भाषा

ENहिગુ
ग्रंथ पाठ

खसर्पणसाधन · भाग 11

(ख्स्_11)
॥ नमः श्रीखसर्पणाय ॥
इह शुभङ्करनामा उपासकः शुभकर्मकारी करुणायमानः स किल पोतलकगमनोद्यतः । गच्छन् खाडीमण्डले खसर्पणनामा ग्रामो ऽस्ति तत्रोषितः । तस्य तु भगवतार्यावलोकित्श्वरेण प्रत्यादेचो दत्तः । मा गच्छ त्वम् इहास्मान् वैरोचनाभिसंबोधितन्त्रराजक्रमेण स्थापय तेन महान् सत्वार्थो भविष्यति । ततो ऽसौ भगवन्तं शीघ्रम् एव कारितवान् । इत्य् एषा श्रुतिः । तत्र भगवतः साधनाय दृऋष्टिसंपत्तिः क्रियते । तथा हि
वरं भिक्षोः शीलविपत्तिर् न पुनर् दृष्टिविपत्तिर् इति । अतस् तत्र तावत् क्षणिकान् निरात्मकान् सर्वधर्मान् व्यवलोक्य व्यपगतसकलविकल्पः कृपाशयो ऽहो वतामी सत्वाः क्लेशकर्मादिभिर् उपद्रुताः । ततो जातिजरामरणदुःखैर् (ख्स्_12) अतीव पीड्यमानाः सन्तो ऽनेकप्रकारदुःखम् अनुभवन्ति । ततो ऽहं लोकेश्वरो भूत्वा तेषां दुःखाद्य् अपनयामि । सर्वज्ञज्ञाने प्रतिष्ठापयामि । इत्य् एवं प्रतिज्ञाशयं कृत्वा स्वहृदि पंकारजसहश्रदलपद्मवराटकमध्ये अकारजचन्द्रमण्डलोपरि आं तां सुं भृं हं इति पञ्च बीजानि विन्यस्य । एतद्रश्मिमालाभिः सञ्चोद्यानीय तान् गुरुबुद्धबोधिसत्वान् गगनतले पुरोवर्तिनः कृत्वा वन्दनापूजापापदेचनात्रिसरणगमनादिसप्तविधां पूजाम् एकदशधां वा कृत्वा मैत्रीकरुणादिचतुर्ब्रह्मविहारी भावनां कुर्यात् ततः शून्यताज्ञानवज्रस्वभावात्मको ऽहम् इत्य् उच्चार्य शून्यताबोधिम् कृत्वा भगवान् अवलोकितेश्वरो योगिनात्मना भूयते । स च शरच्चन्द्रगौरः । जटामकुटी शिरसि अमिताभधारी सर्वालङ्कारबूषितः । रत्नसिंहासनोपरि सहस्रदलपद्मस्थः । ललिताक्षेपः द्विभुजैकमुखः । वामेन पद्मधारी । दक्षिणेनामृतधाराश्रवद्वरदः । सत्वपर्यङ्कासीनः । अग्रतस् तारा कनकश्यामवर्णा । उन्नतपीनपयोधरा । सर्वालङ्कारभूषिता । उत्पलकलिकासन्नकरद्वयार्पितनेत्रा । तदनु सधनकुमारह् । कनकोज्ज्वलः । रत्नाभरणो रत्नमुकुटी वामकक्षावसक्तमलिकः । कृताञ्जलिपुटः । तदनु भृकुटी जटामुकुटिनी । मूर्ध्नि चैत्यालङ्कृता । कनकोज्ज्वला । रक्तवस्त्रपरिधाना । दक्षिणहस्तेन नमस्कारं कुर्वाणा । अपरेणाक्षमालाधरा । वामकराभ्यां त्रिदण्डीकमण्डलुव्यग्रा । तदनु हयग्रीवो ज्वलद्भासुरः पिङ्गलोर्ध्वकेशः । नागाभरणो रक्तवर्णः । लम्बोदरो व्याघ्रचर्माम्बरः । दण्डहस्तः । एवं पञ्चात्मको भगवान् भावनीयः । सपरिवारः । पूजयितव्यो ऽप्य् एवंविधः । ततः कृतमण्डले । तत्रादौ मण्डलं कृत्वा रक्षां कुर्यात् । (ख्स्_13) ओं मणिधरि वज्रिणि रक्ष ओ मां हूं फट् स्वाहा ॥ ओं वज्ररेखे हूं मण्डलमन्त्रः ॥ ओं आगच्छ भगवन् मण्डलकसिंहासने ओं आः इति मन्त्रकृताध्येषाणायां कृतमण्डलमध्यसिंहासनोपरि सहस्रदलपद्मस्थपञ्चात्मकम् पूजयेद् इति । तत्र पूजामन्त्रः । ओं वज्रपुष्पे हूं । ओं वज्रधूपे हूं । ओं वज्रगन्धे हूं । ओं वज्रालोके हूं । ओं वज्राहारे हूं । इति संपूज्य संस्तुत्य मन्त्रजापम् कुर्यात् । ओं सर्वतथागतपूजामेघप्रसरसमूहे हूं । पूजाधिष्ठानमन्त्रः ॥ ओं आं तां सुं भृं हं फट् स्वाहा ॥ ओं सर्वतथागतसुललितनमितैर् नमामि भगवन्तं जः हूं वं होः प्रतीच्छ कुसुमाञ्जलिर् नाथ होः । इति वन्दनामन्त्रः । ओं मुः स्वाहा इति विसर्जनमन्त्रः । ओं ख ख ख हि । गृह्ण गृह्ण गृह्ण न्तु सर्वभौतिका इमं बलिं स्वाहा । इति बलिमन्त्रः । अथ पूजारम्भकाले एवम् उच्चार्य चित्तं शोधनीयं । यत् सर्वदुश्चरितेभ्यो विरतिं
करोमि । सर्वबुद्धबोधिसत्वशिक्षां शिक्षिष्ये । यावत् पूजाविधेन समन्वयामि । यद्य् एवं न क्रियते । तदा रागजं द्वेषजं मोहजं कुशलमूलं स्यात् । इह सर्व एव सत्वा रागद्वेषमोहाशयाः ॥ तथा हि
रागजकुशलमूलेन नन्दोपनन्दौ नागराजानौ
द्वेषजेन रागेण मोहजेन वैश्रवणो यक्षो भूतः ।
इत्य् अतो रागद्वेषमोहादीन् परिहृत्य चित्तशुद्ध्या करुणायमानचित्तेन सर्वाण्य् एव दानादिकुशलमूलानि कर्तव्यानि ।
इति खसर्पणसाधनं समाप्तं ॥ शुभंकरेण रचितं

मूल पाठ: Khasarpaṇasādhana · Edition: Frederick William Thomas: "Deux collections sanscrites et tibétaines", in: Muséon 4.1 (1903), pp. 1-42. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc