कोशाम्बकवस्तु · भाग 12
कोशाम्बकवस्तु
कोशाम्बकवस्तुनि उद्दानम्* ॥
कोशाम्बकानां कलहो नानावादश् च भिक्षुभिः ।
पाठे विवदमानानां दीर्घिकस्य च चारिका ॥
भृगुश् च लवणागारे रक्षितो वनषण्डहस्तिना ।
अनिरुद्धश् चेति कृत्वा श्रावस्त्यां व्युपशाम्यति ॥
बुद्धो भगवान् कोशाम्ब्यां विहरति घोषिलारामे । तेन खलु समयेन कोशाम्बको भिक्षुर् व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः । बहवश् चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः । वैशाल्यां वैशालको भिक्षुर् व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः । बहवश् चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः ।
अथ वैशालको भिक्षुर् अपरेण समयेन जनपदचारिकां चरन् कोशाम्बीम् अनुप्राप्तः । स मार्गश्रमं प्रतिविनोद्य कोशाम्बकस्य भिक्षोः सकाशम् उपसंक्रान्तः । उपसंक्रम्य परस्परं प्रतिविनोद्य सूत्रविनयाभिर् धर्मेषु विनिश्चयं कर्तुम् आरब्धौ । तत्रैकः कथयति । एवम् एतत् सूत्रं पठितव्यम्* । अयम् अस्य सूत्रस्यार्थः द्वितीयः कथयति ( म्स्व् इइ 174 ) । नेदं सूत्रम् एवं पठितव्यम्* । नास्य सूत्रस्यायम् अर्थः । तव अयुक्तम्* मम युक्तम्* । तव सहितम्* । ममासहितम्* । तवेति । ततस् तयोः परस्परं वैरुद्ध्यम् उत्पन्नम्* । कोशाम्बको भिक्षुर् वैशालकस्य रन्ध्रान्वेषणतत्परस् तिष्ठते ।
संघेन चायम् एवंरूपः क्रियाकारः कृतः । यः पश्येद् वर्चस्कुम्भिकां रिक्तां तुच्छां निरुदकां तेनोदकस्य पूरयित्वा यथास्थाने स्था पयि तव्या उपधिवारिकस्य वारोचयितव्या । वर्चस्कुम्भिका रिक्ता तिष्ठतीति । न चेद् आत्मना पूरयति नाप्य् उपधिवारिकस्यारोचयति तस्यानादरो भवति । अनादराच् च तं वयं पायन्तिकाम् आपत्तिं देशयिष्याम इति ।
यावद् अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः । तत्र केचिद् भिक्षवो भोक्तुं गताः । केचिद् गन्तुकामाः । वैशालकस् तु भिक्षुर् वर्चस्कुम्भिकाम् आदाय वर्चस्कुटिं प्रविष्टः । तस्य सार्धंविहारो त्वरितगतिप्रचारतया शब्दयितुं गतः । उपाध्याय केचिद् भिक्षवो भोक्तुं गताः केचिद् गन्तुकामाः । आगच्छत गच्छाम इति । स तेन सार्धं वर्चस्कुम्भिकाम् एकस्मिन् स्थाने स्थापयित्वा संप्रस्थितः । स च कोशाम्बको भिक्षुस् तम् प्रदेशम् अनुप्राप्तः । ततो ऽसौ वैशालको भिक्षुः पुरस्ताद् वर्चस्कुम्भिकां गृहीत्वा विहारं प्रवेष्टुम् आरब्धः । सार्धंविहारिणा उच्यते । ( म्स्व् इइ 175 ) उपाध्याय किं भूयः प्रविशसि । स कथयति । पुत्र ममायं कोशाम्बको भिक्षुर् अवतारप्रेक्षी । वर्चस्कुम्भिकां पूरयितुं प्रविशामि । किम् अयं सर्वेण सर्वं रिक्ता । न सर्वेण सर्वम्* । अपि तु न लभ्यम् अनेनोदकेनोदककृत्यं कर्तुम्* । उपाध्याय केवलं सर्वेण सर्वं रिक्ता भवतु । वयम् उपाध्यायस्य पक्षो बलं सहायकाः । आगच्छत । गच्छामः । स तां तत्रैव स्थापयित्वा तेन सार्धं गतः । कोशाम्बकेन भिक्षुणा दृष्टा सा च कुम्भिका परामृष्टा । ततः संजातामर्षो हुम् इति कृत्वा वर्चस्कुम्भिकां ( 281र्1 = ग्ब्म् 6.874 ) पूरयित्वा उदककार्यं कृत्वा गतः । ततो भुक्ते भिक्षुसंघे विहारम् आगते भिक्षून् प्रचारयितुम् आरब्धः । आयुष्मन्तः अनेन भिक्षुणा वैशालकेन संघस्य क्रियाकारो भग्न इति । ततो यथावृद्धिकया सामीचिं कुर्वाणो ऽनुपूर्वेण तस्य सकाशम् उपसंक्रान्तः । कथयति । आयुष्मन् अवकाशं कुरु । कृतो भवतु । आपत्तिर् अस्यापन्ना । यथाधर्मं कुरु । न पश्याम्य् आपत्तिम्* । ननु संघेन क्रियाकारः कृतो यः पश्येद् वर्चस्कुम्भिकां रिक्तां तुच्छां निरुदकां तेनात्मना उदकस्य पूरयित्वा यथास्थाने स्थापयितव्या । उपधिवारिकस्य वारोचयितव्या । आयुष्मन् वर्चस्कुम्भिका रिक्ता तिष्ठतीति । न चेद् आत्मना पूरयति । नाप्य् उपधिवारिकस्यारोचयति । तस्यानादरो भवति । अनादराच् च तं वयं पायन्तिकाम् आपत्तिं देशयिष्याम इति । स कथयति । न ( म्स्व् इइ 176 ) सा रिक्ता । मा भवतु रिक्ता । न लभ्यं तेनोदकेनोदककार्यं कर्तुम्* । स तूष्णीम् अवस्थितः ।
कोशाम्बको भिक्षुः कोशाम्ब्यां नैवासिको बहुपरिवारश् च । तेन तस्य बलाद् उत्क्षेपणीयं कर्म कृतम् इति । वैशालका भिक्षवः क्षुब्धा इति । तत्र कोशाम्बकानां वैशालकानां च भिक्षूणाम् उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुत आपन्न इति वा अनापन्न इति वा । यत् पुनर् आपन्नो नानापन्नः । उत्क्षिप्तो नानुत्क्षिप्तकः । यत् पुनर् उत्क्षिप्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेणेति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । ततो भगवान् उत्क्षिप्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकं भिक्षुम् उत्क्षिप्तकानुवर्तका नुवर्तकां श् च दूतेन प्रकोश्येदम् अवोवत्* । सत्यं युष्माकं भिक्षव उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्ववद् यावत् कोप्येन स्थापनार्हेणेति । सत्यं भदन्त । मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः । अपि तूत्क्षिप्त क स्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि । उत्क्षिप्तकेन भिक्षुणा एवं चित्तम् उत्पादयितव्यम्* । अयम् उत्क्षेपको भिक्षुर् व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः । बहवश् चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः । अहं चेद् आपत्तिं यथाधर्मं न प्रतिकुर्याम्* । ( म्स्व् इइ 177 ) तेन संघः स कलहजातो विहरेद् भण्डनजातो विगृहीतो विवादम् आपन्नः । यन्व् अहम् आपत्तिं यथाधर्मं प्रतिकुर्याम् इति । उत्क्षिप्तको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते । सातिसारो भवति ।
अथ भगवान् उत्क्षिप्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकान् भिक्षून् उत्क्षिप्तकानुवर्तकानुवर्तकांश् चोद्योज्य उत्क्षेपकं भिक्षुम् उत्क्षेपकानुवर्तकान् भिक्षून् उत्क्षेपकानुवर्तकानुवर्तकांश् च दूतेन प्रक्रोश्येदम् अवोचत्* । सत्यं युष्माकं भिक्षव उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद् यावत् स्थापनार्हेणेति । सत्यं भदन्त । मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः । अपि तूत्क्षेपकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । उत्क्षेपकेण भिक्षुणा एवं चित्तम् उत्पादयितव्यम्* । अयम् उत्क्षिप्तको भिक्षुर् व्याडो विक्रान्तः सूत्रधरो ( 281व्1 = ग्ब्म् 6.875 ) विनयधरो मातृकाधरः । बहवश् चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः । अहं चेद् एनम् अकामं चोदयेयं स्मारयेयं तेन संघः कलहजातो विहरेद् भण्डनजातो विगृहीतो विवादम् आपन्नः । यन्व् अहं तेनाकामकं न चोदयेयं न स्मारयेयम् इति । उत्क्षिप्तको भिक्षुर् यथाप्रज्ञप्तानाम् आसमुदाचारिकान् धर्मान् न समादाय वर्तते ( म्स्व् इइ 178 ) सातिसारो भवति । एवम् उच्यमाना अपि ते भिक्षवो भगवता कलहजाता एव विहरन्ति भण्डनजाता विगृहीता विवादम् आपन्नाः । अपीदानीं पोषधे ऽप्य् अपोषधम् आगमयन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति ।
अथ भगवान् उत्क्षिप्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकांश् च भिक्षून् उत्क्षिप्तकानुवर्तकानुवर्तकांश् च दूतेन प्रक्रोश्येदम् अवोचत्* । सत्यं यूयं भिक्षव एवम् उच्यमाना अपि मया कलहजाता एव विहरथ भण्डनजाता विगृहीता विवादम् आपन्नाः । अपीदानीं पोषधे ऽप्य् अपोषधम् आगमयथ । सत्यं भदन्त । मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः । कलहजातानां युष्माकं भिक्षवो विहरतां भण्डनजातानां विगृहीतानां विवादम् आपन्नानां यानि कर्माणि क्रियन्ते ō पोषधः प्रवारणा ज्ञप्तिर् ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्मं ō कृतान्य् अकृतानि भवन्ति कोप्यानि ।
नानासंवासिका यूयं भिक्षवस् तेषां भिक्षूणाम्* । ते च युष्माकम्* । तत् कस्य हेतोः । द्वाव् इमौ भिक्षवो नानासंवासिकौ । कश् चैवात्मनि चात्मानं नानासंवासिकं स्थापयति । यो वा संघेन धर्मतया स्थाप्यते । कथम् आत्मनैवात्मानं नानासंवासिकं स्थापयति । यथापि तद् भिक्षुभिर् भिक्षूणां कलहजातानां विहरतां भण्डनजातानां विगृहीतानां विवादम् आपन्नानां पक्षापरपक्षव्यवस्थितानां संचिन्त्य धर्मपक्षाद् ( म्स्व् इइ 179 ) अधर्मपक्षं संक्रामति एवम् आत्मनैवात्मानं नानासंवासिकं स्थापयति । कथं संघेन स्थाप्यः । यथापि तत् संघेनात्मना दर्शना योत्क्षिप्यते । अप्रतिकर्मणि अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्यते । एवं संघेन धर्मतया ।
द्वाव् इमौ भिक्षवः समानसंवासिकौ । कतमौ द्वौ । यश् चैवात्मनात्मानं समानसंवासिकं स्थापयति । यो वा संघेन धर्मतया स्थाप्यते । कथम् आत्मनैवात्मानं संवासिकं स्थापयति । यथापि तद् भिक्षुभिर् भिक्षूणां कलहजातानां विहरतां भण्डनजातानां विगृहीतानां विवादम् आपन्नानां पक्षापरपक्षव्यवस्थितानां संचिन्त्य अ धर्मपक्षाद् धर्मपक्षं संक्रामति । एवम् आत्मनैवात्मानं समानसंवासिकं स्थापयति । कथं संघेन धर्मतया स्थाप्यते । यथापि तत् संघेनादर्शनायोत्क्षिप्त ओसार्यते । अप्रतिकर्मणि अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्त ओसार्यते । एवं संघेन धर्मतया ।
अथ भगवान् उत्क्षिप्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकान् भिक्षून् उत्क्षिप्तकानुवर्तकानुवर्तकांश् चोद्योज्य उत्क्षेपकं ( 282र्1 = ग्ब्म् 6.876 ) भिक्षुम् उत्क्षेपकानुवर्तकान् भिक्षून् उत्क्षेपकानुवर्तकानुवर्तकांश् च दूतेन प्रक्रोश्येदम् अवोचत्* । सत्यं यूयं भिक्षव एवम् उच्यमाना अपि मया कलहजाता एव विहरथ भण्डनजाता विगृहीता विवादम् आपन्नाः । अपीदानीं पोषधे ऽप्य् अपोषधम् ( म्स्व् इइ 180 ) आगमयथ । सत्यं भदन्त । पूर्ववद् यावद् एवम् उच्यमाना अपि ते भिक्षवो भगवता कलहजाता एव विहरन्ति भण्डनजाता विगृहीता विवादम् आपन्नाः ।
अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः । भिक्षुसंघः प्रविष्टः । भगवान् औपधिके ऽस्थाद् अभिनिर्हृतपिण्डपातः । पंचभिः कारणैर् बुद्धा भगवन्तः औपधिके तिष्ठन्त्य् अभिनिर्हृतपिण्डपाताः । पूर्ववद् यावद् अस्मिंस् त्व् अर्थे भगवान् श्रावकाणां विनये शिक्षापदं प्रज्ञपयितुकाम औपधिके ऽस्थाद् अभिनिर्हृतपिण्डपातः । तत्र चार्थि क प्रत्यर्थिकानां भिक्षूणां भोक्तुं प्रविष्टानाम् अन्तर्गृहे उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्ववद् यावत् स्थापनार्हेण । अपीदानीं परस्परप्रहारिकाम् अप्य् आगमयन्ति ।
अथ पिण्डपाताभिनिर्हारको भिक्षुः पिण्डपातम् आदाय येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य पिण्डपातम् एकान्ते स्थापयित्वा भगवतः पादौ शिरसा वन्दित्वा पुरस्ताद् अस्थात्* । धर्मता खलु बुद्धा भगवन्तः पिण्ड पातनिर्हारकं भिक्षुम् अनया प्रतिसंमोदनया प्रतिसंमोदन्ते । कच्चिद् भिक्षो प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघ इति । प्रतिसंमोदते बत भगवान् पिण्डपातनिर्हारकं भिक्षुम् अनया प्रतिसंमोदनया । कच्चिद् भिक्षो प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघ इति । तथ्यं भदन्त । प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघः । किं त्व् अर्थिकप्रत्यर्थिकानां भिक्षूणाम् अन्तर्गृह उत्पन्नः कलहो भण्डनं ( म्स्व् इइ 181 ) विग्रहो विवादो यदुतापन्न इति पूर्वव द् यावत् स्थापनार्हेण । अपीदानीं परस्परप्रहारिकाम् अप्य् आगमिताः ।
अथ भगवान् भक्तकृतिं कृत्वा बहिर् विहारस्य पादौ प्रक्षाल्य विहारं प्रविक्षत् प्रतिसंलयनाय । ततो भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । सत्यं युष्माकं भिक्षवः अन्तर्गृहे भोक्तुं प्रविष्टानाम् उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद् यावद् अपीदानीं परस्परप्रहारिकाम् अप्य् आगमिताः । सत्यं भदन्त । मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः । अपि त्व् अर्थि क प्रत्यर्थिकानाम् अहं भिक्षूणाम् अन्तर्गृहे प्रविष्टानाम् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । अर्थिकप्रत्यर्थिकैर् भिक्षुभिर् अन्तर्गृहे प्रविष्टैर् आसनान्तरितैर् निषत्तव्यं यत्रैवंरूपस्या न नुलोमिकस्य कायसमुदाचारिकस्यावकाशो न भवति । अर्थि क प्रत्यर्थिका भिक्षवो ऽन्तर्गृहे प्रविष्टा यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय ( 282व्1 = ग्ब्म् 6.877 ) वर्तन्ते । सातिसारा भवन्ति । एवम् उच्यमाना अपि भिक्षवो भगवता कलहजाता विहरन्ति भण्डनजाता विगृहीता विवादम् आपन्नाः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः । कलहजाता यूयं भिक्षवो विहरन्तो भण्डनजाता विगृहीता ( म्स्व् इइ 182 ) विवादम् आपन्ना उत्पन्नोत्पन्नान्य् अधिकरणानि दमयिष्यथ व्युपशमयिष्यथ धर्मेण विनयेन शास्तुः शासनेन नेदं स्थानं विद्यते । अकल ह जातास् तु यूयं भिक्षवो विहरन्तः अभण्डनजाता अविगृहीता अविवादम् आपन्ना उत्पन्नोत्पन्नान्य् अधिकरणानि दमयिष्यथ शमयिष्यथ व्युपशमयिष्यथ धर्मेण विनयेन शास्तुः शासनेन स्थानम् एतद् विद्यते ।
भूतपूर्वं भिक्षवो ब्रह्मदत्तो नाम काशिराजो दीर्घिलश् च कोसलराजो ऽन्योन्यं प्रति विरुद्धाव् अभवताम्* । विस्तरेण दीर्घिलसूत्रं मध्यमागमे समाधिसंयुक्तके । त एवम् आहुः किं चापि । भगवान् एवम् आह ।
दुःखं राजा ब्रह्मदत्तो भोगानां च परिक्षयः ।
विदेशमरणं दुःखं ज्ञातीनां चाप्य् अदर्शनम्* ॥
अथ भगवांस् तस्यां वेलायां गाथां भाषते । {च्f. उव् 14.5-16; विन् इ 349 अन्द् 395}
पृथक्छब्दाः समजवा नेदं श्रेष्ठम् इति मन्यताम्* ।
संघे हि भिद्यमाने हि नाबलं किंचि मन्यताम्* ।
अस्थिच्छिदां प्राणभृतां गवाश्वधनहारिणाम्* ।
राष्ट्रं विलुम्पतां चैव पुनर् भवति संगतिम्* ।
युष्माकं न भवेत् कस्माद् इमं धर्मं विजानताम्* ॥
परामृष्टा पण्डिताभासा वाणीगोचरवादिनी ।
व्यायच्छतां मुखाद् वामा यया नीता न ते विदुः ॥
परे ऽत्र न विजानन्ति वयम् अत्रोद्यमामहे ।
अत्र ये तु विजानन्ति तेषां शाम्यन्ति मेथकाः ॥
आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयः ।
अत्र ये उपनह्यन्ति वैरं तेषां न शाम्यति ॥
आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयन्* ।
अत्र ये नोपनह्यन्ति वैरं तेषां प्रशाम्यति ॥
न हि वैरेण वैराणि शाम्यन्तीह कदाचन ।
क्षान्त्या वैराणि शाम्यन्ति एष धर्मः सनातनः ॥
वैरं न वैरेण हि जातु शाम्यते शाम्यन्ति वैराणि अवैरताभिः ।
वैरप्रसंगो ह्य् अहिताय देहिनां तस्माद् धि वैरं न करोति पण्डितः ॥
सचेल् लभेत निपकं सहायकं सार्धंचरं साधुविहारधीरम्* ।
अभिभूय सर्वाणि परिस्रवाणि चरेत तेनात्तमना प्रतिस्मृतः ॥
नो चेल् लभेत निपकं सहायकं सार्धंचरं साधुविहारधीरम्* ।
राजेव राष्ट्रं विपुलं प्रहाय एकश् चरेन् न च पापानि कुर्यात्* ॥
चरंश् चेन् नाधिगच्छेत श्रेयः सदृशम् आत्मनः ।
एकचर्यां दृढां कुर्यान् नास्ति बाले सहायता ॥
एकस्य चरितं श्रेयो न तु बाले सहायता ।
अल्पोत्सुकश् चरेद् एको मातङ्गारण्यनागवत्* ॥
एवम् उक्ते कोशाम्बका भिक्षवो भगवन्तम् इदम् अवोचन्* । धर्मस्वामी भगवान् धर्मस्वामी सुगतः । एते ऽस्माकं वक्ष्यन्ति दुरुक्तानि दुर्भाषितानि । वयम् एषां किमर्थं मर्षयाम इति । अथ भगवांस् तेषां भिक्षूणां तया ईर्यया चर्यया विप्रतिपत्त्या अनात्तमना अनभिराद्धस् तत एव ऋद्ध्या उपरि विहायसा प्र क्रान्तो येन श्रावस्ती तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण श्रावस्तीम् अनुप्राप्तः । श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र स्विद् भगवति प्रक्रान्ते कोशाम्बकानां भिक्षूणां वैशालकानां च भिक्षूणाम् एवंरूपः ईर्यापथः संवृत्तः । पूर्वभक्ते ऽपि पिण्डपातं प्रविशन्ति पश्चाद्भक्ते द्वारं बद्ध्वा कलहं कुर्वन्ति । तथा एषां तया ईर्यया चर्यया विप्रतिपत्त्या द्वादशवर्षाणि समतिक्रान्तानि । कोशाम्बका ब्राह्मणगृहपतयः संस्थागारे परस्परं संजल्पं कर्तुम् आरब्धाः । वयं भवन्तो ऽत्यर्थं भगवतो ऽभिप्रसन्नाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः । अथ च पुनर् भगवतास्य गोचरस्य द्वादशवर्षाणि परित्यक्तस्याद्यत्वेनापि नागच्छतीति । अपरे कथयन्ति । भवन्तो भगवान् इहागमिष्यतीति यत्रेदानीं कोशाम्बकानां भिक्षूणाम् इयम् एवंरूपा ईर्या चर्या विप्रतिपत्तिः । पूर्वभक्ते पिण्डपातं प्रविशन्ति पश्चाद्भक्ते द्वारं बद्ध्वा कलिं कुर्वन्तीति । अपरे त्व् आहुः । नायं भवन्त एषां दोषः किं त्व् अस्माकं ये वयम् एभ्यः पिण्डपातं प्रयच्छामः वाक्संभाषणं वा । एतं वयं क्रियाकारं व्यवस्थापयामः । नैषां ( म्स्व् इइ 187 ) केनचित् पिण्डको देयो वाक्संभाषणं चेति । ते क्रियाकारं कृत्वा व्यवस्थिताः । यावद् अपरस्मिन् दिवसे कोशाम्बका भिक्षवः पिण्डपातं प्रविष्टाः । न केनचिद् आभाषिता नापि पिण्डको दत्तः । ते यथा धौतकेनैव पात्रेण पिण्डपातं प्रविष्टास् तथा धौतकेनैव निष्क्रान्ताः । अलब्ध्वैकां भिक्षाम् अपि ततस् तैः संभूय कोशाम्बका ब्राह्मणगृहपतय उक्ताः । भवन्तो ऽयुक्तं तावद् यत् पिण्डपातं न प्रयच्छथ । अर्थपरिक्षय इति । किम् अस्माभिर् अपराद्धं यद् वाचम् अपि न प्रयच्छथेति । ते कथयन्ति । यूयम् अपि श्रमणाः शाक्यपुत्रीया इत्य् आत्मानं प्रतिजानीध्वे । येषां शास्ता ईर्यया चर्यया विप्रतिपत्त्या अनात्तमना अनभिराद्धः । उपरि विहायसा प्रक्रान्तः । द्वादशवर्षाणि समतिक्रान्तान्य् अद्यत्वे ना पि नागच्छतीति । ते तूष्णीम् एव स्थिताः । तेषां तु सकाशम् उपसंक्रम्य कथयन्ति । आयुष्मन्तः स्थाने वयम् एभिर् अवसादिताः । यः पृथिव्यां स्खलति स तान् एव निःशृत्योत्तिष्ठति । सर्वथा श्रावस्त्यां गच्छामः । भगवन्तं क्षमयामो भिक्षुसंघं चेति ।
अथ कोशाम्बका भिक्षवस् तस्या एव रात्रेर् अत्ययात् समादाय पात्रचीवरम् अप्रविश्यैव कोशाम्बीं येन श्रावस्ती येन चारिकां प्रक्रान्ताः ।
अश्रौषीद् आयुष्मान् आनन्दः कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका आधिकरणिकाः । यैर् अवमानितो भगवान् इहागतः । ( 283व्1 = ग्ब्म् 6.879 ) ते ऽस्मांश् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा यन्व् अहं भगवत आरोचयेयम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* । एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्* । श्रुतं मया भदन्त कोशाम्बका भिक्षव इहागच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः । यैर् भगवान् अवमानित इहागतः । ते ऽस्मांश् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरेण वा । एषाम् अस्माभिः कथं प्रतिपत्तव्यम्* । ते आनन्द भिक्षुभिर् नालप्तव्या न संलप्तव्या नावलोकयितव्या न विलोकयितव्या नान्यत्र हस्तव्यवहारकेण प्रत्यन्तिमानि शयनासनानि उद्देष्टव्यानि । यदि कथयन्ति वृद्धा वयं कस्मात् प्रत्यन्तानि शयनासनानि उद्दिश्यन्त इति । वक्तव्याः । यूयम् अपि श्रमणाः शाक्यपुत्रीया इत्य् आत्मानं प्रतिजानीध्वे येषां शास्ता ईर्यया चर्यया विप्रतिपत्त्या अनात्तमना अनभिराद्धस् तत एव ऋद्ध्या इहागतः कारुणिकः शास्ता येनैतद् अनुज्ञातम्* । एतद् अपि युष्माकं न प्रापद्यत इति ।
अश्रौषीन् महाप्रजापती गौतमी कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका ( म्स्व् इइ 189 ) आधिकरणिका इति श्रुत्वा च पुनर् अस्यैतद् अभवत्* । गच्छामि भगवन्तम् अवलोकयामीति तेषां मया कथं प्रतिपत्तव्यम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्ता । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा । एकान्तनिषण्णा महाप्रजापती गौतमी भगवन्तम् इदम् अवोचत्* । श्रुतं मया भदन्त कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका इति । तेषां मया कथं प्रतिपत्तव्यम्* । कोशाम्बका भिक्षवस् त्वया गौतमी नालप्तव्या न संलप्तव्या नावलोकयितव्या न व्यवलोकयितव्या नान्यत् तु सहदर्शनाद् एवासनं भोक्तव्यं ज्येष्ठपर्षद् इति कृत्वा ।
अश्रौषीद् अनाथपिण्डदो गृहपतिः कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका इति श्रुत्वा च पुनर् अस्यैतद् अभवत्* । गच्छामि भगवन्तम् अवलोकयामीति तेषां मया कथं प्रतिपत्तव्यम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्तनिषण्णो ऽनाथपिण्डदो गृहपतिर् भगवन्तम् इदम् अवोचत्* । श्रुतं मया भदन्त कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका इति तेषां मया कथं प्रतिपत्तव्यम्* । कोशाम्बका भिक्षवस् त्वया गृहपते नालप्तव्या ( म्स्व् इइ 190 ) न संलप्तव्या नावलोकयितव्या न व्यवलोकयितव्या न वन्दितव्याः पिण्डपातस् तु देयो दानं न विरुध्यते इति ।
कोशांबका ( 284र्1 = ग्ब्म् 6.880 ) भिक्षवो ऽनुपूर्वेण श्रावस्तीम् अनुप्राप्ताः । तत्र पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य पृच्छन्ति । कः शयनासनोद्देशक इति । कल्पकारकैः समाख्यातम्* । आर्यानन्द इति । ते येनायुष्मान् आनन्दस् तेनोपसंक्रान्ताः । उपसंक्रम्यायुष्मन्तम् आनन्दम् इदम् अवोचत्* । आयुष्मन् आनन्द अस्माकं शयनासनान्य् उद्दिश्य इति । आयुष्मान् आनन्दस् तेषां प्रत्यन्तिमानि शयनासनानि हस्तव्यवहारेणोद्देष्टुम् आरब्धः । ते कथयन्ति । आयुष्मन् आनन्द वृद्धा वयम्* । कस्माद् अस्माकं प्रत्यन्तिमानि शयनासनानि उद्दिश्यन्त इति । स कथयति । यूयम् अपि श्रमणाः शाक्यपुत्रीया इत्य् आत्मानं पूर्ववद् यावद् एतद् अपि युष्माकं न प्रापद्यत इति । ते संविग्नाः कृच्छ्रेण रात्रिम् अतिनामयन्ति । अथोत्क्षिप्तकस्य भिक्षो रात्र्याः प्रत्यूशसमये स्वसन्ततिं व्यवलोकयत एतद् अभवत्* । यद् अस्माकम् उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्तक इति वा । सो ऽहम् आपन्नो नानापन्नः । उत्क्षिप्तो नानुत्क्षिप्तः । यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण । यन्व् अहं सन्धिं कुर्यां सामग्रीम् इति विदित्वा कल्यम् एवोत्थाय येनोत्क्षिप्तकानुवर्तका भिक्षव उत्क्षिप्तका नुवर्तका नुवर्तकाश् च तेनोपसंक्रान्तः । उपसंक्रम्योत्क्षिप्तकानुवर्तकान् भिक्षून् उत्क्षिप्तकानुवर्तकानुवर्तकांश् चेदम् अवोचत्* । इह ममायुष्मन्तो रात्र्याः प्रत्यूषसमये स्वसन्ततिं व्यवलोकयतः ( म्स्व् इइ 191 ) एतद् अभवत्* । यन् निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्तक इति । सो ऽहम् आपन्नो नानापन्नः । उत्क्षिप्तो नानुत्क्षिप्तः । यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण । सन्धिं कुर्यां सामग्रीम् इति । यूयं किं कथयथ । ते कथयन्ति । एवं भवतु । शोभनम्* । अथोत्क्षिप्तको भिक्षुर् उत्क्षिप्तका नुवर्तका भिक्षव उत्क्षिप्तकानुवर्तकानुवर्तकांश् च येनोत्क्षिप्तको भिक्षुर् उत्क्षेपकानुवर्तका भिक्षव उत्क्षेपकानुवर्तकानुवर्तकांश् च तेनोपसंक्रान्तः । उपसंक्रम्योत्क्षेपकं भिक्षुम् उत्क्षेपकानुवर्तकानुवर्तकांश् चेदम् अवोचत्* । इह ममायुष्मन्तो रात्र्याः प्रत्यूषसमये स्वसन्ततिं व्यवलोकयत एतद् अभवत्* । यन् निदानं ममोत्पन्नः कलहो भण्डनं पूर्ववद् यावत् सन्धिं कुर्यां सामग्रीम् इति । यूयं किं करिष्यथ । ते कथयन्ति । एवं भवतु । शोभनम् इति । स तेनोत्क्षिप्तको भिक्षुर् उत्क्षिप्तकानुवर्तका भिक्षव उत्क्षिप्तकानुवर्तकानुवर्तका उत्क्षेपको भिक्षुर् उत्क्षेपकानुवर्तका भिक्षव उत्क्षेपकानुवर्तकानुवर्तकाश् च येन भगवांस् तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते तस्थुः । एकान्तस्थित उत्क्षेपको भिक्षुर् भगवन्तम् इदम् अवोचत्* । इह मम भदन्त रात्र्याः प्रत्यूष समये स्वसन्ततिं व्यवलोकयत एतद् अभवत्* । पूर्वसन्धिं कुर्यां सामग्रीम् इति । तन् मया सर्व इमे भिक्षवः सामग्र्याम् उद्योजिता इति । भगवान् आह । साधु साधु भिक्षो बहुपुण्यं प्रसूयते अप्रमेयम् असंख्येयम् अप्रिमाणं यो भिक्षूणां कलहजातानां विहरतां भण्डनजातानां ( 284व्1 = ग्ब्म् 6.881 ) विगृहीतानां ( म्स्व् इइ 192 ) विवादम् आपन्नानां पक्षापरपक्षव्यवस्थितानां संधिं करोति सामग्रीम्* । यथा हि नाम कश्चिच् छतशच् छिन्नं बालं कोट्या कोट्या प्रतिसन्दध्याद् एवम् एव बहुपुण्यं प्रसूयते अप्रमेयम् असंख्येयम् अपरिमाणं यो भिक्षूणां कलहजातानां विहरतां पूर्ववद् यावत् सन्धिं करोति सामग्रीम्* । अपि तूत्क्षिप्तकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि । उत्क्षिप्तकेन भिक्षुणा संघाद् ओसारणा याचितव्या । एवं च पुनर् याचितव्या । शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते यथावृद्धिकया सगौरवेण सामीचीं कृत्वा वृद्धान्ते उत्कुटुकेन निषद्याञ्जलिं प्रगृह्य इदं स्याद् वचनीयम्* ।
शृणोतु भदन्तः संघः । यन् निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्तक इति वा सो ऽहम् आपन्नो नानापन्नः उत्क्षिप्तो नानुत्क्षिप्तः । यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण । सो ऽहम् एवंनामा उत्क्षिप्तको भिक्षुः संघाद् ओसारणं याचे । ओसारयतु मां भदन्तः संघः । यथाधर्मेण यथाविनयं प्रतिकरिष्ये । अनुकम्पयानुकम्पाम् उपादाय । एवं द्विर् अपि त्रिर् अपि । ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* ।
शृणोतु भदन्त संघः । यन् निदानम् अप्य् आयुष्मन्त उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा । अनापन्न इति वा । उत्क्षिप्तक इति वा । अनुत्क्षिप्तक इति वा । सो ऽयम् आपन्नो नानापन्न । उत्क्षिप्तको नानुत्क्षिप्तकः । यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणाकोप्येनास्थापनार्हेण ( म्स्व् इइ 193 ) । सो ऽयम् एवंनामा उत्क्षिप्तको भिक्षुः संघाद् ओसारणं याचते । सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एवंनामानं भिक्षुम् ओसारयेद् इति । एषा ज्ञप्तिः । कर्म कर्तव्यम्* ।
शृणोतु भदन्तः संघः । यन् निदानम् अप्य् आयुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादः पूर्ववद् यावत्* । सो ऽयम् एवंनामा भिक्षुः संघाद् ओसारणं याचते । तत् संघ एवंनामानं भिक्षुम् ओसारयति । येषाम् आयुष्मतां क्षमेतानुजानीयात् संघो यत् संघ एवंनामानं भिक्षुम् ओसारयेद् इति । एषा ज्ञप्तिः । कर्म कर्तव्यम्* ।
शृणोतु भदन्तः संघः । यन् निदानम् अप्य् आयुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादः पूर्ववद् यावत्* । सो ऽयम् एवंनामा उत्क्षिप्तको भिक्षुः संघाद् ओसारणं याचते । तत् संघ एवंनामानं भिक्षुम् ओसारयति । येषाम् आयुष्मतां क्षमन्ते एवंनामानम् उत्क्षिप्तकं भिक्षुम् ओसारयितुम्* । ते तूष्णीम्* । न क्षमन्ते । भाषन्ताम्* । ओसारितः संघेन एवंनामा उत्क्षिप्तको भिक्षुः । क्षान्तम् अनुज्ञातं संघेन । यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
ओसारणीयं कर्म । तस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि । ओसारणीयकर्मकृतेन भिक्षूणा संघात् सामग्री याचयितव्या । एवं च पुनर् याचयितव्या ।
शृणोतु भदन्तः संघः । यन् निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा । उत्क्षिप्त इति वा अनुत्क्षिप्त इति वा । सो ऽहम् आपन्नो नानापन्नः । उत्क्षिप्तको नानुत्क्षिप्तकः । यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण । तेन मया एवंनाम्ना ( 285र्1 = ग्ब्म् 6.882 ) उत्क्षिप्तकेन भिक्षुणा संघाद् ओसारणा याचिता । कृतं मम संघेनोसारणीयं कर्म । सो ऽहम् एवंनामा ओसाररणीयकर्मकृतो भिक्षुसंघात् सामग्रीं याचे । ददातु भदन्तः संघो ममैवंनाम्न ओसारितस्य भिक्षोः संघसामग्रीम्* । अनुकम्पयानुकम्पाम् उपादाय । एवं द्विर् अपि । एवं त्रिर् अपि । ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* ।
शृणोतु भदन्त संघः । यन् निदानम् अस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्ववद् यावत्* । सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एवंनाम्नः ओसारणीयकर्मकृतस्य भिक्षोः सामग्रीं दद्याद् इति । एषा ज्ञप्तिः । कर्म कर्तव्यम्* ।
शृणोतु भदन्त संघः । यन् निदानम् अस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्नः पूर्ववद् यावद् दत्ता संघेन एवंनाम्नः ओसारणीयकर्मकृतस्य भिक्षोः सामग्री । क्शान्तम् अनुज्ञातम्* । यस्मात् तूष्णीम् एवम् एतद् धारयामि । इत्य् अस्य संघेन ओसारणीयकर्मकृतस्य भिक्षोः सामग्री दत्ता भवति । तस्य संघेन सामग्री दातव्या । नात्र कौकृत्यं करणीयम्* ।
संघसामग्रीदत्तकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि । संघसामग्रीदत्तकेन भिक्षुणा पोषधो याचितव्यः । एवं च पुनर् याचितव्यः । शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद् यावत्* । सो ऽहम् एवंनामा संघसामग्रीदत्तकः संघात् सामग्रीपोषधं याचे । ददातु भदन्तः संघः ममैवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधम् अनुकम्पाम् उपादाय । एवं द्विर् अपि । त्रिर् अपि । ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* ।
शृणोतु भदन्तः संघः । यन् निदानम् अस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद् यावत्* । सो ऽयम् एवंनामा संघसामग्रीदत्तकः संघात् सामग्रीपोषधं याचते । सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एवंनाम्नः संघसामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधं दद्याद् इति । एषा ज्ञप्तिः । कर्म कर्तव्यम्* ।
शृणोतु भदन्तः संघः । यन् निदानम् अस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा पूर्ववद् यावत्* । सो ऽयम् एवंनामा सामग्रीदत्तकः संघात् सामग्रीपोषधं याचते । तत् संघ एवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधं ददाति । एषाम् आयुष्मतां क्षमन्ते एवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधं दातुम्* । ते तूष्णीम्* । न क्षमन्ते । भाषन्ताम्* । दत्तः संघेन एवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधः । क्षान्तम् अनुज्ञातं संघेन । यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
यस्य संघेन सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधो दत्तो भवति तेन सार्धं संघेनैकत्ये निषद्य पोषधः कर्तव्यः प्रवारणा ज्ञप्तिः ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म । नात्र कौकृत्यं करणीयम्* । व्यग्राः कुर्वन्ति सातिसारा भवन्ति । न च पुनर् भिक्षुणा अपोषधे पोषधम् आगमयति । सातिसारो भवति । स्थापयित्वा मङ्गल्यपोषधं सामग्रीपोषधं वा ।
कोशाम्बकवस्तु समाप्तम्* ॥
मूल पाठ: Kośāmbakavastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 2 (Srinagar 1942), pp. 173-196: Kośāmbakavastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0