुनागं परीक्षयेत्

1.4

इष्टकालक्षणं सम्यग् ज्ञात्वादिग्रहणं ततः ।
सम्यगायव्ययौ ज्ञात्वा प्रासादस्य च लक्षणम्

1.5

देवदिक्पालवसुधाः सम्पूज्य च यथाविधि ।
ईतिकारोपणं कृत्वा होमं कुर्यात् प्रमोहनम्

1.6

वनयात्रा ततो द्वारं सम्यगुत्थापयेत्सुधीः ।
संस्थाप्य च शिरोदारु जुहुयादमृतानलम्

1.7

वज्राचार्यप्रवेशो ऽस्मिन् समाधित्रयभावना ।
परिक्रमार्थसूत्राणां पातनं रजसामपि

1.8

अग्निक्रियाविधानं च पिण्डिकास्थापनं ततः ।
सव्यक्षणेन निष्पाद्य प्रतिमां स्थापयेत्ततः

1.9

चित्रकर्म वलिः पिण्डी गण्डिकालक्षणं ततः ।
एतेषां च प्रतिष्ठानं प्रव्रज्याग्रहणं तथा

1.10

लक्षणं धर्मधातूनां ध्वजानामवरोपणम् ।
जीर्णोद्धारोपसंहारौ पूजयेद् गणमण्डलम्

मूल पाठ: Kriyāsaṃgrahakārikā · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc