भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 53-72

53

परिचयकृतमार्गास् तस्य रक्तप्रणाल्यो गगणपरिखभूते च्छिद्यमाने शरीरे ।
क्षितिधरसरिदोघा विस्तराणि प्रचक्रुर् न च मनसि विषादो नापि खेदो बभूव

54

अपचिततरमांसासृग्वसाकर्दमासु व्यपगतभयशङ्कास् तस्य विस्तारिणीषु ।
तनुविवरतरेषु व्याडसंघा विचेरुर् न च मनसि विषादो न च खेदो बभूव

55

यद् अपहृतम् अनार्यैस् तस्य मांसं शरीराद् यदि तद् अपरिशेषं पिण्डितं स्यात् कथं चित् ।
गिरिम् अपि स सुमेरुं लङ्घयेन् मांसराशिर् न च मनसि विषदो न च खेदो बभूव

56

क्षयम् उपययुर् अङ्गेष्व् एव शस्त्राणि तस्य प्रकृतिमृदुषु साधोर् अक्षताध्याशयस्य ।
अभिरुचितपरार्थप्रीतिसंभोगशान्ते न च मनसि विषादो न च खेदो बभूव

57

ये चास्य रक्तैर् विलिलेपुर् अङ्गा ते रेजिरे रोगविषादमुक्ताः ।
ये चापि रक्तानि पपुः सरोगास् ते सर्वलोकाः पुपुषुर् विरोगाः

58

जनम् अपगतरोगं वीक्षमाणस्य हर्षो मनसि भुवनबन्धोर् लब्धगाधो बभूव ।
पिशितम् अनुपयोगं वीक्षमाणस्य भूयो ऽप्य् अभवद् अरतिदोलं चञ्चलं तस्य चेतः

59

उत्कृत्तचर्मपटलस्फुटताम्रमांसो रन्ध्रोद्वमद्रुधिरशेषविशेषताम्रः ।
कायः स तस्य विकृतः कृतनिश्चयस्य रेजे जवाकुसुमराशिर् इवाभ्रचुम्बी

60

विच्छिद्यमानः सुनिशातशस्त्रैस् तद् दुःखम् एकाश्रयम् ईक्षमाणः ।
सुखेन दुःखं स निराचकार लब्ध्वा परत्रात्मनि चैकमत्यम्

61

परिणामखरा बताधमाया गतिर् आत्माभिनिवेशवासनायाः ।
उपदिग्धधियो यया मनुष्याः पितृभूतेष्व् अपि साधुषु स्खलन्ति

62

एतस्य मांसं बुभुजे कृपालोर् यो यः स स व्याधिम् अपाचकार ।
क्रमेण कृच्छ्रं जगद् उत्ततार विपत्समुद्रं तद् अनेन कृत्स्नम्

63

अथ सर्व एव लोको विगतनिखिलरोगोपसर्गस् तस्मिन् महासत्त्वे समुपजातप्रेमगौरवबहुमानः प्रणम्य श्वानं बोधिसत्त्वम् अब्रवीत् ॥
अहो कृपाभ्यासविशेषभद्रता गुणेष्व् अहो भक्तिर् अपेतकल्मषा ।
अहो परार्थप्रतिपत्तिपेशलं तवार्य कर्मेदम् अतीतमानुषम्

64

अहो जगच्छ्रेष्ठमहादयार्द्रता अहो स्वसौख्यव्यवसायनिःस्पृहा ।
शुभेष्व् अहो निश्चयनिश्चलं मनो मनस्विनां बोधिपथानुपातिनाम्

65

अहो बताचिन्त्यम् उपायकौशलम् अहो परार्थे ऽभिरतेर् उदात्तता ।
अचिन्त्यचर्यातिशयाय साधवे नमो ऽस्तु तुभ्यं जगदेकबन्धवे

66

त्वं नः पिता यदि पिता त्वम् इवार्थकामः शास्ता त्वम् एव यदि धर्मगुरुस् त्वम् एव ।
त्वम् दैवतं यदि न तज् जनवादमात्रम् आर्तायनं तु जगतः परमं त्वम् एव

67

तस्माद् आज्ञाभिषेकेण पवित्रयितुम् अर्हसि ।
उपदिग्धम् इमं लोकं युष्मदायासचेतसा

68

अथ बोधिसत्त्वः समुपजातप्रसादमानसम् अवगम्य तम् एनम् अब्रवीत् ॥
पीडा ममेयम् इति नैवम् इदं प्रधार्यं सत्त्वार्थम् एव गतिचक्रचलस्य नित्यम् ।
पीडा ममाभवद् उदीक्ष्य विपत्परीतान् युष्मान् निरामयसुखं त्व् अधुना मनो मे

69

कृत्यं न मे परहिताद् अपरं गरीयः संसारचारकनिबन्धनम् एतद् एव ।
तस्मात् कुकार्यमलिनाम् अतिलङ्घ्य चर्यां मत्प्रीतये सततम् आत्महितं कुरुध्वम्

70

लोकान् इमान् स्वकृतकर्मभुजो विदित्वा मृत्योर् अपर्वपरुषस्य करोदरस्थान् ।
पापान्य् असह्यपरितापफलोदयानि प्राणात्यये ऽपि परिवर्जयितुं यतध्वम्

71

स्वन्तान्य् अनाशरमणीयफलप्रदानि जन्माटवीगहनपथ्यदनोपमानि ।
पुण्यानि संचिनुत मत्प्रतिकारबुद्ध्या कल्याणमित्रवचनं हि न लङ्घनीयम्

72

इति समनुशिष्य प्राणिनस् तान् महात्मा निशितपरशुधाराजर्जरक्लान्तदेहः ।
अवसितकरणीयः पर्युदस्यात्मभावं तम् अतिविकृतरूपं स्वर्गम् एवारुरोह

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc