भाषा

ENहिગુ
ग्रंथ पाठ

कादम्बरीस्वीकरणसूत्रमञ्जरी · भाग 15

कादम्बरीस्वीकरणसूत्रमञ्जरी
अनन्यजसप्ततन्तौ अनुतर्षस्वीकरणस्यात्यावश्यकत्वात् ॥ 1
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* इदानीम् आत्मभुवा क्रियमाणे सप्ततन्तौ तत्साधनत्वेनानिर्वचनीयसुखोद्बोधहेतुत्वेन वारुणीप्राशनम् अनुदर्शयति अनन्यजसप्ततन्ताव् इति ॥ 1.1
* अनुतृष्यन्ति अनिर्वचनीयानन्दं प्राप्नुवन्ति अनेनेत्य् अनुतर्षं कादम्बरं तस्य स्वीकरणम् अनुप्राशनं तस्य प्राशनस्यात्यावश्यकत्वम् अतीव ईप्सिततमत्वम् अनिर्वचनीयानन्दप्रदातृत्वेन रेतःस्तम्भकत्वेन हेतुना कर्मानुष्ठानात् पूर्वं प्रचेतसः कन्यायाः स्वीकरणं कर्तव्यम् इत्य् अर्थः ॥ 1.2
* मकरध्वज आत्मभूः इत्य् अमरः ॥ 1.3
* सप्ततन्तुर् मखः क्रतुर् इत्य् अमरः ॥ 1.4
* ननु अनुतर्षस्वीकरणम् अदृष्टफलोद्बोधे उपकारकम् आहो स्वित् दृष्टफलोद्बोधे उपकारकं वेति संशयवाक्यम् उपन्यस्य दृष्टफलोद्बोधे एव साक्षाद् उपकारकं न किंचित् स्वर्गादिफलवत् आनुश्रविकवाक्यं कल्प्यम् उपकारकम् इति मनसि निश्चित्य पूर्वसूत्रस्य हेतुत्वेन द्वितीयं सूत्रम् अनुशास्ति ॥ 1.5]
रत्यानन्दस्योद्बोधे अनिर्वचनीयानन्दस्य कारणभूतत्वात् ॥ 2
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* रत्यानन्दस्येति ॥ 2.1
* अनुतर्षस्वीकरणे कृते सतीति ज्ञेयम् ॥ 2.2
* अनेन वाक्येन अनयोः कार्यकारणसंगतिः उपपादिता भवति तथा चायम् अर्थः अनुतर्षस्वीकरणे कृते सति निधुवनव्यापारे रत्यानन्दो ऽनिर्वचनीय उत्पद्यते नेतरथा सामुद्रिकणामिश्रितस्य सूपशाकादिद्रव्यस्येव नीरसः स्वादुः प्रादुर्भूयते इत्य् अर्थः ॥ 2.3
* अन्यद् अप्य् अनिर्वचनीयम् उपकारान्तरं तृतीयसूत्रेण अनुशास्ति संप्रदर्शयति ॥ 2.4]
उदञ्ज्यभ्युत्थाने प्रचेतसः कन्यायाः स्वीकरणस्य परमकारणत्वम् ॥ 3
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* उदञ्ज्यभ्युत्थाने इति ॥ 3.1
* पाशिनः आत्मजायया सह अतिप्रीत्युपचयेन तादात्म्यभावं गमिते सति निमित्तकारणस्यात्युपकारकतया तद्द्वारा स्वकीयानन्दस्यानिर्वचनीयाह्लादे प्रयोजकीभूतं भवतीत्य् अर्थः ॥ 3.2
* अनेन वाक्येनात्यावश्यकतया तादृग्व्यापारस्य पुरस्तात् तादृङ्निर्वेशनं सम्पाद्य तत्पुरस्तात् सप्ततन्तोः कर्माधिकारे ऽधिकारिता इतरथा निमित्तकारणे उत्साहशक्तिभ्रंशात् साकल्येन नर्मव्यापारध्वंसो भवतीत्य् अर्थः ॥ 3.3
* एतस्य सूत्रस्य राद्धान्तसूत्रं दर्शयति ॥ 3.4]
प्रयोज्यप्राधान्यकर्तृत्वाभावे रतितन्त्रं विधातुम् अशक्यत्वात् ॥ 4
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* प्रयोज्यप्राधान्ये इति ॥ 4.1
* प्रयोज्यस्योदञ्जेः प्राधान्यकर्तृत्वम् अभ्युत्थाने सति सम्पद्यते तदभावे अभ्युत्थानाभावे निमित्तापाये नैमित्तिकस्याप्य् अपाय इति न्यायेन रतितन्त्रं लुप्यते कुतः ॥ 4.2
* निमित्तकारणस्याभावात् यथा तुरीवेमादिसत्त्वे पटकार्यस्योत्पत्तिर् नेतरथा तथा अभ्युत्थानसत्त्वे तन्त्रविधानस्योत्पत्तिः ॥ 4.3
* अनेन वाक्येनात्यावश्यकत्वेनानुतर्षस्वीकरणं सम्पाद्य तत्पुरस्तात् निधुवनव्यापारे प्रवृत्तिर् विधेया इति भावः ॥ 4.4
* इदानीं सूत्रचतुष्टयस्य साकल्येन कृत्स्नं तात्पर्यार्थं संगृह्य अव्यभिचरितं सर्वसूत्राणां राद्धान्तवाक्यं संप्रदर्शयति ॥ 4.5]
प्रयोज्ये नर्मव्यापारविस्तारे अभ्युत्थानविशिष्टोदञ्ज्यभावे सर्वाङ्गीणव्यापारोपलक्षितं रतितन्त्रं कर्तुम् अधिकाराभावात् ॥ 5
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* प्रयोज्ये नर्मव्यापारविस्तारे इति ॥ 5.1
* पूर्वस्मिन् सूत्रे वाह्यतन्त्रे यत् किंचिद् अवच्छेदेनाधिकारिकत्वं निरूपितम् अस्मिन् सूत्रे तु प्रयोजकस्य साकल्येन नर्मप्रवृत्तिनिमित्तस्याभावे जायमाने सति प्रयोज्यव्यापारे ऽपि अत्यन्ताभावस्य विधानं निर्व्यवसायेनैव प्राप्तं भवति किंचिद् विशेषविधानं यत्र नोपलभ्यत इति भावः ॥ 5.2
* तस्माद् अनुतर्षस्वीकरणाद् अनन्तरम् एव नर्मकर्माधिकारे आधिकारिकत्वम् इति पञ्चसूत्राणाम् एक एव तात्पर्यार्थः ॥ 5.3
* माघकिरातरघुवंशेषु सिद्धान्तितस्य वाक्यस्यैवायम् अनुवादः न त्व् अपूर्वविधानं स्वमनीषया उपकल्प्य प्रोक्तम् इति शङ्कनीयम् ॥ 5.4
* किं च द्वितीयावस्थाम् अतिक्रान्तस्य दिष्ट्यात्मजायया सह असंस्तुतप्रेमप्रादुष्करणे संयुक्तस्य जनस्य सप्रकारकरसोत्पत्त्यनुभवे तादृङ्मनीषाया अभावात् सीधुसंग्रहणं परमकारणत्वेन नाभिमतम् तदितरावस्थायां तु अन्धसः शमलस्य अनिर्वचनीयानन्दप्रकाशने स्वीकरणत्वेन संग्रहणम् अत्यावश्यकत्वेनाभिमतम् एव ईदृक्संविदा याथार्थ्यज्ञानं परिकल्प्य तादृक्कर्माधिकारे अनुतर्षस्वीकरणम् अत्यावश्यकतमम् इति नर्मव्यापारकर्त्णाम् आप्तवाक्यवत् यथार्थोपदेशम् अनुशास्ति ॥ 5.5]
रतितन्त्रविलासे अनिर्वचनीयरसोत्पत्तौ सीधुसंग्रहणस्य परमकारणत्वम् ॥ 6
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* रतितन्त्रविलासे इति ॥ 6.1
* रतितन्त्रविलासे नर्मव्यापारविलासे अनिर्वचनीयरसोत्पत्तौ षड्विधरसाद् अतिरिक्तो यो रसः अमृतान्धसाम् उपभोगयोग्य इति यावत् कादम्बररसस्य अनुप्राशनस्य परमकारणत्वम् तादृग्रसे सम्पीते सति निधुवनव्यापारविस्तारे रसभावनाविशेषचतुराणाम् अनिर्वचनीयसुखोद्बोधं जनयतीत्य् अर्थः ॥ 6.2
* किं चान्यद् अप्य् अनिर्वचनीयं रसविशेषान्तरं सीधुप्राशनेनानुदर्शयति ॥ 6.3]
ललितविभ्रमबन्धविलासे पुष्कराधिपतेर् आत्मजायाः नैसर्गिकस्वभावः ॥ 7

* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* ललितविभ्रमबन्धेति ॥ 7.1
* पुष्करं सर्वतोमुखम् इत्य् अमरः ॥ 7.2
* पुष्कराधिपतेः आत्मजायाः ललितविभ्रमबन्धप्रादुष्करणं नैसर्गिकः स्वभाव इति सूत्रार्थः ॥ 7.3
* अत्र पुष्कराधिपतिशब्देन प्रतीच्याः काष्ठायाः अधिपतिर् लक्ष्यते तस्य आत्मजायाः वारुण्या अनुप्राशने क्रियमाणे ललितविभ्रमबन्धानां प्रकटीकरणे प्रयोजिका भवति नेतरथा कृत्स्नवाङ्मयस्याधिदैविकरूपत्वात् निर्व्यवसायेनैव अन्तःकरणस्याह्लादकाः रुचिकरप्रबन्धाः अतलप्रदेशात् कमलनिःसरणम् इव प्राशनकर्तुर् मुखपद्मनीडात् प्रादुर्भूयन्त इत्य् अर्थः ॥ 7.4
* इदम् एव रसविशेषान्तरं संनिपत्योपकारकन्यायेन परमापूर्वसाधने प्रयोजकीभूतं कारणं निर्बन्धवर्णानां श्रवणमात्रेण तद्द्वारा मनसिजोद्बोधे अनिर्वचनीयसाधनत्वेन परमकारणत्वम् अयम् एव तस्याः नैसर्गिकस्वभाव इति ॥ 7.5
* अन्यद् अप्य् उपकारान्तरम् उत्तरसूत्रेण संप्रदर्शयति ॥ 7.6]
उपश्यामया सह मधुवार उदञ्जिधार्ष्ट्ये प्रयोजकः ॥ 8
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* उपश्यामयेति ॥ 8.1
* श्यामावस्थाया उप समीपे वर्तते सा उपश्यामा तया चतुर्दशपञ्चदशहायनात्मिकया योषया सह मधुवारा मधुपानावृत्तिः उदञ्जिधार्ष्ट्ये अत्यन्तदृढतरत्वे प्रयोजको भवति अनेन वाक्येन परिसंख्याविधेः स्वरूपं प्रकाशितं भवति ॥ 8.2
* तथा चायम् अर्थः अतिक्रान्तावस्थया सह मधुवारे जायमाने उदञ्जिधार्ष्ट्यं नैवोत्पद्यते तया सह तादृग्व्यवसायः वैयर्थ्यतां प्रतिपद्यते न्युब्जघटोपरि जलपूरणन्यायेन तस्मात् रतितन्त्रविलासे उदञ्जिधार्ष्ट्ये मनीषावता पुरुषेण गलितयौवनया सह मधुवारो नैव कर्तव्य इत्य् अर्थः ॥ 8.3
* निरर्थकप्रयासे कस्यापि मतिर् नैवोत्पद्यत इति न्यायात् ॥ 8.4
* धन्वन्तर्यादीनां मतम् अनुसृत्य कापिशायनस्वीकरणे ऽनिर्वचनीयाह्लादद्योतकम् उपकारान्तरम् अनुदर्शयति ॥ 8.5]
श्यामया सह निर्वेशनं यामद्वयसोपलक्षितदिष्टावधिरेतःस्तम्भने परमकारणम् ॥ 9
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* श्यामया सहेति ॥ 9.1
* षोडशवार्षिकी श्यामेति वात्स्यायनसूत्रे प्रसिद्धिः तादृगवस्थया योषया सह निवेशनं पानं पतिषु निर्विविशुर् मदम् अङ्गना इत्य् अत्र निर्वेशनशब्दे पानं लक्ष्यते यामप्रमाणं यामद्वयसं प्रमाणे द्वयसज् इति सूत्रेण प्रमाणार्थे द्वयसच्प्रत्ययः तादृक्प्रमाणोपलक्षिते दिष्टे काले कालो दिष्टोप्यनेहापीति कोशस्मरणात् तावत् कालम् अभिव्याप्येति यावत् रेतःस्तम्भने परमकारणम् इति तया सह कापिशायनस्य स्वीकरणे क्रियमाणे एकयामपर्यन्तं वराङ्गोपरि व्रीहिकण्डनवत् आघातं करोतीत्य् अर्थः ॥ 9.2
* इदानीं नर्मव्यापारविस्तारे ऽपरिचितनर्मसुखानन्दाय निधुवनात् पूर्वं कापिशायनप्राशनं नर्मखेदापनुत्तये ऽत्यावश्यकत्वेनानुदर्शयति ॥ 9.3]
निस्तनूरुहवराङ्गसम्भेदे योषाया अनुप्राशनस्यात्यावश्यकत्वात् ॥ 10
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* निस्तनूरुहवराङ्ग इति ॥ 10.1
* निर्गतं तनूरुहं यस्मात् तत् निस्तनूरुहं तनूरुहाणां प्रादुर्भावेण रहितं तच् च तत् वराङ्गं च तस्य सम्भेदनं स्वकीयेनोदञ्जिना मुखविदारणं तादृक्कर्मणि क्रियमाणे अज्ञातनर्मव्यापारायै रेयप्राशनं कारयितव्यम् कृते ऐरेयप्राशने मनसिजसद्मविदीर्णव्यथा सम्भेदकाले नानुभूयते इतरथा सद्मविदीर्णजन्यव्यथया सद्मनि स्थितानां नाडीनां विपर्यासेन व्यानवायौ संकटव्यथा अतितराम् अनुभूयते तद्व्यथानिवारणार्थं निधुवनात् पूर्वं द्विपलप्रमाणं कापिशायनं पाययितव्यम् इत्य् अर्थः ॥ 10.2
* तया योषया कापिशायने पीते सति उत्तरसूत्रेण पानजन्यं यत् सुखं तद् दर्शयति ॥ 10.3]
क्रियमाणे ऽनुप्राशने निर्भेदव्यथा नानुभूयते ॥ 11
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* क्रियमाणे ऽनुप्राशन इति ॥ 11.1
* प्रियसखीद्वारा क्रियमाणे ऽनुप्राशने सतीति ज्ञेयम् मदाविर्भावेण अनुसंधानाभावात् निर्भेदजन्या व्यथा नानुभूयते इत्य् अर्थः ॥ 11.2
* उत्तरस्मिन् घस्रे उपकारकान्तरम् अनुदर्शयति ॥ 11.3]
उत्तरस्मिन् घस्रे असंभेदितम् इव वराङ्गं परिदृश्यते ॥ 12
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* उत्तरस्मिन् घस्रे इति ॥ 12.1
* वराङ्गविदीर्णाद् अनन्तरम् उत्तरस्मिन् घस्रे दिने असंभेदितम् इव अविदीर्णम् इव परिदृश्यते वराङ्गम् इदम् एव उपकारकान्तरम् ॥ 12.2
* योषाया अनुप्राशनेन तद्द्वारा उत्तररूपे फलवैशिष्ट्यं संप्रदर्शयति ॥ 12.3]
क्रियमाणे नर्मव्यापारे उदञ्जेर् धार्ष्ट्यस्य फलेग्रहिः परिदृश्यते ॥ 13
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* क्रियमाणे नर्मव्यापार इति ॥ 13.1
* उत्तररूपेण क्रियमाणे नर्मव्यापारे निधुवनव्यापारे उदञ्जेर् धार्ष्ट्यस्य यष्टिकाण्डम् इव अतिकठिनतां सम्प्राप्तस्य मेढ्रस्य फलेग्रहिर् अवन्ध्यसामर्थ्यं परिदृश्यते ॥ 13.2
* एतद् उक्तं भवति कापिशायनस्य अनुप्राशनमात्रेणातिसंकुचितत्वं प्राप्तस्य योषायाः वराङ्गस्य अतिदृढतमस्याप्य् उदञ्जेः वराङ्गमुखविदीर्णने सामर्थ्याभावात् पराभवं प्राप्त एवेत्य् अर्थः ॥ 13.3
* संभेदिते ऽपि वराङ्गे कापिशायनप्राशनेन अतिसंकोचं प्राप्तस्य योषायाः वराङ्गस्य विवरकरणे उदञ्जौ महती व्यथा प्रादुर्भूयते इति भावः ॥ 13.4

* अनेन वाक्येन द्वितीयवृत्ताव् अपि पुनः यो ऽनिविदीर्णसुखं पुरुषो ऽनुभूयते इति तात्पर्यार्थः ॥ 13.5
* श्यामया सह निर्वेशने रतिसुखोद्बोधनं वीर्यस्तम्भनं कालावधिं च प्रोक्तम् उपश्यामया सह क्रीडने समुपस्थितौ तत्रापि ऐरेयस्वीकरणस्य अत्यावश्यकत्वेनानुविधानं विदधाति ॥ 13.6]
उपश्यामया सह व्यानतादिबन्धे समुपस्थितौ पाशिन आत्मजायाः स्वीकरणे अनिर्वचनीयसुखानुभवे हेतुः कारणत्वम् ॥ 14
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* उपश्यामया सहेति ॥ 14.1
* अप्राप्तयौवनाभिः सह बाह्यतन्त्रे मनीषायाः समुपस्थितौ अणुमात्रं तस्यै प्राशयितव्यं तावन्मात्रेणैव उभयोः आनन्दसुखानुलब्धेः चुम्बनादिव्यापारे अनुविधीयमाने अल्पस्वीकारमात्रेण आनन्दानुभवदर्शनात् न तत्र आधिक्येन पाशिनः ॥ 14.2
* आत्मजायाः स्वीकरणम् इति हेतुवादं मनसि निधाय औत्तरीयं सूत्रम् अनुशास्ति ॥ 14.3]
अप्राप्तयौवनाभिः सह सम्प्रयोगे अणुमात्रप्राशनेन चरितार्थत्वात् ॥ 15
अप्राप्तयौवनाभिः सहेति ॥ 16
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* इदानीम् उत्कटयौवनावस्थायाम् ऐरेयप्राशनं रतितन्त्रविलासे उपदिश्यते नेतरावस्थायाम् उपयोगाभावाद् अनधिकारित्वाद् इत्य् आलोच्य द्वितीयावस्थायाम् अत्यावश्यकत्वम् इति पौरस्त्यसूत्रेणानुदर्शयति ॥ 16.1]
तीयप्रत्ययस्य प्रकृतिभूतायाम् अवस्थायां कश्यस्वीकरणस्यात्यावश्यकत्वं सति पूर्वरूपसंयोगे ॥ 17
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* तीयप्रत्ययस्य प्रकृतिभूतायाम् इति ॥ 17.1
* तीयप्रत्ययस्य प्रकृतिभूतायाम् अवस्थायां द्वितीयायाम् अवस्थायां द्वेस् तीय इत्य् अनेन द्विशब्दात् तीयप्रत्यये सति द्वितीयशब्दो निष्पद्यते तस्याम् अवस्थायां कश्यस्वीकरणस्यात्यावश्यकत्वम् सति पूर्वरूपसंयोगे तादृगवस्थावत्याः योषायाः संनिधाने सतीति ज्ञेयम् ॥ 17.2
* ननु दृष्टप्रयोजनम् उद्दिश्य स्वीकरणं विधीयते वा अदृष्टफलम् उद्दिश्य वा दृष्टप्रयोजनस्यैवात्राकाङ्क्षितत्वान् नादृष्टप्रयोजनम् उद्दिश्येति दृष्टप्रयोजनं तु उदञ्जिदार्ढ्यपूर्वरूपस्य दृष्टप्रयोजनं तु आस्योरोजाद्यवयवेषु उस्राधिक्यस्यात्याधिक्यत्वेन संदर्शनम् एतस्य फलत्रितयस्यानुभवार्थं द्वितीयावस्थावता पुरुषेण योषया सह अत्यावश्यकत्वेन सीधुग्रहणं रतिविलासकाले सर्वथैव कर्तव्यम् इत्य् अर्थः ॥ 17.3
* संप्रसारणविशिष्टतीयप्रत्ययस्य प्रकृतिभूतायाम् अवस्थायां तु नात्यावश्यकम् इत्य् आह ॥ 17.4]
तदितरावस्थायां तु नाधिकारकत्वम् ॥ 18
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* तदितरावस्थायाम् इति ॥ 18.1
* दिष्टकन्यया व्याप्तायाम् अवस्थायाम् उरोजन्धयायाम् अवस्थायां च तस्य प्राशने नाधिकारिकत्वम् इति ॥ 18.2
* उभयत्र हेतुत्वेन सूत्रद्वयं प्रदर्शयति ॥ 18.3]
एकत्र परिज्ञानाभावात् ॥ 19
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* एकत्र परिज्ञानाभावाद् इति ॥ 19.1
* एकत्र पौगण्डवयसः पुरुषकल्पस्य उत्तरस्मिन् काले उपश्यामया समीकृते अनेहसि अन्धसः रसस्य रेतसः परिपक्वतायाः अभावात् तादृक्कर्माधिकारे नाधिकारिता ॥ 19.2]
इतरत्र पाञ्चभौतिकावयवानां क्षीणतरत्वाच् च ॥ 20
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* इतरत्रेति ॥ 20.1
* जीर्णावस्थायाम् अपि तदानीं दिष्टकन्यया सह अतिनर्मव्यवसायेन सर्वासाम् इन्द्रियवृत्तानां स्वकीयप्रवृत्तौ क्षीणतरत्वस्य दृश्यमानत्वान् नाधिकारकत्वम् ॥ 20.2
* बालस्य तथा जरावतः पुरुषस्य उभयोः नर्मकर्माधिकारे नाधिकारितेति सूत्रद्वयस्य तात्पर्यार्थः ॥ 20.3
* कारणरूपोपाधौ सत्यां कार्यरूपस्योपाधेः अनुदर्शनम् इति न्यायेन पद्मायाः अनुग्रहेण परिपूरितानां सार्वभौमादीनाम् एव अनया पुष्पधनुषः सरण्या अनुवर्तनं सार्वकालिकं नित्यकर्माधिकारवत् युक्ततरं नान्येषाम् इति प्रकरणोपसंहारम् अनुदर्शयति ॥ 20.4]
हरिप्रियावतां जनानाम् एतच् छाखेणानुवर्तनम् अत्यावश्यकम् ॥ 21
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* हरिप्रियावतां जनानाम् इति ॥ 21.1
* ननु एकत्र विधाने निषेधवाक्यं कुत्र विधीयते इत्य् उक्तं चेत् पूर्वोक्तजनप्रतियोगिकेषु प्रवर्तते इत्य् आशयेनाह ॥ 21.2]
तदितरेषाम् एतच्छाखे प्रवृत्तिर् न विधीयते ॥ 22
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* तदितरेषाम् इति ॥ 22.1
* क्षीरोदजायाः विभवेन रहितानाम् इत्य् अर्थः ॥ 22.2

* ननु अत्यावश्यकत्वेन ईदृक्कर्मविधानं कुत्राभिव्याप्तम् इति चेत् तत् स्थानं संप्रदर्शयति ॥ 22.3]
पारिशेष्याज् जलधिसम्भवया युक्तेष्व् एतच् छास्त्रस्य प्रवृत्तिः ॥ 23
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* पारिशेष्याद् इति ॥ 23.1
* परिशेषस्य भावः पारिशेष्यं तस्मात् निषेधव्याप्त्या रहितात् पारावारतनूजया संयुक्तेष्व् एव कापि शायनस्वीकरणशास्त्रस्य प्रवृत्तिः अनिर्वचनीयानन्दबोधाय प्रवर्तत इत्य् अर्थः ॥ 23.2
* मतान्तरम् अनुदिशति ॥ 23.3]
गोत्रापत्यघस्रे अनुतर्षस्वीकरणस्यात्यावश्यकत्वम् इति मार्कण्डेयादिः ॥ 24
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* गोत्रापत्यघस्रेष्व् इति ॥ 24.1
* गोत्रायाः अपत्यं तस्य घस्रं दिनं तस्मिन् दिने अनुतर्षस्वीकरणम् इति मृकण्डतनूजस्य मतम् ॥ 24.2
* तदितरेषां मतम् उत्तरसूत्रेणानुदर्शयति ॥ 24.3]
काव्यघस्रेष्व् अत्यावश्यकतमम् इति सुरथवैश्यौ ॥ 25
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* काव्यघस्रेष्व् इति ॥ 25.1
* शुक्रो दैत्यगुरुः काव्य इति कोशाभिधानात् घस्रो दिनाहनी वा त्व् इत्य् अमरः ॥ 25.2
* सुरथादय इति आदिशब्देन वैश्यस्य संग्रहः ॥ 25.3
* नियमविधेः तात्पर्यार्थं संप्रदर्शयति ॥ 25.4]
वाक्यद्वयस्य शक्त्युपासनावतां विनियोगात् ॥ 26
तदितरेषां यथाकालोपदेशः ॥ 27
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* वाक्यद्वयस्येति ॥ 27.1
* शक्त्युपासनावताम् एवायं नियमः यत् घस्रद्वये ऽप्य् अनुवर्तनं तदितरेषां जनानां प्रलम्बघ्नमतानुयायिनां तु यथाकालोपदेश इति न घस्रद्वये परिसंख्यानम् इत्य् अर्थः ॥ 27.2
* किंच ॥ 27.3]
द्वितीयवर्णे सार्वकालिकम् अभ्यनुज्ञानम् ॥ 28
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* द्वितीयवर्णे इति ॥ 28.1
* क्षत्रजातौ द्वितीयवर्णे कापिशायनस्वीकरणविधानं सार्वकालिकं तामसीप्रकृतेः उपासनाधिकारवतां निरन्तरं कादम्बरस्वीकरणं कर्तव्यत्वेनाभिमतम् ॥ 28.2
* अपरोक्षानुभवेन तत्स्वरूपानुदर्शने उपादानकारणत्वात् आत्मभुवः तनोः उपासनाधिकारवत् न घस्रयोः अनुवर्तनम् ॥ 28.3
* औपदेशिकवर्णस्य नियमविधानं विदधाति ॥ 28.4]
यागहेतुना प्रथमवर्णस्य यथावाचनिकाभ्यनुज्ञानम् ॥ 29
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* यागहेतुनेति ॥ 29.1
* वाजपेये सुराग्रहान् गृह्णाति सौत्रामण्यां सुराग्रहान् गृह्णातीति वाक्यद्वयेन प्रथमवर्णिकस्य यथावाचनिकम् एव ग्रहणप्राशनेषु आधिकारिको विधिः ॥ 29.2
* तथा चायम् अर्थः वाजपेये तु ग्रहणमात्रस्यैवाभ्यनुज्ञानं प्राशनाभ्यनुज्ञानं तु तृतीयवर्णस्यैव तथा चानुश्रविकवाक्यं विमाथं कुर्वते वाजसृत इति ॥ 29.3
* सौत्रामण्यां तु यागकर्तुर् एव प्राशनं निगमवाक्येनाभिधीयते नेतरेषाम् ऋत्विजाम् तत्राप्य् आघ्राणेनैव प्राशनप्रतिपत्तिर् इति मतान्तरम् इति ऋष्यन्तराणां वचनम् इति ॥ 29.4
* सार्वकालिकाभ्यनुज्ञानं तु रसाधिपतीनाम् एव नान्येषां जनानाम् इति प्रकरणार्थम् उपसंहरति ॥ 29.5]
खण्डमण्डलाधिपत्यादीनाम् इन्दिरावतां जनानाम् अपि सीधुग्रहणस्य विलासः सार्वकालिकः ॥ 30
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* खण्डमण्डलाधिपत्यादीनाम् इति ॥ 30.1
* अल्पविषयस्य शासनकर्त्णां राज्ञां लोकमातुर् अनुग्रहेण परिपूरितानां सीधुग्रहणेन विलासानुभवः विलासानाम् अनुभवनं सार्वकालिकम् न सुरथवैश्यादीनां मतम् अनुसृत्य प्रवर्तनम् इत्य् अर्थः ॥ 30.2

* युवतीनां प्राशने नियमविधिं संप्रदर्शयति ॥ 30.3]
स्वकीयप्रियसाहचर्येण युवतीनाम् अभ्यनुज्ञानम् ॥ 31
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* स्वकीयप्रियसाहचर्येणेति ॥ 31.1
* निधुवनकाले एव स्वपतिभिः सार्धं कादम्बरस्वीकरणस्याभ्यनुज्ञानं नेतरावस्थायां कुतः उपयोगाभावात् निष्फलप्रयासे स्वीकरणस्य वैयर्थ्यापत्तेः ॥ 31.2
* नियमविधाव् अपि किंचिद् विशेषान्तरम् अनुबध्नाति ॥ 31.3]
तत्राप्य् अनन्यजमखेष्व् एव नेतरत्र विधानम् ॥ 32
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* तत्रापि अनन्यजमखेष्व् एवेति ॥ 32.1
* अनन्यजेन क्रियमाणेषु मखेष्व् एव अत्यावश्यकत्वेन अनुतर्षस्वीकरणविधानं नेतरत्र तदतिरिक्तकालेष्व् इति ॥ 32.2
* योषायाः अत्र योषासंग्रहेण उपश्यामादीनाम् एव संग्रहः न विभ्रंशितद्वितीयावस्थानाम् आस्यपद्मेन प्राशनं तु अत्युत्कृष्टफलविशेषान्तरं निश्चित्य अत्यावश्यकत्वेन प्राशनम् अनुदर्शयति ॥ 32.3]
योषायाः आस्यपद्मेन प्राशनं भाषायाः प्रबोधे अव्यभिचरितकारणम् ॥ 33
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* योषायाः आस्यपद्मेनेति ॥ 33.1
* योषायाः आस्यपद्मेन प्राशने क्रियमाणे यथेच्छिकी भाषायाः अनुस्फुर्तिर् भवतीत्य् अर्थः ॥ 33.2
* अनेन वाक्येन श्रवणादिव्यवसायरहिते ऽपि जने निष्प्रयासेनैव त्रिदशानां गीः स्वमुखात् प्रादुर्भूयत इत्य् अर्थः ॥ 33.3
* अन्यद् अप्य् उत्कृष्टतरं फलविशेषान्तरं स्वीकारमात्रेण संप्रदर्शयति ॥ 33.4]
श्यामाया आस्यसहस्रपत्त्राद् अनुप्राशनम् अपरोक्षानुभवेन मूलप्रकृतेः स्वरूपस्यानुदर्शनम् ॥ 34
* [<कोम्मेन्तर् zउर् कादम्बरीस्वीकरणसूत्रमञ्जरी>
* श्यामाया आस्यसहस्रपत्त्राद् इति ॥ 34.1
* श्यामायाः कमलप्रसूनात् अनुप्राशनं प्रत्यक्षानुभवेन साक्षात् मूलप्रकृतेः स्वरूपानुदर्शने हेतुः कारणम् इति तया सह संप्राशने क्रियमाणे कृत्स्नस्य प्रपञ्चस्य कारणभूतायाः मूलप्रकृतेः साकं संगतो भवति ॥ 34.2
* यद् वा तत्स्वरूपं साक्षाद् अव्यवधानेन पश्यतीत्य् अर्थः ॥ 34.3
* अनेन वाक्येन सायुज्यादिकं फलम् अपि निरायासेन प्राप्नोतीत्य् अर्थः ॥ 34.4
* रतिकाले सीधुपानं कर्तव्यं विधिबोधितम् ॥ 34.5
* तत् पुरस्तात् कामशास्त्रे प्रोक्तं क्रीडानुवर्णनम् ॥ 34.6
* तत् सर्वं तु प्रकर्तव्यं योषायाः सुखलब्धये ॥ 34.7
* स्वस्यापि सुखबोधाय अपत्योत्पत्तिहेतवे ॥ 34.8
* फलद्वयं स प्राप्नोति प्रजां कामसुखं तथा ॥ 34.9
* उर्वशीलोकम् आप्नोति अन्तकाले तु सः पुमान् ॥ 34.10
* इति श्रीमहाराजर्षिवर्येण पुरूरवसा विरचितं कामिजनानां विनोदाय रतिविलासाङ्गभूतं कादम्बरस्वीकरणसूत्रं सव्याख्यानं समाप्तिम् अगमत् ॥ 34.11]

मूल पाठ: Kādambarīsvīkaraṇasūtramañjarī · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc