कङ्कालमालिनीतन्त्रम् · अध्याय 1
कङ्कालमालिनीतन्त्रम्
ओं नमः श्रीगुरवे
श्रीभैरवी उवाच
त्रिपुरेश महेशान पार्वतीप्राणवल्लभ ।
जगद्वन्द्य शूलपाणे वर्णानां कारणं वद
श्रीभैरव उवाच
कथयामि वरारोहे वर्णानां भेदमुत्तमम् ।
न प्रकाश्यं महादेवि ! तव स्नेहात् सुभाषिणि
यज्ज्ञात्वा योगिनो यान्ति निर्गुणत्वं मम प्रिये !
तच्छृणुश्व स्वरूपेण महायौवनगर्विते
शब्दब्रह्मस्वरूपं तद् आदिक्षान्तं जगत्प्रभुः ।
विद्युद्जिह्वा करालास्या गर्जिनी धूम्रभैरवी
कालरात्रिर्विदारी च महारौद्री भयंकरी ।
संहारिणी करालिनी ऊर्ध्वकेश्युग्रभैरवी
भीमाक्षी डाकिनी रुद्रडाकिनी चण्डिकेति च ।
एते वर्णाण् स्वरा ज्ञेयाः कौलिनि व्यंजनान् शृणु
क्रोधीशो वामनश्चण्डो विकार्युन्मत्तभैरवः ।
ज्वालामुखो रक्तदंष्ट्रो हसिताङ्गो वडवामुखः
विद्युन्मुखो महाज्वालः कपाली भीषणो रुरुः ।
संहारी भैरवो दण्डी वलिभुगुग्रशूलधृक्
सिंहनादी कपर्दी च करालाग्निर्भयङ्करः ।
बहुरूपी महाकालो जीवात्मा क्षतजोक्षितः
बलभेदी रक्तपश्च चण्डीशो ज्वलनध्वजः ।
वृषध्वजो व्योमवक्त्रस्त्रैलोक्यग्रसनात्मकः
एते च व्यञ्जना ज्ञेयाः कादिक्षान्ताः क्रमादिताः ।
अकारादिक्षकारान्ता वर्णास्तु शिवशक्तयः
पञ्चाशच्च इमे वर्णा ब्रह्मरूपाः सनातनाः ।
येषां ज्ञानं विना वामे सिद्धिर्न स्याद् गुरुस्तनि
ते वर्णसागराः प्रोक्ता गुणत्रयमयाः शुभे ।
विद्युद्जिह्वा मुखं कृत्वा चण्डिकान्तं नगात्मजे
सत्त्वगुणमया वर्णा रजोगुणमयान् शृणु ।
क्रोधीशाद् दण्डिपर्यन्ता व्यञ्जना राजसाः स्मृताः
बलिभुग्वर्णमारभ्य त्रैलोक्यग्रसनावधि ।
ज्ञेयास्तमःस्वरूपास्ते तेभ्यो जातान् शृणु प्रिये
गुशब्दश्चान्धकारः स्याद् रुशब्दस्तन्निरोधकृत् ।
अन्धकारनिरोधित्वाद् गुरुरित्यभिधीयते
गकारः सिद्धिदः प्रोक्तो रकारः पापहारकः ।
उकारस्तु भवेद् विष्णुस्त्रितयात्मा गुरुः स्वयम्
आदावसौ जायते च शब्दब्रह्मसनातनः ।
वसुजिह्वा कालरात्र्या रुद्रडाकिन्यलङ्कृता
विषबीजं श्रुतिमुखं ध्रुवं हालाहलं प्रिये ।
ओं चण्डीशः क्षतजारूढो धूम्रभैरव्यलङ्कृतः
नादबिन्दुसमायुक्तं लक्ष्मीबीजं प्रकीर्तितम् ।
श्रीं । क्रोधीशं क्षतजारूढं धूम्रभैरव्यलङ्कृतम्
नादबिन्दुयुतं देवि नामबीजं प्रकीर्तितम् ।
ध्रीं (क्रोधीशोवलभृद्)(वलिभुग्) धूम्रभैरवीनादबिन्दुभिः
त्रिमूर्तिर्मन्मथः कामबीजं त्रैलोक्यमोहनम् ।
क्री। । क्षतजस्थो व्योमवक्त्रो थूम्रभैरव्यलङ्कृतः
नादबिन्दुसुशोभाढ्य मायालज्जाह्वयं स्मृतम् ।
क्रीं । व्योमास्यञ्ज विदारीस्थं नादबिन्दुविराजितम्
कूर्चकालं क्रोधबीजं जानीहि वीरवन्दिते ।
हू। । व्योमास्यः कालरात्र्याढ्यो वर्मबिद् बिन्दुसंयुतः
कथितं वचनं बीजं कुलाचारप्रियेऽमले ।
दू। । व्योमास्यं क्षतजारूढं डाकिन्या नादबिन्दुभिः
ज्योतिर्मन्त्रं समाख्यातं महापातकनाशनम् ।
द्रा। । नादबिन्दुसमायुक्तां समादायोग्रभैरवीम्
भौतिकं वाग्भवं बीजं विद्धि सारस्वतं प्रिये ।
ऐं प्रलयाग्निर्महाजालः ख्यातोऽस्त्रमनुः शिवे
रक्तक्रोधीशभीमाख्योऽङ्कुशोऽयं नादबिन्दुमान् ।
क्रौ। । द्विठः शिवो वह्नि जाया स्वाहा ज्वलनवल्लभा
स्वाहास्वाहासंयुतं धूम्रभैरव्या रक्तस्य बलिभोजनम् ।
नादबिन्दुसमायुक्तं किङ्किणीबीजमुत्तमम्
द्री। । नादबिन्दुसमायुक्तं रक्तस्थं बलिभोजनम् ।
करालास्यासनोपेतं विशिकाख्यं महामनुम्
दू। । विदार्या नेक्षितो गुह्ये वलिभुक् क्षतजोक्षितः ।
नादबिन्दुसमायुक्तो विज्ञेयः पिशिताशनः
धूमोज्ज्वलकरालाग्नि ऊर्ध्वकेशीन्दुबिन्दुभिः ।
युगान्तकारकं बीजं वीरपत्निप्रकाशितम्
संहारिण्या स्थितञ्चोर्ध्वं कशिनन्तु कपर्दिनम् ।
नादबिन्दुसमायुक्तं बीजं बैतालिकं स्मृतम्
सनादबिन्दुक्रोधीशं गुह्ये संहारिणीस्थितम् ।
कम्पिनीबीजमित्युक्तं चण्डिकाख्यं मनोहरम्
कपर्दिनं समादाय क्षतजोक्षितसंस्थितम् ।
संयुक्तं धूम्रभैरव्या ध्वाङ्क्षोऽयं नादबिन्दुमान्
प्रीं । कदलीद्वयमादाय महाकालेन मण्डितम् ।
सनादस्तु नमित्युक्तं चण्डिकाख्यं पयोधरम्
ठ। ठ। । प्रलयाग्निस्थितो धूमध्वजो गुह्येशबिन्दुमान् ।
संयुक्तो धूम्रभैरव्या स्मृता फेत्कारिणी प्रिये
स्फीं । क्षतजस्थं व्योमवक्त्रं बिन्दुखण्डेन्द्वलङ्कृतम् ।
खद्योतमिति विख्यातं ग्रसिनीकालरात्रियुक्
द्रू। । क्षतजोक्षितमारूढं नादबिन्दुसमन्वितम् ।
विदारीभूषितं देवि बीजं वैवस्वतात्मकम्
॥ इति दक्षिणाम्नाये सार्घलक्षग्रन्थे कङ्कालमालिनीतन्त्रे
प्रथमः पटलः
अथ द्वितीयः पटलः
श्रीपार्वती उवाच
देव देव महादेव नीलकण्ठ तपोधन ।
योनिमुद्रां महादेव तत्त्वत्रयं परात्परम् ।
एतदेव महादेव कथ्यतां मे पिनाकधृक्
श्री-ईश्वर उवाच
शृणु वक्ष्यामि देवेशि दासोऽहं तव सुव्रते ।
अतिगुह्यं महापुण्यं तत्त्वत्रयं वरानने
सारात् सारं परं गुह्यमतिगोप्यं सुनिश्चितम् ।
शङ्कापि जायते देवि कथं तत्कथयाम्यहम्
कथयामि महेशानि आज्ञया तव भामिनि ।
न चेत् तत् कथ्यते देवि तव क्रोधः प्रजायते
त्वया क्रोधे कृते देवि हानिः स्यान्मम कामिनि ।
मन्त्रार्थं मन्त्रचैतन्यं धर्मार्थकामदं प्रिये
योनिमुद्रा महेशानि तृतीयं ब्रह्मरूपिणी ।
अज्ञात्वा यो जपेन्मन्त्रं नहि सिद्धिः प्रजायते
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
योनिमुद्रा महेशानि साक्षान्मोक्षप्रसाधिनी
ततो योनिर्महेशानि प्रिया मम यथा प्रिये ।
सततं परमेशानि दासोऽहं तव योनिना
तव योनिप्रसादेन मृत्युं जित्वा वरानने ।
मृत्युज्जयोऽहं देवेशि सततं कमलानने
तव योनौ महेशानि ब्रह्माण्डं सचराचरम् ।
तिष्ठन्ति सततं देवि ब्रह्माद्यास्त्रिदिवौकसः
मयूरस्य महेशानि पुच्छे कृत्वा च अद्भुतम् ।
योन्याकारं महेशानि दृष्ट्वा कृष्णः शुचिस्मिते
शिरे धृत्वा वरारोहे त्रैलोक्यं वशमानयेत् ।
तव योनिं महेशानि भावयामीत्यहर्न्निशम्
तत्रैव दृष्ट्वा ब्रह्माण्डं नान्यं पश्यामि कामिनि ।
कर्पूरपुलकोद्भूतं तव योनिपुरं परम्
तव योनिर्महेशानि तत्त्वत्रयसुपूजितम् ।
रेतोरजःसमायुक्तं साक्षान्मन्मथमन्दिरम्
न जाने किं कृतं कर्म कालिके कमलेक्षणे ।
तव योनौ महादेवि अत एव वरानने
योनिमुद्रां योनिबीजं सततं परमेश्वरि ।
अहं मृत्युज्जयो देवि योनिमुद्राप्रसादतः
योनिबीजं महेशानि निगदामि शृणु प्रिये ।
प्रथमे परमेशानि योगिनीं रुद्रयोगिनीम्
उत्कृत्य वहुयत्नेन बलबीजयुतं कुरु ।
विन्द्वर्धचन्द्रसंयुक्तं बीजं त्रैलोक्यमोहनम्
बद्ध्वा तु योनिमुद्रां वै पूर्वोक्तक्रमतः प्रिये ।
योनिबीजं महेशानि अष्टोत्तरशतं जपेत्
अष्टोत्तरशतं जप्त्वा यत् फलं लभते प्रिये ।
माहात्म्यं तस्य देवेशि वक्तुं को वा क्षमो भवेत्
यः करोति प्रसन्नात्मा रहस्ये योनिरूपिणीम् ।
ब्रह्माण्डं पूजयेत् ते न ब्रह्माद्यास्त्रिदिवौकसः
तव योनिर्महेशानि परं ब्रह्मस्वरूपिणी ।
तव योनिर्महेशानि भवस्य मोहिनी प्रिये
तव योनिर्महेशानि सिद्धिसूत्रेण वेष्टयेत् ।
सिद्धिसूत्रं महेशानि त्रिप्रकारं वरानने
ईडा च पिङ्गला चैव सुषुम्नात्रितयं तथा ।
सदानन्दमयीं योनिं नानासुखविलासिनीम्
शृङ्गारसमये देवि नान्तं गच्छामि पार्वति ।
मम लिङ्गो महेशानि भिनत्ति सकलं जगत्
तथापि परमेशानि नान्तं गच्छामि कामिनि ।
तव योनिर्महेशानि न जाने कीदृशीं गतिम्
तव योनिर्महेशानि आद्या प्रकृतिरूपिणी ।
सदा कुण्डलिनीं योनिमहाकुण्डलिनीं पराम्
यः सदा परमेशानि योनिं दृष्ट्वा वरानने ।
जपेद् बीजं वरारोहे भगारव्यं भगरूपिणीम्
योनिं बद्ध्वा महेशानि भगबीजेन पार्वति ।
अष्टोत्तरशतं जप्त्वा मम तुल्यो भवेत् प्रिये
तव योनौ महेशानि रमणं यत्नतश्चरेत् ।
तस्या रमणमात्रेण ब्रह्मविष्णुशिवात्मकः ।
स एव धनवान् वाग्मी वागीशसमतां व्रजेत्
श्रीदेवी उवाच
नीलकण्ठ महादेव रहस्यं कृपया वद ।
यदि नो कथ्यते देव विमुञ्चामि तदा तनुम्
श्री ईश्वर उवाच
शृणु पार्वति कृ.प्णाङ्गि खज्जनाक्षि सुलोचने ।
गोपनीयं रहस्यं हि सर्वकामफलप्रदम्
तिस्रः कोट्यस्तदर्धेन शरीरे नाडिका मताः ।
तासु मध्ये दश प्रोक्तास्तासु तिस्रो व्यवस्थिताः
प्रधाना मेरुदण्डाग्रे चन्द्रसूर्याग्निरूपिणी ।
मज्जयित्वा सुषुम्नायामहं योगी सुरेश्वरि
षट्चक्रे परमेशानि भावयेद् योनिरूपिणीम् ।
प्रथमं परमेशानि आधारयुगपत्रकम्
वादिसान्त्यैश्चतुर्वर्णैर्द्रुतहेमसमप्रभम् ।
तडित्कोटिप्रभाकारं स्थानं परमदुर्लभम्
तत् कर्णिकायां देवेशि त्रिकोणमतिसुन्दरम् ।
इच्छाज्ञानक्रियारूपं ब्रह्मविष्णुशिवात्मकम्
मध्ये स्वयं भूलिङ्गं च कुण्डलीवेष्टितं सदा ।
त्रिकोणाख्यं तु देवेशि लकारं चिन्तयेत् तथा
ब्रह्माण्डं तत्र संचिन्त्य कामदेवं च चिन्तयेत् ।
बीजं तत्रैव निश्चिन्त्यं योनावादानमेव च
पदे च गमनं पायौ विसर्गं नसि कामिनि ।
घ्राणं संचिन्त्य देवेशि महेशि प्राणवल्लभे
डाकिनीं परमाराध्यां शक्तिं च भावयेत् ततः ।
एतानि गिरिजे मातः पृथ्वीं नीत्वा गणेश्वरि
तन्मध्ये लिङ्गरूपं हि कुण्डलीवेष्टितं प्रिये ।
तत्र कुण्डलिनीं नित्यां परमानन्दरूषिणीम्
तत्र ध्यानं प्रकुर्वीत सिद्धिकामो वरानने ।
कोटिचन्द्रप्रभाकारां परंब्रह्मस्वरूपिणीम्
चतुर्भुजां त्रिनेत्राञ्च वराभयकरां तथा ।
तथा च पुस्तकं वीणां धारिणीं सिंहवाहिनीम्
गच्छन्ति स्वासनं भीमां नानारूपधरां पराम् ।
पूर्वोक्तां पृथ्वीं धन्यां गन्धे नीत्वा महेश्वरि
आकृष्य प्रणवेनैव जीवात्मानं नगेन्द्रजे ।
कुण्डलिन्या सह प्रेमे गन्धमादाय साधकः
सोऽहमिति मनुना देवि स्वाधिष्ठाने प्रवेशयेत् ।
तत्पद्मं लिङ्गमूलस्थं सिन्दूराभं च षड्दलम्
स्फुरद्विक्रमसंकाशैर्वादिनान्तैः सुशोभितम् ।
तत्कर्णिकायां वरुणं तत्रापि भावयेद्धरिम्
युवतिं राकिणीं शक्तिं चिन्तयित्वा वरानने ।
रसनेन्द्रिययूपस्थं जलञ्च कामलालसे
एतानि गन्धञ्च शिवे रसे नीत्वा विनोदिनीं ।
जीवात्मानं कुण्डलिनीं रसञ्च मणिपूरके
नीत्वा परमयोगेन तत्पद्मं दिग्दलं प्रिये ।
नीलवर्णं तडिद्रूपं डादिफान्तैश्च मण्डितम्
तत्कर्णिकायां सुश्रोणि वह्निं सञ्चिन्त्य साधकः ।
तत्र रुद्रः स्वयं कर्ता संहारे सकलस्य च
लाकिनीशक्तिसंयुक्तो भावयेत् तं मनोहरे ।
तत्र चक्षुरिन्द्रियञ्च कृत्वा तेजोमयं यजेत्
एतं रसञ्च सुभगे रूपं नीत्वा महाभागे ।
जीवात्मानं कुण्डलिनीरूपञ्चानाहते नयेत्
बन्धूकपुष्पसंकाशं तत्पद्मं द्वादशारकम् ।
कादिठान्तैः स्फुरद्वर्णैः शोभितां हरवल्लभाम्
तत्कर्णिकायां वायुञ्च जीवस्थाननिवासिनम् ।
तत्र योनेर्मण्डलञ्च बाणलिङ्गविराजितम्
काकिनीशक्तिसंयुक्तं तत्र वायोस्त्वगिन्द्रियम् ।
एतद् रूपञ्च संयोज्य स्वर्गे रमणकामिनि
जीवकुण्डलिनीं स्पर्शं विशुद्धौ स्थापयेत् ततः ।
धूम्रवर्णं कण्ठपद्मं षोडशस्वरमण्डितम्
तत्कर्णिकायामाकाशं शिवञ्च कारिणीयुतम् ।
वाचं श्रोत्रं च आकाशे संस्थाप्य नगनन्दिनि
एतानि स्पर्शं शब्दे च नीत्वा शाङ्करि मत्प्रिये ।
जीर्व कुण्डलिनीं शब्दञ्चाज्ञापत्रे निधापयेत्
नेत्रपद्मं शुक्लवर्णं द्विदलमक्षभूषितम् ।
तत्कर्णिकायां त्रिकोणं यद् बाणलिङ्गञ्च सङ्गतम्
मनश्चात्र सदा भाति हाकिनीशक्तिलाञ्छितम् ।
बुद्धिप्रकृत्यहङ्कारलक्षितं तेजसा परम्
जीवात्मानं कुण्डलिनीं मनश्चापि महेश्वरि ।
सहस्रारे महापद्मे मनश्चापि नियोजयेत्
सहस्रारं नित्यपद्मं शुक्लवर्णमधोमुखम् ।
अकारादिक्षकारान्तैः स्फुरद्वर्णैर्विराजितम्
तत्कर्णिकायां देवेशि अन्तरात्मा ततो गुरुः ।
सूर्यस्य मण्डलञ्चैव चन्द्रमण्डलमेव च
ततो वायुर्महानादो ब्रह्मरन्ध्रं ततः स्मृतम् ।
तस्मिन् रन्ध्रे विसर्गञ्च नित्यानन्दं निरञ्जतम्
तदूर्ध्वे शंखिनी देवी सृष्टिस्थित्यन्तकारिणी ।
तस्याधःस्था च देवेशि चतुर्मण्डलमध्यगम्
त्रिकोणं तत्र संञ्चिन्त्य कैलासमत्र भावयेत् ।
इह स्थाने महादेवि स्थिरचित्तं विधाय च
जीवजीवी गतव्याधिर्न पुनर्जन्मसंभवः ।
अत्र नित्योदिता वृद्धिक्षयहीना अमाकला
तन्मध्ये कुटिला निर्वाणाख्या सप्तदशी कला ।
निर्वाणाख्यान्तर्गता वह्निरूपा निरोधिका
नादोऽव्यक्तस्तदुषरि कोट्यादित्यसमप्रभा ।
निर्वाणशक्तिः परमा सर्वेषां योनिरूपिणी
अस्यां शक्तौ शिवं ज्ञेयं निर्विकारं निरञ्जनम् ।
अत्रैव कुण्डलीशक्ति र्मुद्राकारा सुरेश्वरि
पुनस्तेन प्रकारेण गच्छन्त्याधारपङ्कजे ।
कथिता योनिमुद्रेयं मया ते परमेश्वरि
विना येन न सिद्धेन निहरेत् परमात्मना ।
तद् दिव्यामृतधाराभिर्लाक्षाभाभिर्महेश्वरि
तर्पयेद् देवतां योगी योगेनाऽनेन साधकः ।
कुण्डलीशक्तिसिद्धिः स्याद् वर्णकोटिशतैरपि
तस्मात् त्त्वयापि गिरिजे गोपनीयं प्रयत्नतः ।
मन्त्ररूपां कुण्डलिनीं ध्यात्वा षट्चक्रमण्डले
कन्दमध्यात् सुमधुरं कूजन्तीं सततोत्थिताम् ।
गच्छन्तीं ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकेतनम्
मूलाधारे च तां देवीं संस्थाप्य वीरवन्दिते ।
चित्रिणीग्रथिता मालाजापं ब्रह्माण्डसुन्दरि
रहस्यं परमं दिव्यं मन्त्रचैतन्यमीरितम् ।
मुद्राचैतन्ययोर्ज्ञानं वर्णानां ज्ञानमेव च
मन्त्रार्थं कथितं देवि तव स्नेहात् प्रियंवदे ।
अस्य ज्ञानं विना भद्रे सिद्धिर्न स्यात् सुलोचने ।
इति ते कथितं देवि योनिक्रीडेदमुत्तमम्
श्री-ईश्वर उवाच
सुरासुरजगद्वन्द्य पार्वतीभगसेवक ।
इदानीं श्रोतुमिच्छामि योनेः कवचमुत्तमम्
श्री-ईश्वर उवाच
यद् धृत्वा पठनात् सर्वाः शक्तयो वरदाः प्रिये ।
एतस्य कवचस्यापि ऋषिश्च श्रीसदाशिवः
छन्दो गायत्री देवता योनिरूपा सनातनी ।
चतुर्वर्गेषु देवेशि विनियोगः प्रकीर्तितः
ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः ।
(दक्षपादम्) मम शिरो रक्षन्तु स्वाहा ।
ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः
ओं माम् ओं आकुटाम् मम रक्षन्तु स्वाहा मम् माम् ।
ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मंमः मम हृदयादिदक्षबाहुं रक्षन्तु ।
ओं मं मां मिं मीं मुम् मूम् मेम् मैम् मोम् मौं मः
ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः
मम हृदयादिवामबाहु रक्षन्तु मम । ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः दक्षपादं रक्षन्तु मम । वामपादं रक्षन्तु मम सदा स्वाहा स्वाहा स्वाहा ।
ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः
मम हृदादिषु नासां रक्षन्तु स्वाहा । ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः उपस्थं रक्षन्तु मम सदा स्वाहा । ओं मम् माम् मिम् मीम् मुम् मूम् मेम् मैम् मोम् मौम् मं मः ॥
इदं हि योनिकवचं रहस्यं परमाद्भुतम् ।
अज्ञात्वा यो जपेन्मन्त्रं सर्वं निष्फलतां व्रजेत्
रहस्यं परमं दिव्यं सावधानाऽवधारय ।
मूलाधारे महेशानि जपेद् यन्त्रं वरानने
मूलाधारे महेशानि वरारोहेऽन्तरात्मनि ।
प्रतिचक्रे महेशानि पठेद् योनिं सनातनीम्
चन्द्रसूर्योपरागे च पठेद् वा कवचं प्रिये ।
स्वनारीं रमयेद् यन्त्रे परनारीमथापि वा
कवचस्य प्रसादेन योनिमुद्रा हि सिद्ध्यति ।
इदं हि कवचं देवि पठित्वा कमलानने
मैथुनं महदाख्यानं त्वया सह मया कृतम् ।
कवचस्य प्रसादेन जना यान्ति परां गतिम्
भूर्जपत्रे समालिख्य स्वयंभूकुसुमेन तु ।
शुक्लेन कुसुमेनापि रोचनालक्तकेन च
स्वर्णस्थां गुटिकां कृत्वा धारयेद् यन्त्रमानवः ? ।
इह लोके परत्रे च स एव श्रीसदाशिवः
अष्टोत्तरशतञ्चास्य प्रपठेत् सिद्धि वाञ्छया ।
किमत्र बहुनोक्तेन अस्मात् परतरो नहि ।
नमो योन्यै नमो योन्यै कुण्डलिन्यै नमो नमः
इति दक्षिणाम्नाये सार्धलक्षग्रन्थे कङ्कालमालिनीतन्त्रे योनिमुद्रादिकथनं द्वितीयः पटलः
अथ तृतीयः पटलः
श्रीदेवी उवाच
इदानीं श्रोतुमिच्छामि गुरुपूजनमुत्तमम् ॥
श्री-ईश्वर उवाच
कथयामि महादेवि अप्रकाश्यं वरानने ।
निर्गुणञ्च परं ब्रह्म गुरुरित्यक्षरद्वयम्
महामन्त्रं महेशानि गोपनीयं परात्परम् ।
तत्र ध्यानं प्रवक्ष्यामि शृणु पार्वति सादरम्
सहस्रदलपद्मस्थमन्तरात्मानमुज्ज्वलम् ।
तस्योपरि नादबिन्दोर्मध्ये सिंहासनोज्ज्वले
चिन्तयेन्निजगुरुं नित्यं रजताचलसन्निभम् ।
वीरासनसमासीनं मुद्राभरणभूषितम्
शुभ्रमाल्याम्बरधरं वरदाभयपाणिनम् ।
वामोरुशक्तिसहितं कारुण्येनावलोकितम्
प्रियया सव्यहस्तेन धृतचारुकलेवरम् ।
वामेनोत्पलधारिण्या रक्ताभरणभूषया
ज्ञानानन्दसमायुक्तं स्वरेत्तन्नामपूर्वकम् ।
मानसैस्तूपचारैश्च संपूज्य कल्पयेत् सुधीः
गन्धं भूम्यात्मकं दद्याद् भावपुष्पैस्ततः परम् ।
धूपं वायवात्मकं देवि तेजसा दीपमेव च
नैवेद्यममृतं दद्यात् पानीयं वरुणात्मकम् ।
अम्बरं मुकुटं दद्यात् वस्त्रञ्चैव मम प्रिये
चामरं पादुकाच्छत्रं तथालङ्कारभूषणैः ।
तत्तन्मुद्राविधानेन संपूज्याथ गुरुं यजेत्
यथाशक्ति जपं कृत्वा समर्प्य कवचं पठेत् ।
इति ते कथितं सम्यग् गुरुपूजनमुत्तमम्
श्रीदेवी उवाच
भूतनाथ महादेव कवचं तस्य मे वद
श्री-ईश्वर उवाच
अथ ते कथयामीशे कवचं मोक्षदायकम् ।
यस्य ज्ञानं विना देवि न सिद्धिर्न च सद्गतिः
ब्रह्मादयोऽपि गिरिजे सर्वत्र जयिनः स्मृताः ।
अस्य प्रसादात् सकला वेदागमपुरःसराः
कवचस्यास्य देवेशि ऋषिर्विष्णुरुदाहृतः ।
छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः
चतुर्वर्गे ज्ञानमार्गे विनियोगः प्रकीर्तितः ।
सहस्रारे महापद्मे कर्पूरधवलो गुरुः
वामोरुगतशक्तिर्यः सर्वतः परिरक्षतु ।
परमाख्यो गुरुः पातु शिरसं म वल्लभे
परापराख्यो नासां मे परमेष्ठिर्मुखं मम ।
कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः
बाहू द्वौ सनकानन्दः कुमारानन्दनायकः ।
वशिष्ठनन्दनाथश्च हृदयं पातु सर्वदा
क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम ।
ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने
सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः ।
इति ते कथितं भद्रे कवचं परमं शिवे
भक्तिहीने दुराचारे दद्यान्मृत्युमवाप्नुयात् ।
अस्यैव पठनाद् देवि धारणाच्छ्रवणात् प्रिये
मन्त्राः सिद्धाश्च जायन्ते किमन्यत् कथयामि ते ।
कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते
धारणान्नाशयेत् पापं गङ्गायां कलुषं यथा ।
इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये
तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन
श्रीपार्वती उवाच
लोकेश कथ्यताम् देव गुरुगीता मयि प्रभो
श्रीशिव उवाच
शृणु तारिणि वक्ष्यामि गीतां ब्रह्ममयीं पराम् ।
गुरुः स्वयं सर्वशास्त्राणामहमेव प्रकाशकः
त्वमेव गुरुरूपेण लोकानां प्राणकारिणी ।
गया गङ्गा काशिका च त्वमेव सकलं जगत्
कावेरी यमुना रेवा करतोया सरस्वती ।
चन्द्रभागा गौतमी च त्वमेव कुलपालिका
ब्रह्माण्डं सकलं देवि कोटिब्रह्माण्डमेव च ।
नहि ते वक्तुमर्हामि क्रियाजालं महेश्वरि
उक्त्वा उक्त्वा भावयित्वा भिक्षुकोऽयं नगात्मजे ।
कथं त्वं जननी भूत्वा बधूस्त्वं मम देहिनाम्
तव चक्रं महेशानि अतीतं परमात्मनः ।
इति ते कथिता गीता गुरुदेवस्य ब्रह्मणः
संक्षेपेण महेशानि प्रभुरेव गुरुः स्वयम् ।
जगत् समस्तमस्थेयं गुरुस्थेयो हि केवलम्
तं तोषयित्वा देवेशि नतिभिस्तत्त्रिभिस्तथा ।
नानाविधद्रव्यदानैः सिद्धिः स्यात् साधकोत्तमः
इति श्रीदक्षिणाम्नाये सार्धलक्षग्रन्थे कङ्कालमालिनीतन्त्रे श्रीगुरुपूजनकवचगुरुगीता नाम तृतीयः पटलः
अथ चतुर्थः पटलः
श्रीपार्वती उवाच
कथयस्व विरूपाक्ष महाकालीमनुं प्रभो ।
श्री-ईश्वर उवाच
अथातः संप्रवक्ष्यामि महाकालीमनुं प्रिये ।
यस्य विज्ञानमात्रेण सर्वसिद्धीश्वरो भवेत्
श्रिया विष्णुं मम कान्त्या सम्मुखेन समः सुखी ।
शौचेन शुचिना तुल्यो बलेन पवनोपमः
वागीश्वरः समो वाचि धनेन धनपः स्वयम् ।
सार्वज्ञे शम्भुना तुल्यो दाने दाधीचिना समः
आज्ञया देवराजोऽसौ ब्राह्मण्येन प्रजापतिः ।
भृगोरिव तपस्वी च चन्द्रवत् प्रीतिवर्धनः
तेजसाग्निसमो भक्त्या नारदः शिवकृष्णयोः ।
रूपेण मदनः साक्षात् प्रतापे भानुसन्निभः
शास्त्रचर्चास्वाङ्गिरसो जामदग्न्यः प्रतिज्ञया ।
सिद्धानां भैरवः साक्षात् गङ्गेव मलनाशकः
अथवा बहुनोक्तेन किं वा तेन वरानने ।
न तस्य दूरितं किञ्चित् महाकालीं स्मरेद्धिया
शब्दब्रह्ममयीं स्वाहां भोगमोक्षैकदायिकाम् ।
भोगेन मोक्षमाप्नोति श्रुत्वा गुरुमुखात् पराम्
तां विद्यां शृणु वक्ष्यामि यया भैरवतां व्रजेत् ।
क्रोधीशं क्षतजारूढं धूम्रभैरव्यलक्षितम्
नादबिन्दुसमायुक्तं मन्त्रं स्वर्गेऽपि दुर्लभम् ।
एकाक्षरीसमा नास्ति विद्या त्रिभुवने प्रिये
महाकाली गुह्यविद्या कलिकाले च सिद्धिदा ।
अथान्यत् संप्रवक्ष्यामि दक्षिणां कालिकां पराम्
वाग्भवं बीजमुच्चार्य कामराजं ततः परम् ।
मायाबीजं ततो भद्रे त्र्यक्षरं मन्त्रमीरितम्
कामराजं ततो कूर्चं मायाबीजमतः परम् ।
अपरं त्र्यक्षरं प्रोक्तं पूर्वोक्तं फलदं प्रिये
हालाहलं समुच्चार्य मायाद्वयमतः परम् ।
एतत्तु त्र्यक्षरं देवि सर्वकामफलप्रदम्
एतेषाञ्चैव मन्त्राणां फलमन्यत् शृणु प्रिये ।
न कालनियमोऽत्रास्ति नारिमित्रादिदूषणम्
कायक्लेशकरं नैव प्रयासो नास्य साधने ।
दिवा वा यदि वा रात्रौ जपः सर्वत्र शोभनः
भोगमोक्षविरोधोऽत्र साधने नास्ति निश्चितम् ।
भोगेन लभते मोक्षं नरोऽपि विद्ययानया
अस्या जपात्तथा ध्यानात् लभेन्मुक्तिं चतुर्विधाम् ।
नानया सदृशी विद्या नानया सदृशो जपः
नानया सदृशं ध्यानं नानया सदृशं तपः ।
सत्यं सत्यं पुनः सत्यं सत्यपूर्वं वदाम्यहम्
अनया सदृशी विद्या नास्ति सिद्धिः सुगोचरे ।
अथ संक्षेपतो वक्ष्ये पूजाविधिमनुत्तमम्
विस्तारे कस्य वा शक्तिः को वा जानाति तत्त्वतः ।
पूजा च त्रिविधा प्रोक्ता नित्यनैमित्तिकाम्यतः
तत्रैव नित्यपूजाञ्च वक्ष्ये ताञ्च निशामय ।
भैरवोऽस्य ऋषिः प्रोक्त उष्णिक् छन्द उदाहृतम्
देवता मुनिभिः प्रोक्ता महाकाली पुरातनी ।
विनियोगस्तु विद्यायाः पुरुषार्थचतुष्टये
पञ्चशुद्धिविहीनेन यत्कृतं न च तत्कृतम् ।
पञ्चशुद्धिं विना पूजा अभिचाराय कल्प्यते
आत्मशुद्धिः स्थानशुद्धिर्द्रव्यस्य शोधनस्तथा ।
मन्त्रशुद्धिर्देवशुद्धिः पञ्चशुद्धिरितीरिता
भूप्रदेशे समे शुद्धिः पुष्पः प्रकरसंकुले ।
आसनं कल्पयेदादौ कोमलं कम्बलन्तु वा
वामे गुरून् पुनर्नत्वा दक्षिणे गणपतिं विभुम् ।
भूतशुद्धिं तथा कुर्यात् पूजायोग्या यथा भवेत्
प्राणायामादि विधिवत् ऋण्यादिन्यासमाचरेत् ।
आदौ शुद्धिभैरवाय ऋषये नम इत्यथ
उष्णिक् छन्दसे नमसा मुखे छन्दो विनिर्दिशेत् ।
मम प्रिये महाकाली देवतायै नमो हृदि
ह्रीं बीजाय नमः पूर्वं हुं शक्तये नमोऽप्यथ ।
कवित्वार्थे विनियोग इति विन्यस्य वाञ्छया
केवलां मातृकां न्यस्य बीजन्यास समाचरेत् ।
ओं क्रा। अङ्गुष्ठयोर्न्यस्य ओं क्री। तर्जन्योर्नमः
ओं क्र। मध्यमयोर्न्यस्य ओं क्रै। अनामिकाद्वयोः ।
ओं क्रौ। कनिष्ठायुगले ओं क्रः करतले तथा
पुनर्हृदयादिष्वेतैर्जातियुक्तैः षडङ्गकम् ।
षडदीर्घभावं स्वबीजैः प्रणवाद्यैस्तु विन्यसेत्
वर्णन्यासं तथा कुर्याद् येन देवीमयो भवेत् ।
अ आ इ ई उ ऊ ऋ ॠ ऌ ॡ च हृदये न्यसेत्
ए ऐ ओ औ अं अः क ख ग घ वै दक्षिणे भुजे ।
ङ च छ ज झ ञ ट ठ ड ढ वै वामके भुजे
ण त थ द ध न प फ ब भ दक्षजङ्घके न्यसेत् ।
म य र ल व श ष स ह ल क्ष वामजङ्घके
पञ्चधा सप्तधा वापि मूलविद्यां समुच्चरन् ।
शिर-आदि च पादान्तं न्यसेद् व्यापकमुत्तम्
नित्यन्यास इति प्रोक्तः सर्व एव सुखावहः ।
अथ ध्यानं प्रवक्ष्यामि भैरवाकारदायकम्
हिमालयगिरेर्मध्ये नगरे भैरवस्य च ।
दिव्यस्थाने महापीठे मणिमण्डपराजिते
नारदाद्यैर्मुनिश्रेष्ठैः संसेवितपदाम्बुजाम् ।
तत्र ध्यायेन्महाकालीमाद्यां भैरवन्दिताम्
नीलेन्दीवरवर्णिनीं युग्मापीनतुङ्गस्तनीम्
सुप्तश्रीहरिपीठराजितवतीं भीमां त्रिनेत्रां शिवाम् ।
मुद्राखड्गकरां वराभययुतां चित्राम्बरोद्दीपनीं
वन्दे चञ्चलचन्द्रकान्तमणिभिर्मालां दधानां पराम्
ध्यानान्तरं प्रवक्ष्यामि शृण गौरि गिरेः सुते ।
तत्र पीठे महादेवीं कालीं दानवसेविताम्
मेघाङ्गी विगताम्बरां शवशिरारूढां त्रिनेत्रां परां
कर्णालम्बितबाणयुग्मलसितां मुण्डावलीमण्डिताम् ।
वामाधोर्ध्व कराम्बुजे नरशिरःखड्गञ्च सव्येतरे ।
दानाभीतिविमुक्तकेशनिचया ध्येया सदा कालिका
अपरञ्च प्रवक्ष्यामि ध्यानं परमदुर्लभम् ।
कालीं करालवदनां घोरदंष्ट्रां त्रिलोचनाम्
स्मरेच्छरकरश्रेणिकृतकाञ्चीं दिगम्बराम् ।
वीरासनसमासीनां महाकालोपरि स्थिताम्
श्रुतिमूलसमाकीर्णां सृक्कणीं घोरनादिनीम् ।
मुण्डमालागलद्रक्तचर्चितां पीवरस्तनीम्
मदिरामोदितास्फालकम्पिताखिलमेदिनीम् ।
वामे खड्गं छिन्नमुण्डं धारिणीं दक्षिणे करे
वराभययुतां घोरवदनां लोलजिह्विकाम् ।
शकुन्तपक्षसंयुक्तवाणकर्णविभूषिताम्
शिवाभिर्घोररावाभिः सेवितां प्रलयोदिताम् ।
चण्डहासचण्डनादचण्डाख्यानैश्च भैरवैः
गृहीत्वा नरकङ्कालं जयशब्दपरायणैः ।
सेविताखिलसिद्धौघैर्मुनिभिः सेवितां पराम्
एषामन्यतमं ध्यानं कृत्वा च साधकोत्तमः ।
मानसैरुपचारैश्च सोऽहमात्मानमर्चयेत्
ततो देवीं समभ्यर्च्य अर्घ्यद्वयं निवेदयेत् ।
दशपञ्चारपद्मेषु पीठपूजां समाचरेत्
तत्रावाह्य महादेवीं नियमेन समाहितः ।
ततो ध्यायेन्महादेवीं कालिकां कुलभूषणाम्
महाकालं यजेद्द्यत्नात् पीठशक्तिं ततो यजेत् ।
कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम्
विप्रचित्तां तथा चैव वहिः षट्कोणके पुनः ।
उग्रामुग्रप्रभां दीप्तां तत्र त्रिकोणके पुनः
महाकालं यजेद्यत्नात्पीठशक्तिं ततोयजेत् ।
कालीं कृपालिनी कुल्लां कुरुकुल्लां विरोधिनीम्
विप्रचिंत्तां तथा चैव वहिः षट्कोणके पुनः ।
उग्रामुग्रेप्रभां दीप्तां तत्र त्रिकोणके पुनः
नीलां घनां वलाकाञ्च तथा परत्रिकोणके ।
मात्रां मुद्रां नित्याञ्चैव तथैवान्तस्त्रिकोणके
सर्वा श्यामा असिकरा मुण्डमालाविभूषणा ।
तर्जनीं वामहस्तेन धारयन्ती शुचिस्मिता
ब्राह्म्याद्यास्तथावाह्य यजेत् पूर्वदलक्रमात् ।
ब्राह्मी नारायणी चैव तथैव च महेश्वरी
चामुण्डापि च कौमारी तथा चैवात्र राजिता ।
वाराही च तथा पूज्या नारसिंही तथैव च
सर्वासामपि दातव्या बलिः पूजा तथैव च ।
अनुलेपनकं गन्धं धूपदीपौ च पानकम्
त्रिस्त्रिः पूजा च कर्तव्या सर्वासामपि साधकैः ।
पुनर्गन्धादिभिः पूज्य जप्त्वा शेषं समर्पयेत्
समयं चार्चयेद् देव्या योगिनीयोगिभिः सह ।
मधु मांसं तथा मत्स्यं यत् किञ्च कुलसाधनम्
शक्त्यै दत्वा ततः पश्चाद् गुरवे विनिवेदयेत् ।
तदनुज्ञां मूर्ध्नि कृत्वा शेषं चात्मनि योजयेत्
मधु मांसं विना यस्तु कुलपूजां समाचरेत् ।
जन्मान्तरसहस्रस्य सुकृतिस्तस्य नश्यति
तस्मात् सर्वप्रयत्नेन मकारपञ्चकैर्यजेत् ।
मधुना न विना मन्त्रं न मन्त्रेण विना मधु
परस्परविरोधेन कथं सिध्यन्ति साधकाः ।
कुण्डकुम्भकपालादिपदार्थानां निषेवणम्
सौरे तन्त्रे विरुद्धं च शैवे शाक्ते महाफलम् ।
ब्रह्माण्डखण्डसम्भूतमशेषरत्नसम्भवम्
श्वेतं पीतं सुगन्धं च निर्मलं भूरितेजसम् ।
अथवा कुम्भमध्येऽस्मिन् स्रवन्तं परमामृतम्
अन्तर्लयो बहिर्मध्ये त्रिकोणोदरवर्तिनि ।
तद् वाह्यं स्फाटिकोदारमणिचन्द्रं च मण्डलम्
तेनामृतेन तद्बाह्ये चिन्तयेत् परमामृतम् ।
आरम्भस्तरुणः प्रौढस्तदन्ते तरुणः पुनः
एभिरुल्लासवान् योगी स्वयं शिवमयो यतः ।
सर्वशेषे च देवेशि सामान्यार्घ्यं पदेऽर्पयेत्
विशेषार्घ्यं शिवे दत्वा देव्याः प्रियतमो भवेत् ।
साङ्गक्रियां पदे दत्वा सामान्यार्घ्यं शिवे भवेत्
इत्युक्त्वा स परामर्षी[र्शी] शक्तितोषणकारकः ।
भोगेन लभते मोक्षं बहुना जल्पितेन किम्
नियमः पुरुषे ज्ञेयो न योषित्सु कदाचन ।
यद्वा तद्वा येन केन सर्वदा सर्वतोऽपि च
योषितां ध्यानयोगेन शुद्धशेषं न संशयः ।
बालां वा यौवनोन्मत्तां वृद्धां वा युवतीं तथा
कुत्सितां वा महादुष्टां नमस्कृत्य विसर्जयेत् ।
तासां प्रहारो निन्दा च कौटिल्यमप्रियं तथा
सर्वथा न च कर्तव्यमन्यथा सिद्धिरोधकृत् ।
इति ते कथितं शेषमाचरेद् लक्षणं प्रिये ॥
नित्यपूजाक्रमं भक्त्या ज्ञात्वा सिद्धिमवाप्नुयात्
इति दक्षिणाम्नाये कङ्कालमालिनीतन्त्रे सार्धलक्षग्रन्थे महाकालीमन्त्रपूजाकथनं नाम चतुर्थः पटलः
पञ्चमः पटलः
श्रीपार्वती उवाच
कथयस्व महाभाग पुरश्चरणमुत्तमम् ।
कस्मिन् काले च कर्तव्यं कलौ सिद्धिदमद्भुतम्
श्री-ईश्वर उवाच
सामान्यतः प्रवक्ष्यामि पुरश्चर्याविधिं शृणु ।
नाशुभो विद्यते कालो नाशुभो विद्यते क्वचित्
न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि ।
कालाकालं महेशानि भ्रान्तिमात्रं न संशयः
प्रलये महति प्राप्ते सर्वं गच्छति ब्रह्मणि ।
तत्काले च महाभीमे को गच्छति शुभाशुभम्
कलिकाले महामाये भवन्त्यल्पायुषो जनाः ।
अनिर्दिष्टायुषः सर्वे कालचिन्ता कथं प्रिये
यत्कालं ब्रह्मचिन्तायां तत्कालं सफलं प्रिये ।
पुरश्चर्याविधौ देवि कालचिन्तां न चाचरेत्
नात्र शुद्ध्याद्यपेक्षास्ति न निषिद्धादिदूषणम् ।
दिक्कालनियमो नात्र स्थित्यादिनियमो नहि
न जपे कालनियमो नार्चादिष्वपि सुन्दरि ।
स्वेच्छाचारोऽत्र नियमो महामन्त्रस्य साधने
नाधर्मो विद्यते सुभ्रु प्रचरेद् हृष्टमानसः ।
जम्बूद्वीपे च वर्षे च कलौ भारतसंज्ञके
षण्मासादपि गिरिजे जपात् सिद्धिर्न संशयः ।
यन्नोक्तं सर्वतन्त्रेषु तदद्य कथयामि ते
सुभगे शृणु चार्वङ्गि कल्याणि कमलेक्षणे ।
कलौ च भारते वर्षे येन सिद्धिः प्रजायते
तत्सर्वं कथयाम्यद्य सावधानाऽवधारय ।
कलिकाले वरारोहे जपमात्रं प्रशस्यते
न तिथिर्न व्रतं होमं स्नानं सन्ध्या प्रशस्यते ।
पुरश्चर्यां विना देवि कलौ मन्त्रं न साधयेत्
सत्यत्रेतायुगं देवि द्वापरं सुखसाधनम् ।
कलिकाले दुराघर्षं सर्वदुःखमयं सदा
सारं हि सर्वतन्त्राणां महाकालीषु कथ्यते ।
प्रातःकृत्यादिकं कृत्वा ततः स्नानं समाचरेत्
कृत्वा सन्ध्यां तर्पणं च संक्षेपेण वरानने ।
पूजां चैव वरारोहे यस्य यत् पटलक्रमात्
पूजाद्वारे च विन्यस्य बलिं दद्याद् यथाक्रमम् ।
प्राणायामत्रयं चैव माषभक्तबलिं तथा
सङ्कल्प्योपास्य देवेशि बलिदानस्य साधकः ।
आदौ गणपतेर्बीजं गमित्येकाक्षरं विदुः
भूमौ विलिख्य गुप्तेन बलिं पिण्डोपमं ततः ।
ओं गं गणपतये स्वाहा इति मन्त्रेण साधकः
बलिमित्थं च सर्वत्र बीजोपरि प्रदापयेत् ।
ओं भैरवाय ततः स्वाहा भैरवाय बलिं ततः
ओं क्षं क्षेत्रपालाय स्वाहा क्षेत्रपालबलिं ततः ।
ओं यां योगिनिभ्यो नमः स्वाहा च योगिनीबलिम्
संपूज्य विधिना दद्यात् पूर्ववत् क्रमतो बलिम् ।
कथोपकथनं देवि त्यजेदत्र सुरालये
पूर्वे गणपतेर्भद्रे उत्तरे भैरवाय च ।
पश्चिमे क्षेत्रपालाय योगिन्यै दक्षिणे ददेत्
इन्द्रादिभ्यो बलिं दद्यादात्मकल्याणहेतवे ।
तदा सिद्धिमवाप्नोति चान्यथा हास्यकेवलम्
पलैकं माषकल्कञ्च पलमेकञ्च तण्डुलम् ।
अर्द्धतोलं घृतञ्चैव दधि अर्द्धार्द्धतोलकम्
शर्करैकतोलकेन बलिं दद्यात् सुसिद्धये ।
एतेषां सहयोगेन बलिर्भवति शाम्भवि
पूजास्थाने तथा भद्रे कूर्मबीजं लिखेत् ततः ।
चन्द्रबिन्दुमयं बीजं कूमबीजं इतीरितम्
स्थापयेदासनं तत्र पूजयेत् पटलक्रमात् ।
भूतशुद्धिं ततः कृत्वा प्राणायामं ततः परम्
अङ्गन्यासं करन्यासं मातृकान्यासमेव च ।
यः कुर्यान्मातृकान्यासं स शिवो नात्र संशयः
ततस्तु भीमतिलकं रुद्राक्षं धारयेत्ततः ।
रुद्राक्षस्य च माहात्म्यं भस्मनश्च शृणु प्रिये
आग्नेयमुच्यते भस्म दुग्धगोमयसम्भवम् ।
शोधयेन्मूलमन्त्रेण अष्टोत्तरशतं जपन्
शिरोदेशे ललाटे च स्कन्धयोर्भ्रूप्रदेशके ।
बाह्वोः पार्श्वद्वये देवि कण्ठदेशे हृदि प्रिये
श्रुतियुग्मे पृष्ठदेशे नाभौ तुण्डे महेश्वरि ।
कूर्पराद् बाहुपर्यन्तं कक्षे ग्रीवासु पार्वति
सर्वाङ्गे लेपयद् देवि किमन्यत् कथयामि ते ।
मध्यमानामिकाङ्गुल्यङ्गुष्ठेन तिलकं ततः
तिलकं तु त्रिरेखं स्याद् रेखाणां नवधा मतम् ।
पृथिव्यग्निस्तथा शक्तिः क्रियाशक्तिर्महेश्वरः
देवः प्रथमरेखायां भक्त्या ते परिकीर्तितः ।
न भस्मांश्चैव सुभगे द्वितीया चैव देवता
परमात्मा शिवो देवस्तृतीयायाश्च देवता ।
एतान्नित्यं नमस्कृत्य त्रिपुण्ड्रं धारयेद् यदि
महेश्वरव्रतमिदं कृत्वा सिद्धीश्वरो भवेत् ।
ब्रह्मचारी गृहस्थो वा वनस्थो वा यतिस्तथा
महापातकसंघातैर्मुच्यते सर्वपातकात् ।
तथाऽन्यक्षत्रविट्शूद्रस्त्रीहत्यादिषु पातकैः
वीरब्राह्मणहत्याभिर्मुच्यते सुभगेश्वरि ।
अमन्त्रेणापि यः कुर्याद् ज्ञात्वा च महिमोन्नतिम्
त्रिपुण्ड्रभालतिलको मुच्यते सर्वपातकैः ।
परद्रव्यापहरणं परदाराभिमर्षणम्
परनिन्दा परक्षेत्रहरणं परपीडनम् ।
असत्यवाक्यपैशुन्यं पारुष्यं देवविक्रयम्
कूटसाक्ष्यं व्रतत्यागं कैतवं नीचसेवनम् ।
गोमृगाणां हिरण्यस्य तिलकम्बलवाससाम्
अन्नधान्यकुशादीनां नीचेभ्योऽपि परिग्रहम् ।
दासीवेश्यासु कृष्णासु वृषलीसु नदीषु च
रजस्वलासु कन्यासु विधवासु च सङ्गमे ।
मांसचर्मरसादीनां लवणस्य च विक्रयम्
एवंरूपाण्यसंख्यानि पापानि विविधानि च ।
सद्य एव विनश्यन्ति त्रिदण्डस्य च धारणात्
शिवद्रव्यापहरणात् शिवनिन्दाञ्च कुत्रचित् ।
निन्दायाः शिवभक्तानां प्रायश्चित्तैर्न शुध्यति
त्रिपुण्ड्रं शिरसा धृत्वा तत्क्षणादेव शुध्यति ।
देवद्रव्यापहरणे ब्रह्मस्वहरणेन च
कुलान्यग्नय एवात्र विनश्यन्ति सदाशिवे ।
महादेवि महाभागे ब्राह्मणातिक्रमेण च
कुलरक्षा भवत्यस्मात् त्रिपुण्ड्रस्य च सेवनात् ।
रुद्राक्षं यस्य देहेषु ललाटेषु त्रिपुण्ड्रकम्
यदि स्यात् स च चाण्डालः सर्ववर्णोत्तमोत्तमः ।
यानि तीर्थानि लोकेऽस्मिन् गङ्गाद्याः सरितश्च याः
स्नातो भवति सर्वत्र यल्ललाटे त्रिपुण्ड्रकम् ।
सप्तकोटिमहामन्त्रा उपमन्त्रास्तथैव च
श्रीविष्णोः कोटिमन्त्राश्च कोटिमन्त्राः शिवस्य च ।
ते सर्वे तेन जप्ता च यो बिभर्ति त्रिपुण्ड्रकम्
सहस्रं पूर्वजातानां सहस्रं च जनिष्यताम् ।
स्ववंशजातमर्त्यानामुद्धरेद् यस्त्रिपुण्ड्रकृत्
षडैश्वर्यगुणोपेतः प्राप्य दिव्यवपुस्ततः ।
दिव्यं विमानमारुह्य दिव्यास्त्रशतसेवितः
विद्याधारणां सिद्धानां गन्धर्वाणां महौजसाम् ।
इन्द्रादिलोकपालानां लोकेषु च यथाक्रमम्
भुक्त्वा भोगान् सुविपुलं प्रदेशानां पुरेषु च ।
ब्रह्मणः पदमासाद्य तत्र कल्पायुतं वसेत्
विष्णुलोके च रमते आब्रह्मणः शतायुषम् ।
शिवलोकं ततः प्राप्य रमते कालमक्षयम्
शिवसायुज्यमाप्नोति न स भूयोऽपि जायते ।
शैवे विष्णौ च सौरे च गाणपत्येषु पार्वति
शक्तिरूपा च या गौः स्यात् तस्या गोमयसम्भवम् ।
भस्म तेषु महेशानि विशिष्टं परिकीर्तितम्
शैवापि च वरारोहे साद्गुण्यं वरवर्णिनि ।
शक्तौ प्रशस्तमोक्षं हि भस्म यौवनजीवने
अन्येषां गोकरीषेण भस्म शक्त्यादिकेष्वपि ।
सामान्यमेतत् सुश्रोणि विशेषं शृणु मत्प्रिये
करीषभस्मादनघे हौमं भस्म महाफलम् ।
हौमभस्मात् कोटिगुणं विष्णुहोमं महेश्वरि
शिवहोमं तद्द्विगुणं भस्मात्तु शृणु सुन्दरि ।
स्वीयेष्टदेवताहोममनन्तं प्रियवादिनि
तन्माहात्म्यमहं वक्तुं कल्पकोटिशतैरपि ।
न समर्थो योगमार्गो किमन्यत् कथयामि ते
होमः कलियुगे देवि जम्बूद्वीपस्य वर्षके ।
भारताख्ये महाकालि दशांशं क्रमतः शिवे
नास्तिकास्ते महामोहे केवलं होममाचरेत् ।
लक्षं वाप्ययुतं वापि सहस्रं वा वरानने
अष्टाधिकशतं वापि काम्यहोमं प्रकल्पयेत् ।
नित्यहोमं च कर्तव्यं शक्त्या च परमेश्वरि
प्रजपेन्नित्यपूजायामष्टोत्तरसहस्रकम् ।
अष्टोत्तरशतं वापि अष्टपञ्चाशतं चरेत्
अष्टात्रिंशत्संख्यकं वा अष्टाविंशतिमेव च ।
अष्टादशं द्वादशं च दशाष्टौ च विधानतः
होमं चैव महेशानि एतत्संख्याविधानतः ।
एवं सर्वत्र देवेशि नित्यकर्ममहोत्सवः
इत्थं प्रकारं यद् भस्म अङ्गे संलिप्य साधकः ।
मालाञ्चैव महेशानि नरास्थ्यद्भुतपूजिताम्
गले दद्याद् वरारोहे शक्तश्चेद् दिव्यनायिके ।
रुद्राक्षमाल्यं संधार्यं ततः शृणु मम प्रिये
एवं कृत्वा त्वया सार्द्धं पितृभूमौ स्थितं मया ।
सुभगे शृणु सुश्रोणि रुद्राक्षं परमं पदम्
सर्वपापक्षयकरं रुद्राक्षं ब्रह्मणीश्वरि ।
अभुक्तो वाऽपि भुक्तो वा नीचान्नीचतरोऽपि वा
रुद्राक्षं धारयेद् यस्तु मुच्यते सर्वपातकात् ।
रुद्राक्षधारणं पुण्यं कैवल्यसदृशं भवेत्
महाव्रतमिदं पुण्यं त्रिकोटितीर्थसंयुतम् ।
सहस्रं धारयेद् यस्तु रुद्राक्षाणां शिचिस्मिते
तं नमन्ति सुराः सर्वे यथा रुद्रस्तथैव सः ।
अभावे तु सहस्रस्य बाह्वोः षोडश षोडश
एकं शिखायां कवचयोर्द्वादश द्वादश क्रमात् ।
द्वात्रिंशत् कण्ठदेशे तु चत्वारिंशत् शिरे तथा
उभयोः कर्णयोः षट् षड् हृदि अष्टोत्तरं शतम् ।
यो धारयति रुद्राक्षान् रुद्रवत् स च पूजितः
मुक्ताप्रवालस्फटिकैः सूर्येन्दुमणिकाञ्चनैः ।
समेतान् धारयेद् यस्तु रुद्राक्षान् शिव एव सः
केवलानपि रुद्राक्षान् यो बिभर्ति वरानने ।
तं न स्पृशन्ति पापानि तिमिरानीव भास्करम्
रुद्राक्षमालया जप्तो मन्त्रोऽनन्तफलप्रदः ।
यस्याङ्गे नास्ति रुद्राक्ष एकोऽपि वरवर्णिनि
तस्य जन्म निरर्थं स्यात् त्रिपुण्ड्ररहितं यथा ।
रुद्राक्षं मस्तके बध्वा शिरःस्नानं करोति यः
गङ्गास्नानफलं तस्य जायते नात्र संशयः ।
रुद्राक्षं पूजयेद् यस्तु विना तोयाभिषेचनैः
यत्फलं शिवपूजायां तदेवाप्नोति निश्चितम् ।
एकवक्त्रैः पञ्चवक्त्रैस्त्रयोदशमुखैस्तथा
चतुर्दशमुखैर्जप्त्वा सर्वसिद्धिः प्रजायते ।
किं बहूक्त्या वरारोहे कृत्वा गतिकमद्भुतम्
रुद्राक्षं यत्नतो धृत्वा शिव एव स साधकः ।
भस्मना तिलकं कृत्वा पश्चाद् रुद्राक्षधारणम्
प्राणायामं ततः कृत्वा संकल्प्योपास्य साधकः ।
मूलमन्त्रसिद्धिकामः कुर्याच्च वर्णपूजनम्
षट्त्रिंशद्वर्णमालार्चा विस्तारोन्नतिशालिनी ।
विलिप्य चन्दनं शुद्धं सर्ववर्णात्मके घटे
सर्वावयवसंयुक्तान् विलिख्य मातृकाक्षरान् ।
गुरुं संपूज्य विधिवद् घटस्थापनमाचरेत्
पञ्चाशमातृकावर्णान् पूजयेद् विभवक्रमात् ।
पञ्चोपचारैः संपूज्य ध्यानं कृत्वा प्रसन्नधीः
शुक्लविद्युत्प्रतीकाशां द्विभुजां लोललोचनाम् ।
कृष्णाम्बरपरिधानां शुक्लवस्त्रोत्तरीयिणीम्
नानाभरणभूषाढ्यां सिन्दूरतिलकोज्ज्वलाम् ।
कटाक्षविशिखोद्दीप्तामज्जनाञ्चितलोचनाम्
मन्त्रसिद्धिप्रदां नित्यां ध्यायेत् सत्त्वस्वरूपिणीम् ।
रक्तविद्युत्प्रतीकाशां द्विभुजां लोललोचनाम्
शुक्लाम्बरपरीधानां कृष्णवस्त्रोत्तरीयिणीम् ।
नानाभरणभूषाढ्यां सिन्दूरतिलकोज्ज्वलाम्
कटाक्षविशिखोद्दीप्तामञ्जनाञ्चितलोचनाम् ।
मन्त्रसिद्धिप्रदां नित्यां ध्यायेद् रजःस्वरूपिणीम्
भ्रमद्भ्रमरसंकाशां द्विभुजां लोललोचनाम् ।
रक्तवस्त्रपरीधानां कृष्णवस्त्रोत्तरीयिणीम्
नानाभरणभूषाढ्यां सिन्दूरतिलकोज्ज्वलाम् ।
कटाक्षविशिखोद्दीप्तां भ्रूलतापरिसेविताम्
मन्त्रसिद्धिप्रदां नित्यां ध्यायेत् तमः स्वरूपिणीम् ।
ध्यात्वा पाद्यादिकं दत्वा त्रिगुणां पूजयेत् क्रमात्
ओं ऊङ्काररूपिण्यै नमः पाद्यैः प्रपूजयेत् ।
आदिध्यानेन सुभगे यजेत् सत्त्वमयीं पराम्
ओं कङ्काररूपिण्यै नमः पाद्यादिभिर्यजेत् ।
क्रमात् सप्तदशार्णं हि द्वितीयं ध्यानमाचरन्
ओं दंकाररूपिण्यै नमः पाद्यादिभिर्यजेत् ।
क्रमात् सप्तदशार्णं हि तृतीयं ध्यानमाचरन्
एवं क्रमेण पञ्चाशद्ववर्णान् हि परिपूजयेत् ।
इति ते कथितं भद्रे पञ्चाशद्वर्णपूजनम्
वर्णानां पूजनाद् भद्रे देवपूजा प्रजायते ।
अणिमाद्यष्टसिद्धीनां पूजा स्याद् वर्णपूजनात्
सप्तकोटिमहाविद्या उपविद्या तथैव च ।
श्रीविष्णोः कोटिमन्त्राश्च कोटिमन्त्राः शिवस्य च
पूजनात् पूजितं सर्वं वर्णानां सिद्धिदायकम् ।
प्रथमं प्रणवं दत्वा सहस्रं कुण्डलीमुखे
मूलविद्यां ततो भद्रे सहस्रयुगलं जपेत् ।
ततस्तु सुभगे मातर्जपेच्च दीपिनीं पराम्
आदौ गायत्रीमुच्चार्य मूलमन्त्रं ततः परम् ।
प्रणवं च ततो भीमे भयानां सहयोगतः
सदैवैनां महेशानि दीपिनीं परिकीर्तिताम् ।
एतामपि सहस्रं च प्रजपेत् कुण्डलीमुखे
प्रणवादौ जपेद् विद्यां गायत्र्यां दीपिनीं पराम् ।
गायत्रीं शृणु वक्ष्यामि अ। ङ। म। म। ङ। न। प्रिये
षडक्षरमिदं मन्त्रं गायत्री समुदीरितम् ।
अस्याश्च फलमाप्नोति तदैव वरवर्णिनि
स्मरणं कुण्डलीमध्ये मनसा उन्मनी सह ।
सहस्रारे कर्णिकायां चन्द्रमण्डलमध्यगाम्
सर्वसंकल्परहिता कला सप्तदशी भवेत् ।
उन्मनीनाम तस्य हि भवपाशनिकृन्तनी
उन्मन्या सहितो योगी न योगी उन्मनीं विना ।
बुद्धिमङ्कुशसंयुक्तामुन्मनीं कुसुमान्विताम्
उन्मनीञ्च मनोवर्णं स्मरणात् सिद्धिदायिनीम् ।
स्मरेत् कुण्डलीयोगादमृतं रक्तरोचिषम् ।
उन्मनीकुसुमं तत्तु ज्ञेयं परमदुर्लभम्
हंसं नित्यमनन्तमध्यमगुणं स्वाधारतो निर्गतां
शक्तिं कुण्डलिनी समस्तजननी हस्ते गृहीत्वा च ताम् ।
कान्ता स्वाश्रममर्ककोटिरुचिरा नामामृतोल्लासिनी
देवीं तां गमनागमैः स्थिरमतिर्ध्यायेद् जगन्मोहिनीम्
इति ते कथितं ध्यानं मृत्युञ्जयमनामयम् ।
विना मनोन्मनीमन्त्रं विना ध्यानं जपं वृथा
ततः संकल्प्य ध्यात्वैव मूलमन्त्रस्य सिद्धये ।
गायत्रीमयुतं जप्त्वा तदर्धं प्रणवं जपेत्
दीपनं प्रणवस्यार्धं जपेत् पञ्चदिनावधि ।
शूद्राणां प्रणवं देवि चतुर्दशस्वरं प्रिये
नादबिन्दुसमायुक्तं स्त्रीणां चैव वरानने ।
मनौ स्वाहा च या देवी शूद्रोच्चार्या न संशयः
होमकार्ये महेशानि शूद्रः स्वाहां न चोच्चरेत् ।
मन्त्रोऽप्यूहो नास्ति शूद्रे विषबीजं विना प्रिये
गणपत्याद्यौ यद् दत्तं बलिदानं दिने दिने ।
तेनैव बलिना भद्रे हविष्यं सम्मतं सदा
शेष इष्टं प्रपूज्याथ हविष्याशी स्त्रिया सह ।
जापकस्य च यन्मन्त्रमेकवर्णं ततः प्रिये
तस्य पत्नी साभिरूपा प्रयतं प्रजपेत् यदि ।
तदा फलमवाप्नोति साधकः शक्तिसङ्गतः
शक्तिहीने भवेद् दुःखं कोटिपुरश्चरणेन किम् ।
साधकश्च हविष्याशी साधिका तद्विवर्जिता
यथेच्छाभोजनं तस्यास्ताम्बूलपूरितानना ।
नानाभरणवेषाढ्या धूपामोदनमोदिता
शिवहीना तु या नारी दूरे तां परिवर्जयेत् ।
श्रीदेवी उवाच
गायत्रीजपकाले तु साधिका किं जपेत् प्रभो
श्रीशिव उवाच
श्लोक नो. २९, ३०अ मिस्सिन्ग्
गायत्रीमजपाविद्यां प्रजपेद् यदि साधिका ।
पूर्वोक्तेन विधानेन ध्यात्वा कृत्वा च पूजनम्
मानसं परमेशानि जपेत् तद्गतमानसा ।
ततः षष्ठदिनं प्राप्य प्रातः स्नानं समाचरेत्
कुङ्कुमागुरुपङ्केन कस्तूरीचन्दनेन च ।
कूर्मबीजं लिखेद् भद्रे अथवा श्वेतचन्दनैः
तत्रासनं समास्थाय विशेत् साधकसन्निधौ ।
एवं विधाय सा साध्वी साधकोऽपि प्रसन्नधीः
संकल्प्य विधिना भक्त्या मूलमन्त्रस्य सिद्धये ।
लक्षं जपेत् पुरश्चर्याविधौ विधिविधानतः
तद्विधानं वदामीशे श्रुत्वा त्वमवधारय ।
ओं ओं क। हु। भ। स। देवि प्रातः स्नानोत्तर परम्
दशधा प्रजपेन्मन्त्रं जिह्वाशोधनकारकम् ।
ततश्च प्रजपेन्मन्त्रं मौनी मध्यन्दिनावधि
तस्य वामे तस्य पत्नी तस्य एकाक्षरं जपेत् ।
साधकः शिवरूपश्च साधिका शिवरूपिणी
अन्योन्यचिन्तनाच्चैव देवत्वं जायते ध्रुवम् ।
आदावन्ते च प्रणवं दत्वा मन्त्रं जपेत् सुधीः
दशधा वा सप्तदशं जप्त्वा मन्त्रं जपेत्तु सः ।
प्रातःकालं समारभ्य जपेन्मध्यन्दिनावधि
एवं हि प्रत्यहं कुर्याद् यावल्लक्षं समाप्यते ।
द्वितीयप्रहरादूर्ध्वं नित्यपूजादिकं चरेत्
स्नानं कृत्वा ततो धीमान् हविष्यं बुभुजेत् ततः ।
तत्पत्नी शक्तिरूपा च पातिव्रत्यपरायणा
तस्याश्चेच्छा भवेद् येषु बुभुजेत् पानभूषिता ।
दशदण्डगते रात्रौ शययायां प्रजपेन्मनुम्
ताम्बूलपूरितमुखो धूपामोदेन मोदितः ।
वामे श्रीशक्तिरूपा च जपेच्च साधकाक्षरम्
दक्षिणे साधकः सिद्धो दिवामाने जपेन्मनुम् ।
आद्यन्तगोपनं कृत्वा प्रत्यहं प्रजपेद् यदि
ततः सिद्धिमवाप्नोति प्रकाशाद्धानिरेव च ।
मातृकापुटितं कृत्वा चन्द्रबिन्दुसमन्वितम्
प्रत्यहं प्रजपेन्मन्त्रमनुलोमविलोमतः ।
जपादौ सुभगे प्रौढे प्रत्यहं प्रजपेन्मनुम्
तेन हे सुभगे मातः पुरश्चरणमीरितम् ।
समाप्ते पुरश्चरणे गुरुदेवं प्रपूजयेत्
तदा सिद्धो भवेन्मन्त्रो गुरुदेवस्य पूजनात् ।
जम्बूद्वीपस्य वर्षे च कलिकाले च भारते
दशांशं वर्जयेद् भद्रे नास्ति होमः कदाचन ।
दशांशं क्रमतो देवि पञ्चाङ्गविधिना कलौ
नाचरेत् कुत्रचिन्मन्त्री पुरश्चर्याविधिं शुभे ।
भ्रमाद् यदि महेशानि कारयेत् साधकोत्तमः
सिद्धिहानिर्महानिष्टं जायते भारतेऽनघ ।
दशांशं जायते पूर्णं गुरुदेवस्य पूजनात्
अत एव महेशानि भक्त्या गुरुपदं यजेत् ।
दक्षिणां गुरवे दद्यात् सुवर्णं वाससान्वितम्
धान्यं तिलं तथा दद्याद् धेनुं वापि पयस्विनीम् ।
अन्यथा विफलं सर्वं कोटिपुरश्चरेण किम्
कुमारीभोजनं सान्तं सर्वसिद्धिप्रदायकम् ।
कुमारी भोजिता येन त्रैलोक्यं तेन भोजितम्
पूजनाद् दर्शनाद् तस्या रमणात् स्पर्शनात् प्रिये ।
सर्वं सम्पूर्णमायाति साधको भक्तिमानसः
पुरश्चरणसम्पन्नो वीरसाधनमाचरेत् ।
यस्यानुष्ठानमात्रेण मन्दभाग्योऽपि सिध्यति
पुत्रदारधनस्नेहलोभमोहविवर्जितः ।
मन्त्रं वा साधयिष्यामि देहं वा पातयाम्यहम्
एवं प्रतिज्ञामासाद्य गुरुमाराध्य यत्नतः ।
बलिदानादिना सर्वं मानसैः परिपूज्य च
शरत्काले महापूजा क्रियते या च वार्षिकी ।
तस्मिन् पक्षे विशेषेण पुरश्चरणमाचरेत्
देव्या विधिं समारभ्य यावत् स्यान्नवमी तिथिः ।
प्रत्यहं प्रजपेन्मन्त्रं सहस्रं भक्तिभावतः
होमपूजादिकं चैव यथाशक्त्या विधिं चरेत् ।
सप्तम्यादौ विशेषेण पूजयेदिष्टदेवताम्
अष्टम्यादि नवम्यान्तमुपवासपरो भवेत् ।
अष्टमी-नवमीरात्रौ पूजां कुर्यात् महोत्सवम्
इत्थं जपादिकं कुर्यात् साधकः स्थिरमानसः ।
शक्त्या सह वरारोहे कुमारीपूजनं चरेत्
दशम्यां पारणं कुर्यान्मत्स्यमांसादिभिः प्रिये ।
एवं पुरस्क्रियां कृत्वा साधकः शिवतां व्रजेत्
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
शरत्काले महादेव्या बोधेन च महोत्सवे
प्रतिपत्तिथिमारभ्य नवमान्तं मम प्रिये ।
पूर्वोक्तविधिना मन्त्री कुर्यात् पुरस्क्रियां धिया
अथवान्य प्रकारेण पुरश्चरणमुच्यते ।
शरत्काले चतुर्थ्यादि नवम्यन्तं सहस्रकम्
जपित्वा प्रत्यहं भद्रे सप्तम्यादौ प्रपूजयेत् ।
तथा सर्वोपचारैस्तु वस्त्रालङ्कारभूषणैः
महिषैश्छागलैर्मेषैश्चतुर्वर्गं लभेन्नरः ।
अष्टमीसन्धिवेलायां तेनैन विधिना पशुम्
छित्त्वा तस्योपरि स्थित्वा मध्यनक्तं जपेत् सुधीः ।
विभीर्ध्यानपरो भूत्वा वांछितां सिद्धिमाप्नुयात्
नवम्यां नियतं जप्त्वा पूजयित्वा यथाविधि ।
गुरवे दक्षिणां दद्याद् दशम्यां पारयेत्ततः
एवं कृत्वा पुरश्चर्यां किं न साधयति साधकः ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते
अष्टमीसन्धिवेलायामष्टोत्तरलतागृहे ।
प्रविश्य मन्त्री विधिवत् तासामभ्यर्च्य यत्नतः
पूर्वोक्तकल्पमासाद्य पूजादिकमथाचरन् ।
केवलं कामदेवोऽसौ जपेदष्टोत्तरं शतम्
महासिद्धो भवेत् सद्यो लतादर्शनपूजनात् ।
लतागृहं शृणु प्रौढे कामकौतुकलालसे
अष्टौ संख्या अतिक्रम्य नवसंख्यादिसांखिकाम् ।
यौवनादिगुणैर्युक्ताः साधिकाः कामगर्विताः
स्त्रियो यत्र गृहे सन्ति तद्गृहं हि लतागृहम् ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते
पूर्वोक्तानि महेशानि हेमन्तादि-ऋतौ चरेत् ।
साधकः पूर्णतां प्राप्य सर्वभोगेश्वरो भवेत्
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
चतुर्दशीं समारभ्य यावदन्या चतुर्दशी
तावज्जप्ते महेशानि मन्त्री वांछितमाप्नुयात् ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते
कृष्णाष्टम्यां समारभ्य यावत् कृष्णाष्टमी भवेत् ।
सहस्रसंख्याजप्ते तु पुरश्चरणमिष्यते
यत् कृत्वा परमेशानि सिद्धिः स्यान्नत्र संशयः ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते
कृष्णां चतुर्दशीं प्राप्य नवम्यन्तं महोत्सवे ।
अष्टमी-नवमीरात्रौ पूजां कुर्याद् विशेषतः
दशम्यां पारणं कुर्यान्मत्स्यमांसादिभिः प्रिये ।
षट्सहस्रंजपेन्नित्यं भक्तिभावपरायणः
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
अष्टम्याञ्च चतुर्दश्यां नवम्यां वीरवन्दिते
सूर्योदयं समारभ्य यावत् सूर्योदयो भवेत् ।
तावज्जप्ते निरातङ्कः सर्वसिद्धीश्वरो भवेत्
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
अष्टम्याञ्च चतुर्दश्यां पक्षयोरुभयोरपि
अस्तमारभ्य सूर्यस्य यावत् सूर्यास्तमं भवेत् ।
तावज्जप्तो निरातंकः सर्वसिद्धीश्वरो भवेत्
अथवा निर्जनस्थस्य अस्थिशययासनेन च ।
उदयास्तं दिवा जप्त्वा सर्वसिद्धीश्वरो भवेत्
तेनासनेन वा देवी अस्तमारभ्य भस्वतः ।
जपित्वा चास्तपर्यन्तं साधकः सिद्धिमाप्नुयात्
जपान्ते पूजयित्वा च गुरवे दक्षिणां ददेत् ।
अथवान्यप्रकारेण पुरश्चरणमुच्यते
सूर्योदयं समारभ्य घटिका च दशक्रमात् ।
ऋतवः स्युर्वसन्ताद्या अहोरात्रं दिने दिने
वसन्तो ग्रीष्म वर्षा च शरधेमन्तशिशिराः ।
वसन्तश्चैव पूर्वाह्णे ग्रीष्मो मध्यन्दिनं तथा
अपराह्ने प्रावृषः स्युः प्रदोषे शरदः स्मृताः ।
अर्द्धरात्रौ तु हेमन्तः सेषे च शिशिरः स्मृतः
सूर्योदयं समारभ्य वसन्तान्तं समाहितः ।
तावज्जप्ते महेशानि पुरश्चर्या हि सिध्यति
ततः पूजादिकं कृत्वा शक्तियुक्तश्च साधकः ।
गुरवे दक्षिणां दत्वा सर्वसिद्धीश्वरो भवेत्
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
ग्रीष्मादिषु महेशानि पञ्चस्वर्त्तुषु साधकः
पृथग्जप्त्वा वरारोहे पुरश्चर्या हि सिध्यति ।
पूर्वोक्तविधिना सर्वं कर्तव्यं वीरवन्दिते
ऋतौ जप्त्वा समस्ते तु शक्तितः पूजयेत् पराम् ।
एवमाचर्यकृत्यं वै धनानामीश्वरो भवेत्
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
कुमारीपूजनादेव पुरश्चर्याविधिः स्मृतः
अथवान्यप्रकारेण पुरश्चरणमुच्यते ।
गुरुमानीय संस्थाप्य देववत् पूजयेद् विभुम्
वस्त्रालंकारभूषाद्यैः स्वयं सन्तोषयेद् गुरुम् ।
तत्सुतं तत्सुतं वापि तत्पत्नीञ्च विशेषतः
पूजयित्वा मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् ।
गुरुसन्तोषमात्रेण दुष्टमन्त्रोऽपि सिध्यति
मासि मासि च मन्त्रस्य संस्कारान् दशधा चरेत् ।
एवं क्रमविधानेन कृत्वा नित्यं हि साधकः
षण्मासाभ्यन्तरे वापि एकवर्षान्तरेऽपि वा ।
साधनैः सुभगे भद्रे यदि सिद्धिर्न जायते
उपायास्तत्र कर्तव्याः सत्यमेतं मतं शृणु ।
ख्यातिर्वाहनभूषादिलाभः सुचिरजीविता
नृपाणां तत्कुलानाञ्च वात्सल्यं लोकवश्यता ।
महदैश्वर्यनित्यञ्च पुत्रपौत्रादिसम्पदः
अधमा सिद्धयो भद्रे षण्मासाभ्यन्तरे यदि ।
एकवर्षान्तरे वापि सन्ति शङ्करवन्दिते
साधकाश्च तदा सिद्धा नात्र कार्या विचारणा ।
अत्रोपायान् प्रवक्ष्यामि यदि सिद्धिविलम्बनम्
भ्रामणं बोधनं वश्यं पाडनञ्च तथा प्रिये ।
पोषणं तोषणञ्चैव दहनञ्च ततः परम्
उपायाः सन्ति सप्तैते कृत्वा त्रेतायुगेषु च ।
द्वापरे च तथा भद्रे उपायं सप्तमं स्मृतम्
न प्रशस्तं कलौ भद्रे सप्तशंकरभाषितम् ।
डाकिन्यादियुतं कृत्वा लक्षञ्च प्रजपेन्मनुम्
डाकिनीपुटितं कृत्वा यदि सिद्धिर्न जायते ।
राकिणीपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम्
राकिणीपुटितं कृत्वा यदि सिद्धिर्न जायते ।
लाकिनीपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम्
लाकिनीपुटितं कृत्वा यदि सिद्धिर्न जायते ।
काकिनीपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम्
काकिनीपुटितं कृत्वा यदि सिद्धिर्न जायते ।
शाकिनीपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम्
शाकिनीपुटितं कृत्वा जपेल्लक्षं समाहितः ।
तदा सिद्धो भवेन्मन्त्रो नात्र कार्या विचारणा
लाकिनीपुटितं कृत्वा यदि सिद्धिर्न जायते ।
पुटितं सत्त्वरुपिण्या लक्षञ्च प्रजपेन्मनुम्
पुटितं सत्त्वरूपिण्या यदि सिद्धिर्न जायते ।
ककारादिक्षकारान्ता मातृका वर्णरूपिणी
तथा संपुटितं कृत्वा लक्षञ्च प्रजपेन्मनुम् ।
छिन्नविद्यादयो मन्त्रास्तन्त्रे तन्त्रे निरूपिताः
एते ते सिद्धिमायान्ति मातृकावर्णभावतः ।
निश्चितं मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा
वर्णमयी पुटीकृत्य यदि सिद्धिर्न जायते ।
ततो गुरुपुटीकृत्य लक्षञ्च संजपेन्मनुम्
गुरुदेवप्रसादेन अतुलां सिद्धिमाप्नुयात् ।
श्रीपार्वती उवाच
आदिदेव महादेव आद्यन्तगोपनं वद ।
यदि नो कथ्यते देव विमुञ्चामि तदा तनुम्
श्री-ईश्वर उवाच
आद्यन्तगोपनं सूक्ष्मं कथं तत् कथयाम्यहम् ।
जम्बूद्वीपस्य वर्षेषु कलौ लोकाधमाः स्मृताः
गुरुभक्तिविहीनाश्च भविष्यन्ति गृहे गृहे ।
दुष्क्रियायां रताः सर्वे परमज्ञानवर्जिताः
लौकिकाचारिणः सर्वे भविष्यन्ति गृहे गृहे ।
विना शब्दपरिज्ञानं मन्त्रदाता द्विजो भवेत्
मम सः श्रीमतीमन्त्रः संसारोद्भवबन्धनात् ।
कथ्यते देवदेवेशि मन्त्रः सर्वत्र सिद्धिदः ॥
जायते तेन मे शङ्का कथं मे प्राणवल्लभे
श्रीभैरवी उवाच
भूतनाथ महाभाग हृदये मे कृपां कुरु ।
कथ्यतं कथ्यतां देव यतस्ते सेविका वयम्
श्री-ईश्वर उवाच
सुभगे शृणु मे मातः कृपया कथयामि ते ।
प्रथमे डाकिनी बीजं युवती षोडशाक्षरम्
अ। आ। इ। ई। उ। ऊ। ऋ। ॠ। ऌ। ॡ। ए। ऐ। ओ। औ। अ। अ।ः
डाकिनी देवदेवस्य ईरितं बीजमुत्तमम् ।
आद्यन्तपुटितं कृत्वा मन्त्रं लक्षं जपेद् यदि
तदा सिद्धो वरारोहे नान्यथा वचनं मम ।
अधुना संप्रवक्ष्यामि डाकिनीबीजमद्भुतम् ॥
एकोच्चारणमात्रेण सत्यत्रेतायुगे भवेत्
क। ख। ग। घ। ङ। च। छ। ज। झ। ञ। दश तथा महेश्वरि ।
इति ते कथितं भक्त्या राकिनीबीजमद्भुतम्
ट। ठ। ड। ढ। ण। त। थ। द। ध। न। दशकं परमेश्वरि ।
इति ते कथितं भक्त्या लाकिनीबीजनिर्णयम्
अधुना संप्रवक्ष्यामि काकिनीं सिद्धिदायिनीम् ।
प। फ। ब। भ। म। य। र। ल। आर्णः श्रीवीरवन्दिते
कथितं काकिनीबीजं चतुर्वर्गफलप्रदम् ।
अधुना संप्रवक्ष्यामि सुभगे शृणु शाकिनीम्
व। श। ष। स। चतुर्वर्णं वाञ्छितार्थप्रदं प्रिये ।
इदं तु शाकिनीबीजं चतुर्वर्गप्रदायकम्
अधुना संप्रवक्ष्यामि सुभगे शृणु हाकिनीम् ।
ह। ल। क्ष। हाकिनीबीजं क्षिप्रं सिद्धिप्रदायकम्
सत्त्वस्वरूपिणीबीजं शृणु सिद्धिप्रदायकम् ।
अ। आ। इ। ई। उ। ऊ। ऋ। ॠ। ऌ। ॡ। ए। ऐ। ओ। औ। अ। अ।ः
षोडशार्णमहाबीजं सत्त्वमध्ये प्रकीर्तितम् ।
रजःस्वरूपिणीबीजं शीघ्रसिद्धिप्रदायकम्
क। ख। ग। घ। ङ। च। छ। ज। झ। ञ। ट। ठ। ड। ढ। ण। त। थ। ।
इदं सप्तदर्शार्णं हि रजोमध्ये प्रकीर्तितम्
रम्यं तमोमयीबीजमधुना ते वदाम्यहम् ।
द। ध। न। प। फ। ब। भ। म। य। र। ल। व। श। ष। स। ह। क्ष।
इदं सप्तदशार्णं हि तमोमध्ये उदाहृतम् ।
अधुना संप्रवक्ष्यामि मातृकाबीजमद्भुतम्
अ। आ। इ। ई। उ। ऊ। ऋ। ॠ। ऌ। ॡ। ए। ऐ। ओ। औ। अ। अ।ः
क। ख। ग। घ। ङ। च। छ। ज। झ। ञ। ट। ठ। ड। ढ। ण। त। थ। द। ध। न।
प। फ। ब। भ। म। य। र। ल। व। श। ष। स। ह। क्ष।
इदं पञ्चाशदर्णं हि मातृकायाः प्रकीर्तितम् ।
अनुलोमविलोमेन पुटीकृत्य जपं चरेत्
लक्षं यावन्महेशानि ततः सिद्धो न संशयः ।
गुरुबीजं समुद्दिष्टं गुरुरित्यक्षरद्वयम्
डाकिनी राकिनी देवि लाकिनी काकिनी ततः ।
शाकिनी हाहिनी संज्ञा सत्त्वरूपा ततः
रजोरूपा तमोरूपा मातृकारूपिणी गुरुः ।
एतास्तु परमेशानि मूर्तिः पञ्चाशदक्षरम्
डाकिनी च महादेवि अणिमासिद्धिदायिनी ।
राकिणी लघिमासिद्धिदायिनी लाकिनी तथा
प्राप्तिसिद्धिदायिनी च काकिनी काम्यदायिनी ।
शाकिनी महिमासिद्धिदायिनी हाकिनी ततः
कामावशायितासिद्धिं जपादेव प्रयच्छति ।
सत्त्वरूपा तमोरूपा रजोरूपा तथैव च
एताश्चैव महादेवि चतुर्वर्गं ददन्ति हि ।
पञ्चाशद्वर्णरूपा या निर्वाणं सा ददाति हि
गुरुर्ददाति सकलं ब्रह्माण्डज्ञानमव्ययम् ।
इति ते कथितं भक्त्या डाकिन्यादिविनिर्णयम्
डाकीनी राकिणी चैव लाकिनी काकिनी तथा ।
शाकिनी लाकिनी देवि वर्णानामत्र देवताः
गुणानां सिद्धिवर्णानां षडेता अधिदेवताः ।
डाकिन्यादेर्विना ज्ञानं वर्णे वर्णे पृथक् पृथक्
अज्ञानात् प्रजपेन्मन्त्रं डाकिन्यादेश्च भक्षणम् ।
विना वर्णपरिज्ञानं कोटिपुरश्चरणेन किम्
तस्य सर्वं भवेद् दुःखमरण्ये रोदनं यथा ।
शृणु ध्यानं प्रवक्ष्यामि डाकिनीनां शुचिस्मिते
ध्यानानि यथा -
शरच्चन्द्रप्रतीकाशां द्विभुजां लोललोचनाम् ।
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम्
कृष्णाम्बरपरीधानां नानालङ्कारभूषिताम् ।
ध्यायेच्छशिमुखीं नित्यां डाकिनीमन्त्रसिद्धये
अरुणादित्यसंकाशां द्विभुजां मृगलोचनाम् ।
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम्
शुक्लाम्बरपरीधानां नानाभरणभूषिताम् ।
ध्ययेच्छशिमुखीं नित्यां राकिनीमन्त्रसिद्धये
सिन्दूरवर्णसंकाशां द्विभुजां खञ्जनेक्षणाम् ।
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम्
शुक्लाम्बरपरीधानां नानालङ्कारभूषिताम् ।
ध्यायेच्छशिमुखीं नित्यां लाकिनीमन्त्रसिद्धये
यवयावकसंकाशां द्विभुजां कञ्जनेक्षणाम् ।
सिन्दूरतिलकोद्दीप्तामञ्जनाञ्चितलोचनाम्
शुक्लाम्बरपरिधानां नानाभरणभूषिताम् ।
ध्यायेच्छशिमुखीं नित्यां काकिनीमन्त्रसिद्धये
शुक्लज्योतिप्रतीकाशां द्विभुजां मृगलोचनाम् ।
सिन्दूरतिलकोद्दीप्ताम् अञ्जनाञ्चितलोचनाम्
कृष्णाम्बरपरीधानां नीनालङ्कारभूषिताम् ।
ध्यायेच्छशिमुखीं नित्यां शाकिनीमन्त्रसिद्धये
शुक्लकृष्णारुणाभासां द्विभूजां लोललोचनाम् ।
भ्रमद्भ्रमरसंकाशां कुटिलालककुन्तलाम्
सिन्दूरतिलकोद्दीप्ताम् अञ्जनाञ्चितलोचनाम् ।
रक्तवस्त्रपरीधानां शुक्लवस्त्रोत्तरीयिणीम् ॥
ध्यायेच्छशिमुखीं नित्यां हाकिनीमन्त्रसिद्धये
त्रिगुणायाश्च देवेशि ध्यानं पूर्वमुदाहृतम् ।
अधुना संप्रवक्ष्यामि मातृकाध्यानमुत्तमम्
पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षस्थलीम् ।
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्याञ्च हस्ताम्बुजै-
र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये
गुरोरपि महेशानि पूर्वोक्तध्यानमाचरन् ॥
पाद्यादिभिर्वरारोहे संपूज्य प्रजपेन्मनुम् ।
पूर्वोक्तो यस्य यद्बीजं यन्मन्त्रस्तस्य निर्णयम्
अं डाकिन्यै नमः स्वाहा कं काकिन्यै नमस्ततः ।
टं लाकिन्यै नमः स्वाहा पं काकिन्यै नमस्ततः
वं शाकिन्यै नमः स्वाहा हं हाकिन्यै नमस्ततः ।
तत्तद्ध्यानेन इत्युक्त्वा पूजयेदुपचारतः
उक्तबीजेन पुटितं कृत्वा मन्त्रं जपेद् यदि ।
तदा सिद्धो भवेन्मन्त्रो शापादिदोषदूषितः
इति ते कथितं दिव्यं कलिकालस्य सम्मतम् ।
कलौ भारतवर्षे च नान्यद्वर्षे कदाचन
शमादिषोडशभाण्डारं डाकिनीसिद्धिसंयुतम् ।
चण्डिकादिदशभाण्डारं काकिनीसिद्धिसंयुतम्
शमादिदशभाण्डारं लाकिनीसिद्धिनिर्णयम् ।
गदादिदशभाण्डारं काकिनीसिद्धिनिर्णयम्
कल्याणीत्यादिकीर्त्यन्तं शाकिनीसिद्धिनिर्णयम् ।
बद्धादिविलक्षणान्तं हाकिनीसिद्धिनिर्णयम्
गुरुदेवं विना भद्रे निष्फलं श्रमकेवलम् ।
कलिकाले वरारोहे कलहं गुरुशिष्ययोः
भविष्यति न सन्देहः प्रहारं गुरुशिष्ययोः ।
इति ते कथितं सर्वं कालिकायाः सुदुर्लभम्
कालिका भैरवो देवो जागर्ति हि सदा कलौ ।
तारा चैव महाविद्या तथा त्रिपुरसुन्दरी
धनदा छिन्नमस्ता च मातङ्गी बगलामुखी ।
त्वरिता अन्नपूर्णा च तथा वाग्वादिनी प्रिये
महिषघ्नी विशालाक्षी तारिणी भुवनेशिका ।
धूमावती भैरवी च तथा प्रत्यङ्गिरादिकाः
दुर्गा शाकम्भरी चैव कलिकाले हि निद्रिता ।
एतासां जपमन्त्रेण निद्राभङ्गोऽभिजायते
निद्राभङ्गे कृते देवि सिद्धिहानिश्च जायते ।
किं तासां जपपूजायां हानिः स्यादुत्तरोत्तरम्
ब्राह्मणे क्षत्रिये वैश्ये शूद्रे विद्या प्रशस्यते ।
सत्यादि च चतुर्युगे सर्वजातिषु कालिका
प्रशस्ता कालिका विद्या अस्याश्च फलबोधिका ।
उपायांस्तत्र वक्ष्यामि येन सिद्धिः प्रजायते
सहस्रं डाकिनीमन्त्रं निशायां प्रजपेद् यदि ।
बहुकाले तदा सिद्धिर्जायते नात्र संश्यः
स्त्रीशूद्राणां पुरश्चर्या नास्ति भद्रे कदाचन ।
जपपूजा सदैवासां प्रशस्ता वीरवन्दिते
चन्द्रसूर्योपरागे च शूद्राणां सिद्धिरुत्तमा ।
जायते सुभगे मातर्गुरुभक्तिर्भवेत् यदि
तदा सिद्धिमवाप्नोति गुरुभक्त्या विशेषतः ।
इति दक्षिणाम्नाये श्रीकङ्कालमालिनीतन्त्रे पञ्चमः पटलः समाप्तः ॥
ग्रन्थश्च समाप्तः
मूल पाठ: kaṅkālamālinītantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0