भाषा

ENहिગુ
ग्रंथ पाठ

जातकपारिजातः · अध्याय p18

p18.1

तत्र सप्तमभावफलम् ।
यात्रापुत्रकलत्रसौख्यमखिलं सङ्चिन्तयेत्सप्तमा-
दुक्तं पुत्रसुखासुखागमफलं सर्वं च यत्तद्वदेत् ॥ १।२॥
जारः कामगते सिते मदनपे साहिध्वजे वा तवा
कामे जीवय्गीक्षिते शुभगृहे जातो न जारो भवेत्

p18.2

दुःस्थे कामपतौ तु पापगृहगे पापेक्षिते तद्युते
तज्जायाभवनस्य मध्यफलं सर्व शुभं चान्यथा ।
कामस्थानपतौ सितेन सहिते पापर्क्षगे कामधीः
सौम्यर्क्षे शुभखेटवीक्षितयुते जातः सितच्छत्रवान्

p18.3

वित्तास्तारिपभार्गवास्तनुगताः पापान्विताः कामुकः
पापव्योमचरान्वितौ तनुरिपुस्थानधिपौ चेत्तथा ।
कामस्थे रिपुवित्तलग्नपयुते पापे परस्त्रीरतः
पापारातिकलत्रपा नवमगाः कामातुरो जायते

p18.4

जारः कर्मधनास्तपा दशमगाः पुत्रादिकारग्रहा-
दुःस्था धीगुरुकामपाः सुतगृहे पापेक्षितेऽनात्मजः
जीवज्ञौ यदिवा निशाकरसितौ कामे बहुस्त्रीरतः
शुक्रे मन्मथराशिगे बलवति स्त्रीणां बहुनां पतिः

p18.5

शुक्रारौ मदगौ कलत्ररहितो धर्मात्मजस्थौ तथा
शत्रुस्थानगतौ निशाकरसितौ यद्येकपुत्रो भवेत् ।
लग्नास्तव्ययगेषु पापखेचरेष्विन्दौ सुते दुर्बले
वन्ध्यास्त्रीपतिरेव जातमनुजो जायविहीनोऽथवा

p18.6

बन्ध्यापतिः सितरवी मदनोदयस्थौ चन्द्रेदये समगृहे लल्लनाकृतिः स्यात् ।
पुंराशिगे पुरुषभावयुतं कलत्रं स्त्रीपुङ्ग्रहेक्षितयुते सति मिश्ररूपम्

p18.7

भौमांशे वा भौमराशौ विलग्नात् कामस्थाने जन्मभे वा वधूनाम् ।
जाया दासी नीचमूढग्रहांशे दुष्टा वा स्याद्यैवने भर्तृहीना

p18.8

शुभाम्शराशौ यदि सद्गुणाढ्या शुभेक्षिते चारुतरं कलत्रम् ।
चन्द्रांशके दुर्बलचन्द्रराशौ जाता पतिग्नी सबले तु साध्वी

p18.9

अर्काशे कुलटा निजोच्चगृहगे साध्वी शुभालोकिते
लग्ने शीतकरेऽथवा मदनभे नीचारिमूढान्विते ।
पापव्यालविहङ्गपाशनिगलद्रेक्काणभागान्विते
सन्ध्यंशे विगतब्रता च विधवा जातस्य जाया भवेत्

p18.10

कामस्थे तनुपे शुभग्रहयुते सद्वंशजामिच्छति
क्रूरर्क्षे मदगे विलग्नरमणे दुर्वशजाताङ्गनाम् ।
वर्णं रूपगुणाकृतिं च सकलं यतद्गृहोक्तं वदेत्
दुङ्यार्पारकरग्रहाकृतिनरप्रीतिं प्रयात्यङ्गना

p18.11

पापाप्रकाशसंयुक्ते कलत्रे दुष्टचारिणी ।
रवौ बन्ध्या तु शीतांशौ क्षीणे तु व्यभिचारिणी

p18.12

कुजे तु भ्रियते मन्दे दुर्भगाराहुसंयुते ।
परदारोऽरतिः स्वीयां निषेकाभावकोऽसुतः

p18.13

धूमे विवाहहीनः स्यान्भ्रयते कार्मुके सति ।
परिवेषे तु दुःशीला केतौ बन्ध्या सती भवेत्

p18.14

काले विदारः पापे तु गर्भस्त्रावेण संयुता ।
सुशीला स्त्री प्रसूता च पूर्यमाणे सुधाकरे

p18.15

बुधे सुपुत्रा वागीशे गुणयुक्ता सुपुत्रिणी ।
शुक्रे सौभाग्यसंयुक्ता श्रीमती च बलान्विते

p18.16

स्त्रीपुत्रपे बलिनिशोभनखेटदृष्टे षष्ठाधिपेन सहिते सति विक्षिते वा ।
जारेण पुत्रनिलाभमुपैति जाया तस्या धवो वहुकलत्रयुतोऽप्यपुत्रः

p18.17

नीचे गुरौ मदनगे सति नष्ट्दारो मीने कलत्रभवने रविजे तथैव ।
मन्दारराशिनवभागगते सुरेज्ये जारो भवेदिनसुतारसमन्विते वा

p18.19

सुवंशजातं प्रथमं कलत्रं लग्नेश्वरो दारपसंयुतश्चेत् ।
दिनेशकान्त्याभिहतस्तदानी स्वरूपहीनां सुतरां वदन्ति

p18.20

वित्ते पापबहुत्वे च कलत्रेशे तथास्थिते ।
अशत्रुस्वानगते केतौ कलत्रत्रयभाग्भवेत्

p18.21

केन्द्रत्रिकोणे दारेशे स्वोच्चमित्रस्ववर्गगे ।
कर्माधिपेन वा दृष्टे बहुस्त्रीसहितो भवेत्

p18.22

कलत्राधिपतौ केन्द्रे शुभग्रहनिरीक्षिते ।
शुभाम्शे सुभराशौ वा पत्नी व्रतपरायणा

p18.23

दाराधिपे सोमसुते सपापे नीचारिवर्गे रिपुनाशभावे ।
पापान्तरे पापदृशा समेते जाया पतिघ्नी कुलनाशिनी स्यात्

p18.24

शुभांशे शुभ्सन्दृष्टे नाथे जाया सुवंशजा ।
पापारूढे पापवर्गे तस्य जाया कुवंशजा

p18.25

कामस्थाने सखेटे सितयुतस्वचरैर्दरसंस्व्यां - वदन्ति
स्वोच्चस्वङ्षोमवासो न भवति गणने शुक्रयुक्तग्रहैर्वा ।
जायाधीशे सितर्क्षे सति धनभवने शुक्रसंयुक्तसङ्ख्या
शुक्रानङ्गेशयुक्तद्युचरनववधूवल्लभो जायते वा

p18.26

दारेशेन कुटुम्बपेन सहिता यावद्ग्रहा दुर्बला-
स्तत्सङ्ख्याककलत्रनाशनकरा दुःस्थानाथा यदि ।
यावन्तो बलशालिनः शुभकरास्तत्तुल्यजायासुखं
कुर्वन्त्येकवियच्चरो बलयुतो यद्येकदारो भवेत्

p18.27

अथ विवाहकाज्ञः ।
लग्नानङ्गपतिस्फुटैव्यगृहगे जीवे विवाहं वदे-
च्चन्द्राधिष्ठिततारकावधुपयोरैक्यांशके वा तथा ॥
जीवे मित्रनवांशके बलयुते यद्येकदारान्वितः
स्वांशे द्वित्रिकलत्रवान् बहुवधुनाथः स्वतुङ्गांशके

p18.28

कलत्रनाथस्थितभांशकेशयोः सितक्षपानायकयोर्बलीयसः ।
दशागमे द्यूनयुक्तभांशकत्रिकोणगे देवगुरौ करग्रहः

p18.29

शुक्रोपेतकलत्रराशिपदशामुक्तोविवाहप्रदा
लग्नाद्वित्तपतिस्थराशिपदशाभुक्तौ च पाणिग्रहः ।
कर्मायुर्भवनाधिनायकदशाभुक्तौ विवाहः क्रमात्
कामेशेन यूतः कलत्रगृहगस्तत्पाकमुक्तौ तु वा

p18.30

सौम्यवुओमचरः स्थितः शुभगृहे चादौ ददाति श्रियं
पापर्क्षे शुभखेचरो यदि दशामध्ये विवाहादिकम् ।
क्रूरः पापगृहोपगो यदि फलं पाकावसाने तथा
सौम्य्र्क्षे यदि सर्वकालफलदः सौम्यान्वितः शोभनः

p18.31

लग्नेश्वरस्थितनवांशपतिः स्वराशौ चन्द्रे पुरन्दरगुरौ च कलत्रलाभम् ।
कामेशसुक्रगृहगेऽमरमन्त्रिणिन्दौ केन्द्रेऽथवा गुरुयुते सति गोचरेण

p18.32

यसङ्ख्याकमजादि कामभवनं तद्वत्सरे वा नृणां
साष्टाब्दे कृतभौङ्जिकर्मपरतः कन्यानकालो भवेत् ।
लग्नादस्तविलग्ननायकयुतक्षेत्रांशके सभवा
या सा भर्तृमनःप्रसादकरणि भर्ता तथैव स्त्रियाः

p18.33

कामान्वितेक्षकवियणरराशिजाता चन्द्रादतीव सुभगा च पतिप्रिया स्यात् ।
स्त्रीजातके च पतिरिष्टकरो वधूनां दिग्देशजा भृगुसुतादबलाधिपय

p18.34

अथ वरवधूजातकसंयोगः ।
धनावसानस्मरयानरन्ध्रगो धरासुतो जन्मनि यस्य दारहा ।
तथिव कन्याजनजन्मलग्नपो यदि क्षमासूनुरनिष्टदः पतेः

p18.35

क्रूरव्योमचरः स्त्रीणामष्टमस्थो विलग्नतः ।
नीचारिपापवर्गेषु यदि मृत्युकरः पतेः

p18.36

द्यूनकुटुम्बगतौ यदि पापौ दारवियोगजदुस्वकरौ तौ ।
ताद्राशयोगजदारयुतश्चेज्जीवति पुत्रधनादियुतश्च

p18.37

कलत्रराशित्रितयेऽथवा स्यात्तदीशसंयुक्तभराशिकोणे ।
कलत्रराशिर्यदि पुत्रशाली तदान्यराशिर्यदि पुत्रहीनः

p18.38

अथ स्त्रियाः स्तनविचारः ।
काठिन्योरुकुचा मदे दिनकरे कामाधिपे केन्द्रगे
जीवेन्दुज्ञसितान्विते गुरुकुचा शुष्कस्तना भूमिजे ।
लम्बापीनपयोधरा सगुलिकच्छायासुताहिघ्वजे
धूमादौ विषमाकृतिस्तनवती दुःस्थेऽथवा कामपे

p18.39

अथ गम्यस्त्रीविचारणम् ।
बन्ध्यासङ्गमिनेऽस्तगे समवधूकेलि निशानायके
भूपुत्रे तु रजस्वलाजनरति बन्ध्यावधूमेति वा ।
वेश्यामिन्दुसुते तु विप्रवनितां जीवे सिते गर्भिणी
नीचस्त्रीरतिमर्कजोरगशिस्विप्राप्तेऽथवा पुष्पनीम्

p18.40

अथ स्त्रीसङ्गमे स्थानविचारः ।
क्रीडागरमिने वनं सुखगते चारु स्वगेहं विधौ
भूपुत्रे सति कुङ्यमिच्छति बुधे जातो विहारस्थलम् ।
जीवे देवगृअं सिते तु सलिलं मन्देऽथवा पत्नगे
केतौ भाधवशक्करप्रियसुतस्थानं वधूसङ्गमे

p18.41

शुक्रांशे मदनस्थितेऽवनिसुते कामाधिपे पङ्चमे
जायारिष्टमुपैति सप्तमगते भानौ कलत्रार्थवाण् ।
दुःस्थौ कामकुतुम्बपौ सभृगुजौ दुश्चिक्ययात् तु वा
तस्मद्ख्याककलत्रहा बलयुतौ वित्तास्तपौ दारवाण्

p18.42

अथ भगचुम्बनयोगः ।
जातः समेति भगचुम्बनसन्तनाथे शुक्रेण वीक्षितयुते भृगुमन्दिरे वा ।
एवं कुतुम्बभववाधिपतौ तथा स्याद् दारर्क्षगे दशमपे ससिते तथैव

p18.43

अथ स्त्रिया भगविचारः ।
कामेश्वरे देवगुरुः सितो वा समं भगं चारुतरं तरुण्याः ।
हस्वं भगं सप्तमराशिनाथे शनीन्दुतारासुतमध्याते

p18.44

दीर्घ समेति भगमस्तपतौ जलर्क्षे तत्कारके जलगृहोपगते तथैव ।
सार्द्रं भगं मदनगे भृगुवीक्षितेऽब्जे गुह्यं त्वनार्द्रमुपयाति वधूः सपापे

p18.45

लग्नेशस्थनवांशनाथगृहगे जीवे समेति स्त्रियं
नीचारातिनवांशके सति मृतस्त्रीको विदारेऽथवा ।
लग्ने कामपतिस्फुटादपह्वते राशित्रिकोणे गुरौ
लग्ने सप्तमराशिपस्फुटह्वते जीवे मृतिं योषितः

p18.46

लग्नात्कामपकारकौ शुभकरौ वीर्याधिके सप्तमे
पत्या साकमुपैति भृत्युमबला षापैर्युक्तेक्षिते ।
कामच्छिद्रदशापहारसमये शुक्राष्टवर्ग्र्दिते
राशौ भानुसुते कलत्र करणं जीवे तदाम्शान्विते

p18.47

मदनभवननाथे परिजातादिवर्गे सुरगुरुयुतदृष्टे शोभनस्थानयाते ।
दधिमधुधृतसूपक्षीरपकोपदंशैः सह शुचि रुचिरात्नं चारुकान्तामुपैति

p18.48

इति सप्तमभावविचारः ।
अथाष्टमभावफलम् ।
आयुर्दायमनिष्टहेतुमुदयव्योमायुरीशार्कजै-
रुक्तं तत्सकलं तथापि निधनप्राप्तिं प्रवक्ष्ये पुनः ।
चल्पायुर्व्ययगेऽथवा रिपुगते पापान्विते रन्ध्रपे
लग्नेशेन युते तु तत्र विबले जातोऽल्पजीवी नरः

p18.49

स्वस्थे रन्ध्रपतौ चिरायुरुदयाच्छिद्राधिपौ षष्ठगौ
रिष्फस्थौ यदि वा समेति मनुजो जातश्विरायुर्बलम् ।
ज्यापारोदयरन्ध्रराशिपतयः केन्द्रत्रिकोणायगा
दीर्घायुविबलाः सभानुतनया यद्यल्पमायुर्वदेत्

p18.50

कर्मेशरन्ध्रतनुपा बलशालिनश्चेज्जातश्विरायु रिननन्दनयोगहीनाः ।
द्वावप्यतीव बलिनौ यदि मध्यमायुरेको बली तधुतरायुरनायुरन्यः

p18.51

रन्ध्राधिपे पापगृहोपयाते दुःस्थानगे पापयुतेऽल्पमायुः ।
शुभान्विते शोभनराशियुक्ते शुभेक्षिते रन्ध्रगते चिरायुः

p18.52

नाशस्थे तनुपेऽथवा निधनपे पापेन युक्तेक्षिते
मूढेऽदृश्यगतेऽथवा रिपुगृहे जातो गतायुर्भवेत् ।
जीर्घायुर्निजतुङ्गगे शुभयुते केन्द्रत्रिकोणेऽथवा
रन्ध्रे रन्ध्रपतौ चिरायुरुदयं यातो विलग्नाधिपे

p18.53

लग्नादन्त्यगृहाधिपे बलवति स्वर्क्षे चिरायुः सुखी
लग्नेशो यदि रन्ध्रपश्च बलिनौ केन्द्रस्थितौ चेत्तथा ।
आधानोदयराशिऽष्ट्मगृहान्मेषुरणं जन्मभं
शुक्रज्ञामरवन्दितेक्षितयुतं यद्यायुरारोग्यभाक्

p18.54

अथ मृत्युविचारः
रन्ध्रेशे रिपुरन्ध्ररिष्फगृहगे तत्पाकभुक्तौ मृतिं
मन्दाकान्तगृहेशपाकसमये रन्ध्रेशभुक्तौ तथा ।
पाके रन्ध्रगृहाधिपस्य तदनुक्रान्तस्य भुक्तौ तु वा
खेटानां बलदुर्बलेन सकलं सञ्चिन्त्य यत्तद्वदेत्

p18.55

लग्नेशे निधनारिरिष्फगृहगे साहौ सकेतौ तु वा
होरारन्ध्रपसंयुतग्रहदशा जातस्य मृत्युप्रदा ।
तत्खेटान्वितराशिनायकदशा नाशप्रदा देहिनां
खेटानां प्रथमागतस्य फणिनः पाकापहारे क्रमात्

p18.56

व्यापाररन्ध्रतनुनाथशनैश्चराणां मध्ये विधुन्तुदयुतो विबलग्रहो यः ।
तत्पाकभुक्तिसमये मरणं नराणां तद्युक्तवीक्षकनभोगदशान्तरे वा

p18.57

नाशे नाशपतौ तु तद्ग्रहदशाभुक्तौ समेत्यामयं
लग्ने लग्नपतौ तु लग्नपदशाभुक्तौ शरीरातिभाक् ।
पश्चादामयनाशनं तनुसुखं मोदश्च सञ्जायते
रन्ध्रेशे बलसंयुते तनुपतेर्दाये मृतिर्देहिनां

p18.58

जातस्य जन्मसमये विबले विलग्ने लग्नेशरन्ध्रपतिपाकलतिव कष्टम् ।
पश्चादतीव सुखमेति विलग्ननाथे वीर्यान्विते निधनपस्य मृतिं दशायाम्

p18.59

देहेशे च विनाशपे बलयुते केन्द्रत्रिकोणस्थिते
तद्युक्तग्रहपाकभुक्तौसमये रोगापवादः फलम् ।
रन्ध्रेशस्तनुपश्च खेचरयुतौ केन्द्रत्रिकोणस्थितौ
रन्ध्रस्थानगतस्य पाकसमये मृत्युं समेति ध्रुवम्

p18.60

नो चेदष्टमखेचरौ यदि तनुप्राप्तेन सङ्चिन्तये-
न्मन्दे लग्नगतेऽथवाष्टभगते तत्पाकभुक्तौ मृतिः ।
रन्ध्रेशोदयनायकौ सखचरौ युक्तग्रहो दुर्बलो
यस्तस्य द्युचरस्य पाकसमये भुक्तौ च मृत्युं वदेत्

p18.61

लग्नात्पङ्चमराशिपेन सहितव्योमाटनानां दशा-
सङ्ख्याभानुह्वतावशेषगृहगे मृत्युं दनेशे सति ।
पुत्रेशो न वियच्चरेण सहितः स्वाब्देन सङ्चिन्तये-
ल्लग्नेशेन युताब्दमञ्गविहृतः सङ्क्रान्तिपूर्वं दिनम्

p18.62

त्रिकोणे केन्द्रे वा यदि पितृतनुक्षेत्रपतयो
दशाभुक्तौ तेषामनुमरणमाहुर्मुनिगणाः ।
सभौमे मन्दाढ्ये फणियुजि तु वेन्दुअ निधनगे
त्वपस्मारस्तस्मान्मरणमथवेन्दौ कृशतनौ

p18.63

चन्द्रे वित्तगतेऽथवा निधनगे जातो बहुस्वेदवाम्
कर्मस्थानगते कुजे बुधयुते दुर्गन्धदेहो भवेत् ।
पापे रन्ध्रगते तु पापसहिते रोगप्रभादाकरः
सौम्यव्योमगृहेऽतिशोभनयुते जातः समोदः सुखी

p18.64

शीर्षोदयेषु चरभादिषु वित्तपस्य लग्नाधिपस्य भुजगस्य दशापहारे ।
पृष्ठोदये सति तदीयदृगाणपस्य तद्वीक्षितादिसहितस्य मृतिं वदेद्वा

p18.65

इति अष्टमभावफलविचारः
अथ नवमभावफलम् ।
भाग्यप्रमावगुरुधर्मतपःशुभानि सञ्चिन्त्येन्नवमदेवपुरोहिताभ्याम् ।
भाग्येशदेवसचिवौ शुभवर्गयातौ भाग्ये शुभग्रहयुते समुपैति भाग्यम्

p18.66

पापारिनीचरविलुप्तकरा नभोगा भाग्यस्थिता यदि यशोधनधर्महीनाः ।
पापेऽपि तुङ्गजमित्रगृहोपगश्चेद्भाग्ये तु भाग्यफलदः सतत्ं नराणाम्

p18.67

सौम्यस्वामियुतेक्षितं नवमभं भाग्यप्रदं प्राणिनां
तद्राशीशसमेतराशिरमणो भाग्यस्य कर्त्ता भवेत् ।
भाग्येशाः परिपाचको भवति तत्पुत्रेश्वरो बोधक
स्तुञ्गस्वर्क्षगृहोपगो यदि चिरं भाग्ये प्रकुर्वन्ति ते

p18.68

भाग्यस्थे दशवर्गजोच्चभवनस्वांशस्थिते पङ्चके
भाग्यं श्रीविपुलं समेति नृपतिस्तत्स्वामियुक्तेक्षिते ।
चत्वारे बलशालिनो नवमगा भाग्यं प्रयच्छन्ति ते
तुङ्गस्वांशगताः स्वदेशविभवं त्वन्यत्र चान्याम्शगाः

p18.69

अथ नवमे गुरौ ग्रहदृष्टिफलानि ।
भाग्ये तत्पतोशोभनेक्षितयुते भाग्यं समेति ध्रुवं
धर्मे पापयुते भृगौ शशिनि वा जातो गुरुस्त्रीरतः ।
दृष्टेऽर्केण गुरौ नृपः क्षितिभुवां मन्त्री बुधेनार्थवान्
शुक्रेणाश्वपतिः सुखी तु शशिना मन्देन चोष्टादिभाख्

p18.70

विद्वान् वारणगोतुङ्गधनवानिन्द्वर्कदृष्टे गुरौ
सेनावाहनरत्नवान्नवमगे जीवेकुजार्केक्षिते ।
विद्यावादविनोदवित्तविपुलः सूर्येन्दुजालोकिते
शुक्रादित्यनिरीक्षिते विनयवाग् जीवे तपःस्थानगे

p18.71

मन्ददित्यनिरीक्षिते गुणनिधिः प्राज्ञो बहुग्रामवान्
जीवे चन्द्रकुजेक्षिते पृथुयशाः सेनासुखश्रीयुतः ।
तारेशेन्दुप्रविलोकिते गृहसुखश्रेष्ठार्थशय्यासनः
शुक्रेन्दुप्रविलोकिते वितनयः शूरो धनी कर्मकृत्

p18.72

चन्द्रादित्यसुतेक्षिते तु गुणवान् वादी विदेशं गतो-
जीवे शुक्रबुधेक्षिते नवमगे विद्याधिको जायते ।
सर्वव्योमचरेक्षिते नरवरो राजा बहुद्रव्यवान्
सौभाग्याचरराज्यवित्तफलदाः सर्वे तपःस्थानगाः

p18.73

नवमे द्विग्रहयोगफलानि
भाग्यस्थे शशिनि प्रभाकरसुतज्ञारेक्षिते भूपति-
स्तुङ्गव्योमचरे तपःस्थलगते भूपः शुभालोकिते ।
सेन्दौ तिग्मकरे तु तत्र धनिको नेत्रामयार्त्तो भवेद्
दुःखी वादरतः कुजेन सहिते भानौ नृपालप्रियः

p18.74

भानौ सेन्दुसुते सपत्नबद्दुलो दुःस्वी रुगार्तः सदा
वागीशेन युते पितृप्रियकरो जातः स्वयं वित्तवान् ।
रोगी शुक्रयुते रवौ शनियुते र्ग्णः पिता कुक्षिरुक्
चन्द्रे सावनिनन्दने तु जननीहन्ता धनत्यागवान्

p18.75

वाग्मी शास्त्रकलापवान् नवमगे चन्द्रे सतारसुते
सेन्दौ मन्त्रिणि धीरधीर्नरवरः श्रीमान् गुरुस्थानगे ।
तारेशे कुलतापतिः सभृगुजे सापत्नमातृप्रिय-
श्चन्द्रे मन्दयुते विधर्मगुणवान् माता कुलप्रच्युता

p18.76

शास्त्री भोगसुखी कुजे बुधयुते सेव्ये धनी पूजितः
शुक्रेण द्विवधूपतिः सहकुजे वादी विदेशं गतः ।
भौमे भानुसुतान्विते नवमगे पापी परास्त्रीरतः
सौम्ये सामरवन्दिते पटुमतिविद्वान् धनी पण्डितः

p18.77

प्राज्ञो गीतरतिप्रियः सभृगुजे चन्द्रात्मजे पण्डितः
सौम्ये मन्दयुते तु रोगितनुको वित्ताधिकोऽसत्यवाक् ।
जीवे शुक्रयुते चिरायुरधिकश्रीमान् समन्दे गुरौ
रोगीरत्नधनः सितेऽसितयुते भूपालतुल्यो भवेत्

p18.78

अथ नवमे त्रिग्रहयोगफलानि ।
रवीन्दुभौमा नवमोपयाता यदि क्षताङ्गः पितृमातृईनः ।
हिंसी विकर्मा राविचन्द्रसौम्या रविन्दुजीवाः सुखवाहनाढ्यः

p18.79

चन्द्रार्कौससितौ वधूकलहकृद् राजप्रियो वित्तहा
भाग्यस्थौ रविशीतगू शनियुतौ भृत्यो विरोधि सताम् ।
रव्यारौ सबुधौ तु तत्र सुभगः क्रुद्धो विवादप्रियः
सेज्यौ देवपितृप्रियः सुतवधूवित्तान्वितो जायते

p18.80

सूर्यारौ ससितौ विवादनिरतः कोपी वधुदुषक-
श्छायासूनुयुतौ विबन्धुरधनोसाधुः पितुमारकः ।
धर्मस्थौ रविचन्द्रजौ गुरुयुतौ राजप्रियो वित्तवान्
साच्छ्यौ राजसम्ः सभानुतनयौ पापी परस्त्रीपतिः

p18.81

जीवार्कौ सितसंयुतौ परवधूसक्तो धनी पण्डितः ।
सार्की जीवदिवाकरौ यदि विटस्वामी तपःस्थानगौ ।
आदित्याप्तितभार्गवा नवमगा हीनो नृपैर्दण्डतो
बाल्ये तप्तमनाः सुखी च परतश्चन्द्रारशीतांशुजाः

p18.82

देवाराधनतत्परो नवमगैश्चन्द्रारवागीश्वरै-
र्जातो नष्टकलत्रवान् क्षततनुः शुक्रेन्दुभूनन्दनैः ।
क्षुद्रो मातृहरो महीपतिसमश्चन्द्रारसूर्याम्तजै-
राचार्यो धनवान् विभुश्च रजनीनाथज्ञदेवाचिञ्चतैः

p18.83

मातुः सपत्नीजनको विभुः स्यात् चन्द्रज्ञशुक्रा नवमोपयाताः ।
पापी विवादप्रियबुद्धियुक्तो जातः सुधारशिमबुधार्कपुत्राः

p18.84

चन्द्रामरेज्यौ ससितौ महीपः सार्कात्मजौ सद्गुणकर्मशीलः ।
मन्दज्ञशुक्रा नरपालतुल्यः कृषिक्रियावित्तपरो गुरुत्थाः

p18.85

राजप्रियो माण्डलिकः सजीवीभावस्थितौ भुसुतचन्द्रपुत्रां ।
शास्त्री सशुक्रौ चपलश्च भीरुः सभनुजौ वाद समर्थः

p18.86

ख्यातो विद्वान् धर्मवान् जीवसौर्यौ धर्मस्थाने ॥। ।
विद्यावान्मी सासितौ धर्मरतो रा ॥॥॥॥॥॥॥॥॥।

p18.87

जातः साहसविक्रमार्जितधनः सूर्यरजीवार्कजैः
शूरः सर्वगुणप्रप[न्चरसिकः युक्रारजीवेन्दुभिः ।
षट्पङ्चत्रिचतुर्विशच्चरयुते भाग्ये समेति य्रियं
राजत्यं सबुधे विबोधनगुरौ जातः समेत्यश्रियम्

p18.88

जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहा पुरुषम् ।
व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम्

p18.89

भाग्याधिपे विनाशस्थे नीचसत्रुस्वगेक्षिते ।
क्रूरांशे नीचराश्यादौ भाग्यहीनो भवेन्नरः

p18.90

भाग्याधिपे शुभयुते शुभग्रहनिरिक्षिते ।
तद्भावे शुभसम्बन्धे तत्कीर्तिधनभाग्यवान्

p18.91

सिंहासनांशे तन्नाथे लग्नेशेन निरीक्षिते ।
कर्माधिपेन सन्दृष्टे ॥॥॥ऽकरो भवेत्

p18.92

जातः पुरोहितो ॥॥॥॥॥॥॥॥॥॥॥॥॥। ।
दानाध्यक्षोपकारी ॥। वर्णमेदविकल्पना

p18.93

गुरौ तद्भावसंयुक्ते नवांशाधिपतौ तथा ।
शुभग्रहेक्षिते वाऽपि गुरुभक्तियुतो भवेत्

p18.94

गुरुस्थाने सौम्ययुते गुरुवर्गसमन्विते ।
तदीशे गुरुभागस्थे गुरुभक्तिरतः सुखी

p18.95

गुरुशुक्रबुधांशस्थे धर्मनाथेन वीक्षिते ।
शुभग्रहाणां मध्यस्थे धर्मकृत्स नरो भवेत्

p18.96

धर्मे पापे पापभाक् स्यात् तदीशे पापसंयुते ।
क्रूरषष्ट्यंशके वाऽपि धर्महीनो भवेन्नरः

p18.97

बलवति शुभनाथे केन्द्रकोणोपयाते शुभशतमुपैआति स्वामिदृष्टे विलग्ने ।
सुरगुनवभागस्त्रीम्शदंशत्रिभागे दशमभवनपे वा वीतभोगस्तपस्वी

p18.98

सकलगगनवासाः स्वोच्चगा भाग्यराशौ धनकनकसमृद्धिं श्रेष्ठमुत्पादयन्ति ।
यदि शुभस्वचरेन्दैस्तत्र दृष्टा नभोगा विनिहातरिपुपक्षौ दिव्यदेहः सुकीर्तिः

p18.99

तातेशतत्कारकखेचरेन्द्रौ दुःस्थौ तयोः पुत्रमुखं न दृश्यम् ।
केन्द्रत्रिकोणे यदि तौ नभोगौ वदेतयोः पुत्रमुखं हि दृश्यम्

p18.100

इदनीं जातस्य पितुर्मरणं दिने रावौ स स्यादित्याह ।
पितुर्नशायां मरणं सुखेशशुक्रेन्दवः षष्ठगता बलाध्याः ।
नारीश्वरास्तन्भरणं तथैव चन्द्रेण हीनास्तु दिवा मृतः स्यात्

p18.101

सौम्ये चराद्यभागस्थे भाग्येशे बलसंयुते ।
गुरुशुक्रयुते दृष्टे जपध्यानसमाधिमान्

p18.102

देवलोकदिभागस्थे कर्मेशे भाग्यपेऽपि वा ।
पारावतांशके सौम्ये ब्रह्मनिष्टापरो भवेत्

p18.103

पारावतादिभागस्थे धर्मेशे गुरुसंयुते ।
लग्नेशे गुरुसन्दृष्टे महादाअकरो भवेत्

p18.14

इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते चतुर्दशोऽध्यायः

मूल पाठ: jātakapārijātaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc