Karmavastu · भाग 11
कर्मवस्तु
( म्स्व् इइ 199 ) कर्मवस्तुनि ( 285व्1 = ग्ब्म् 6.883 ) उद्दानम्* ॥
काशिषु वासवग्रामकं सेनाञ्जयवस्तुकम्* ।
चण्पायां भगवान् बुद्धः अकर्माणि प्रतिक्षिपेत्* ॥
काशिषु वासवग्रामके सेनांजयो नाम भिक्षुः प्रतिवसति । तम् आगम्य वासवग्रामका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति । ये आगन्तुका भिक्षवो वासवग्रामकम् आगच्छन्ति तान् असौ प्रतिशाम्य सर्वोपकरणैः प्रवारयित्वा मार्गश्रमे प्रतिविनोदिते येषु कुलेषु पिण्डका उपनिबद्धास् तेषु भोक्तुं प्रेषयति । यावद् अन्यतमः सालोहितो वासवग्रामके वर्षा उषितः । त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां चरन् श्रावस्तीं अनुप्राप्तः ।
आचरितं षड्वर्गिकाणाम् अशून्यं जेतवनद्वारम् अन्यतरान्यतरेण षड्वर्गिकेण । उपनन्दो जेतवनद्वारे तिष्ठति । तेनासौ दूरत एव दृष्टो बकाकारशिराः प्रलम्बभ्रूः । स संलक्षयति । को ऽप्य् अयं स्थविरो भिक्षुर् आगच्छति । प्रत्युद्गन्तव्यम् इति । स प्रत्युद्गतः । स्वागतं स्वागतं स्थविर इति । स कथयति । वन्दे आचार्य इति । स संलक्षयति । महल्लो बतायम्* । नायम् आचार्यं जानीते नाप्य् उपाध्यायम् इति । सालोहित कियद् दूराद् आगच्छसि । वासवग्रामकात्* । किं तत्र । विहारः । किम् असौ विहारः । आहोस्विद् ( म्स्व् इइ 200 ) विघातः । कीदृशो विहारः । कीदृशो विघातः । यत्रोपकरणसंपत् स विहारः । यत्रोपकरणवैकल्यं स विघातः । यद्य् एवं विहारो ऽसौ यत्र सेनांजयो नाम भिक्षुः प्रतिवसति । तम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति । इतश् च तत्रागन्तुको भिक्षुर् आगच्छति । तम् असौ प्रतिशाम्य सर्वोपकरणैः प्रवारयित्वा मार्गश्रमे प्रतिविनोदिते येषु कुलेषु भिक्षूणां पिण्डका उपनिबद्धास् तेषु भोक्तुं प्रेषयति ।
आचरितं षड्वर्गिकाणां यत् किंचिद् एव शृण्वन्ति तद् रात्रौ संनिपत्य परस्परम् आरोचयन्ति । नन्दोपनन्द कियच् चिरम् अस्माभिः कृच्छ्रम् उद्वोढव्यम्* । अस्ति किंचिद् युष्माकं किंचिच् छ्रुतं यत्रोदारावभासो भवेद् इति । उपनन्दः कथयति । अस्ति । काशिषु वासवग्रामके सेनांजयो नाम भिक्षुः प्रतिवसति । तम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयः पूर्ववद् यावद् भोक्तुं प्रेषयति । यद्य् अभिप्रेतं तत्र गच्छामः । ते समादाय पात्रचीवरं येन वासवग्रामकस् तेन चारिकां प्रक्रान्ताः । अनुपूर्वेण चारिकां चरन्तो वासवग्रामकम् अनुप्राप्ताः । ते सेनांजयेन दूरत एव दृष्टाः । स संलक्षयति । आगता ह्य् एते दुष्ठुलसमुदाचाराः । प्रतिशामयित्वा सर्वोपकरणैः प्रवारयितव्याः । नो तु कुलानि भोक्तुं प्रेषयितव्या इति । ते अनेन प्रतिशामयित्वा सर्वोपकरणैः प्रवारिताः । नो तु कुलानि भोक्तुं प्रेषिताः । तेषाम् एके कथयन्ति । नन्दोपनन्द वयम् अनेन महल्लेन सर्वोपकरणैः प्रवारिताः । नो तु कुलानि भोक्तुं प्रेषिता इति । अपरे कथयन्ति । एकं तावत् संपन्नं कुलान्य् अपि ( 286र्1 = ग्ब्म् 6.884 ) प्रेषयिष्यतीति । ( म्स्व् इइ 201 ) यावन् नवको भिक्षुर् आगतः । स तेन प्रतिशामयित्वा सर्वोपकरणैः प्रवारितो मार्गश्रमे प्रतिविनोदिते कुलानि भोक्तुं प्रेषितः । षड्वर्गिकाः प्रकुपिताः कथयन्ति । नन्दोपनन्द कीदृशो ऽयं महल्लः छन्दद्वेषी । यदि तावत् पूर्वम् आगतास् ते वयम्* । यदि वृद्धास् ते वयम्* । अथ बहुश्रुतास् ते वयम्* । एष भिक्षुर् अचिरेणाभ्यागतो नवकः प्रकृतिज्ञः । सो ऽनेन सर्वोपकरणैः प्रवारयित्वा कुलानि भोक्तुं प्रेषितो नो तु वयम्* । स तैर् उपालब्धः । महल्ल ईदृशस् त्वं छन्दद्वेषी । यदि तावत् पूर्वम् आगतास् ते वयं पूर्ववद् यावत्* । स त्वया सर्वोपकरणैः प्रवारयित्वा कुलानि भोक्तुं प्रेषितो नो तु वयम्* । स्थविरा किंचित् परिहीयते । षड्वर्गिकाः संजातामर्षाः कथयन्ति । न तूष्णीं स्थातव्यम्* । तद् अपरं प्रतिवदति । स तैर् अभ्याहतः । तूष्णीम् अवस्थितः । तैस् तस्याचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञाया बलाद् उत्क्षेपणीयं कर्मं कृतम्* । स संलक्षयति । दुःखं ब्राह्मणगृहपतयः प्रसाद्यन्ते सुखम् अप्रसाद्यन्ते । यदि स्थास्यामि वासवग्रामीयका ब्राह्मणगृहपतयः प्रसादं प्रवेदयिष्यन्ते । सर्वदा प्रक्रमितव्यम् इति । स समादाय पात्रचीवरं येन श्रावस्ती येन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां ( म्स्व् इइ 202 ) चरन् श्रावस्तीम् अनुप्राप्तः । स भिक्षुभिर् दृष्ट उक्तश् च । स्वागतं स्वागतम् आयुष्मन्* । सेनाञ्जयिन् प्रीता वयं त्वद्दर्शनेन नो त्व् आगमनेन । किं कारणम्* । त्वाम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति । आगन्तुकानां गमिकानां च वासवग्रामकं प्रतिशरणम्* । अस्त्य् एतद् एवम्* । मम तु षड्वर्गिकैर् अचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञाया बलाद् उत्क्षेपणीयं कर्म कृतम् । किं कारणम्* । तेन यथावृत्तम् आख्यातम्* । ते ऽवध्यायन्तः क्षिपन्तो विवाचयन्त एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्मात् तर्हि भिक्षवो व्यग्रेण न भिक्षुभिर् अचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञया बलाद् उत्क्षेपणीयं कर्म कर्तव्यम्* । कुर्वन्ति । सातिसारा भवन्ति ।
बुद्धो भगवान् चण्पायां विहरति गर्गायाः पुष्करिण्यास् तीरे । तेन खलु समयेन षड्वर्गिका भिक्षव इमान्य् एवंरूपाण्य् अधर्मकर्माणि कुर्वन्ति । तद्यथा अधर्मेण कुर्वन्ति व्यग्राः । अधर्मेण कुर्वन्ति समग्राः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्मान् न भिक्षुभिर् इमान्य् एवंरूपाण्य् अधर्मकर्माणि करणीयानि । तद्यथा अधर्मेण व्यग्रैर् अधर्मेण समग्रैः धर्मेण व्यग्रैः । कुर्वन्ति । सातिसारा भवन्ति ।
उद्दानम्* ।
न एक एकेन न द्वौ न संबहुलाः कृताः ।
न गणो गणस्य कर्माणि पंच संघकर्मणां स्वामिनः ॥
बुद्धो भगवान् चण्पायां विहरति गर्गायाः पुष्करिण्यास् तीरे । तेन खलु समयेन षड्वर्गिका भिक्षव इमान्य् एवंरूपाण्य् अधर्मकर्माणि कुर्वन्ति । तद्यथा एको ऽप्य् एकस्य । एको द्वयोः । एकः संबहुलानाम्* । द्वाव् अपि द्वयोः । द्वाव् एकस्य । द्वौ संबहुलानाम्* । संबहुला अपि संबहुलानाम्* । संबहुला एकस्य । संबहुला द्वयोः । ( 286व्1 = ग्ब्म् 6.885 ) गणो गणस्य । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्मान् नैकेनैकस्य कर्म कर्तव्यम्* । नैकेन द्वयोः । नैकेन संबहुलानाम्* । न द्वाभ्यां द्वयोः । न द्वाभ्याम् एकस्य । न द्वाभ्यां संबहुलानाम्* । न संबहुलैः संबहुलानाम्* । न संबहुलैर् एकस्य । न संबहुलैर् द्वयोः । न गणेन गणस्य । कुर्वन्ति । सातिसार भवन्ति ।
अपि तु भिक्षवः पंच संघकर्मणां स्वामिनः । कतमे पंच । चत्वारो भिक्षवः संघः । पांचापि भिक्षवः संघः । दश भिक्षवः संघः । विंशतिर् भिक्षवः संघः उत्तरे च । पंच संघाः ।
तत्र भिक्षवो यत्र चत्वारो भिक्षवः प्रतिवसन्ति । अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* । स्थापयित्वा पांचानां प्रवारणां दशानाम् उपसंपदं विंशतीनां चावर्हणम्* ।
यत्र पंच प्रतिवसन्ति । अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* । स्थापयित्वा दशानाम् उपसंपदं विंशतीनां चावर्हणम्* ।
यत्र दश प्रतिवसन्ति । अर्हति तत्र संघः सर्वकर्माणि कर्तुम्* । स्थापयित्वा विंशतीनां आवर्हणम्* ।
यत्र विंशतिर् भिक्षवः प्रतिवसन्ति उत्तरे च । अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* ।
उद्दानम्* ।
चतुर्वर्गकरणीयं पुद्गल ऊनकः कृतः ।
न पारिवासिकचतुर्थेन कर्मचतुष्टयं स्मृतम्* ॥
चतुर्वर्गकरणीयं भिक्षवः कर्म ऊनाश् चत्वारः कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न तत् तथा करणीयम्* । संघश् च तेन सातिसारः । चतुर्वर्गकरणीयं कर्म आगारिकचतुर्थाः कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* । संघश् च तेन सातिसारः । एवं श्रामणेरकः षण्ढपण्डकः भिक्षुणीदूषको मातृघातकः पितृघातकः अर्हघातकः संघभेदकः तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकस् तीर्थिकस् तीर्थकावक्रान्तिकः स्तेयासंवासिको नानासंवसिको ऽसंवासिकः पारिवासिकचतुर्थाः कर्म कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* । संघश् च तेन सातिसारः ।
चतुर्वर्गकरणीयं कर्म पूर्णाश् चत्वारो धर्मेण कुर्वन्ति धर्मकर्म च तद् विनयकर्म च । एवं च तत् करणीयम्* । संघश् च तेन न सातिसारः । चतुर्वर्गकरणीयं कर्म नागारिकचतुर्थो न श्रामणेरकः पूर्ववद् यावन् न पारिवासिकचतुर्थाः कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं च तत् करणीयम्* । संघश् च तेन न सातिसारः ।
पंचवर्गकरणीयं कर्म ऊनाः पंच कुर्वन्ति । अधर्मकर्म च तद् ( म्स्व् इइ 205 ) अविनयकर्म च । न तथा करणीयम्* । संघश् च तेन सातिसारः । पंचवर्गकरणीयं कर्म आगारिकपंचमः पूर्ववद् यावत् पारिवासिकपंचमाः कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* । संघश् च तेन सातिसारः ।
पंचवर्गकरणीयं कर्म पूर्णाः पंचवर्गेण कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं तत् करणीयम्* । संघश् च तेन न सातिसारः । पंचवर्गकरणीयं कर्म नागारिकपंचमा न श्रामणेरकः पूर्ववद् यावन् न पारिवासिकपंचमा धर्मेण कुर्वन्ति । ( 287र्1 = ग्ब्म् 6.886 ) धर्मकर्म च तद् विनयकर्म च । एवं च तत् करणीयम्* । संघश् च तेन न सातिसारः ।
दशवर्गकरणीयं कर्म ऊना दशवर्गेण कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* । संघश् च तेन सातिसारः । दशवर्गकरणीयं कर्म आगारिकदशमाः पूर्ववद् यावत् पारिवासिकदशमा कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* । संघश् च तेन सातिसारः ।
दशवर्गकरणीयं कर्म पूर्णा दशवर्गेण कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं च तत् कर्म करणीयम्* । संघश् च तेन न सातिसारः । दशवर्गकरणीयं कर्म नागारिकदशमाः पूर्ववद् यावन् न पारिवासिकदशमा धर्मेण कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं च करणीयम्* । संघश् च तेन न सातिसारः ।
विंशतिवर्गकरणीयं कर्म ऊना विंशतिवर्गेण कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । संघश् च तेन सातिसारः । विंशतिवर्गकरणीयं ( म्स्व् इइ 206 ) कर्म आगारिकविंशतिमाः श्रामणेरकाः पूर्ववत् पारिवासिकविंशतिमाः कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* । संघश् च तेन सातिसारः ।
विंशतिवर्गकरणीयं कर्म पूर्णा विंशतिधर्मेण कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं च तत् करणीयम्* । संघश् च तेन न सातिसारः । विंशतिवर्गकरणीयं कर्म नागारिकविंशतिमा न श्रामणेरकाः पूर्ववद् यावन् न पारिवासिकविंशतिमा धर्मेण कुर्वन्ति । धर्मकर्म तद् विनयकर्म च । एवं च तत् करणीयम्* । संघश् च तेन न सातिसारः ।
उद्दानम्* ।
धर्माधर्मेण यत् कर्म यच् च ज्ञप्तितया कृतम्* ।
संमुखं च प्रतिज्ञा च चक्रपेयाल सङ्कलात्* ॥
अधर्मकर्म । धर्मकर्म । अधर्म कर्म कतमत्* । अप्राप्ते उत्सारणे अप्राप्तम् उत्सारयन्ति । यथास्योत्सार्यमाणस्यानुश्रावणं भवति । न तथोत्सारयन्ति । अधर्मकर्म । धर्मकर्म कतमत्* । प्राप्ते उत्सारणे प्राप्तम् उत्सारयन्ति । यथास्योत्सार्यमाणस्यानुश्रावणं भवति । तथोत्सारयन्ति । धर्मकर्म । अप्राप्ते ओसारणे अप्राप्तम् ओसारयन्ति । यथास्य ओसार्यमाणस्यानुश्रावणं भवति । न तथा ओसारयन्ति । अधर्मकर्म । प्राप्ते ओसारणे प्राप्तम् ओसारयन्ति । यथास्य ओसार्यमाणस्यानुश्रावणं भवति । तथोसारयन्ति । धर्मकर्म । ज्ञप्तिकर्म ज्ञप्तिम् अकृत्वा कुर्वन्ति । अधर्मकर्म । ज्ञप्तिकर्म ज्ञप्तिं कृत्वा कुर्वन्ति । ( म्स्व् इइ 207 ) धर्मकर्म । ज्ञप्तिद्वितीयं कर्म । ज्ञप्तिम् अकृत्वा एकं वारम् अनुश्रावयन्ति । अधर्मकर्म । ज्ञप्तिद्वितीयं कर्म । ज्ञप्तिं कृत्वा एकं वारम् अनुश्रावयन्ति । धर्मकर्म । ज्ञप्तिचतुर्थं कर्म । ज्ञप्तिम् अकृत्वा त्रीन् वारम् अनुश्रावयन्ति । अधर्मकर्म । ज्ञप्तिचतुर्थण् कर्म । ज्ञप्तिं कृत्वा त्रीन् वारान् अनुश्रावयन्ति । धर्मकर्म । अन्येन कर्मणा ज्ञप्तिं कृत्वा निष्ठापयन्ति । अधर्मकर्म । तेनैव कर्मणा ज्ञप्तिं कृत्वा निष्ठापयन्ति । धर्मकर्म । संमुखकरणीयं कर्मासंमुखीभूतस्य कुर्वन्ति । अधर्मकर्म । संमुखकरणीयं कर्म संमुखीभूतस्य कुर्वन्ति । धर्मकर्मा । प्रतिज्ञाकरणीयं कर्म अप्रतिज्ञया कुर्वन्ति । अधर्मकर्म । प्रतिज्ञाकरणीयं कर्म प्रतिज्ञया कुर्वन्ति ( 287व्1 = ग्ब्म् 6.887 ) । धर्मकर्म । संमुखविनयार्हाय स्मृतिविनयं ददाति । अधर्मकर्म । अमूढविनयं तत्स्वभावैषीयं यद्भूयैषीयं प्रतिज्ञाकारकं तृणप्रस्तारकं तर्जनीयं निगर्हणीयं प्रतिसंहरणीयम् अदर्शनीयोत्क्षेपणयम् अप्रतिकर्मार्हयोत्क्षेपणीयम् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म । परिवासं मूलपरिवासं मूलापकर्षपरिवासं मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यम् आवर्हन्ति । अधर्मकर्म । संमुखविनयार्हाय तु संमुखविनयम् एव ददाति न स्मृतिविनयं न यावद् आवर्हन्ति । धर्मकर्म । स्मृतिविनयार्हाय अमूढविनयं ददाति । अधर्मकर्म । एवं यद्भूयैषीयं पूर्ववद् यावद् आवर्हन्ति संमुकविनयं ददाति । अधर्मकर्म । स्मृतिविनयार्हाय तु स्मृतिविनयम् एव ददाति न तत्स्वभावैषीयं न यावत् संमुखविनयम्* । धर्मकर्म । अमूढविनयार्हाय ( म्स्व् इइ 208 ) तत्स्वभावैषीयं ददाति । अधर्मकर्म । एवं यद्भूयैषीयं यावत् संमुखविनयं स्मृतिविनयं ददाति । अधर्मकर्म । अमूढविनयार्हाय त्व् अमूढविनयम् एव ददाति तत्स्वभावैषीयं न यावत् संमुखविनयं स्मृतिविनयं । धर्मकर्म । तत्स्वभावैषीयार्हाय यद्भूयैषीयं ददाति अधर्मकर्म । तर्जनीयार्हाय पूर्ववद् यावद् अमूढविनयं ददाति । अधर्मकर्म । तत्स्वभावैषियार्हाय तु तत्स्वभावैषीयम् एव ददाति न यद्भूयैषीयं न यावद् अमूढविनयम्* । धर्मकर्म । यद्भूयैषीयार्हाय तर्जनीयं कर्म कुर्वन्ति । अधर्मकर्म । निगर्हणीयार्हाय पूर्ववद् यावत् तत्स्वभावैषीयम् ददाति । अधर्मकर्म । यद्भूयैषीयार्हाय यद्भूयैषीयम् एव ददाति न तर्जनीयं न यावत् तत्स्वभावैषीयम्* । धर्मकर्म । तर्जनीयकर्मार्हाय निगर्हणीयं कर्म कुर्वन्ति प्रतिसंहरणीयं पूर्ववद् यावद् यद्भूयैषीयं ददाति । अधर्मकर्म । तर्जनीयकर्मार्हाय तु तर्जनीयम् एव कर्म कुर्वन्ति न परिशिष्टानीति । अनया वर्तन्या चक्रपेयालः पूर्ववद् यावद् धर्मकर्म । निगर्हणीयार्हाय प्रतिसंहरणीयं कर्म कुर्वन्ति । अधर्मकर्म । पूर्ववत्* । निगर्हणीयकर्मार्हाय तु निगर्हणीयकर्मैव कुर्वन्ति । धर्मकर्म पूर्ववत्* । प्रवासनीयकर्मार्हाय प्रतिसंहरणीयं कर्म कुर्वन्ति । अधर्मकर्म पूर्ववत्* । प्रवासनीयकर्मार्हाय तु प्रवासनीयम् एव कर्म कुर्वन्ति । धर्मकर्म पूर्ववत्* । प्रतिसंहरणीयकर्मार्हायादर्शनीयोत्क्षेपणीयं कर्म कुर्वन्ति । अधर्मकर्म पूर्ववत्* । प्रतिसंहरणीयकर्मार्हाय तु प्रतिसंहरणीयम् एव कर्म कुर्वन्ति । धर्मकर्म पूर्ववत् । अदर्शनीयोत्क्षेपणीयकर्मार्हायाप्रतिकर्मार्हायोत्क्षेपणीयं कर्म कुर्वन्ति । अधर्मकर्म पूर्ववत्* । अदर्शनीयोत्क्षेपणीयकर्मार्हाय त्व् अदर्शनीयोत्क्षेपणीयम् एव कर्म कुर्वन्ति । ( म्स्व् इइ 209 ) धर्मकर्म । पूर्ववत्* । अप्रतिकर्मार्हायोत्क्षेपणीयकर्मार्हाय परिवासं ददाति । अधर्मकर्म पूर्ववत्* । अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कुर्वन्ति । अधर्मकर्म पूर्ववत्* । अप्रतिकर्मार्हायोत्क्षेपणीयकर्मार्हाय त्व् अप्रतिकर्मार्हायोत्क्षेपणीयम् एव कर्म ( 288र्1 = ग्ब्म् 6.888 ) कुर्वन्ति । धर्मकर्म पूर्ववत्* । अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीय्कर्मार्हाय परिवासं ददाति । अधर्मकर्म पूर्ववत्* । अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीय्कर्मार्हाय त्व् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्मैव कुर्वन्ति । धर्मकर्म पूर्ववत्* । परिवासकर्मार्हाय मूलपरिवासं ददाति । अधर्मकर्म पूर्ववत्* । परिवासकर्मार्हाय त्व् अपरिवासम् एव तु ददाति । अधर्मकर्म पूर्ववत्* । मूलपरिवासार्हाय मूलपरिवासं ददाति । अधर्मकर्म पूर्ववत्* । मूलपरिवासार्हाय तु मूलपरिवासम् एव ददाति । धर्मकर्म पूर्ववत्* । अपर्युषितपरिवासाय मानाप्यं ददाति । अधर्मकर्म पूर्ववत्* । अपर्युषितपरिवासाय मानाप्यं ददाति । अधर्मकर्म पूर्ववत्* । पर्युषितपरिवासाय तु मानाप्यं ददाति । धर्मकर्म पूर्ववत्* । अचरितमानाप्यम् आवर्हन्ति । अधर्मकर्म पूर्ववत्* । चरितमानाप्यम् आवर्हन्ति । धर्मकर्म पूर्ववत्* । आवर्हणार्हाय संमुखविनयं ददाति । पूर्ववद् यावन् मानाप्यं ददाति । अधर्मकर्म पूर्ववत्* । आवर्हणार्हाय त्व् आवर्हणम् एव कुर्वन्ति न संमुखविनयं ददाति न यावन् मानाप्यम्* । धर्मकर्म पूर्ववत्* । एवम् एव नवकेन चक्रपेयालं विस्तरेण बोद्धव्यम्* ।
उद्दानम्* ।
व्यग्रः समग्रा रोहन्ति धर्माधर्मेण वोत्क्षिपेत्* ।
ओसारणया एतानि कर्म वस्तुसमुद्दितम्* ॥
व्यग्रकर्म । समग्रकर्म । व्यग्रकर्म कतमत्* । यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्राप्तास् ते सर्वे समवहिताः संमुखीभूताश् छन्दार्हेभ्यश् च च्छन्देनानीता भवन्ति । समवहिताश् च भिक्षवः संमुखीभूताः प्रतिवहन्ति प्रतिक्रोशन्ति । येषां प्रतिवहतां प्रतिक्रोशतां प्रतिक्रोशो रोहति । कर्माणि च कुर्वन्ति । इदम् उच्यते व्यग्रकर्म । समग्रकर्म कतमत्* । यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्राप्तास् ते सर्वे समवहिताः संमुखीभूताश् छन्दार्हेभ्यश् च च्छन्देनानीता भवन्ति । समवहिताश् च भिक्षवः संमुखीभूता न प्रतिवहन्ति न प्रतिक्रोशन्ति । येषां प्रतिवहतां प्रतिक्रोशतां प्रतिक्रोशो रोहति । कर्माणि च कुर्वन्ति । इदम् उच्यते समग्रकर्म ।
आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । कतीनां भदन्त प्रतिक्रोशो न रोहति । दशानाम् उपालिन्* । अलज्जिनः सान्तरस्य बालस्य मूढस्याव्यक्तस्याकुशलस्य बहिःसीमायां स्थितस्य ईर्यापथे च्युतस्य वाचा असंवृतस्य । कतीनां भदन्त प्रतिक्रोशो रोहति । चतुर्णाम् उपालिन्* । प्रकृतिस्थितस्य अन्तःसीमायां स्थितस्य ईर्यापथाद् अच्युतस्य वा वाचा संयतस्येति । आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । कति भदन्त उत्क्षेपणीयकर्माणि । चत्वार्य् उपालिन् । अधर्मेणोत्क्षिपन्ति व्यग्रा अधर्मेण समग्राः । धर्मेण व्यग्राः । धर्मेण समग्राः । तत्रैकम् उत्क्षेपणकर्म । यद् इदं धर्मेणोत्क्षिपन्ति समग्राः । कति भदन्त ओसारणकर्माणि । चत्वार्य् ( म्स्व् इइ 211 ) उपालिन्* । अधर्मेणोसारयन्ति व्यग्राः । अधर्मेण समग्राः । धर्मेण व्यग्राः । धर्मेण समग्राः । तत्रैकम् ओसारणकर्म ( 288व्1 = ग्ब्म् 6.889 ) यद् इदं धर्मेण कुर्वन्ति समग्राः ।
कर्मवस्तु समाप्तम्* ॥
मूल पाठ: Karmavastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 2 (Srinagar 1942), pp. 199-211: Karmavastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0