कामधेनुतन्त्रम् · अध्याय 1
ओं नमः परदेवतायै
कामधेनुतन्त्रम्
प्रथमः पटलः
श्रीपार्वती उवाच
देवदेव महादेव सर्वागमविशारद ।
अधुना देवदेवेश पञ्चाशद्वर्णमुत्तमम् ॥ १।
तत्त्वरूपं महादेव कथयस्व दयानिधे ।
कृपया कथयेशान यद्यहं तव वल्लभा ॥ १।
श्रीमहादेव उवाच
अधुना संप्रवक्ष्यामि रहस्यमतिगोपनम् ।
येन विज्ञातमात्रेण जीवन्मुक्तो भवेन्नरः ॥ १।
अज्ञात्वा मन्त्रतत्त्वानि महाविद्यां जपेत्तु यः ।
सर्वं तस्य वृथा देवि किं तस्य जपपूजनैः ॥ १।
ध्यानावधारणे चैव तथा योगसमाधिना ।
वर्णज्ञानं यदा नास्ति किं तस्य जपपूजनैः ॥ १।
मम कण्ठे स्थितं बीजं पञ्चाशद्वर्णमद्भुतम् ।
नानावर्णयुतं शुद्धं तन्त्राणां सारमुत्तमम् ॥ १।
पञ्चाशन्मातृकां देवीं नानाविद्यामयीं सदा ।
नानाविद्यामयीं देवीं महाविद्यामयीं तथा ॥ १।
सर्ववर्णमयीं देवीं सर्वदेवमयीं पराम् ।
सर्वदेवमयीं सौम्यां ब्रह्माण्डजननीं पराम् ॥ १।
प्रणम्य बहुधा भक्त्या निगदामि शृणु प्रिये ।
अकारादिक्षकारान्ता मातृका बीजरूपिणी ॥ १।
विसर्गश्चैव बिन्दुश्च त्रिशक्तिब्रह्मविग्रहः ।
वर्णात्तु जायते ब्रह्मा तथा विष्णुः प्रजायते ॥ १।
रुद्रश्च जायते देवि जगत्संहारकारकः ।
मम कण्ठस्थिता या सा शारदा वामलोचना ॥ १।
तस्या गर्भस्थिता देवि बीजानि विविधानि च ।
विधृत्य कण्ठदेशे तु शिवोऽहं कमलानने ॥ १।
शृणु तत्त्वमकारस्य अतिगोप्यं वरानने ।
शरच्चन्द्रप्रतीकाशं पञ्चकोषमयं सदा ॥ १।
पञ्चदेवमयं वर्णं शक्तित्रयसमन्वितम् ।
निर्गुणं त्रिगुणोपेतं स्वयं कैवल्यमूर्तिमान् ॥
बिन्दुतत्त्वमयं वर्णं स्वयं प्रकृतिरूपिणी ॥ १।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे प्रथमः पटलः ॥
द्वितीयः पटलः
श्रीमहादेव उवाच
आकारं परमाश्चर्यं शङ्खज्योतिर्मयं प्रिये ।
ब्रह्मविष्णुमयं वर्णं तथा रुद्रं स्वयं प्रिये ॥ २।
पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली ।
इकारं परमानन्दं सुगन्धकुसुमच्छविम् ॥ २।
हरिब्रह्ममयं वर्णं सदा रुद्रयुतं प्रिये ।
सदा शक्तिमयं देवि गुरुब्रह्म स्वयं तथा ॥ २।
सदाशिवमयं वर्णं परंब्रह्म समन्वितम् ।
हरिब्रह्मात्मकं वर्णं गुणत्रयसमन्वितम् ॥ २।
इकारं परमेशानि मूर्तिर्वै कुण्डली स्वयम् ।
ईकारं परमेशानि स्वयं परमकुण्डली ॥ २।
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं सदा ।
पञ्चदेवमयं वर्णं पीतविद्युल्लताकृतिम् ॥ २।
चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा ।
उकारं परमेशानि तार कुण्डलीनी स्वयम् ॥ २।
पीतचम्पकसंकाशं पंचदेवमयं सदा ।
पञ्चप्राणमयं देवि चतुर्वर्गप्रदायकम् ॥ २।
अकारं देवदेवेशि बीजं परमदुर्लभम् ।
शङ्खकुन्दसमाकारं स्वयं परमकुण्डली ॥ २।
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ।
पञ्चप्राणयुतं वर्णं तथा त्रयगुणात्मकम् ॥ २।
बिन्दुत्रययुतं वर्णं पीतविद्युल्लता यथा ।
धर्मार्थकाममोक्षं च सदा सुखप्रदायकम् ॥ २।
ऋकारं परमेशानि कुण्डली मूर्त्तिमान् स्वयम् ।
अत्र ब्रह्मा च विष्णुश्च रुद्रश्चैव वरानने ॥ २।
सदाशिवयुतं वर्णं सदा ईश्वरसंयुतम् ।
पञ्चप्राणमयं वर्णं चतुर्ज्ञानमयं सदा ॥ २।
रक्तविद्युल्लताकारं ऋकारं प्रणमाम्यहम् ।
ॠकारं परमेशानि स्वयं परमकुण्डली ॥ २।
पीतविद्युल्लताकारं पञ्चदेवमयं सदा ।
चतुर्ज्ञानमयं वर्णं पञ्चप्राणमयं सदा ॥ २।
त्रिशक्तिसहितं वर्णं प्रणमामि सदा प्रिये ।
ऌकारं चञ्चलापाङ्गि कुण्डली परदेवता ॥ २।
अत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये ।
पञ्चदेवमयं वर्णं चतुर्ज्ञानमयं सदा ॥ २।
पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम् ।
बिन्दुत्रयात्मकं वर्णं पीतविद्युल्लता यथा ॥ २।
ॡकारं परमेशानि पूर्णचन्द्रसमप्रमम् ।
पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा ॥ २।
गुणत्रयात्मकं वर्णं तथा बिन्दुत्रयात्मकम् ।
चतुर्वर्गप्रदं देवि स्वयं परमकुण्डली ॥ २।
एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम् ।
बन्धूककुसुमप्रख्यं पञ्चदेवमयं सदा ॥ २।
पञ्चप्राणात्मकं वर्णं तथा बिन्दुत्रयात्मकम् ।
चतुर्वर्गप्रदं देवि स्वयं परमकुण्डली ॥ २।
इति श्रीकामधेनुतन्त्रे द्वितीयः पटलः ॥
तृतीयः पटलः
ऐकारं परमं दिव्यं महाकुण्डलिनी स्वयम् ।
कोटिचन्द्रप्रतीकाशं पञ्चप्राणमयं सदा ॥ ३।
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ।
सदाशिवमयं वर्णं बिन्दुत्रयसमन्वितम् ॥ ३।
ओकारं चञ्चलापाङ्गि पञ्चदेवमयं सदा ।
रक्तविद्युल्लताकारं त्रिगुणात्मानमीश्वरम् ॥ ३।
पञ्चप्राणमयं वर्णं नमामि देवमातरम् ।
एतद्वर्णं महेशानि स्वयं परमकुण्डली ॥ ३।
रक्तविद्युल्लताकारं औकारं कुण्डला स्वयम् ।
अत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये ॥ ३।
पञ्चप्राणमयं वर्णं सदाशिवमयं सदा ।
सदा ईश्वरसंयुक्तं चतुर्वर्गप्रदायकम् ॥ ३।
अंकारं बिन्दुसंयुक्तं पीतविद्युत्समप्रभम् ।
पञ्चप्राणात्मकं वर्णं ब्रह्मादिदेवतामयम् ॥ ३।
सर्वज्ञानमयं वर्णं बिन्दुत्रयसमन्वितम् ।
शक्तित्रयमयं वर्णं स्वयं परमकुण्डली ॥ ३।
अःकारं परमेशानि विसर्गसहितं सदा ।
अःकारं परमेशानि रक्तविद्युत्प्रभामयम् ॥ ३।
पञ्चदेवमयो वर्णः पञ्चप्राणमयः सदा ।
सर्वज्ञानमयो वर्ण आत्मादितत्त्वसंयुतः ॥ ३।
बिन्दुत्रयमयो वर्णः शक्तित्रयमयः सदा ।
किशोरवयसः सर्वा गीतवाद्यादितत्पराः ॥
शिवस्य युवती एता मूर्त्तिमत् कुण्डली स्वयम् ॥ ३।
अधुना संप्रवक्ष्यामि कारतत्त्वमुत्तमम् ।
रहस्यं परमाश्चर्यं त्रैलोक्यानां च संशृणु ॥ ३।
वामरेखा भवेद् ब्रह्मा विष्णुर्दक्षिणवीथिका ।
अधोरेखा भवेद्रुद्रो मात्रा साक्षान्महेश्वरी ॥ ३।
कुण्डली अङ्कुशाकारा मध्ये शून्यः सदाशिवः ।
जवायावकसंकाशा बामरेखा वरानने ॥ ३।
शरच्चन्द्रप्रतीकाशा दक्षरेखा च मूर्तिमान् ।
अधोरेखा वरारोहे महामारकतद्युतिः ॥ ३।
शङ्खकुन्दसमा कीर्तिर्मात्रा साक्षात् सरस्वती ।
कुण्डली अङ्कुशा या तु कोटिविद्युल्लताकृतिः ॥ ३।
कोटिचन्द्रप्रतिकाशा मध्ये शून्यः सदाशिवः ।
शून्यगर्भे स्थिता काली कैवल्यपददायिनी ॥ ३।
ककाराज्जायते सर्वं कामं कैवल्यमेव च ।
अर्थश्च जायते देवि तथा धर्मश्च नान्यथा ॥ ३।
ककारः सर्ववर्णानां मूलप्रकृतिरेव च ।
ककारः कामदा कामरूपिणी स्फुरदव्यया ॥ ३।
कामिनी या महेशानि स्वयं प्रकृतिसुन्दरी ।
माता सा सर्वदेवानां कैवल्यपददायिनी ॥ ३।
ऊर्ध्वकोणे स्थिता कामा ब्रह्मशक्तिरितीरिता ।
वामकोणे स्थिता ज्येष्ठा विष्णुशक्तिरितीरिता ॥ ३।२१ ॥]
दक्षकोणे स्थितो बिन्दू रौद्रीसंहाररूपिणी ।
ज्ञानार्था सातु चार्वङ्गि केन चतुष्टयात्मिका ॥ ३।
इच्छाशक्तिर्भवेद् ब्रह्मा विप्णुश्च ज्ञानशक्तिमान् ।
क्रियाशक्तिर्भवेद् रुद्रः सर्वं प्रकृतिमूर्त्तिमान् ॥ ३।
आत्मविद्याशिवैस्तत्त्वैः सदासाराप्रतिष्ठितैः ।
आसनं त्रिपुरादेव्याः ककारं पञ्चदेवताम् ॥ ३।
ईश्वरो यस्तु देवेशि त्रिकोणे तस्य संस्थितिः ।
त्रिकोणमेतत् कथितं योनिमण्डलमुत्तमम् ॥ ३।
केवलं प्रपदे यस्याः कामिनी सा प्रकीर्त्तिता ।
ओं शयनागारसिन्दूरसदृशीं कामिनीं पराम् ॥ ३।
चतुर्भुजां त्रिनेत्राञ्च बाहुवल्लीविराजिताम् ।
कदम्बकोरकाकारस्तनद्वयविभूषिताम् ॥ ३।
रत्नकेयूराङ्गदैश्च भूषणैरुपशोभिताम् ।
रत्नहारैः पुष्पहारैः शोभितां परमेश्वरीम् ॥ ३।
एवं हि कामिनीं ज्ञात्वा ककारं दशधा जपेत् ।
प्रफुल्लञ्च ततो ध्यात्वा जपस्य फलभाग् भवेत् ।
एतत्ते कथितं देवि ककारतत्त्वमुत्तमम् ॥ ३।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे तृतीयः पटलः ॥
चतुर्थः पटलः
श्रीमहादेव उवाच
ककारं परमेशानि कुण्डलीत्रयसंयुतम् ।
खकारं परमाश्चर्यं शङ्खकुन्दसमप्रभम् ॥ ४।
कोणत्रययुतं शून्यं बिन्दुत्रयसमन्वितम् ।
गुणत्रययुतं देवि पञ्चदेवमयं सदा ॥ ४।
त्रिशक्तिसंयुतं वर्णं खकारं प्रणमाम्यहम् ।
गकारं परमेशानि पञ्चदेवात्मकं सदा ॥ ४।
निर्गुणं त्रिगुणोपेतं निरीहं निर्मलं सदा ।
पञ्चप्राणमयं वर्णं सर्वशक्त्यात्मकं प्रिये ॥ ४।
अरुणादित्यसङ्काशं कुण्डलीं प्रणमाम्यहम् ।
घकारं चञ्चलापाङ्गि चतुष्कोणात्मकं सदा ॥ ४।
पञ्चदेवमयं वर्णं अरुणादित्यसन्निभम् ।
निर्गुणं त्रिगुणोपेतं सदा त्रिगुणसंयुतम् ॥ ४।
सर्वगं सर्वदं शान्तं घकारं प्रणमाम्यहम् ।
ङकारं परमेशानि स्वयं परमकुण्डली ॥ ४।
सर्वदवमयं वर्णं त्रिगुणं लोललोचने ।
पञ्चप्राणमयं वर्णं ङकारं प्रणमाम्यहम् ॥ ४।
चवर्णं शृणु सुश्रोणि चतुर्वर्गप्रदायकम् ।
कुण्डलीसहितं देवि स्वयं परमकुण्डली ॥ ४।
सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं वर्णं पञ्चप्राणात्मकं सदा ॥ ४।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ।
छकारं परमाश्चर्यं स्वयं परमकुण्डली ॥ ४।
सततं कुण्डलीयुक्तं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ॥ ४।
त्रिबिन्दुसहितं वर्णं सदा ईश्वरसंयुतम् ।
पीतविद्युल्लताकारं छकारं प्रणमाम्यहम् ॥ ४।
जकारं परमेशानि या स्वयं मध्यकुण्डली ।
शरच्चन्द्रप्रतीकाशं सदा त्रिगुणसंयुतम् ॥ ४।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ॥ ४।
झकारं परमेशानि कुण्डली मोक्षरूपिणी ।
रक्तविद्युल्लताकारं सदा त्रिगुणसंस्थितम् ॥ ४।
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा ।
त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सदा ॥ ४।
सदा ईश्वरसंयुक्तं ञकारं शृणु सुन्दरि ।
रक्तविद्युल्लताकारं स्वयं परमकुण्डली ॥ ४।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥ ४।
टकारं चञ्चलापाङ्गि स्वयं परमकुण्डली ।
कोटिविद्युल्लताकारं पञ्चदेवमयं सदा ॥ ४।
पञ्चप्राणयुतं वर्णं गुणत्रयसमन्वितम् ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥ ४।
ठकारं चञ्चलापाङ्गि कुण्डली मोक्षरूपिणी ।
पीतविद्युल्लताकारं सदा त्रिगुणसंयुतम् ॥ ४।
पञ्चप्राणात्मकं वर्णं पञ्चप्राणमयं सदा ।
त्रिबिन्दुसहितं वर्णं त्रिशक्तिसहितं सादा ॥ ४।
डकारं चञ्चलापाङ्गि सदा त्रिगुणसंयुतम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ ४।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।
चतुर्ज्ञानमयं वर्णं आत्मादितत्त्वसंयुतम् ॥ ४।
पीतविद्युल्लताकारं डकारं प्रणमाम्यहम् ।
ढकारं परमाराध्यं या स्वयं कुण्डली परा ॥ ४।
पञ्चदेवात्मकं वर्णं पञ्चप्राणमयं सदा ।
सदा त्रिगुणसंयुक्तं आत्मादितत्त्वसंयुतम् ।
रक्तविद्युल्लताकारं ढकारं प्रणमाम्यहम् ॥ ४।
णकारं परमेशानि स्वयं परमकुण्डली ।
पीतविद्युल्लताकारं पञ्चदेवमयं सदा ॥ ४।
पञ्चप्राणमयं देवि सदा त्रिगुणसंयुतम् ।
आत्मादितत्त्वसंयुक्तं महामोहप्रदायकम् ॥ ४।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे चतुर्थः पटलः ॥
पञ्चमः पटलः
श्रीमहादेव उवाच
तकारं चञ्चलापाङ्गि स्वयं परमकुण्डली ।
पञ्चदेवात्मकं वर्णं पञ्चप्राणम्यं तथा ॥ ५।
त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् ।
त्रिबिन्दुसहितं वर्णं पीतविद्युत्समप्रभम् ॥ ५।
थकारं चञ्चलापाङ्गि कुण्डली मोक्षरूपिणी ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ॥ ५।
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा ।
अरुणादित्यसंकाशं थकारं प्रणमाम्यहम् ॥ ५।
दकारं शृणु चार्वङ्गि चतुर्वर्गप्रदायकम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ ५।
त्रिशक्तिसहितं देवि त्रिबिन्दुसहितं सदा ।
आत्मादितत्त्वसंयुक्तं स्वयं परमकुण्डली ॥ ५।
रक्तविद्युल्लताकारं दकारं हृदि भावय ।
धकारं परमेशानि कुण्डली मोक्षरूपिणी ॥ ५।
आत्मादितत्त्वसंयुक्तं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं देवि त्रिशक्तिसहितं सदा ॥ ५।
त्रिबिन्दुसहितं वर्णं धकारं हृदि भावय ।
पीतविद्युल्लताकारं चतुर्वर्गप्रदायकम् ॥ ५।
नकारं शृणु चार्वङ्गि रक्तविद्युल्लताकृतिम् ।
पञ्चदेवमयं वर्णं स्वयं परमकुण्डली ॥ ५।
पञ्चप्राणात्मकं वर्णं हृदि भावय पार्वति ।
अतः परं प्रवक्ष्यामि पकारं मोक्षदायकम् ॥ ५।
चतुर्वर्गप्रदं वर्णं शरच्चन्द्रसमप्रभम् ।
पञ्चदेवमयं वर्णं स्वयं परमकुण्डली ॥ ५।
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ।
त्रुगुणै रहितं वर्णमात्मादितत्त्वसंयुतम् ॥ ५।
महामोक्षप्रदं वर्णं हृदि भावय पार्वति ।
फकारं शृणु चार्वङ्गि रक्तविद्युल्लतोपमम् ॥ ५।
चतुर्वर्गप्रदं वर्णं पञ्चदेवमयं सदा ।
पञ्चप्राणमयं वर्णं सदा त्रिगुणसंयुतम् ॥ ५।
आत्मादितत्त्वसंयुक्तं त्रिबिन्दुसहितं सदा ।
बकारं शृणु चार्वङ्गि चतुर्वर्गप्रदायकम् ॥ ५।
शरच्चन्द्रप्रतीकाशं पञ्चदेवमयं सदा ।
पञ्चप्राणात्मकं वर्णं त्रिबिन्दुसहितं सदा ॥ ५।
त्रिशक्तिसहितं वर्णं सदा चामृतनिर्मितम् ।
स्वयं कुण्डलिनी साक्षात् सततं प्रणमाम्यहम् ॥ ५।
भकारं शृणु चार्वङ्गि स्वयं परमकुण्डली ।
महामोक्षप्रदं वर्णमरुणादित्यसन्निभम् ॥ ५।
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं प्रिये ॥ ५।
मकारं शृणु चार्वङ्गि स्वयं परमकुण्डली ।
अरुणादित्यसंकाशं चतुर्वर्गप्रदायकम् ॥ ५।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा ।
आत्मादितत्त्वसंयुक्तं हृदिस्थं प्रणमाम्यहम् ॥ ५।
यकारं शृणु चार्वङ्गि चतुष्कोणमयं सदा ।
पलालधूमसंकाशं स्वयं परमकुण्डली ॥ ५।
पञ्चप्राणमयं वर्णं पञ्चदेवमयं सदा ।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं तथा ॥ ५।
प्रणमामि सदा वर्णं मूर्तिमान् (?)मोक्षमव्ययम् ।
इति श्रीकामधेनुतन्त्रे देवद्वीसंवादे पञ्चमः पटलः ॥
षष्ठः पटलः
श्रीमहादेव उवाच
रकारं चञ्चलापाङ्गि कुण्डलीद्वयसंयुतम् ।
रक्तविद्युल्लताकारं पञ्चदेवात्मकं सदा ॥ ६।
पञ्चप्राणमयं वर्णं त्रिबिन्दुसहितं सदा ।
त्रिशक्तिसहितं देवि आत्मादितत्त्वसंयुतम् ॥ ६।
सर्वतेजोमयं वर्णं सततं प्रणमाम्यहम् ।
लकारं चञ्चलापाङ्गि कुण्डलीत्रयसंयुतम् ॥ ६।
पीतविद्युल्लताकारं सर्वरत्नप्रदायकम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं सदा ॥ ६।
त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं हि सा ।
आत्मादितत्त्वसहितं हृदि भावय सर्वदा ॥ ६।
वकारं चञ्चलापाङ्गि कुण्डली मोक्षमव्ययम् ।
पञ्चप्राणमयं वर्णं त्रिशक्तिसहितं सदा ॥ ६।
त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् ।
पञ्चदेवमयं वर्णं पीतविद्युल्लतोपमम् ॥ ६।
चतुर्वर्गमयं वर्णं सर्वसिद्धिप्रदायकम् ।
त्रिशक्तिसहितं देवि त्रिशक्तिसहितं सदा ॥ ६।
शकारं परमेशानि स्वर्णवर्णं शुचिस्मिते ।
रक्तवर्णप्रभाकारा स्वयं परमकुण्डली ॥ ६।
चतुर्वर्गप्रदं देवि शकारं ब्रह्मविग्रहम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणात्मकं प्रिये ॥ ६।
रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा ।
त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् ॥ ६।
षकारं शृणु चार्वङ्गि कोणषट्कमयं सदा ।
रक्तचन्द्रप्रतीकाशं स्वयं परमकुण्डली ॥ ६।
चतुर्वर्गप्रदं वर्णं सुधानिर्मितविग्रहम् ।
पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा ॥ ६।
रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं परम् ।
सर्वदेवमयं वर्णं हृदि भावय पार्वति ॥ ६।
सकारं शृणु चार्वङ्गि शक्तिबीजं परात्परम् ।
कोटिविद्युल्लताकारं कुण्डलीत्रयसंयुतम् ॥ ६।
पञ्चदेवमयं देवि पञ्चप्राणमयं सदा ।
रजःसत्त्वतमोयुक्तं त्रिबिन्दुसहितं सदा ॥ ६।
त्रिशक्तिसहितं वर्णमात्मादितत्त्वसंयुतम् ।
प्रणम्य सततं देवि हृदि भावय सुन्दरि ॥ ६।
हकारं शृणु चार्वङ्गि चतुर्वर्गप्रदायकम् ।
कुण्डलीत्रयसंयुक्तं रक्तविद्युल्लतोपमम् ॥ ६।
रजःसत्त्वतमोयुक्तं पञ्चदेवमयं सदा ।
पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा ॥ ६।
त्रिबिन्दुसहितं वर्णं हृदि भावय सुन्दरि ।
क्षकारं शृणु चार्वङ्गि कुण्डलीत्रयसंयुतम् ॥ ६।
चतुर्वर्गमयं वर्णं पञ्चदेवमयं सदा ।
पञ्चप्राणात्मकं वर्णं त्रिशक्तिसहितं सदा ॥ ६।
त्रिबिन्दुसहितं वर्णमात्मादितत्त्वसंयुतम् ।
शरच्चन्द्रप्रतीकाशं हृदि भावय सुन्दरि ॥ ६।
अकारादिक्षकारान्तं स्वयं परमकुण्डली ।
सर्वं चराचरं विश्वं वर्णात्तु जायते ध्रुवम् ॥ ६।
नानाशास्त्रं पुराणञ्च इतिहासञ्च सुन्दरि ।
वेदञ्च स्मृतिशास्त्रञ्च अन्यानि यानि कानि च ॥ ६।
अक्षराज्जायते सर्वं परं ब्रह्म स्वयं प्रिये ।
इति कामधेनुतन्त्रे देवदेवीसंवादे षष्ठः पटलः ॥
सप्तमः पटलः
श्रीमहादेव उवाच
रहस्यं परमाश्चर्यं सदाअ मम हृदि स्थितम् ।
अतः परं प्रवक्ष्यामि मन्त्रतत्त्वं पृथक् पृथक् ॥ ७।
मातृकाया वरारोहे सावधानावधारय ।
अतः परं जपेन्मन्त्रं पञ्चाशन्मातृकां पृथक् ॥ ७।
अतस्त्वमधिकारी स्यान्नात्र कार्या विचारणा ।
इति ते कथितं देवि प्रयोगं मन्त्रमुत्तमम् ॥ ७।
एतन्मन्त्रं विना देवि इष्टं मन्त्रं जपेन्नरः ।
सर्वं तस्य भवेद्व्यर्थं सर्वं व्यर्थकदर्थनम् ॥ ७।
एतन्मन्त्रं प्रथमतो दशधा प्रजपेत् प्रिये ।
ततस्तु प्रणवं दत्त्वा मातृकां प्रजपेत् पृथक् ॥ ७।
प्रयोगं परमाश्चर्यं सावधानावधारय ।
तद्यथा - ओं, अ। ओं, ओं आं ओं, ओं इ। ओं, ओं ई। ओं, ओं उ। ओं, ओं ओं ओं, ओं ऋ। ओं, ओं ऋ। ओं, ओं
ऌ। ओं, ओं ॡ ओं, ओं ए। ओं, ओं ऐ। ओं, ओं ओ। ओं, ओं औ। ओं, ओं अं ओं, ओं अः ओं, ओं कं ओं ।
एवं क्षकारपर्यन्तं प्रणवैः पुटितं सदा ।
प्रत्येकमेवं चार्वङ्गि दशधा दशधा जपेत् ॥ ७।
प्रत्येकं जपमात्रेण प्रत्येकं ध्यानमाचरेत् ।
अथवा सर्ववर्णानामेकीकृत्य वरानने ॥ ७।
प्रजपेद् दशधा मन्त्रं स्वमन्त्रं प्रजपेत्ततः ।
तथा च सर्ववर्णानां ध्यानं वक्ष्यामि संशृणु ॥ ७।
कोटिचन्द्रपतीकाशां पुण्डरीकोपरिस्थिताम् ।
भ्रमद्भ्रमरलीलाभां नयनत्रयराजिताम् ॥ ७।
नानाशास्त्रप्रवक्त्रीं च विद्याभ्यासमयीं सदा ।
नानावाद्यमयीं देवीं श्वेतांशुकपरिष्कृताम् ॥ ७।
शुक्लाभरणदीप्ताङ्गी शुक्लवस्त्रोत्तरीयिणीम् ।
ब्रह्माण्डं दर्पणे यस्या वामहस्तस्य पार्वति ॥ ७।
तद्वच्छुकशिशुं प्रेक्ष्य क्षुद्रदर्पणमुच्यते ।
एवं ध्यात्वा जगद्धात्रीं मातृकां जगदम्बिकाम् ॥ ७।
प्रजपेद्दशधा मन्त्रमेकधा वा जपेत्तु यः ।
सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ ७।
एषा ते कथिता विद्या मातृका परमात्मिका ।
यत् कृत्वा साधको याति दुर्लभं मोक्षमव्ययम् ॥ ७।
प्रत्येकेनाथवा देवि एकैकैव वरानने ।
रहस्यं शृणु चार्वङ्गि सुगोप्यं भुवनत्रये ॥ ७।
इष्टविद्यां सकृत् स्मृत्वा मनसा परमेश्वरि ।
यस्य मन्त्रस्य यद्ध्यानं कृत्वा देवि प्रयत्नतः ॥ ७।
तन्मन्त्रं दशधा जप्त्वा इष्टध्यानं ततः प्रिये ।
इष्टमन्त्रं प्रजप्त्वा वै सर्वसिद्धिं ततो लभेत् ॥ ७।
अनेन विधिना देवि मन्त्रश्चैतन्यमाप्नुयात् ।
चैतन्यरहितं मन्त्रं विद्या वा सुरपूजिते ॥ ७।
सर्व व्यर्थं भवेद्देवि बिफलं स जपो भवेत् ।
श्रीमाहदेव उवाच
अपरं शृणु चार्वङ्गि वर्गाष्टकमनुत्तमम् ॥ ७।
वर्गाष्टकं विना देवि कोटिपुरश्चरं यदि ।
सर्वं तस्य वृथा देवि अन्ते च नरकं ब्रजेत् ॥ ७।
अकचटतपयशा इत्येतदष्टवर्गकम् ।
मन्त्रस्यादौ च अन्ते च अकारं बिन्दुसंयुतम् ॥ ७।
दत्त्वा तमेव भक्त्या च अष्टोत्तरशतं जपेत् ।
अनेन विधिना देवि आदित्याभं समाचरेत् ॥ ७।
तावज्जपेद् वरारोहे यावल्लक्षं समाप्यते ।
ततो मन्त्रं वरारोहे ध्रुवं जीवत्वमाप्नुयात् ॥ ७।
जीवत्वं हि विना देवि न पुरश्चरणं चरेत् ।
जीवत्वं हि विना देवि यदि कुर्यात् पुरश्चरम् ॥ ७।
विफला तस्य सा सर्वा पूर्वपुण्यं विनश्यति ।
वर्गाष्टकेन सहितं प्रत्यहं प्रजपेत् शतम् ॥ ७।
सदैव सहसा भद्रे सर्वं मन्त्रञ्च सिध्यति ।
किं तस्य ध्यानपूजायां पुरश्चर्याञ्च किं पुनः ॥ ७।
कृत्वा तु जीवं मन्त्रस्य विद्याञ्च वरवर्णिनी ।
विद्यायाश्च तथा देवि यः कुर्यात् प्राणनिर्णयम् ॥ ७।
तत्क्षणाद् यान्ति चार्वङ्गि पुरश्चर्यां शतं शतम् ।
विशेषतः कलियुगे जम्बूद्वीपस्य भारते ॥ ७।
प्राणन्यासं विना देवि न जपेत् साधकः क्वचित् ।
वैष्णवेषु च मन्त्रेषु शैवेषु शक्तिमन्त्रके ॥ ७।
गणेशसौरमन्त्रे च प्राणन्यासः प्रशस्यते ।
किं तस्य जपपूजासु होमादिषु च किं प्रिये ॥ ७।
प्राणतत्त्वं महेशानि यो जानाति स पूजकः ।
प्राणतत्त्वं विना देवि देहन्यासं करोति यः ॥ ७।
स भ्रष्टः स च पापिष्ठो रौरवं नरकं व्रजेत् ।
आलोक्य तन्मुखं देवि सूर्यदर्शनमाचरेत् ॥ ७।
इति कामधेनुतन्त्रे देवदेवीसंवादे सप्तमः पटलः
अष्टमः पटलः
श्रीमहादेव उवाच
एतत्ते कथितं भद्रे रहस्यं परमाद्भुतम् ।
यन्नोक्तं सर्वतन्त्रेषु मातृकायाः पृथक् पृथक् ॥ ८।
पञ्चाशद्वर्णसंकेतं पञ्चाशत्तत्त्वमुत्तमम् ।
सर्वदेवमयं तत्त्वं सर्वज्ञानमयं तथा ॥ ८।
बिन्दुतत्त्वमयं देवि अहंतत्त्वमयं तथा ।
सर्वशक्तिमयं तत्त्वं सर्वप्राणमयं तथा ॥ ८।
गर्भतत्त्वमयं देवि केवलं कलिका तथा ।
कुसुमस्य यदा देवि कलिकां गन्धसंयुताम् ॥ ८।
अदृश्यं सर्वभूतानां तथा गन्धं सुचिस्मिते ।
पुष्पस्य कलिकामध्ये यथा ज्योतिः प्रदीप्यते ॥ ८।
तथैव कलिकाबीजे नवतत्त्वञ्च विद्यते ।
कोटिविद्युत्प्रतीकाशां मातृकां प्रणमाम्यहम् ॥ ८।
निराबाधां निर्गुणाञ्च गुणानां गुणमातृकाम् ।
माता सा सर्वविद्यानां सर्वागमप्रतिष्ठिता ॥ ८।
सर्वासां वेदविद्यानां ब्रह्माण्डानाञ्च पार्वति ।
माता सा गीयते देवि पञ्चाशन्मातृका च सा ॥ ८।
मन्त्रतत्त्वञ्च विद्याञ्च सर्ववर्णविनिश्चयम् ।
पञ्चाशद्युवतीरूपा मातृका शवमव्यया ॥ ८।
मातृका परमेशानि काली साक्षान्न संशयः ।
कुतो ब्रह्मा कुतो विष्णुः कुतो रुद्रश्च ईश्वरः ॥ ८।
सदाशिवः कुतो देवि ते सर्वे शववत् प्रिये ।
शववत् सर्वदेवाश्च ब्रह्माण्डं शववत् सदा ॥ ८।
अत एव वरारोहे विष्णुमन्त्रं यथा तथा ।
शिवमन्त्रं यथा देवि गणेशं सौरमेव च ॥ ८।
शक्तिमन्त्रञ्च विद्याञ्च पञ्चाशद्युवतीमयम् ।
पुराणञ्च तथा वेदं स्मृतिशास्त्रं तथैव च ॥ ८।
एतत्तत्त्वं वरारोहे युवतीरूपमद्भुतम् ।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ८।
ते सर्वे चञ्चलापाङ्गि मातृकाज्जायते (?) प्रिये ।
समस्तजननी देवि मातृका जननी परा ॥ ८।
कटाक्षलक्षसंयुक्ता महाशक्तिः प्रगीयते ।
मातृकावर्णरहितं ब्रह्माण्डं शववत् प्रिये ॥ ८।
गीतं वाद्यं श्रुतिर्नाट्यमालापं वरवर्णिनी ।
सर्वं हि युवतीरूपं ध्यानमार्गे प्रतिष्ठितम् ॥ ८।
एतत्ते कथितं देवि कालिकाबीजमुत्तमम् ।
उभयोः संगमं देवि प्रफुल्लं भवति प्रिये ॥ ८।
बहवः सङ्गमे देवि प्रफुल्लं मोक्षमव्ययम् ।
यन्न मन्त्रेषु विद्यासु प्रफुल्लं भवति ध्रुवम् ॥ ८।
प्रफुल्लं शृणु चार्वङ्गि जपयज्ञं समाचरेत् ।
प्रफुल्लरहितं देवि विद्यामन्त्रं यदि प्रिये ॥ ८।
केवलं कालिकाबीजं वर्णैर्वर्णैः पृथक् पृथक् ।
ध्यात्वा सिद्धिमवाप्नोति नान्यथा सुरपूजिते ॥ ८।
प्रफुल्लात् कलिकाद्वापि कृष्णादि जायते ध्रुवम् ।
युवती या समाख्याता सा महाकुण्डली परा ॥ ८।
वर्णरूपमयी देवी कुण्डली परदेवता ।
पञ्चाशद्वर्णतत्त्वं च विद्यामन्त्रं जपेत्तु यः ॥ ८।
सर्वं हि विफलं तस्य शववत् तज्जपो भवेत् ।
चैतन्यरहितं देवि तज्जपं शवमेव तत् ॥ ८।
ज्ञात्वा प्रणम्य कुर्वीत जपपूजादिकं प्रिये ।
हरिर्हि निर्गुणः साक्षात् सगुणा परकुण्डली ॥ ८।
तस्मात्तु युवतीदेहात् हरेरुत्पत्तिरेव च ।
सर्वासां देवदेवीनां बीजं जन्मस्थलं सदा ॥ ८।
बीजात्तु जायते ब्रह्मा शून्यरूपी सनातनः ।
अत एव महेशानि ब्रह्मणः कारणं परा ॥ ८।
ज्ञात्वा तन्त्रमिदं देवि जपपूजां करोति यः ।
प्राणन्यासविधिं कृत्वा जपपूजां करोति यः ॥ ८।
स शिवः परमं ब्रह्म स एव पुरुषोत्तमः ।
स एव दिव्यो वीरश्च स एव भैरवः स्वयम् ॥ ८।
स एव धन्यो देवेशि त्रैलोक्ये सचराचरे ।
स सूर्यो देवि पूज्यश्च सद्गुरुश्च न चान्यथा ॥ ८।
उद्धर्तुं चैव संहर्तुं समर्थः सोऽपि नान्यथा ।
अज्ञात्वा तन्त्रमेतत्तु जपयज्ञं करोति यः ॥ ८।
सर्वं तस्य वृथा देवि पशुरेव न संशयः ।
सर्वेषु च गुरुर्देवि शिष्योऽपि पशुवत् सदा ॥ ८।
श्रुत्वा तस्य मुखे विद्यां मन्त्रं वा नगनन्दिनि ।
सिक्तो भवति चार्वङ्गि किं तस्य जपपूजनैः ॥ ८।
एवं विधं गुरुं त्यक्त्वा श्रुत्वा पशुमुखात् प्रिये ।
पूर्वमन्त्रं परित्यज्य गृह्णीयाद् गणनापरम् ॥ ८।
स भ्रष्टः स च पापिष्ठः कथं मन्त्रमुपास्महे(?) ।
मन्त्रस्य गणनाद्देवि यत् पापं प्राप्नुयान्नरः ॥ ८।
तत् पापं शृणु चार्वङ्गि नरकञ्चोत्तरोत्तरम् ।
यत् पापं प्राप्नुयाद् देवि स्वयंभूलिङ्गचालने ॥ ८।
तत् पापं कोटिगुणितं गणनाद्देवमन्त्रयोः ।
तस्मात्तु गणनां देवि वर्जयेन्मतिमान्नरः ॥ ८।
त्यक्त्वा शैववैष्णवेषु सौरे गाणपते तथा ।
अन्यत् सर्वासु विद्यासु गणनां वर्जयेन्नरः ॥ ८।
इति श्री कामधेनुतन्त्रे देवदेवीसंवादे अष्टमः पटलः ॥
नवमः पटलः
श्रीमाहादेव उवाच
अधुना संप्रवक्ष्यामि रहस्यं गुह्यमुत्तमम् ।
यज्ज्ञात्वा साधको याति दुर्लभं ब्रह्ममन्दिरम् ॥ ९।
इडया पूरयेद् वायुं सुषुम्नान्तर्गतं ततः ।
रेचयेत् पिङ्गलामार्गे प्राणायामक्रमात् प्रिये ॥ ९।
अनुलोमेन चार्वङ्गि मातृकां युवतीं स्मरेत् ।
पञ्चाशन्मातृकावर्णं सबिन्दुं नादसंयुतम् ॥ ९।
उच्चार्य पूरकेणैव तत इष्टं समुच्चरेत् ।
ततस्तु मातृकावर्णं विलोमेन जपेत् प्रिये ॥ ९।
सुषुम्नामध्यदेशे तु चित्रिणी सुवरानने ।
अनुलोमविलोमेन मातृकां युवतीं स्मरेत् ॥ ९।
इष्टमन्त्रं ततो जप्त्वा विलोमं कुरु यत्नतः ।
अनेनैव विधानेन रेचयेत् पिङ्गलापथे ॥ ९।
एवं द्वादशधा कृत्वा प्रत्यहं वरवर्णिनि ।
त्रिसन्ध्यां चञ्चलापाङ्गि यः कुर्यात् कमलानने ॥ ९।
जीवन्यासं भवेत्तस्य मन्त्रसिद्धिश्च नान्यथा ।
एकधा वा महेशानि कलौ संख्या चतुर्गुणा ॥ ९।
प्रत्यहं दशधा कृत्वा शिवतुल्यो भवेन्नरः ।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे नवमः पटलः ॥
दशमः पटलः
श्रीमहादेव उवाच
ललाटतत्त्वं चार्वङ्गि अकारं सर्वदा प्रिये ।
आकारं मुखतत्त्वन्तु शृणुष्व वरवर्णिनि ॥ १०।
इकारं दक्षनेत्रञ्च ईकारं वामनेत्रके ।
उकारं दक्षकर्णे स्यादूकारं वामकर्णके ॥ १०।
ऋकारं दक्षनासा च ऋकारं वामनासिके ।
ऌकारं दक्षगण्डं स्यात् ॡकारं वामगण्डकम् ॥ १०।
एकारं अधरं तत्त्वं ऐकारं ओष्ठ एव च ।
ओकारं ऊर्ध्वदन्तं स्यात् औकारश्चाधोदन्तकम् ॥ १०।
अंकारं शिरसस्तत्त्वं अःकारं मुखमण्डलम् ।
ककारादि पञ्चतत्त्वं दक्षबाहौ प्रशस्यते ॥ १०।
वामबाहौ चकारादि पञ्चतत्त्वञ्च तिष्ठति ।
दक्षपादे टकारादि पञ्चतत्त्वं वरानने ॥ १०।
तकारादि पञ्चतत्त्वं वामपादे पशस्यते ।
पकारं दक्षपार्श्वञ्च फकारं वामपार्श्वके ॥ १०।
बकारं पृष्ठतत्त्वञ्च भकारं नाभिरेव च ।
मकारं उदरं तत्त्वं यकारं हृदयं तथा ॥ १०।
रकारं स्कन्दतत्त्वञ्च लकारं वाममेव च ।
घटितत्त्वं वकारञ्च शकारं दक्षबाहुषु ॥ १०।
वामबाहौ षकारञ्च सकारं दक्षपादकम् ।
वामपादं हकारञ्च क्षकारं शिरसोपरि ॥ १०।
अकारं बीजतत्त्वञ्च तकारं प्रणवेन च ।
मकारञ्च सकारञ्च मण्डितं हि तथैव च ॥ १०।
अहङ्कारः पकारं स्यात् फकारो मनसस्तथा ।
नकारं शब्दतत्त्वञ्च दं धं रूपं प्रशस्यते ॥ १०।
गकारं पादतत्त्वञ्च छकारोपस्थमेव च ।
उकारमाकाशतत्त्वञ्च ऊकारं श्रोत्रमेव च ॥ १०।
त्वक्तत्त्वञ्च जकारः स्याद् झकारः पादमेव च ।
ककारः पृथ्वीतत्त्वं खकारो ज्ञानतत्त्वकम् ॥ १०।
शकारं हृत्पुण्डरीकं षकारं तत्त्वमण्डलम् ।
सकराञ्च तथा चन्द्रं रकारं वह्निमण्डलम् ॥ १०।
परमेष्ठि तथा तत्त्वं षकारः सुरपूजिते ।
लकारं पृथ्वीतत्त्वं हकारञ्च शिरस्तथा ॥ १०।
यकारं वायुतत्त्वञ्च ककारं स्वर्गमेव च ।
एतयोर्योगमासाद्य क्षकारं तत्त्वविग्रहम् ॥ १०।
तेन अ त म स प फ न द ध ग छ उ ऊ ज झ क ख श ष स र य ल ह क्ष
॥
अकारादिक्षान्तवर्णं तत्त्वञ्च पञ्चविंशतिः ।
सर्वतत्त्वमतिगुह्यं परमात्मा सुलोचने ॥ १०।
मातृकाया वरारोहे क्रमान्नामानि संशृणु ।
ब्रह्माणी चण्डिका रौद्री गौरीन्द्राणी तथैव च ॥ १०।
कौमारो वैष्णवी दुर्गा तथैव नारसिंहिका ।
कालिका मुण्डमाला च शिवदूती तथा परा ॥ १०।
वराही कौषिकी चैव तथा माहेश्वरी प्रिये ।
शङ्करी च जयन्ती च मंगला कलिमर्दिनी ॥ १०।
पालिका चैव मेधा च शिवरूपा च शाम्भवी ।
भीमा शान्ता च उग्रा च भ्रामरी रुद्ररूपिणी ॥ १०।
अम्बिका बहुरूपा च क्षेमा क्षेमङ्करी तथा ।
धात्रीरूपा स्वधा स्वाहा तथैव वह्निरूपिणी ॥ १०।
अपर्णा च तथा माया घोररूपा प्रियंवदा ।
ब्रह्माण्डवाणी ब्राह्मी च पञ्चाशन्मातृकाः स्मृताः ॥ १०।
इत्येतत् कथितं सम्यक् केवलं तव भक्तितः ।
एतास्तु मातृकादेव्यो ब्रह्माण्डं सचराचरम् ॥ १०।
व्याप्य तिष्ठन्ति चार्वाङ्गि नानामूर्त्तिधराव्ययाः ।
शक्तिमन्त्रे विष्णुमन्त्रे शैवे सौरे च पार्वति ॥ १०।
अन्यसर्वेषु मन्त्रेषु गणेशे वरवर्णिनि ।
मातृका युवतीरूपा मन्त्रविग्रहरूपिणी ॥ १०।
ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
ते सर्वे चञ्चलापाङ्गि निश्चलाश्च निरिन्द्रियाः ॥ १०।
देवादीनां वरारोहे मन्त्रं नास्ति कदाचन ।
शब्दब्रह्म यदा याति तन्त्रं मन्त्रं तदा भवेत् ॥ १०।
पञ्चाशद्युवती सर्वा शब्दब्रह्मस्वरूपिणी ।
ब्रह्मणः कारणं नास्ति प्रकृतेरस्ति भाविनि ॥ १०।
प्रकृतेर्या वरारोहे सा दीक्षा सर्वसम्मता ।
दीक्षायां चञ्चलापाङ्गि प्रशस्ता युवतीकला ॥ १०।
पञ्चाशन्मातृका या सा युवती परिगीयते ।
युवतीरहितं देवि कुतो विद्या कुतो मनुः ।
निर्गुणं परमं ब्रह्म प्रधाना युवतीगणाः ॥ १०।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे दशमः पटलः ॥
एकादशः पटलः
श्रीशिव उवाच
यथा जले सूर्यतत्त्वं तथा मन्त्रे प्रतिष्ठितम् ।
देवीनां ज्योतिषः पुञ्जो वर्तन्ते प्रकृतेः कलाः ॥ ११।
अथान्तरात्मा परमं ज्ञानात्मा सुवरानने ।
वर्तन्ते युवतीरूपाः षोडश प्रकृ(तिः?तेः) पराः ॥ ११।
प्रकृतिं हि विना देवि ज्ञाता ब्रह्मा सनातनः ।
अत एव वरारोहे स एव श्रीसदाशिवः ॥ ११।
जाग्रत् स्वप्नसुषुप्तिर्या तुरीया वरवर्णिनि ।
तास्ताः सर्वा वरारोहे युवती परमापरा ॥ ११।
कार्यकारणकाले च गणनीया वरानने ।
शून्यात् शून्यं परं शून्यं शून्यरूपं निरञ्जनम् ॥ ११।
कोटिसूर्यप्रतीकाशं निर्मलं ज्ञानमुत्तमम् ।
हृदि भावय चार्वङ्गि तेजःपुञ्जं महाप्रभम् ॥ ११।
दलिताञ्चनपुञ्जाभं वर्णराजं वरानने ।
त्रिभङ्गललिताकारं चारुचूडाविराजितम् ॥ ११।
शिखिपुच्छयुतं चूडं भ्रमरैः शोभितं परम् ।
पीतांशुकपरीधानं वनमालाविभूषितम् ॥ ११।
रत्नकुण्डलसंयुक्तं स्फुरद्गण्डमनोहरम् ।
कदम्बकुसुमोपेतं श्रवणं जनमोहितम् ॥ ११।
श्रीवत्सकौस्तुभोद्दीप्तं आजानुबाहुराजितम् ।
आरक्तनयनद्वन्द्वं कोटिविद्युत्समद्युतिम् ॥ ११।
आरक्तचरणद्वन्द्वं नूपुरारावसंयुतम् ।
आरक्तकरतलस्वच्छं गुञ्जमालाविराजितम् ॥ ११।
शब्दब्रह्ममयं विष्णुं इकारं शब्दजल्पितम् ।
एवंरूपं समुत्पन्नं हृदि मध्ये वरानने ॥ ११।
जायते कामबीजात्तु शून्यमध्ये सुलोचने ।
शून्यमध्ये स्थिता देवि कामबीजस्वरूपिणी ॥ ११।
लकारसंयुता या सा कृष्णमाता प्रगीयते ।
सर्वेषु विष्णुमन्त्रेषु कामबीजं परात्परम् ॥ ११।
हृदि शून्ये महेशानि विष्णोर्मन्त्रं जपेत् प्रिये ।
ततो वै कामबीजात्तु जायते विष्णुविग्रहम् ॥ ११।
अतं काममयं विष्णुं हृदि भावय पार्वति ।
कामिनी या महेशानि विष्णुमाता प्रगीयते ॥ ११।
अतो विष्णुमातृवर्णं वर्णराजमवाप्नुयात् ।
ककारः कामिनी साक्षाद् लकारः पृथिवीश्वरी ॥ ११।
रतिस्तु मर्दिनी साक्षाद् नादस्तु योनिरूपिणी ।
बिन्दुः कुण्डलिनीरूपं शिवशक्तिमयं प्रिये ॥ ११।
इदं बीजं महेशानि विष्णुमाता पराक्षरा ।
निरक्षरो विष्णुदेवो ह्यक्षराज्जायते ध्रुवम् ॥ ११।
अत एव वरारोहे ब्रह्मणः कारणं परा ।
क्लींकारबीजरूपा या सा परा परिगीयते ॥ ११।
परात्परतरा साऽपि वह्निमण्डलसंयुता ।
कामिनी सा महेशानि पृथिवी तस्य आसनम् ॥ ११।
कदाचित् पृथिवीमध्ये कदाचिद् वह्निमण्डले ।
वसते कामिनी देवी बिन्दुत्रयसमन्विता ॥ ११।
जन्मलब्धा महाविष्णुः कूर्चबीजं जपेत् प्रिये ।
अनेन प्रजपेन्मन्त्रं हुंकारं वरवर्णिनि ॥ ११।
विष्णोर्विग्रहणे तत्तु स्वयं प्रकृतिमूर्तिमान् ।
प्रकृतिः परमाराध्या देवानां नगनन्दिनि ॥ ११।
हुंकारं परमाश्चर्यं बीजरन्तं शृणु प्रिये ।
षष्ठस्वरः परिचयो वियद्बीजं शशिप्रभम् ॥ ११।
तस्योपरि वरारोहेसदाबिन्दुं विभावय ।
काममन्मथकन्दर्पम् अक्षरध्वजसंज्ञकम् ॥ ११।
मीनकेतुर्महेशानि पञ्चबीजं प्रकीर्तितम् ।
मायाकूर्चं वधूबीजं लक्ष्मीबीजञ्च पार्वति ॥ ११।
प्रणवञ्च महेशानि स्वयं चतुर्दशं तथा ।
सपिण्डवत्तथा देवि येषु यासु च विद्यते ॥ ११।
तन्मन्त्रमतिसिद्धं स्यात् परः प्रकृतिरूपिणी ।
एवं बीजं सकृद् ध्यात्वा सर्वासां भवति प्रियः ॥ ११।
तन्मन्त्रं प्रजपेद्देवि बीजध्यानं पुनः प्रिये ।
एवं हि दशधा कृत्वा मन्त्राणां बीजसाधनम् ॥ ११।
तस्माद् बीजात् समाकृष्य देवतारूपमुद्भवम् ।
देवध्यानं ततः कृत्वा इष्टमन्त्रं ततो जपेत् ॥ ११।
पुनर्ध्यानं देवतायाः पुनर्जापं कुरु प्रिये ।
एवं हि दशधा कृत्वा देवाधिष्ठानमेव च ॥ ११।
ततः सप्तच्छदां जप्त्वा कुल्लुकां दशधा जपेत् ।
आद्यन्ते सेतुमन्त्रञ्च दत्वा अष्टोत्तरं जपेत् ।
तन्मन्त्रं प्रजपेद्देवि एवं सिद्धिमुपालभे ॥ ११।
इति कामधेनुतन्त्रे देवदेवीसंवादे एकादशः पटलः ॥
द्वादशः पटलः
श्रीमहादेव उवाच
अपरैकं प्रवक्ष्यामि रहस्यमतिगोपनम् ।
अकृत्वा ध्यानतत्त्वञ्च अष्टतत्त्वं तथैव च ॥ १२।
अकृत्वा व्यर्थतां याति नात्र कार्या विचारणा ।
ततो जीवत्वमाप्नोति मन्त्रः सिध्यति तत्क्षणात् ॥ १२।
अथवा परमेशानि मन्त्रवर्णं यथा तथा ।
प्रणवपुटितं कृत्वा अनुलोमविलोमतः ॥ १२।
तदैव परमेशानि जीवत्वं प्राप्यते मनुः ।
एकधा वा त्रिधा कृत्वा यदि कुर्याद् वरानने ॥ १२।
तदा सिद्धिमवाप्नोति नान्यथा सुरपूजिते ।
जीवत्वं हि विना देवि यदि मन्त्रं जपेत् सुधीः ॥ १२।
तज्जपं चञ्चलापाङ्गि शवमेव न संशयः ।
सदा निद्रातुरो मन्त्री जीवहीनश्च पार्वति ॥ १२।
श्रीं क्लीं ह्रीं हुं स्त्रीं श्रीं ओम् ।
कथं सिद्धिमवाप्नोति निद्रायां वरवर्णिनि ।
जीवन्यासेन चार्वङ्गि निद्राभङ्गो भवेद् ध्रुवम् ॥ १२।
बिन्दुतत्त्वं प्रजप्याथ ज्ञानतत्वञ्च सुन्दरि ।
प्राणतत्त्वञ्च चार्वङ्गि देवतत्त्वं तथैव च ॥ १२।
जपतत्त्वं मन्त्रतत्त्वं ध्यानतत्त्वं सुलोचने ।
अक्षरे अक्षरे देवि अज्ञात्वा प्रजपेद् यदि ॥ १२।
संयोगं यद् भवेद् योगं प्रफुल्लं तदुदाहृतम् ।
केवलं कलिकाबीजं तद्वर्णं सुरपूजिते ॥ १२।
आगतं मम वक्त्राद् यद् गतं तव मुखे सदा ।
मतं श्रीवासुदेवस्य इति ते कथितं प्रिये ॥ १२।
एतन्मन्त्रं महागुह्यं ईशानमुखसंयुतम् ।
एतन्मन्त्रप्रभावाद्धि कालकूटं पिबाम्यहम् ॥ १२।
एतास्तु मातृका वर्णाः सुषुम्नामध्यवर्तिनः ।
एते वर्णा वरारोहे महायोगमयाः सदा ॥ १२।
अक्षरं हि विना देवि न योगो जायते मम ।
योगमार्गे भक्तिमार्गे मुक्तिमार्गे च सुन्दरि ॥ १२।
ध्यानमार्गे तु पूजायां जपमार्गे तथैव च ।
एतास्तु युवतीवर्णाः कार्यकारणरूपिणः ॥ १२।
एतन्मन्त्रमविज्ञाय न जप्तव्यं कदाचन ।
एतन्मन्त्रमविज्ञाय पुराणं संहितां स्मृतिम् ॥ १२।
पठन्नरकमाप्नोति पितृभिः सह नान्यथा ।
सर्वधर्मेषु यत्कर्म सर्वयज्ञेषु यत्फलम् ॥ १२।
सर्वदानेषु तीर्थेषु यत्फलं प्राप्नुयाद् द्विजः ।
तत्फलं समवाप्नोति वर्णानां ध्यानमात्रतः ॥ १२।
वर्णध्यानमविज्ञाय वर्णतत्त्वं तथैव च ।
पुराणवाचको यस्तु ध्रुवं नरकमाप्नुयात् ॥ १२।
कोटिवंशान् समादाय स द्विजो नरकं ब्रजेत् ।
यथा वक्ता तथा श्रोता द्वयोरपि फलं समम् ॥ १२।
कथमज्ञानतो मूर्खोऽज्ञात्वा वर्णविनिर्णयम् ।
पुराणानि पठित्वा वै निश्चयं नरकं व्रजेत् ॥ १२।
निश्चयञ्च महेशानि दारिद्र्यं घोरमाप्नुयात् ।
निश्चयं रोगमाप्नोति जम्बूद्वीपस्य भारते ॥ १२।
स स्यात् सनातनो देवो वाणी त्रिपुरसुन्दरी ।
सर्वासां युवतीनाञ्च भवानी चाधिदेवता ॥ १२।
ध्यायेद् देवीं महामायां मातृकां जगदीश्वरीम् ।
रक्तपद्मासनगतां रक्तांशुकपरिष्कृताम् ॥ १२।
रक्तचन्दनलिप्ताङ्गीं रक्तवस्त्रोत्तरीयिणीम् ।
रक्तबिम्बफलाभासां राकाचन्द्रमुखीं पराम् ॥ १२।
भ्रमद्भ्रमरलीलाभनयनत्रयराजिताम् ।
कटाक्षशतसंयुक्तां चारुचूडाविनोदिनीम् ॥ १२।
रक्तालङ्कारसुभगां त्रिभङ्गिललिताकृतिम् ।
हास्ययुक्तां प्रफुल्लास्यां ज्योत्स्नाजालसमच्छविम् ॥ १२।
मृणालसदृशाकारबाहुवल्लीविराजिताम् ।
कञ्चुलीसंयुतां रम्यां कदम्बकोरकस्तनीम् ॥ १२।
नखानां किरणोद्योतैर्भुवनं परिमोहयन् ।
एवं ध्यात्वा महामायां भवानीं शिवमोहिनीम् ॥ १२।
अपरैकं प्रवक्ष्यामि रहस्यं प्रमाद्भुतम् ।
हृत्पद्मे द्वादशदले वराहोपरि भावयेत् ॥ १२।
यस्यदेवस्य यद्बीजं प्रफुल्लकलिकां तथा ।
ध्यात्वादेवीं यथाशक्त्या तस्मादाविर्भवेत् स्वयम् ॥ १२।
शक्तिर्वा विष्णुदेवो वा शिवो वा सूर्य एव वा ।
बीजादुत्पद्यते देवि परंब्रह्म निरञ्जनम् ॥ १२।
बीजध्यानं विना देवि कथमुत्पद्यते हरिः ।
सदाशिवो महादेवः कथमुत्पद्यते स्वयम् ॥ १२।
सदाशिवस्य जननी बीजरूपा सनातनी ।
इति यो वेत्ति स ज्ञानी स एव वीरसत्तमः ॥ १२।
गुरुर्योग्यः स एव स्यात् स एव परमः शिवः ।
सर्वेषाञ्चैव बीजानामेवं ध्यानं समाचरेत् ॥ १२।
शुक्लविद्युत्समाकारां नयनत्रयधारिणीम् ।
कटाक्षविशिखैर्युक्तां चतुर्बाहुसमन्विताम् ॥ १२।
त्रिभङ्गललिताकारां चारुचूडाविराजिताम् ।
पुण्डरीकोपविष्टाञ्च राकाचन्द्रमुखीं पराम् ॥ १२।
नानागन्धप्रलिप्ताङ्गीं सुगन्धिमाल्यसंस्कृताम् ।
नानाभरणदीप्ताङ्गीं मेघांशुकपरिष्कृताम् ॥ १२।
वीणावाद्यविनोदेन उल्लसन्तीं जगत्त्रयम् ।
आद्यां ब्रह्ममयीं देवीमिष्टबीजस्वरूपिणीम् ॥ १२।
ब्रह्माद्या देवता यस्याश्चरणे पतिता भुवि ।
भजेऽहं मातृकादेवीं वेदमाता सनातनीम् ॥ १२।
अनेन विधिना ध्यात्वा सर्वासां भवति प्रियः ।
बीजमेतन्महेशानि प्रथमं दशधा जपेत् ॥ १२।
तन्मन्त्रं चञ्चलापाङ्गि आनन्दपटले स्थितम् ।
ततो ध्यात्वा पुनर्जप्त्वा दशधा वरवर्णिनि ॥ १२।
एतत्तत्त्वमविज्ञाय प्रजपेद् यदि पार्वति ।
सर्वपापमयः सोऽपि भवेत् शूकरवद् द्विजः ॥ १२।
तत्त्वमेतन्महागुह्यं योगमार्गे स्थितं सदा ।
तव भक्त्या मयाख्यातमतिगुह्यं सुलोचने ॥ १२।
तन्त्राणां सारमेतत्तु सर्वसिद्धिप्रदायकम् ।
स योगी योगवेत्ता च योगात्मा योगनायकः ॥
योगाचार्यो योगमाया योगानन्दप्रदायकः ॥ १२।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे द्वादशः पटलः ॥
त्रयोदशः पटलः
श्रीमहादेव उवाच
अधुना संप्रवक्ष्यामि आनन्दपटलं प्रिये ।
शृणु तत्त्वं प्रवक्ष्यामि सुन्दरं सुमनोहरम् ॥ १३।
हृत्पद्मे द्वादशदले विद्युत्कोटिसमन्विते ।
भावयेन्मन्त्रबीजानि यस्य या इष्टदेवता ॥ १३।
भावयेत् प्रथमं बीजं वराटोपरि पार्वति ।
अन्यानि सर्वबीजानि पत्रमध्ये पृथक् पृथक् ॥ १३।
एवं हि दशधा जप्त्वा क्रमाद् बीजं जपेत् प्रिये ।
दशधा दशधा देवि प्रजपेद् बीजमुत्तमम् ॥ १३।
ततस्तु बीजमध्ये तु ध्यायेदिष्टं सुलोचने ।
तस्माद् बीजाद् वरारोहे देवता जायते ध्रुवम् ॥ १३।
तस्य देवस्य चार्वङ्गि निरीक्ष्य देहसुन्दरम् ।
चरणात् केशपर्यन्तं नानावेशमयं प्रिये ॥ १३।
निरीक्ष्य मनसा भक्त्या पुनर्ध्यानं समाचरेत् ।
ततस्तु प्रजपेद् बीजं वर्णानन्दस्वरूपिणम् ॥ १३।
प्रजपेत् प्रथमं बीजं बीजध्यानं ततः परम् ।
एतत्तु प्रथमं बीजं साधनं दुर्लभं प्रिये ॥ १३।
सर्वेषां बीजवर्णानां यदि जानाति साधकः ।
ध्यानं परमकल्याणं वर्णे वर्णे पृथक् पृथक् ॥ १३।
अज्ञात्वा चञ्चलापाङ्गि मातृकाध्यानमाचरेत् ।
तदेवं सहसा देवि सर्वासां जायते ध्रुवम् ॥ १३।
यस्य मन्त्रस्य यद्वर्णं तस्य ध्यानं पृथक् पृथक् ।
बीजात्तु जायते विष्णुरवतारवरः प्रिये ॥ १३।
बीजात्तु जायते रामो बीजात् कृष्णः प्रजायते ।
स्थावरं जङ्गमं देवि सर्वं बीजात् प्रजायते ॥ १३।
आज्ञाचक्रे विशुद्धौ च मूलाधारे ततः प्रिये ।
स्वाधिष्ठाने ततो देवि मणिपूरे च पार्वति ॥ १३।
अनेन विधिना देवि कुर्यात् साधकसत्तमः ।
प्रत्यहं कुरुते यस्तु स सिद्धः शिव एव सः ॥ १३।
प्रत्यहं चञ्चलापाङ्गि षट्चक्रं भ्रामयेत्तु यः ।
साधनाच्च महेशानि तस्मात् कुसुमवत् प्रिये ॥ १३।
नित्यञ्च हृदये कुर्यादवश्यं वद किं प्रिये ।
बीजस्य चञ्चलापाङ्गि ध्यानं मन्त्रं पृथक् पृथक् ॥ १३।
साक्षात् श्रीः प्रकृतिर्देवी बीजरूपा सनातनी ।
सनातनस्य जननी सर्ववर्णमयी प्रिये ॥ १३।
जपस्य प्रथमे काले बीजस्य तत्त्वमुच्चरेत् ।
ततस्तु प्रजपेन्मन्त्रं ससेतु वरवर्णिनि ॥ १३।
बीजतत्त्वमविज्ञाय प्रजपेद् यदि कोटिधा ।
सर्वं तस्य वृथा देवि अरण्ये रोदनं यथा ॥ १३।
तत्त्वत्रयं प्रवक्ष्यामि मन्त्राणां शृणु सुन्दरि ।
विभाव्य नाभिपद्मेषु वायुबीजं सबिन्दुकम् ॥ १३।
मन्त्रस्य प्रथमं वायुबीजं मध्ये विचिन्त्य वै ।
ध्यात्वा बीजं महेशानि प्रजपेद् बीजमुत्तमम् ॥ १३।
दशधा प्रजपेद् बीजं दशधा ध्यानमेव च ।
दशतत्त्वयुतं मन्त्रं तदैव सहसा भवेत् ॥ १३।
संशोष्य बीजं चार्वङ्गि वह्निबीजे विचिन्त्य वै ।
हृत्पद्मे वह्निमध्ये तु ध्यात्वा बीजं हुताशनम् ॥ १३।
दशधा प्रजपेन्मन्त्रं दशधा ध्यानमेव च ।
विंशतत्त्वयुतं मन्त्रं तदैव सहसा भवेत् ॥ १३।
मातृस्वरात्ततो देवि गलितामृतधारया ।
आप्लाव्य बीजं चार्वङ्गि सर्वावयवसंयुतम् ॥ १३।
तदैव सहसा कृत्वा ललाटे वरुणालये ।
वरुणस्य तु मध्ये तु तद्बीजं भावयेत् प्रिये ॥ १३।
दशधा च जपित्वा वै बीजञ्च दशधा स्मरेत् ।
तदामृतमयं बीजं सहसा भवति प्रिये ॥ १३।
विष्णुमन्त्रेषु देवेशि चन्द्रबीजेषु भावयेत् ।
अन्यत् सर्वेषु मन्त्रेषु भावयेद् वरुणालये ॥ १३।
त्रिंशत्तत्त्वयुतं मन्त्रं तदैव भवति प्रिये ।
तत्त्वातीतं स्वधातीतं वाचा विद्यां जपेत् प्रिये ॥ १३।
अनेन विधिहीनञ्च तज्जपं विफलं सदा ।
तत्त्वहीनं जपेद्यस्तु विफलं सततं प्रिये ॥ १३।
शोषणं दहनं देवि अमृतं ज्ञानसंज्ञकम् ।
एतत् तत्त्वमयं भद्रे शीघ्रं सिद्धिप्रदायकम् ॥ १३।
यो जपेत्तत्त्वरहितं तस्य हानिः पदे पदे ।
तस्मात्तत्त्वं शुभाराध्य तस्मान्मन्त्रं जपेत् सुधीः ॥ १३।
अनेन विधिना देवि सर्वतत्त्वमयं मनुम् ।
कृष्णमन्त्रेषु रामेषु अवतारवरेषु च ॥ १३।
सौरे गणपतौ देवि शक्तिमन्त्रे स्वयं प्रिये ।
शिवमन्त्रेषु चार्वङ्गि अन्यतन्त्रे तथैव च ॥ १३।
त्रिंशत्तत्त्वयुतं कृत्वा मन्त्रं बीजं सुलोचने ।
एवमेव विधानेन बीजे जीवत्वमाप्नुयात् ॥ १३।
तस्माद् बीजाद् वरारोहे रामकृष्णादयश्च ये ।
उत्पद्यन्ते वरारोहे नान्यथा वरवर्णिनि ॥ १३।
एतन्मन्त्रं सकृत् कृत्वा प्रजपेदनिशं मनुम् ।
प्रजपेदनिशं विद्यां शौचाशौचं न चाचरेत् ॥ १३।
मन्त्रे अक्षरबुद्धिः स्याद् गुरौ तु मानवः प्रिये ।
देवतायां वरारोहे प्रतिमाबुद्धिर्जायते ॥ १३।
किं तस्य जपपूजायां सर्वं व्यर्थं कदर्थनम् ।
इति ते कथितं देवि बीजतत्त्वं सुगोपनम् ॥ १३।
कस्यचिन्नैव वक्तव्यं यदि कल्याणमिच्छसि ।
एतज्ज्ञानमविज्ञाय स कथं गुरुतां व्रजेत् ॥ १३।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे त्रयोदशः पटलः ॥
चतुर्दशः पटलः
श्रीमहादेव उवाच
देवदेव महादेव संसारार्णवतारक ।
कृपया कथयेशान वकारतत्त्वमुत्तमम् ॥ १४।
श्रीमहादेव उवाच
पूर्वोक्तं चञ्चलापाङ्गि गायत्रीतत्त्वमुत्तमम् ।
गायत्री या वरारोहे चतुर्वकारसंयुता ॥ १४।
कान्तं शेषवकारञ्च वरुणं हृदि भावय ।
यवर्गं वायुबीजञ्च हृदि भावय पार्वति ॥ १४।
यवर्गं यत्तु देवेशि वायुबीजं तदुच्यते ।
यकारस्य चतुर्थो यो वायुबीजं प्रकीर्तितम् ॥ १४।
यवर्गञ्च वायुबीजं मयैतन्निश्चितं प्रिये ।
सर्वविद्यासु मन्त्रेषु वरुणं भावय प्रिये ॥ १४।
वह्निजायायुतानाञ्च पवर्गं हृदि भावय ।
गायत्री संस्थिता देवि पापोच्चाटनकर्मणि ॥ १४।
पूर्वोक्तध्यानमार्गेण भावना परिकीर्त्तिता ।
ध्यानभेदेन चार्वङ्गि वकारं भावय प्रिये ॥ १४।
अधुना संप्रवक्ष्यामि ककारध्यानमुत्तमम् ।
विशेषं शृणु वक्ष्यामि ककारस्यातिदुर्लभम् ॥ १४।
यन्नोक्तमानन्दपटले अधुना कथयामि ते ।
तद् ध्यात्वा साधको याति दुर्लभं मोक्षमव्ययम् ॥ १४।
येन ध्यानप्रकाशेन मन्त्रं तन्त्रञ्च सिध्यति ।
एवं तद्ध्यानमात्रेण शिवतुल्यो भवेन्नरः ॥ १४।
ककारध्यानमात्रेण सर्ववर्णं हि सिध्यति ।
ककारभावनाच्चैव सर्वासां भावना भवेत् ॥ १४।
तस्मात् सर्वप्रयत्नेन ककारं हृदि भावय ।
ओम् प्रातरादित्यसंकाशां सिंहपृष्ठोपरिस्थिताम् ॥ १४।
रक्तपद्मोपविष्टाञ्च रक्तवस्त्रपरीवृताम् ।
चतुर्भूजां त्रिनेत्राञ्च पञ्चबाणधनुर्धराम् ॥ १४।
वरदाभयदात्रीञ्च पीनतुङ्गपयोधराम् ।
मृणालसदृशाकारचतुर्बाहुपरीवृताम् ॥ १४।
शङ्खकङ्कणकेयूरैरङ्गदैः परिशोभिताम् ।
सुगन्धिमल्लिकाहारैः कबरीमध्यशोभिताम् ॥ १४।
त्रिभङ्गललिताकारां चारुचूडाविराजिताम् ।
शिखिपुच्छयुतां चूडां नानारत्नसमन्विताम् ॥ १४।
ईषधास्यप्रसन्नास्यां मुक्तारञ्जितनासिकाम् ।
माणिक्यकिरणोद्योतदन्तपङ्क्तिविराजिताम् ॥ १४।
पूर्णचन्द्रसमाभासनखपङ्क्तिमनुत्तमाम् ।
स्वर्णसूत्रयुतहाररत्नचारुविनिर्मिताम् ॥ १४।
कटाक्षविशिखोद्दीप्तभ्रूलतापरिशोभिताम् ।
तीर्थत्रययुतां रम्यां नयनत्रयराजिताम् ॥ १४।
रामरम्भासमाकार - ऊरुद्वयविराजिताम् ।
बृहल्लतासुसंयुक्तरत्नकिञ्जल्कशोभिताम् ॥ १४।
अष्टवर्गैः सेविताञ्च अष्टवर्गैः प्रपूजिताम् ।
सिन्दूरतिलकोदीप्तामञ्जनाङ्कितलोचनाम् ॥ १४।
ललाटपट्टिकाशुभ्रामर्द्धचन्द्रपरीवृताम् ।
ब्रह्मादिदेवतावृन्दैः शिरसि धार्यते च या ॥ १४।
किमाख्यां कामिनीं साक्षात् ककारवररूपिणीम् ।
एवं ध्यात्वा वरारोहे प्रजपेद् यदि साधकः ॥ १४।
तदैव सहसा सिद्धिर्जायते तस्य सुन्दरि ।
वर्णज्ञानं विना देवि न जपेत् पाशवः क्वचित् ॥ १४।
किं तस्य ध्यानपूजायां पुरश्चर्याशतं शतम् ।
किं तस्य जपहोमेन चन्द्रसूर्यस्य पर्वणि ॥ १४।
वर्णज्ञानं विना देवि वैष्णवः शैव एव वा ।
एकदा नोच्चरेद्देवि अज्ञात्वा व्र्णदीपनीम् ॥ १४।
सर्वासां मन्त्रविद्यानां दीपनी या प्रकीर्तिता ।
सर्वेषां शास्त्रमध्ये तु प्रशस्ता वर्णदीपनी ॥ १४।
शक्तिमन्त्रे तथा सौरे गणेशमर्च्यते सदा ।
ज्ञात्वा तन्त्रं प्रकुर्वीत दीक्षां पूजां शुचिस्मिते ॥ १४।
श्रीमहादेव उवाच
रहस्यं तत्र वक्ष्यामि अत्यन्तगोपनं शृणु ।
यत्कृत्वा साधको याति परमं पदमुत्तमम् ॥ १४।
ललाटे तिलकं कृत्वा चन्दनेन सुगन्धिना ।
कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमैः प्रिये ॥ १४।
तिलकं धारयेद् यत्नादेकीकृत्य मनोहरम् ।
त्रिकोणं सुन्दरं स्वच्छं तिलकं जनमोहनम् ॥ १४।
एकीकृत्य पृथग् वापि नानावस्तुषु कारयेत् ।
राज्यार्थी रक्तवर्णेन मोक्षार्थी श्वेतचन्दनैः ॥ १४।
वश्ये रोचनया देवि तिलकं कारयेत् सुधीः ।
मोहने चञ्चलापाङ्गि अगुरुकुङ्कुमादिना ॥ १४।
कृष्णगन्धं वरारोहे शत्रोर्मारणकर्मणि ।
ललाटे बाहुमूले च तथा स्कन्धद्वयेषु च ॥ १४।
हृत्पद्मपार्श्वयुगले पृष्ठे नाभौ च सुन्दरि ।
ऊरुद्वये गण्डयुग्मे अधः पादद्वयेषु च ॥ १४।
विलिखेद् यत्नतो देवि ककारवर्णमुत्तमम् ।
चन्द्रविन्दुयुतं कृत्वा विलिखेद् वरवर्णिनि ॥ १४।
तदैव सहसा देवि विद्या मन्त्रञ्च सिध्यति ।
मोहयेदखिलान् लोकान् वशयेदिष्टदेवताम् ॥ १४।
इष्टदेवं वशं कृत्वा एकदा प्रजपेद् यदि ।
तत्क्षणाच्चञ्चलापाङ्गि देवत्वमुपजायते ॥ १४।
देवत्वं हि विना देवि कुतः पूजा कुतो जपः ।
अन्यथा प्रेतवत् पूजा वैष्णवे च विशेषतः ॥ १४।
ललाटे तिलकं कृत्वा रोचनासु शुचिस्मिते ।
तन्मध्ये विलिखेद् वर्णं ककारं सुमनोहरम् ॥ १४।
सामान्यमेतत् कथितं तिलकं जनमोहनम् ।
एतत्तु तिलकञ्चैव वशयेदपि केशवम् ॥ १४।
जपासनं दशम्यान्तु तदारभ्य च प्रत्यहम् ।
एतद्वर्णमविज्ञाय विषये समुपास्महे ।
स भ्रष्टः स च पापिष्ठो रौरवं नरकं व्रजेत् ॥ १४।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे चतुर्दशः पटलः ॥
पञ्चदशः पटलः
श्रीदेवी उवाच
देवदेव महादेव नीलकण्ठ त्रिलोचन ।
हृत्तत्वं कथयेशान यद्यहं तव वल्लभा ॥ १५।
श्रीमहादेव उवाच
शृणु देवि प्रवक्ष्यामि ज्ञानं परमदुर्लभम् ।
येन विज्ञानमात्रेण विष्णुः स्याद् वैष्णवः प्रिये ॥ १५।
हृत्पद्मे द्वादशदले स्वविद्यां भावयेत् सुधीः ।
ककारं भावयेदादौ वराटोपरि पार्वति ॥ १५।
पत्रे पत्रे ततो देवि स्वविद्यां प्रजपेत् सुधीः ।
मन्त्राणां प्रथमं बीजं ध्यात्वादौ प्रजपेत् सुधीः ॥ १५।
तस्मान्मन्त्रात्ततो देवि जायते देवविग्रहम् ।
देवताञ्च ततो ध्यात्वा तन्त्रोक्तध्यानवर्त्मना ॥ १५।
ध्यानञ्च त्रिविधं देवि समानफलदायकम् ।
कृत्वा ध्यानत्रयं देवि हृत्पद्मे परमेश्वरि ॥ १५।
सहस्रदलपद्मान्तर्मध्यस्थाने गुरोर्मुखात् ।
स्वविद्यां भावयेद्देवि कोटिविद्युत्समाकृतिम् ॥ १५।
भावयेदनिशं भक्त्या सिद्धो भवति तत्क्षणात् ।
जायन्ते देवि बीजात्तु रामकृष्णादयश्च ये ॥ १५।
ते सर्वे चञ्चलापाङ्गि बीजात्तु प्रभवन्ति वै ।
ज्ञात्वा सनातनं तत्त्वं आनन्दपटले स्थितम् ॥ १५।
पूजा कार्या च चार्वङ्गि सर्वसिद्धिमयो भवेत् ।
इदं सनातनं तत्त्वमज्ञात्वा नरकं व्रजेत् ॥ १५।
शूद्रः शूद्रमुखाच्छ्रुत्वा विद्यां वा मन्त्रमुत्तमम् ।
रौरवं नरकं यं यं तं तमाप्नोति निश्चितम् ॥ १५।
न शूद्राय मतिं दद्याद् न च शूद्रं कदाचन ।
उभयोर्नरकं देवि कोटिकुलसमायुतम् ॥ १५।
अनाचारो द्विजो यस्तु शूद्राणां गुरुरेव सः ।
यदि शूद्रो भवेद्देवि सत्यवादी जितेन्द्रियः ॥ १५।
स धर्मे निरतो भूत्वा श्रुत्वा द्विजगुरोर्मुखात् ।
सर्वसिद्धिमवाप्नोति शीघ्रं देवमवाप्नुयात् ॥ १५।
यद्देशे विद्यते शूद्रः पातकी मन्त्रविक्रयी ।
तद्देशं पतितं मन्ये तस्य राजा च पातकी ॥ १५।
स कथं चञ्चलापाङ्गि जिह्वायां प्रजपेन्मनुम् ।
तस्य जिह्वा वरारोहे मूत्रशोणितविड्यथा ॥ १५।
तन्मुखं मूत्रविट्कूपमन्नं विष्ठासमं सदा ।
तज्जलं शोणितं साक्षाच्चाण्डालसमजातिषु ॥ १५।
पृथिव्यां यानि तीर्थानि सर्वदेवमयानि वै ।
आलोक्य तन्मुखंतीर्थं तत्स्थानं त्यज्य(?)गच्छति ॥ १५।
तीर्थ कोटिः पलायन्ते दृष्ट्वा तन्मुखमण्डलम् ।
गङ्गाजलं परित्यज्य द्रुतं स्वस्थानमवाप्नुयात् ॥ १५।
महापातकिनो ये च ब्रह्महत्यादिसंयुताः ।
त्रैलोक्यपावनी गङ्गा तान् पुनाति न संशयः ॥ १५।
मन्त्रविक्रयिणः शूद्राः सदा नरकगामिनः ।
कलौ तु भारते वर्षे भविष्यन्ति न संशयः ॥ १५।
मन्त्रविक्रयिणः शूद्रा जायन्ते व्याघ्रयोनिषु ।
तत्संसर्गश्च यो विप्रश्चर्मकारः स एव हि ॥ १५।
चाण्डालसदृशः सोऽपि स एव वर्णसङ्करः ।
स्वधर्मनिरतः सूद्रो विद्यामन्त्रं शृणोति यः ॥ १५।
स धन्यः पृथिवीमध्ये स एव वैष्णवोत्तमः ।
स शाक्तः शिवभक्तश्च गाणेशः सौर एव च ॥
एतत्ते कथितं देवि वर्णज्ञानविनिर्णयम् ॥ १५।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे ज्ञानानन्दे
पञ्चदशः पटलः ॥
षोडशः पटलः
श्रीमहादेव उवाच
अपरैकं प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
यत्कृत्वा चञ्चलापाङ्गि रावणाद्या निशाचराः ॥ १६।
अवाप्यमतिवृद्धिञ्च त्रैलोक्याधिपतिः प्रभुः ।
सांकेतं परमं गुह्यमक्षराणां पृथक् पृथक् ॥ १६।
एतत्तत्त्वं विजानाति हरिर्ब्रह्मा पुरन्दरः ।
पञ्चाशद्वर्णसङ्केतं सावधानावधारय ॥ १६।
अकृत्वा साधको याति रौरवं नरकं व्रजेत् ।
रौरवं नरकं याति पुनरावृत्तिदुर्लभम् ॥ १६।
विशेषं विष्णुमन्त्रेषु कुर्याद् वैष्णवसत्तमः ।
अकृत्वा वैष्णवो याति नरकं कोटिकोटिशः ॥ १६।
मासि मासि वरारोहे शनिभौमदिने प्रिये ।
प्रातः स्नानं समासाद्य कृत्वा सन्ध्यां समाप्य च ॥ १६।
सूर्यायार्घ्यं ततो दद्यात् पादप्रक्षालनाय च ।
यागमण्डपमासाद्य भूतशुद्धिं विधाय च ॥ १६।
कुर्यान्न्यासं मातृकायाः प्राणायामं ततः परम् ।
न्यासानन्यांस्ततः कुर्यात्तन्त्रमार्गेण पार्वति ॥ १६।
शुक्लाम्बरधरः स्रग्वी गन्धलिप्तकलेवरः ।
रक्तासनं समासाद्य कुशासनमथापि वा ॥ १६।
प्रलिप्य ताम्रपात्रेषु सिन्दूरं रक्तचन्दनम् ।
विलिख्य मातृकावर्णं ह्यस्मिन् पात्रे पृथक् पृथक् ॥ १६।
अकारादिक्षकारान्तं सबिन्दुं चन्द्रसंयुतम् ।
महापद्मान्तरस्थानादानीय ब्रह्मवक्त्रकम् ॥ १६।
वामनासापथेनैव श्वासं पुष्पाञ्जलौ क्षिपेत् ।
तत्पुष्पं चञ्चलापाङ्गि कुर्यात् पुष्पस्य सञ्चयम् ॥ १६।
ध्यात्वा तु पूजयेद्दवीं क्रमेणैव पृथक् पृथक् ।
गन्धैर्नानाविधैर्देवीं पुष्पैर्नानाविधैस्तथा ॥ १६।
धूपैर्नानाविधैर्देवि दीपैर्नानाविधैस्तथा ।
नैवेद्यं विविधं देवि चतुर्विधमयं तथा ॥ १६।
दत्त्वा नानाफलादींश्च पूजयेत् परमेश्वरीम् ।
नानापुष्पमयैर्हारैः शुक्रादिगन्धसंयुतम् ॥ १६।
महापद्मवनान्तस्थमष्टोत्तरशतं जपेत् ।
प्रजपेद् मातृकावर्णं वर्णे वर्णे पृथक् पृथक् ॥ १६।
प्रतिपद्मे जपेन्मन्त्रं यस्मिन् पद्मे तु यत् स्थितम् ।
तस्मिन् पद्मे वनान्तस्थः स्वविद्यां प्रजपेच्छतम् ॥ १६।
सुप्रसन्ना मातृका स्यात् तदैव सहसा प्रिये ।
अकृत्वा मातृकापूजां मासि मासि वरानने ॥ १६।
इष्टविद्यां जपेद्यस्तु तस्य हानिं शृणु प्रिये ।
चित्रानाडीगता भूत्वा मातृका जगदीश्वरी ॥ १६।
सर्वेषां वैष्णवानाञ्च शाक्तानां वरवर्णिनि ।
शैवानाञ्च महेशानि अन्येषाञ्चैव सुन्दरि ॥ १६।
हरन्ति वैष्णवाअदीनां नान्यथा वचनं मम ।
प्रशस्ता मातृकापूजा दीक्षा या मत्त एव हि ॥ १६।
पुरश्चर्या हि चार्वङ्गि पूजनीया पृथक् पृथक् ।
माता सा सर्वविद्यानां मन्त्राणाञ्च पृथक् पृथक् ॥ १६।
यस्मादुत्पद्यते विद्या मन्त्रञ्च सुरवन्दिते ।
तस्मात्तु यत्नतो देवि तासां पूजा विधीयते ॥ १६।
नान्यथा निष्फला पूजा संवत्सरकृता च या ।
अनेन विधिना देवि पूजयेद् यदि मातृकाम् ॥ १६।
प्रसन्ना मातृका देवि पुत्रत्वेनानुकल्पते ।
रहितो मातृकापूजां जपपूजनतत्परः ॥ १६।
तस्य सर्वं महामाया मातृका जगदीश्वरी ।
हरन्ति मन्त्रतेजांसि आयुर्विद्यायशोबलम् ॥ १६।
अपरैकं प्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
अनुलोमविलोमेन कथितं शृणु पार्वति ॥ १६।
अनुलोमविलोमञ्च तथैव हि महेश्वरि ।
सर्वेषां जपयज्ञानां सहसा फलभाग् भवेत् ॥ १६।
सहसा सिद्धिमाप्नोति सहसा धर्ममाप्नुयात् ।
सहसा अर्थमाप्नोति सहसा मोक्षमाप्नुयात् ॥ १६।
पौर्णमास्याममावस्यां मासि मासि प्रयत्नतः ।
यः करोति प्रसन्नात्मा स एव श्रीसदाशिवः ॥ १६।
ज्ञात्वा संदीपनीं विद्यां आनन्दपटले स्थिताम् ।
अज्ञात्वा दीपनीं विद्यां चतुर्वर्गफलप्रदाम् ।
रहस्यमेतदन्यच्च सर्वञ्च विफलं व्रजेत् ॥ १६।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे
षोडशः पटलः ॥
सप्तदशः पटलः
श्रीमहादेव उवाच
एतत्तत्त्वमविज्ञाय न भावो जायते प्रिये ।
न देवो विद्यते काष्ठे न पाषाणे च पार्वति ॥ १७।
भावेषु विद्यते देवि भावो मोक्षस्वरूपधृक् ।
दिव्यभावो वीरभावः सदैव सहसा भवेत् ॥ १७।
अन्यथा चञ्चलापाङ्गि पशुभावमयः सदा ।
स्वभावेन विना देवि कथं सिद्धिर्भवेत् प्रिये ॥ १७।
तस्मात् प्रयत्नतो देवि वीरभावमयो भवेत् ।
अनेनैव विधानेन मातृकां पूजयेत्तु यः ॥ १७।
स एव दिव्यभावः स्याद् वीरभावः स एव हि ।
स धनी गुणी लोके मातृकां यस्तु पूजयेत् ॥ १७।
श्रीमहादेव उवाच
अपरैकं प्रवक्ष्यामि सामान्यं वरवर्णिनि ।
पूर्वोक्तध्यानमाचर्य प्रजपेन्मातृकामनुम् ॥ १७।
ककारध्यानमात्रेण सर्वसिद्धिः प्रजायते ।
जप्त्वा ककारं चार्वङ्गि सर्वासां भवति प्रियः ॥ १७।
सर्वासां मातृकां जप्त्वा ककारं केवलञ्च वा ।
ककारं सर्ववर्णानां मूलप्रकृतिरूपिणीम् ॥ १७।
तस्मात् प्रयत्नतो देवि ककारं पूजयेत् प्रिये ।
प्रत्यहं पूजयेद्देवीं प्रथमं पूजयेत् सुधीः ॥ १७।
सर्वासां फलमाप्नोति तदा भावमयो भवेत् ।
ककारपूजनाद् भद्रे सर्वासां पूजनं भवेत् ॥ १७।
प्रत्यहं कुरुते यस्तु प्रतिमासि वराअनने ।
दिव्यवीरः स एव स्यात् सर्वपूजाफलं लभेत् ॥ १७।
अकृत्वा चञ्चलापाङ्गि मनसापि च संस्मरेत् ।
सर्वपूजामयः सोऽपि सर्वभावमयः सदा ॥ १७।
भावतत्त्वमविज्ञाय विष्णुमन्त्रं कथं जपेत् ।
शक्तिमन्त्रं महेशानि स कथं पामरो जपेत् ॥ १७।
शिवमन्त्रञ्च सौरञ्च गाणेशं स कथं जपेत् ।
भावतत्त्वं विना देवि प्रजपेद्यदि कोटिधा ॥ १७।
सर्वं तस्य वृथा देवि नरकञ्च पदे पदे ।
स कथं चञ्चलापाङ्गि दिव्यवीरगुरुर्भवेत् ॥ १७।
पशुवत् सर्वदा देवि स एव पशुगुरुः प्रिये ।
भावतत्त्वेन रहितः स कथं पञ्चमं यजेत् ॥ १७।
वैष्णवस्तु वरारोहे मकारं पञ्चमं यजेत् ।
देवताया वरारोहे शरीरं जायते ध्रुवम् ॥ १७।
एवं मन्त्रं प्रवक्ष्यामि आनन्दपटले स्थितम् ।
कालीं छिन्नादिविद्याञ्च त्रिंशद्वर्णमयीं सदा ॥ १७।
तदा सिद्धिमयं सोऽपि अन्यथा विफलं सदा ।
इष्टध्यानं ततः कृत्वा हृदि मध्ये निरीक्षणम् ॥ १७।
प्रथमं कामिनीं ध्यात्वा प्रफुल्लां तदनन्तरम् ।
प्रफुल्लाध्यानमात्रेण जायते देवविग्रहम् ॥ १७।
पफुल्ला जायते देवि यस्य या इष्टदेवता ।
तदिष्टं भावयेद् देवि मन्त्रोक्तध्यानवर्त्मना ॥ १७।
देवतायाः शरीरञ्च बीजादुत्पद्यते ध्रुवम् ।
मन्त्रस्य प्रथमाद्बीजाज्जायते नगनन्दिनि ॥ १७।
पञ्चाशन्मातृका या सा सर्वा युवतिरूपिणी ।
तस्मात्तु युवतीदेहाज्जायते कृष्णविग्रहम् ॥ १७।
रामः पद्मपलाशाक्षः प्रफुल्लो जायते ध्रुवम् ।
बीजादुत्पद्यते देवि परं ब्रह्म सनातनम् ॥ १७।
बीजसंयोगमात्रेण शब्दब्रह्म सनातनम् ।
अपरैकं प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ १७।
पञ्चाशद्वर्णसंकेतं पञ्चाशत्तत्त्वमद्भुतम् ।
वर्णतत्त्वं विना देवि प्रजपेद्यदि कोटिधा ॥ १७।
सर्वं तस्य वृथा देवि हानिस्तस्य पदे पदे ।
हृत्पद्मे द्वादशदले वराटोपरि कामिनीम् ॥ १७।
ध्यात्वा प्रयत्नतो देवि तद्गर्भे वर्णभावनम् ।
अकारादिक्षकारान्तं त्रिकोणमध्यमण्डले ॥ १७।
अनुलोमविलोमे न कामिन्या गर्भपञ्जरे ।
एकैकं भावयेद् देवि प्रतिवर्गे पृथक् पृथक् ॥ १७।
सर्वांसां देवदेवीनां ककारं सुरपूजिते ।
ध्यात्वा प्रयत्नतो देवि अनुलोमविलोमतः ॥ १७।
पञ्चाशत्तत्त्वसङ्केतं पञ्चाशद्वर्णमेव हि ।
यः करोति नरो ज्ञात्वा शीघ्रं विद्या प्रसीदति ॥ १७।
किमसाध्यं वरारोहे यस्मै विद्या प्रसीदति ।
षट्चक्रे परमेशानि रहस्यं स्थानमुत्तमम् ॥ १७।
सहस्रारे गुरोः पादे पद्मं ध्यात्वा प्रयत्नतः ।
पञ्चाशद्वर्णसङ्केतं यः कुर्यान्मानवः प्रिये ॥ १७।
केशवं वशयेद्देवि रहस्येनाधुना ध्रुवम् ।
मोहयेच्चञ्चलापाङ्गि रुद्रं कालानलप्रभम् ॥ १७।
सर्वञ्चराचरं विश्वं सहसा मोहमानयेत् ।
एतत्ते कथितं देवि वर्णमोहनमुत्तमम् ॥ १७।
अज्ञात्वा मोहनं तत्त्वं प्रजपेद् यदि पार्वति ।
तस्मै लोका गन्धर्वाश्च वैरभावं ब्रजन्ति वै ॥ १७।
प्रत्यक्षरमयं देवि कथितं वर्णमोहनम् ।
अज्ञात्वा मोहनं तत्त्वं यः कुर्यादन्यमोहनम् ॥ १७।
सर्वं तस्य वृथा देवि नान्यथा तु कदाचन ।
एतत्तत्वप्रभावाद्धि अचिरात् सिद्धिमाप्नुयात् ॥ १७।
गर्भमध्ये जपेन्मन्त्रं अनुलोमविलोमतः ।
जपित्वा वर्णमेकञ्च स्वस्थानमानयेच्च तम् ॥ १७।
पुनर्वर्णं समाकृष्य कामिनीगर्भमध्यतः ।
प्रजपेदक्षरं देवि चन्द्रबिन्दुसमन्वितम् ॥ १७।
पञ्चाशदक्षरञ्चैव भावयेच्च पृथक् पृथक् ।
अनेन विधिना देवि यो जपेन्मन्त्रमुत्तमम् ॥ १७।
तस्य शीघ्रं भवेत् सिद्धिरन्यथा विफला भवेत् ।
सम्भावं लिखितं देवि यथा भवति अक्षरम् ॥ १७।
तत्तदेव वरारोहे जपपूजा निरर्थकम् ।
विशेषमन्त्रं वक्ष्यामि आनन्दपटले स्थितम् ॥ १७।
मन्त्रं श्रीमोहनं नाम पञ्चाशद्वर्णसंज्ञकम् ।
ज्ञात्वा यः कुरुते देवि तस्य सिद्धिरदूरतः ॥ १७।
अन्यथा विफलं सर्वं रहस्यं सफलं नहि ।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे सप्तदशः पटलः ॥
अष्टादशः पटलः
श्रीमहादेव उवाच
अथान्यत् संप्रवक्ष्यामि रहस्यं परमाद्भुतम् ।
अज्ञात्वा वैष्णवो याति रौरवं वरवर्णिनि ॥ १८।
एवं तत्त्वयुतं देवि यो जपेत् परमेश्वरीम् ।
नवतत्त्वमयीं विद्यां यदा जपति पार्वति ॥ १८।
तदैव सहसा सिद्धिर्जायते सुरसुन्दरि ।
नवतत्त्वयुतं मन्त्रं ज्ञात्वा यः प्रजपेत् सकृत् ॥ १८।
तदैव सहसा देवि विष्णुतुल्यो भवेद् ध्रुवम् ।
प्रथमं कामिनीं ध्यात्वा हृत्पद्मे कमलेक्षणे ॥ १८।
उच्चरेत् प्रथमं बीजं कामिनीं तदनन्तरम् ।
पुनर्बीजं द्वितीयञ्च उच्चरेद् यत्नतः सुधीः ॥ १८।
कामिनीञ्च ततो ध्यात्वा तृतीयं बीजमुच्चरेत् ।
अनेन विधिना देवि कामिनीध्यानसंपुटम् ॥ १८।
पुनर्ध्यानं ककारस्य अनुलोमेन पार्वति ।
अनुलोमं यथा देवि विलोमञ्च तथा कुरु ॥ १८।
एवं क्रमेण देवेशि यद्यदक्षरकं प्रिये ।
कृत्वा यत्नाद् वरारोहे सर्वसिद्धीश्वरो भवेत् ॥ १८।
सर्वेषां मन्त्रवर्णानां ध्यात्वा ध्यात्वा पृथक् पृथक् ।
आद्यन्ते कामिनीं ध्यात्वा शिवशक्तिमयो भवेत् ॥ १८।
अथवा चञ्चलापाङ्गि हृत्पद्मे कमलानने ।
आदौ मध्ये तथा चान्ते बीजं दत्त्वा जपेत् प्रिये ॥ १८।
तदैव सहसा देवि जायते देवविग्रहम् ।
सदा निद्रातुरो मन्त्रः कलिकाले च भारते ॥ १८।
रहस्यनेन चार्वङ्गि निद्राभङ्गो तदा भवेत् ।
जपेदादौ वरारोहे त्रिवारमनुलोमतः ॥ १८।
विलोमेन त्रिवारञ्च ध्यात्वा जप्त्वा हृदम्बुजे ।
अथान्यत् संप्रवक्ष्यामि निद्राभङ्गस्य लक्षणम् ॥ १८।
प्रथमं कामिनीं ध्यात्वा अन्ते च तदनन्तरम् ।
दशधा प्रजपेन्मन्त्रं निद्राभङ्गाय पार्वति ॥ १८।
ततस्तु प्रजपेद् देवि प्रफुल्लं विश्वमोहनम् ।
रहस्यनेन चार्वङ्गि जायते विष्णुविग्रहम् ॥ १८।
शङ्खचक्रधरं देवं शुद्धतत्त्वात्मकं प्रिये ।
पीताम्बरधरं शान्तं प्रसन्नं मुखपङ्कजम् ॥ १८।
आजानुलम्बितकरं वनमालाविराजितम् ।
त्रिभङ्गललिताकारं चारुचूडाविभूषितम् ॥ १८।
श्रीवत्सकौस्तुभोद्दीप्तं जायते विष्णुविग्रहम् ।
अवतारं स्वयं कृष्णं ललिताञ्जनचिक्कणम् ॥ १८।
गोपीमण्डलमध्यस्थं नानासुखमयं हरिम् ।
अथवा जायते देवि तस्माद्बीजाच्छुचिस्मिते ॥ १८।
कामिनीध्यानमात्रेण देवता जायते ध्रुवम् ।
रहस्यमेतच्चार्वङ्गि कर्तव्यं हृदि मध्यतः ॥ १८।
रहस्यानाञ्च सर्वेषां सारमेतन्न संशयः ।
अथान्यत् संप्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ १८।
ध्यात्वा तु कामिनीनारीं प्रथमं हृदि मध्यतः ।
तद्गर्भे भावयेन्मन्त्रं मनसा नगनन्दिनि ॥ १८।
तद्गर्भे भावयेद् देवं ध्यानमार्गेण सुन्दरि ।
पुनश्च कामिनीं ध्यात्वा तस्मादाविर्भवेद् हरिः ॥ १८।
हरिरित्युपलक्षणं देवि सर्वेषामेव निर्मितम् ।
निद्रायुक्तं महेशानि विद्यामन्त्रं भवेत् सदा ॥ १८।
तस्मात्तु निद्रारहितं प्रजपेद् यदि एकदा ।
जपात् कोटिगुणं भद्रे सहसा लभते ध्रुवम् ॥ १८।
वामबाहोर्यदा वाहस्तदा निद्रातुरो मनुः ।
चलते च यदा बाहोर्दक्षिणे वरवर्णिनि ॥ १८।
तदैव चञ्चलापाङ्गि त्यक्तनिद्रः सदा मनुः ।
अत एव वरारोहे त्यक्तनिद्रं जपेत् सुधीः ॥ १८।
श्रीदेवी उवाच
पूजाकाले महादेव यदि निद्रातुरो भवेत् ।
तत्कथं सिध्यते मन्त्रः किं कर्तव्यं तदा प्रभो ॥ १८।
प्रजपेत् केन विधिना न जपेद्वा वद प्रभो ।
श्रीमहादेव उवाच
रहस्यमन्त्रं वक्ष्यामि आनन्दपटले स्थितम् ॥ १८।
द्वादशार्णमयं मन्त्रं निद्राभङ्गस्य दीपनम् ।
रहस्यमन्त्रं चार्वङ्गि अज्ञात्वा विफलं भवेत् ॥ १८।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे अष्टादशः पटलः ॥
ऊनविंशः पटलः
श्रीमहादेव उवाच
सन्देहो नैव कर्तव्यः पूजाकाले शुचिस्मिते ।
सहसा कामिनीं ध्यात्वा तुरीयकूटमुच्चरेत् ॥ १९।
तदैव सहसा देवि त्यक्तनिद्रो भवेन्मनुः ।
प्रजपेद् दशधा देवि हृदये मनसापि वा ॥ १९।
पूजाकाले महेशानि संत्यजेद् यदि दक्षिणम् ।
प्रायश्चित्तं भवेत्तस्य मन्त्रस्य वरवर्णिनि ॥ १९।
प्रायश्चित्तमिदं देवि कृत्वा मन्त्रं जपेद् यदि ।
किं तस्य दक्षिणो बाहुस्तस्य निद्रातुरेण किम् ॥ १९।
रहस्यमन्त्रं चार्वङ्गि पूजाकाले विनिर्णयम् ।
रहस्यमेतच्चार्वङ्गि सर्वनिद्रासु मङ्ग्लम् ॥ १९।
वामबाहोर्यदा वायुर्यदा च दक्षिणावहः ।
रहस्यमेतच्चार्वङ्गि कृत्वा तु प्रजपेन्मनुम् ॥ १९।
तदैव त्यक्तनिद्रा सा विद्या मन्त्रञ्च नान्यथा ।
योगनिद्रामयी विद्या योगनिद्रामयो मनुः ॥ १९।
विशेषमन्त्रं वक्ष्यामि आनन्दपटले स्थितम् ।
अष्टाक्षरीं महाविद्यां दीपनीं मोक्षरूपिणीम् ॥ १९।
सर्वसिद्धिमयो भूत्वा रहस्यफलमाप्नुयात् ।
प्रजपेद् यदि निद्रायां किं तस्य जपपूजने ॥ १९।
रहस्यनेन चार्वङ्गि निद्रां त्यक्त्वा सनातनी ।
सुषुम्णामध्यमार्गेषु संस्थिता ब्रह्मरूपिणी ॥ १९।
रहस्यमेतच्चार्वङ्गि अज्ञात्वा योजपेन्मनुम् ।
तस्य पापमहं वक्ष्ये सावधानावधारय ॥ १९।
शूद्रेण लिखितं देवि पटलं यत्तु पठ्यते ।
यं यं नरकमाप्नोति तं तं प्राप्नोति मानवः ॥ १९।
द्वात्रिंशत्कोटिमध्येषु नरकेषु क्रमेण हि ।
कोटिवंशान् समादाय पच्यन्ते मनुजाधमाः ॥ १९।
विप्रो वा क्षत्रियो वापि वैश्यो वा नगनन्दिनि ।
पच्यन्ते नरके घोरे शूद्रस्य लिखनात् प्रिये ॥ १९।
तस्मात्तु शूद्रलिखितं पटलं न जपेत् सुधीः ।
तस्मादावश्यकं देवि कामिनीध्यानमुच्चरेत् ॥ १९।
ततः सिद्धो भवेद् देवि विद्या मन्त्रं न चान्यथा ।
कामिनीध्यानमात्रेण सर्वसिद्धिमयो भवेत् ॥ १९।
एकेनैव कृतार्थं स्याद् बहुभिः किमुपासते ।
तव भक्त्या मयाख्यातं यद्गोप्यं भुवनत्रये ॥ १९।
कामधेनुमिदं ज्ञत्वा यदि पूजां समाचरेत् ।
सफला सा भवेत् पूजा जपञ्च सफलं सदा ॥ १९।
अन्यथा प्रेतवद् दीक्षा पूजा च प्रेतवत् सदा ।
प्रथमं कामिनीं ध्यात्वा जपपूजां समाचरेत् ॥ १९।
कामधेनोः फलं लब्ध्वा सदाशिवमयो भवेत् ।
विष्णुरूपी स एव स्यान्महामाया स एव हि ॥ १९।
शिवमन्त्रे विष्णुमन्त्रे शक्तिमन्त्रे शुचिस्मिते ।
कामधेनुमिदं मन्त्रं प्रशस्तं सुरपूजिते ॥ १९।
एतत्ते कथितं देवि सारात्सारं परात्परम् ।
यत् कृत्वा साधको याति दुर्लभं मोक्ष्मन्दिरम् ॥ १९।
विशेषमन्त्रं वक्ष्यामि विद्यां श्रीकामरूपिणीम् ।
अज्ञात्वा कामिनीध्यानं सहसा व्यर्थतामियात् ॥ १९।
तद्ध्यानं चञ्चलापाङ्गि आनन्दपटले स्थितम् ।
तस्मादवश्यं जप्तव्यं सततं कामदीपनीम् ॥ १९।
इति श्रीकामधेनुतन्त्रे देवदेवीसंवादे ऊनविंशः पटलः ॥
विंशतितमः पटलः
श्रीदेवी उवाच
मन्त्रसमर्पणं तत्त्वं कथ्यतां देवपूजित ।
कस्मै समर्पयेन्मन्त्रं वद देव पुरातन ॥ २०।
अर्पयेन्मन्त्रतेजांसि देवेश यदि शूलधृक् ।
निस्तेजा साधको देव तदैव सहसा भवेत् ॥ २०।
किं जप्येन च पूजायां पुरश्चर्येण किं पुनः ।
तन्मे वद महाभाग कृपया परमेश्वर ॥ २०।
श्रीमहादेव उवाच
साधु पृष्टं त्वया भद्रे अधुना कथयामि ते ।
जपित्वा चञ्चलापाङ्गि ध्यायेत् परमकामिनीम् ॥ २०।
मन्त्रवर्णं वरारोहे कामिनीगजगह्वरे ।
चन्द्रबिन्दुयुतं कृत्वा एकैकं दशधा जपेत् ॥ २०।
अनुलोमे यथा देवि विलोमेन तथा कुरु ।
अतः परं वरारोहे ज्ञात्वा तु कामिनीं पराम् ॥ २०।
वियद्ब्रह्म महेशानि कामिनीं दशधा जपेत् ।
कामिनीगर्भमध्ये तु वियद्वह्नियुतं प्रिये ॥ २०।
प्रजपेद् दशधा भक्त्या बीजतत्त्वं तदा भवेत् ।
ततस्तु कामिनीतत्त्वं ललाटे परिचिन्त्य वै ॥ २०।
एवञ्च मातृकास्थाने कामिनीं भावयेत् प्रिये ।
पञ्चाशन्मातृकास्थाने प्रजपेन्मातृकामनुम् ॥ २०।
बीजस्य ज्योतिःपुञ्जेषु कामिनीं सत्वरं कुरु ।
दशधा प्रजपेद् देवि कामिनीबीजमुत्तमम् ॥ २०।
कामिनीगर्भमध्ये तु ज्योतिस्तत्त्वे जपं कुरु ।
ज्योतिस्तत्त्वं वरारोहे स्वयं जीवः सनातनः ॥ २०।
कामिनीजीवतत्त्वं च कृत्वा वै साधकः सुधीः ।
सहस्रारे महापद्मे संस्थाप्य कामिनीं पराम् ॥ २०।
गुह्यातिगुह्यगोप्त्री त्वमिति मन्त्रेण मन्त्रवित् ।
देवस्य दक्षिणे हस्ते बाह्यपूजादि चार्पयेत् ॥ २०।
देव्या वामे वरारोहे समर्प्य फलभाग् भवेत् ।
जपस्य सर्वतेजांसि देवहस्ते यदि प्रिये ॥ २०।
समर्प्य परमेशानि तेज(स्य? स्वी) साधको भवेत् ।
किं तस्य पूजने भद्रे किं जापेन वरानने ॥ २०।
यत्किञ्चिद् दीयते देवि सर्वं ब्रह्मणि लीयते ।
विद्यामन्त्रं जपेद् देवि तत्तेज उपजायते ॥ २०।
जीवतत्त्वं विना देवि देवहस्ते कदाचन ।
नार्पयेच्चञ्चलापाङ्गि देव्या हस्ते विशेषतः ॥ २०।
तस्मात् प्रयत्नतो देवि जीवतत्त्वं कुरु ध्रुवम् ।
जीवतत्त्वं विना देवि यदि देवं समर्पयेत् ॥ २०।
जपञ्च विफलं देवि पूजा च विफला भवेत् ।
गन्धपुष्पादिकं यद्यत् सर्वं देवे समर्पयेत् ॥ २०।
जपतत्त्वं वरारोहे सर्वतेजोमयं सदा ।
यदि तेजो वरारोहे देव्यै देवाय अर्पयेत् ॥ २०।
यस्तेजः सततं जीवः कथं सिद्धिः प्रजायते ।
यस्तेजस्त्वर्पयेद् देवि पुनरागमनं प्रिये ॥ २०।
दुर्लभं चञ्चलापाङ्गि तत्तेजः साधकस्य च ।
वृथा भयं वरारोहे कुरुते नरपामरः ॥ २०।
समर्पणमविज्ञाय प्रजपेद् यदि कोटि वा ।
देवतातेजमध्ये तु तत्तेजोपविशेत् प्रिये ॥ २०।
भावयेद् बहुयत्नेन यथा सर्वस्वसंपुटम् ।
एतत्ते कथितं देवि जीवतत्त्वं सुदुर्लभम् ॥ २०।
यत् कृत्वा साधको याति दुर्लभं ब्रह्मविग्रहम् ।
श्रुत्वा तन्त्रमिदं देवि रहस्यफलमाप्नुयात् ।
तन्त्रमेतद् वरारोहे शृणुयात् साधकः प्रिये ॥ २०।
इति कामधेनुतन्त्रे देवदेवीसंवादे विंशतितमः पटलः ॥
एकविंशतितमः पटलः
श्रीमहादेव उवाच
चन्द्रसूर्योपरागे च प्रजपेद् यदि कामिनीम् ।
तदैव सहसा सिद्धिर्जायते नात्र संशयः ॥ २१।
प्रथमं कामिनीं जप्त्वा स्वविद्याः प्रजपेद् यदि ।
ततस्तु कामिनीं जप्त्वा सर्वसिद्धीश्वरो भवेत् ॥ २१।
अज्ञात्वा कामिनीतत्त्वं न जपेद् ग्रहणे प्रिये ।
न जपेद् ग्रहणे भद्रे अज्ञानाद् यदि मूढधीः ॥ २१।
सर्वं तस्य वृथा देवि पूर्वधर्मो विनश्यति ।
चन्द्रपर्व सूर्यपर्व न विचार्यं कदाचन ॥ २१।
सूर्यपर्व वरारोहे न पश्येद् यदि पामरः ।
अस्तु तावत् परो धर्मः पूर्वधर्मो विनश्यति ॥ २१।
न पश्येद् यदि अज्ञानात् सर्वारिष्टमवाप्नुयात् ।
सर्वारिष्टमयः सोऽपि सर्वपापमयः सदा ॥ २१।
तस्मादवश्यं कर्तव्यं चन्द्रपर्वनिरीक्षणम् ।
सूर्यपर्व तथा देवि निरीक्ष्यमोक्षमाप्नुयात् ॥ २१।
अज्ञात्वा यदि मूढात्मा राश्यादिगणनं प्रिये ।
विचार्य चञ्चलापाङ्गि न पश्येद् ग्रहणं यदि ॥ २१।
पूर्वपूर्वार्जितं पुण्यं तत्क्षणादेव नश्यति ।
चन्द्रसूर्योपरागञ्च तस्माद् यत्नान्निरीक्षयेत् ॥ २१।
किं तस्य कामिनीं भद्रे रम्याणि च पुनश्च किम् ।
ग्रासादिमुक्तिपर्यन्तं जप्त्वा सिद्धीश्वरो भवेत् ॥ २१।
न जपेद् यदि चार्वङ्गि रौरवं नरकं व्रजेत् ।
तत्काले चञ्चलापाङ्गि परंब्रह्मस्वरूपिणी ॥ २१।
तस्मिन् काले वरारोहे क्षत्रादिजातिभेदतः ।
आचण्डालप्रभृतयो द्विजतुल्या भवन्ति हि ॥ २१।
द्विजास्तु चञ्चलापाङ्गि साक्षाद् ब्रह्म न संशयः ।
तत्र का गणना देवि चाण्डालानां वरानने ॥ २१।
तस्माद् यत्नेन कर्तव्यं चन्द्रपर्वनिरीक्षणम् ।
चन्द्रकोटिगुणं देवि सूर्यो दशगुणं भवेत् ॥ २१।
तत्र यद् यत् कृतं कर्म जपहोमादिकं प्रिये ।
अक्षयं तद् भवेद् देवि वचनं मम निश्चितम् ॥ २१।
राश्यादिगणनं त्यक्त्वा यवनैर्दृश्यते यदि ।
यवनस्य तथा सिद्धिर्जायते पृथिवीतले ॥ २१।
दीक्षितोऽदीक्षितो वापि दृष्ट्वा स्नानं समाचरेत् ।
तदेवमक्षयं स्नानं गङ्गास्नानं भवेत् प्रिये ॥ २१।
विष्ठाकूपस्थितं तोयं गङ्गोदकसमं स्मृतम् ।
प्रशस्तं ग्रहणे काले नान्यथा वचनं मम ॥ २१।
षष्ठमासाधिको बालो यदि स्याद् वरवर्णिनि ।
ग्रहणे चन्द्रसूर्यस्य तस्य स्नानं प्रशस्यते ॥ २१।
अकृत्वा स्नानदानञ्च सहसा नरकं ब्रजेत् ।
स भ्रष्टः स च पापिष्ठः सहसा सूकरः प्रिये ॥ २१।
तस्यान्नमुदकं देवि मूत्रं शोणितवत् प्रिये ।
जायते नात्र सन्देहो मम वाक्यं वरानने ॥ २१।
ब्राह्मणोऽब्राह्मणो वापि चन्द्रपर्वणि पार्वति ।
चाण्डालप्रभृतिः सर्वो ब्रह्मगोत्रे प्रवर्तते ॥ २१।
ब्रह्मेति नाम सर्वेषां राश्यादिगणनं कुतः ।
तस्मात्तु चञ्चलापाङ्गि संकल्पं नैव कारयेत् ॥ २१।
मासपक्षतिथीनां च निमित्तानि च पार्वति ।
न विचार्यं वरारोहे ग्रहणे चन्द्रसूर्ययोः ॥ २१।
ग्रासादिमोक्षकाले तु कुतो मासः कुतस्तिथिः ।
स कालः परमं ब्रह्म सर्वेषामक्षिगोचरम् ॥ २१।
तत् कथं पामरो लोको राश्यादिगणनं प्रिये ।
उपरागं परित्यज्य यश्चान्यं परिचिन्तयेत् ॥ २१।
स भवेद्रौरवे मग्नो ब्रह्मणश्चानुमानतः ।
रौरवात् पुनरागत्य पापयोनौ प्रवर्त्तते ॥ २१।
निष्कृतिर्नास्ति चार्वङ्गि तस्यापि च कदाचन ।
तस्मात् सर्वं परित्यज्य चन्द्रपर्वनिरीक्षणम् ॥ २१।
चन्द्रपर्वे यथा देवि सूर्यपर्वे तथा प्रिये ।
तत्र श्राद्धादिकं त्यक्त्वा विद्यां मन्त्रं जपेत् प्रिये ॥ २१।
अन्यथा नरकं याति पितॄन् सप्त नयत्यधः ।
अपरैकं प्रवक्ष्यामि रहस्यं शृणु सुन्दरि ॥ २१।
अकारादिक्षकारान्तं प्रतिपद्मे निरीक्षयेत् ।
ततस्तु प्रजपेत् शून्यं चन्द्रबिन्दुकसंयुतम् ॥ २१।
ततस्तु हृदयाकाशे शून्ये ज्योतिर्मयेषु च ।
अनुलोमविलोमेन मातृकां प्रजपेत् सुधीः ॥ २१।
ततस्तु साधकश्रेष्ठो वराटोपरि मातृकाम् ।
पद्मबीजं यथा देवि वर्णबीजं प्रभावयेत् ॥ २१।
चन्द्रबीजं पुटं कृत्वा जपेद् वर्णं प्रसन्नधीः ।
अनुलोमविलोमेन जप्त्वाऽमृतमयो भवेत् ॥ २१।
केवलं कामिनीं ध्यात्वा प्रफुल्लवदनान्तरम् ।
बीजादुत्पद्यते देवो देवी वा कमलेक्षणे ।
ततस्तु देवतां ध्यात्वा निरीक्ष्य देवविग्रहम् ॥ २१।
इति श्रीकामधेनुतन्त्रे महादेवमहादेवीसंवादे
एकविंशतितमः पटलः ॥
त्रयोविंशतितमः पटलः
(ग्रन्थपातः)
....ष्यां च वरारोहे गङ्गायां स्नानमित्यहम् ॥ २२।
करिष्ये इति सङ्कल्प्य शिरःस्नानं समाचरेत् ।
अर्को धर्मपयो देवि अमाद्यर्थश्च मूर्तिमान् ॥ २२।
श्रवणञ्च महेशानि साक्षात्कामश्च मूर्तिमान् ।
व्यतीपाते महेशानि स्वयं मुक्तिः प्रगीयते ॥ २२।
माद्यस्तु चञ्चलापाङ्गि स्वयमेवेश्वरः प्रिये ।
एतत्तु कथितं देवि पञ्चयोगं परात्परम् ॥ २२।
कायिकं वाचिकं चैव मानसं पापमुत्कटम् ।
तत्सर्वं नाशमायाति गङ्गादर्शनमात्रतः ॥ २२।
कोटिजन्मार्जितं पापं जलस्पर्शाद्विनश्यति ।
ततस्तु मौशलं स्नानं कोटिसूर्यग्रहैः समम् ॥ २२।
फलमाप्नोति चार्वङ्गि नात्र कार्या विचारणा ।
आचम्य चञ्चलापाङ्गि वासं कुर्याद् विशालधीः ॥ २२।
इति कामधेनुतन्त्रे त्रयोविंशतितमः पटलः ।
चतुर्विंशतितमः पटलः
श्रीमहादेव उवाच
मालारहस्यं योगेन्द्र कथयस्व कृपानिधे ।
यदि पुच्छं जपेन्मन्त्रं हरेत्तेजांसि तन्मुखम् ॥ २३।
मुखाद् यदि जपेन्मन्त्रं पुच्छं च चञ्चलं भवेत् ।
चञ्चले सति चार्वङ्गि तज्जपं निष्फलं भवेत् ॥ २३।
श्री-ईश्वर उवाच
पञ्चाशदक्षरं देवि ग्रथितं चित्रनाडिषु ।
स्थाप्याक्षराणि पूर्वे वै सुमेरुं पुच्छं तर्पिणम् ॥ २३।
सुमेरुं च परिचार्यय अकरादिकमाज्जपेत् ।
मालारहस्यं चार्वङ्गि सुगोप्यं भुवनत्रये ॥ २३।
जातिभेदं जीवभेदं सुगोप्यं च यथा प्रिये ।
जीवमन्त्रं प्रवक्ष्यामि सावधानावधारय ॥ २३।
जीवमन्त्रं जातिमन्त्रं समानमिति निर्णयः ।
यथा ध्यानं महेशानि समानं याति जीवने ॥ २३।
तद्ध्यानं शृणु चार्वङ्गि सावधानावधारय ।
द्विभुजां स्वर्णगौराङ्गीं पीतपट्टपरिच्छदाम् ॥ २३।
नानाभरणदीप्ताङ्गीं किशोरीं नवयौवनाम् ।
कृष्णगन्धप्रलिप्ताङ्गीं सूर्यासनकृताश्रयाम् ॥ २३।
तनुदीर्घाङ्गुलीं भास्वन्नखचन्द्रविराजिताम् ।
कदम्बकोरकाकारस्तनद्वयविराजिताम् ॥ २३।
कर्पूरसकलोन्मिश्रताम्बूलपूरिताननाम् ।
कटाक्षलक्षसंयुक्तभूलतापरिशोभिताम् ॥ २३।
सिन्दूरतिलकोद्दीप्तां कुटिलालकमण्डिताम् ।
सर्वत्रैवं महेशानि जीवं तिष्ठति सर्वदा ॥ २३।
द्विजादीनां च सर्वेषामानन्दपटले स्थिताम् ।
एतत्ते कथितं सर्वं कामधेनोर्मतं प्रिये ॥ २३।
इति श्रीकामधेनुतन्त्रे देवीश्वरसंवादे चतुर्विंशतितमः पटलः ॥
समाप्तमिदं कामधेनुतन्त्रम्
मूल पाठ: kāmadhenutantram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0