कामसूत्र · अध्याय 1.1
धर्मार्थ-कामेभ्यो नमः.
शास्त्रे प्रकृतत्वात्((1)).
तत्समयावबोधकेभ्यश् च आचार्येभ्यः. इति.
तत्-संबन्धात्. इति.
प्रजापतिर् हि प्रजाः सृष्ट्वा तासां स्थिति-निबन्धनं त्रिवर्गस्य साधनम् अध्यायानां शतसहस्रेणाग्रे प्रोवाच.
तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक् चकार.
बृहस्पतिर् अर्थाधिकारिकम्.
महादेवानुचरश् च नन्दी सहस्रेणाध्यायानां पृथक् काम-सूत्रं प्रोवाच.
तद् एव तु पञ्चभिर् अध्याय-शतैर् औद्दालिकिः श्वेतकेतुः संचिक्षेप.
तद् एव तु पुनर् अध्य्:अर्धेनाध्यायशतेन [1]साधारण-[2]सांप्रयोगिक-[3]कन्या-संप्रयुक्तक-[ 4]भार्याधिकारिक-[5]पारदारिक-[6]वैशिक-[7]औपनिषदिकैः सप्तभिर् अधिकरणैर् बाभ्रव्यः पाञ्चालः संचिक्षेप.
तस्य षष्टं वैशिकम् अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद् दत्तकः पृथक् चकार.
तत्-प्रसङ्गाच् चारायणः साधारणम् अधिकरणं प्रोवाच. सुवर्णनाभः सांप्रयोगिकम्. घोटकमुखः कन्या-संप्रयुक्तकम्. गोनर्दीयो भार्याधिकारिकम्. गोणिकापुत्रः पारदारिकम्. कुचुमार औपनिषदिकम् इति.
एवं बहुभिर् आचार्यैस् तच् छास्त्रं खण्डशः प्रणीतम् उत्सन्न-कल्पम् अभूत्.
तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानाम् एकदेशत्वात् महद् इति च बाभ्रवीयस्य दुर्:आध्येयत्वात् संक्षिप्य सर्वम् अर्थम् अल्पेन ग्रन्थेन कामसूत्रम् इदं प्रणीतम्.
तस्यायं प्रकरणाधिकरण-समुद्देशः
शास्त्र-संग्रहः. त्रिवर्ग-प्रतिपत्तिः. विद्यासमुद्देशः. नागरक-वृत्तम्. नायक-सहाय-दूती-कर्मविमर्शः. इति साधारणं प्रथमाधिकरणम् अध्यायः पञ्च प्रकरणानि पञ्च.
प्रमाण-काला-भावेभ्यो रतावस्थापनम्. प्रीति-विशेषाः. आलिङ्गन-विचाराः. चुम्बन-विकल्पाः..नखरदन-जातयः. दशन-च्छेद्य-विधयः. देश्या उपचाराः संवेशन-प्रकाराः चित्र-रतानि प्रहण-योगः तद्-युक्ताश् च सीत्कृतोपक्रमाः पुरुषायितम् पुरुषोपसृप्तानि औपरिष्टकम् रतारम्भावसानिकम् रत-विशेषाः प्रणय-कलहः इति सांप्रयोगिकं द्वितीयम् अधिकरणम्. अध्यया दश प्रकरणानि सप्तदश.
वरण-विधानम् सम्बन्ध-निर्णयः कन्या-विस्रम्भणम् बालायाः उपक्रमाः इङ्गिताकार-सूचनम् एक-पुरुषाभियोगः प्रयोज्यस्योपावर्तणम् अभियोगतश् च कन्यायाः प्रतिपत्तिः विवाह-योगः इति कन्या-संप्रयुक्तकं तृतीयाधिकरणम्. अध्यायाः पञ्च प्रकरणानि नव
एकचारिणी-वृत्तम् प्रवासचार्या सपत्नीषु ज्येष्ठा-वृत्तम् कनिष्ठा-वृत्तम् पुनर्भू-वृत्तम् दुर्भगा-वृत्तम् आन्तःपुरिकम् पुरुषस्य बह्वीषु प्रतिपत्तिः इति भार्याधिकारिकं चतुर्थम् अधिकरणम् अध्यायौ द्वौ प्रकरणान्य् अष्टौ
स्त्री-पुरुष-शीलावस्थापनम् व्यावर्त्तन-कारणानि स्त्रीषु सिद्धाः पुरुषाः अ:यत्न-साध्या योषितः परिचय-कारणानि अभियोगाः भाव-परीक्षा दूती-कर्माणि ईश्वरकामितम् अन्तःपुरिकं दार-रक्षितकम् इति पारदारिकं पञ्चमम् अधिकरणम् अध्यायाः षट् प्रकरणानि दश((2))
गम्य-चिन्ता गमन-कारणानि उपावर्तन-विधिः कान्तानुवर्तनम् अर्थागमोपायाः विरक्त-लिङ्गानि विरक्त-प्रतिपत्तिः निष्कासन-प्रकाराः विशीर्ण-प्रतिसंधानम्.लाभविशेषः अर्थानर्थानुबन्ध-संशय-विचारः वेश्या-विशेषाश् च इति वैशिकं षष्टम् अधिकरणम् अध्यायः षट् प्रकरणानि द्वादश.
सुभगं-करणम् वशी-करणम् वृष्याश् च योगाः नष्ट-राग-प्रत्यानयनम् वृद्धि-विधयः चित्राश् च योगाः इत्य् औपनिषदिकं सप्तमम् अधिकरणम् अध्यायौ द्वौ प्रकरणानि षट्.
एवं षट्त्रिंशद् अध्यायाः चतुःशष्टिः प्रकरणानि((3)) अधिकरणानि सप्त स:पादं श्लोक-सहस्रम् इति शास्त्रस्य संग्रहः.
संक्षेपम् इमम् उक्त्वास्य विस्तारो ऽतः प्रवक्ष्यते. इष्टं हि विदुषां लोके समास-व्यास-भाषणम्..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0