भाषा

ENहिગુ
ग्रंथ पाठ

जातकमाला · श्लोक 49-68

49

संरागारुणतारकान्तमुकुलक्षीबेण या चक्षुषा
कान्तं स्निग्धविदग्धमुग्धमधुरेणोदीक्षमाणा पुरा ।
चक्रे मन्मथवागुराहरिणकं सैवाद्य संरागिणां
संत्रासं विहगापनीतनयना कष्टं करोत्य् अङ्गना

50

अन्तर्निगूढविविधाशुचिगात्रयष्ट्या रागान्धबुद्धिनयनाश् छलिता मयेति ।
संरागिणो ऽपहसतीव खगावलुप्तदन्तच्छदेन वदनेन वराङ्गनेयम्

51

वीणावेणुध्वनिकलरवैः काकलीगीतकैर् या
निद्रां भेजे प्रियतमपरिष्वङ्गविश्रब्धगर्भाम् ।
सैवाद्येह स्वपिति वनिता भूरजोरूक्षिताङ्गी
गोमायूनां ध्वनितमुखरारावरौद्रे श्मशाने

52

वालाग्रमात्रम् अपि यत्र विचार्यमाणे नेक्षामहे शुचि निजाशुचिगर्भरन्ध्रे ।
तस्मिन् रतिं कथम् अमी प्रखला लभन्ते कायाधमे निधनधर्मिणि रोगनीडे

53

एवंविधं जगद् इदं सकलं भगिन्यः
स्वप्नेन्द्रजालजलचन्द्रचलस्वभावम् ।
मत्वा विरागम् उपगच्छत यावद् एतत्
प्राणावशेषम् उपयाति न वो विनाशम्

54

प्राणान्तिकव्यसनकण्टकभिन्नमर्मा कुर्वीत किं नु कुशलं जलविप्लुताक्षः ।
दष्टः कृतान्तमकरेण जरामुखेन मूर्ध्ना च शुक्लपलितोत्करदन्तुरेण

55

घोरान्धकारपरलोकमहाप्रपातसंपातचूर्णिततनोः कुशलाभिलाषम् ।
आशीविषास्यपुटसंकटसंनिरुद्धमण्डूकवासितसमं प्रवदन्ति सन्तः

56

लोकं वाक्यैः कृतकमधुरैर् वञ्चयित्वाद्य मौनं
धत्से कस्मात् परुषपिशुनाबद्धवादप्रगल्भैः ।
इत्य् आक्रोशन्न् इव सरभसं राजदन्ताग्रदष्टां
जिह्वापेशीं हरति विहगस् तुण्डसंदंशकेन

57

रागान्धानां वितथविषयाभ्यासजिह्माशयानां
यद् बालानां नयनविषयं प्राप्य धैर्यं बिभेद ।
तस्मिन्न् अद्य व्यपगतभयाश् चारुबिम्बे नितम्बे
नार्या गृध्रा नखमुखपदन्यासपङ्क्तिं लिखन्ति

58

याभ्यां याता प्रियकरतलन्यस्तहस्तारविन्दा
भित्तौ साचीपरिणतमुखी चित्रम् उद्वीक्षमाणा ।
मन्दं मन्दं स्वभवनतले मुक्तपुष्पोत्तरीये
ताव् एवाद्य ग्रसति चरणौ जम्बुको ऽयं युवत्याः

59

इत्थंभूते सहजविविधामेध्यजम्बालपङ्के
कष्टं कष्टं मदनमदिराः क्षीबचित्ताः पतन्ति ।
कायस्येमां प्रकृतिम् अशिवां वीक्षमाणास् तु यूयं
निर्विद्यध्वं प्रचलिततडिद्भङ्गुराज् जीवलोकात्

60

यः सत्त्वानाम् अविरतरसक्लेशनाडीव्रणान्तः-
संतप्तानाम् अधिगतयथाभूतधर्माधिराजः ।
ह्लादं चक्रे प्रकृतिशिशिरैर् धर्मवागम्बुकुम्भैः
शास्त्रे तस्मै परमभिषजे सर्वकाले नमो ऽस्तु

61

दुर्विज्ञेयं कपटम् अशिवं क्लेशकर्मप्रयुक्तं
सर्वाकारं विवृतम् अखिलं येन जन्माभिधानम् ।
यस्मिन् मूढो रथचरणवद् बम्भ्रमीत्य् अस्वतन्त्रो
लोकस् तीव्रव्यसनकुलिशाघातनिष्पिष्टमूर्तिः

62

माता बाल्ये प्रतिसरवतीं वेणिकां यत्र चक्रे
यस्मिन् कान्तो मणिमकरिकां यौवनाग्रे बबन्ध ।
विप्रैः सिक्तं सुकुसुमलवैर् यच् च शान्त्यम्बुलेशैः
कष्टं धृष्टः स्पृशति बलिभुक् तच् छिरो ऽद्याङ्गनायाः

63

ये वासिताः सुकुसुमेन विवाहकाले मातुः करेण कृतकौतुकमङ्गलेन ।
ते ऽद्य प्रचण्डपवनैर् अवधूयमानाः केशाः श्मशानतरुचामरतां प्रयाताः

64

प्रकृतिचतुरा दृष्टिः क्वासाव् अपाङ्गविलोकिनी
सललितपदन्यासा क्वासौ गतिर् मदविह्वला ।
क्व नु खलु गता हासास् ते ऽस्या रदच्छदलासकाः
सुरचितम् अहो चित्रं मायारहस्यम् इदं कलेः

65

हासायासविलोलकुण्डलमणिच्छायोपरागारुणे
यस्मिन् प्राणसमश् चकार मुदितः पत्त्राङ्कुरं यत्नतः ।
बालाम्भोरुहपत्त्रकोमलदले तत्रैव गण्डस्थले
वक्त्रं रक्तकलङ्कितं निकषति स्थित्वा ललाटे ऽण्डजः

66

मुक्ताहारमरीचिफेनसलिले रोमावलीशैवले
विस्तीर्णस्तनचक्रवाकयुगले वक्षस्तडागोदरे ।
सव्याजस्खलितांशुके व्यसनिनां यत्रैव नेत्रालयः
पेतुस् तत्र विपूयके ऽद्य निपतन्त्य् आशातिका मक्षिकाः

67

पूर्वं चन्दनवारिशीकरमुचैर् या तालवृन्तानिलैः
प्रेष्याभिर् वलयध्वनिव्यतिकरैः संवीजिता सुन्दरी ।
हर्म्ये चन्द्रकरोपहारधवले बिम्बोपधानाश्रिता
ताम् एवाद्य तु वीजयन्ति परुषैः पक्षानिलैर् वायसाः

68

येनायं कम्पितः पूर्वं शाखान्तरविचारिणा ।
क्वेमं कायद्रुमं त्यक्त्वा स गतश् चित्तमर्कटः

मूल पाठ: Jātakamālā · Edition: Ajātaśatrvavadāna = GoAś: edition by Michael Hahn. "Ajātaśatrvavadāna: A Gopadatta Story from Tibet", K.P. Jayaswal Commemoration Volume, Patna 1981, pp. 242-276. [von Hahn nach der Publ. von 1981 noch verbessert]; Bhavalubdhaka = GoBhl: edition by Ratna Handurukande. Five Buddhist Legends in the Campū Style - From a collection named Avadānasārasamuccaya. Bonn 1984 (Indica et Tibetica, 4); Kapīśva · Data entry Michael Hahn · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc