भाषा

ENहिગુ
ग्रंथ पाठ

करतोयामाहात्म्य · श्लोक 81-85*

81

कावेरी कौशिकी चन्द्र भागा च चिरवल्लभी
स्वर्णा चम्पा वेत्रवती तथात्रेयी पुनर्भवा ॥

82

विपापा च विपाशा च चित्रा चित्रोत्पला तथा
गोतमी गोमुखी रेवा तथा चिरसरस्वती ॥

83

पृथ्व्यां वसन्त्यः सरितः सर्वास् तोयचयाः प्रिये
आसां नदीनां च जलं सदैव च कराम्भसि ॥

84

पौण्ड्रद्वीपे पठित्वेमं श्रीवीरो भार्गवो मुनिः
पौण्ड्रान् प्रदक्षिणीकृत्य मुच्यते ब्रह्महत्यया ॥

85

करतोयामहातीर्थ माहात्म्यं यः पठेच् छुचिः
त्रिसन्ध्यम् एकसन्ध्यं वा शृणुयाद् वापि यो नरः ॥

85*

तस्येह भोगान् सकलान् भुक्त्वा तद्गतमानसः
प्रेत्य याति परं स्थानं सर्वामलनिवारणम् ॥

मूल पाठ: Karatoyāmāhātmya · Edition: included as Appendix I in: Prabhas Chandra Sen: Mahasthan and Its Environs, Rajshahi, Bengal : Varendra Research Society 1929 (Varendra Research Society's Monographs, 2) · Data entry Arlo Griffiths · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc