भाषा

ENहिગુ
ग्रंथ पाठ

कालिकारहस्यम् · अध्याय 1

कालिकारहस्य
शुभमस्तु
॥ अविभमस्तु ॥
श्री कैलासधराग्रसौधनिलयं शीतांशु बिम्बस्फुरन्माणिक्य
स्फुटसत्किरीटमभवन् मन्दारमालान्वितम् ।
शोभन्तं प्रमदैर्महाबलयुतै शेषासुराश्चासुरैः
गौरीमन्त्ररहस्य वित्तममजं पञ्चाननं शङ्करम् ।
व्येषु मन्त्रकोटिषु वरदां फलदायकम् । जपतां
शृण्वतां चापि मनोभीष्टफलप्रदाः । सन्त्यागमोक्ता
निगमचोदिता मोक्षदायकाः । गायत्री बगला बला श्यामला
नकुली तथा ।
धेनुवागेश्वरी चैव वाराही कविराजराजेश्वरी चैव तथा
त्रिपुरसुन्दरी धूमावति तथेन्द्राक्षि यक्षिणीति प्रकीर्तिता
शाक्तेयमन्त्रराजश्च । कार्तवीर्यस्य सिंह्वका दक्षिणे
मूर्तिमन्त्रश्च तथा पञ्चाक्षरी स्मृतम् ।
द्वादशाक्षरमन्त्रञ्च तथा षोडशकं तथा । सुदर्शनं
वैनतेयं हनुमन्तं च भैरवम् । अष्टाक्षरं चैकवर्णं
तथा प्रत्यंगिरादयः । एते बहुविधा मन्त्राः शिव वैष्णव
देवताः । तेषु तेषु मन्त्रेषु भुक्ते मुक्ति फलप्रदम् ।
प्. २)
सर्वपातकनिर्घातं सर्वशत्रुनिवारणम् । दुस्वप्ननाशनं
चैव सर्वलोकवशीकरम् । स्तंभनं मोहनञ्चैव
वाग्भवबलान्वितम् । पावनं फलदं श्रेष्ठं भक्तानाञ्च
वशीकरम् । मारणाकर्षणञ्चैव कलिदोष निवारणम् ।
यच्छीघ्रफलदं श्रेष्ठं तन्मे ब्रूहि महेश्वर ।
ईश्वरः -
शृणु देवि प्रवक्ष्यामि मन्त्राणामुत्तमोत्तमम् । वक्ष्ये
चायुष्करं सर्वसम्पत्करमनुत्तमम् । न देयं मूढचित्ताय
गुरुवित्तापहारिणे । भक्तिहीनाय हिंस्राय प्राणत्यागेपि
पार्वति । सिद्धसाध्यसुसिद्धारीन् चक्रं सुपरिशोध्य च ।
वाशिकोष्ठञ्च नक्षत्र कोष्ठं ऋण ऋणी तथा ।
भूकोष्ठञ्च विज्ञेय देयं शिष्याय दीयते । शुभे दिने शुभे
नक्षत्रे मुहूर्ते तु तथाविधे । चन्द्रताराबलयुते माते शून्ये
विवर्जिते । माघे वा कार्तिके वापि वैशाखे वा विमूढके ।
उपदेशञ्च कर्तव्यं गुरुपरम धार्मिकः । रहस्यं
सर्वमन्त्रेषु वेदवेदांग सम्मतम् । गोपनीयं प्रयत्नेन
त्मवाङ्मनस गोचरम् । सद्गुरुं पूजयित्वा तु भक्तिपूर्वं
सदक्षिणम् ।
प्. ३)
उपोष्य रजसमेकां पञ्चगव्यादिकैश्शुचिः । दिग्बन्धनादिकं
कृत्वा अष्टशक्तिरनुस्मरन् । गुरुत्रपञ्च संस्कृत्य गणेशं
भैरवं तथा । पीठत्रवादि संयुक्तं नत्वा च गुरुमण्डलम्
। भूशुद्धिं भूतशुद्धिञ्च मातृकान्यासमाचरेत् ।
अंगन्यासं करन्यासं देहन्यासं ततः परम् । मन्त्रादौ
नियतः कृत्वा स्थिति न्यासं समाचरेत् मध्यान्हेर्वार्धरात्रे वा
नद्यां देवालयेपि वा । अश्वत्थमूलमाश्रित्य ग्रहणेषु च
सर्वसु । एतन्मन्त्रं सुसंगृह्य दाससोपरिसंस्थिताः । कलशं
सन्निधौ स्थाप्य यथासंस्कारपूर्वकम् ।
विमलैर्वारुणैर्मन्त्रैर्मार्जयित्वा तदम्बुना । खड्गमुण्डञ्च
वरदं अभयञ्च किरीटकम् । मकरञ्चेति विख्याताः
मुद्राषट्कं प्रदर्शयेत् । उष्णिक्छन्दोभिसंज्ञातं
भैरवोर्षिसमन्वितम् । मायाबीजानु बीजंश्च
गगनाक्षरशक्तिकम् । द्वेषबीज परिस्पष्टं कीलकं
मोक्षदायकम् । दक्षिणा कालिका मन्त्रक्रमं वक्ष्ये प्रयत्नतः
। वामाक्षीवन्ह्यनुस्वारमाद्या त्रिगरलं क्रमात् ।
प्. ४)
द्वेषद्वयं द्वितीयं स्यात् त्रिमूर्तिर्बिन्दुसंयुतम् । अष्टादशं
चतुर्थं स्यात् पञ्चाशत्पञ्चमं स्मृतम् । तद्गोविन्द समायुक्तं
ब्रह्मादिपरिसेवितम् । पूष्णोपरिस्थ वर्णं स्यात्
त्रिमूर्तियुतमष्टमम् । आदिमदशमज्ञेयं पुराप्रोक्तं
विधानतः । एकादशं द्वितीयवत् द्वादशन्तु तृतीयवत् । अन्ते
स्वाहा समायुक्तं एतन्मन्त्रं मनोहरम् । ब्रह्मादिभिरनुद्धेयं
वेदवेदांग संयुतम् । सप्तकोटिमहामन्त्रराज * तत्प्रकीर्तितम् ।
तव स्नेहात्प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । त्रिषु लोकेषु
विख्यातं नान्यमन्त्रमितः परम् । शीघ्रमारस्वतः प्राप्तिः
पाण्डित्यं च सखान्तरे । यो नित्यं जपते मर्त्यः
सोप्यतत्फलमश्नुते ।
इति श्री महाभैरवतन्त्रे कालिकारहस्ये उमामहेश्वरसंवादे
ईश्वरप्रोक्तो नाम तृतीयः पटलः ॥
पार्वत्युवाच -
विभो शंकर मन्नाथ त्वन्मुखब्जविनिस्सृतम् । अस्य मन्त्रस्य
माहात्म्यं धृत्वा समोदमाप्नुयात् ।
प्. ५)
ध्यानं कथं महादेयाः पुनश्चरणादिकं कथम् । होमञ्च
तर्पणविधिं विप्रभोजनमेव च । पूजाविधानं के पुष्पैः
कथं कुर्यात्कियत्कियत् । एतन्मे ब्रूहि विस्तार्य सर्वमन्त्रविधां
वर ।
ईश्वरोवाच -
ध्यानक्रमं प्रवक्ष्यामि शृणु शैलेन्द्र नन्दने ।
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् । कालिकां
दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ।
सव्यछिन्नशिरखड्गवामोर्ध्वज कराम्बुजाम् । अभयं
वरदञ्चैव दक्षिणा दोर्धपाणिकाम् । महामेघप्रभां
श्यामां तथैव च दिगम्बराम् ।
कणवलिसक्तमुण्डालिंगलद्दधिरचर्चिताम् । कर्णावतंसतां
नीता शवयुग्म भयानकम् । घोरदंष्ट्रा करालाञ्च
पीनोन्नतपयोधराम् । सबाणकरसंधातै कृतकांचिहसन्मुखी
। सृक्द्वयगलाद्युक्ता धारा विस्फुरितानताम् । घोराखां
महारौद्रीं श्मशानालय वासिनीम् । दक्षिणाकालिकां दिव्यां
मुक्तलम्बकच्चोच्चयाम् ।? शवरूपमहादेव हृदयोपरि संस्थिताम् ।
शवाभिघोरारवाभिश्च चतुर्दिक्षुसमन्विताम् ।
प्. ६)
महाकालेन च समं विपरीतरतातुराम् । मुखप्रसन्नवदनां
घोरानन वरोरुहाम् । योगिनी चक्रसहितां कालिकां ध्यायेत्सदा
। एवं प्रवक्ष्यामि मन्त्राणा मुत्तमोत्तमम् । वक्ष्ये चायुत्परं
सर्वसम्पत्करमनुत्तमम् । न देयं मूढचित्ताय
गुरुवित्तापहारिणे । भक्तिहीनाय हिंस्राय प्राणत्यागेपि
पार्वति एवं सञ्चिन्तयेत्कालीं श्मशानालय वासिनीम् ।
इति श्री महाभैरवतन्त्रे कालिकारहस्ये ईश्वरप्रोक्तो नाम
चतुर्थोध्यायः ॥
एवमादौ परं ध्यात्वा ततो मन्त्रं समुच्चरेत् । श्मशाने
वेदिकां कृत्वा दिग् चद * * विधानतः । तस्यामेकाग्रचित्तस्सन्
एकाकी विजितेन्द्रियः । दिगम्बरो मुक्तकेशः बाह्यदृष्टिविसर्जयेत्
। मरिच्व सर्षपाञ्चैव पलमेकं दिने दिने । गोक्षीरं सहितं
भुञ्जन् गोघृतं च ततः परम् । पिबन् पलद्वयं नित्यं
कुंकुमागरुलेपनम् । जपेन्मण्डलपर्यन्तं निश्चलं कंबलानले
।
प्. ७)
चतुस्सहस्स्रं नित्यं वै वीरासन परिग्रह । ततो देवि कृपायुक्तो
प्रत्येकं भवति ध्रुवम् । जपस्य दशमांशन्तु
होमतर्पणमाचरेत् । क्षीरान्नेनार्क समिधैः मालामन्त्र
मनुस्मरन् । घृतेन मधुना चैव जुहुयाद्वेदिकानले । भोजनं
विप्रसंख्यानां दशांशं कारयेत्सुधीः । सुवासिनी मु
ममुच्चार्य यथा वित्तं समाचरेत् । इदं ते देविं समावाह्य
शक्ति मन्त्रविधानता । रक्तासितैश्च कुसुमैः नीलगन्धाक्षतै
स्तथा । सम्यक् पूजां प्रकुर्वीत नित्यं भक्तिरतंद्रितः ।
सहस्रनामं कवचं पञ्जरन्तु भुजंगकम् ।
अष्टोत्तरशतञ्चैव परंस्तवमकारयेत् । एवं संपूजिता देवि
प्रसन्ना वरदा भवेत् । य इदं पठते नित्यं श्रावयेद्वा
समाहिताः । दक्षिणा कालिका देव्याः सभक्तो भवति ध्रुवम् ।
याचष्टे चाशृतंशास्त्र तनुते काव्यवाटकम् । तस्य गेहे
महालक्ष्मी सान्निध्यं कुरुते सदा । तस्य कात्यायनी देवि
प्रसन्ना वरदा भवेत् । आन्ध यो व्याधयश्चैव न भवन्ति
कदाचन ।
प्. ८)
न तु नाशयते क्षिप्रं कालमृत्युमपि ध्रुवम् । जपेदवश्यं
काम्यार्थी ग्रहणे चन्द्रसूर्ययोः । अनेन स्तवराजेन
पापनिर्मालकारिणः । दक्षिणा कालिका देवि दतुष्टान्भिष्टान्
ददाति च ।
इति श्री महाभैरवतन्त्रे श्री कालिकारहस्ये
उमामहेश्वरसंवादे ईश्वरप्रोक्तो नाम पञ्चमः पटलः ॥

मूल पाठ: kālikārahasyam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc