जातकपारिजातः · अध्याय p13
होरलग्नात्मुख्यप्रभवशुभफलादीनि सर्वाणि पुंसां
चत्तद्भावोद्भवानि ह्यचरबलवशाद्यार्न नानि प्रवचिम् ।
ये ये भावाः सितज्ञामर्गुरुपतिभिः संयुता वीक्षिता वा
नान्यैर्दष्टा ज युक्ता यादि शुभफलदा मूर्तियावादिदेषु
तन्वादिभावेषु शुभोदयेषु तद्भावनाथोपगतेक्षितेषु ।
तदुक्तभाबस्य समृद्धिरुक्ता नपापखेटेक्षितसंयुतेषु
नीचस्थो रिपुराशिस्थः खेटो भावविनाशकः ।
मूलस्वतुङ्गमित्रस्थो भाववृद्धिकरो भवेत्
यद्भावनाथो रिपुरिष्फरन्ध्रे दुःस्थानपो तद्भवनस्थित॥।
तद्भावनाशं कथयन्ति तज्ज्ञाः शुभग्रहेण ॥॥॥॥॥॥।
यद्भावपे केन्द्रगते विलग्नात्त्रिकोणगे वा यदि सौम्यदृष्टे ।
तुङ्गादिवर्गोपगते बलाढ्ये तद्भावपुष्टिं फलमाहुरार्याः
तत्तद्भावत्रिकोणे सुखमदनगृहे वाऽस्पदे सौम्ययुक्ते
पापानां दृष्टेहीने भवनपसहिते पापखेटैरयुक्ते ।
भावानां पुष्टिमाहुः सकलशुभकरं चान्यथा चेत्प्रणाशं
मिश्रं मिश्रग्रहेन्दैरखिलमापि तथा मूर्तिभावादिकानाम्
नाशस्थानगतो दिवाकरकरच्छग्रस्तु यद्राशिपो
नीचारातिगतोऽथवा यदि शुभैः खेटैर्युक्तेक्षितः ।
तद्रावस्य विनाशनं मुनिगणाः शंसन्ति खेटैर्युतो
यद्यत्रापि फलप्रदो नहि तथा मूत्यार्दीभानां क्रमात्
दुःस्थाने वाअरिगे मूढे दुर्बले भावनायके ।
भावस्य सम्पदं कर्तुं न शक्ता भावमाश्रिताः
दुष्टस्थितो वापि यदा नभोगः पापोऽरिनीचांशकसंयुतो यः ।
स्वतुङ्गमित्रांशकराइयुक्तः शुभेक्षितो वा यदि शोभनः स्यात्
भवेशाक्रन्तराशीशे दुःस्थे भावस्य दुर्बलम् ।
स्वोव्च्चमित्रस्वराशिस्थे भावपुष्टिं वदेद् बुधः
वद्भावलाभधनविक्रमराशियाता यद्भावनाथसुहृदश्च तदुच्चनाथाः ।
तद्रभावपुष्टिबलमम्बरचारिणस्ते कुर्वन्ति मूढरिपुनीचविवर्जिताश्चेत्
भाविंशतुल्यः स्वलु वर्तमानो भावोद्भवं पूर्णफलं विघत्ते ।
भावोनके चाप्यधिके च खेटे त्रैराशिकेनात्र फलं विचार्यम्
अथ तनुभावफलम् ।
शरीरवर्णाकृतिलक्षणानि यशोगुणस्थानसुखासुखानि ।
प्रवासतिजोबलदुर्बलानि फलानि लग्नस्य वदन्ति सन्तः
नरश्विरायुर्नृपपूजितः सुखी लग्ने भवेत्सौम्यगृहं यया तथा ।
लग्ने यदा स्वामिनिरीक्षिते धनी कुशाग्रबुद्धिः कुलकीर्तिंवर्द्धनः
लग्नांशपाद्वीर्ययुतग्रहाद्वा तनुस्वरूपाकृतिलक्षणानि ।
वर्ण वदेच्चान्द्रनवांशनाथाद्विलग्नभात्सर्वशुभाशुभानि
त्रिकोणकेन्द्रे यादि लग्ननाथे शुभान्विते शोभनवीक्षिते वा ।
शुभग्रहागारगते बलाढ्ये चतुःसमुद्रान्तयशः समेति
होराधिनाथे रिपुरन्ध्ररिष्फे पापान्विते पापनिरीक्षिते वा ।
पापग्रहाणां भवनोपयते जातोऽप्रकाशो भवतीह भर्त्यः
कीर्तिस्थानपतौ विलग्नभवने जातः स्वयं कीर्तिमान् ।
वित्तस्थे तु विशेषकीतिसहितः स्वोच्चादिवर्गान्विते ।
दुःस्थे चङ्चलयात्रया हततनुर्जातोऽथवा दुर्जनः
केन्द्रे कोणगते शुभग्रहयुते यात्रासुखं जायते
होरास्वामिनि पङ्चमे यदि सुतस्थानेशयुक्तेऽथवा
भाग्ये वा यादि भाग्यपेन सहिते लग्ने यशस्वी पिता ।
भ्रात्रृस्थानपतौ विलग्नगृहगे तत्कारकभ्रातृपा-
वेकस्थौ कलशालिनौ च यदि वा तत्सोदरः कीर्तिसान्
विद्याधिपे वा यदि चन्द्रसूर्ना लग्ने सुखे लग्नपासंयुते वा ।
बलान्विते पापदृशा विहीने विद्यायशस्वी भवति प्रजातः
धर्मोदयेशौ नवमोदयस्थौ धर्मोदयेशौ तनुधर्मगौ वा ।
सुरेन्द्रवन्द्येक्षितसंयुतौ चेत् समेति जातश्चिरकालभाग्यम्
लग्नाधिपस्य व्ययगे तदुच्चमित्रे सुहृत्तङ्गस्वगेक्षिते वा ।
तद्राशिगे वा यदि मित्रखेटे तस्य स्थितिर्जन्मवसुन्धरायाम्
लग्नेशाद्व्ययपे विलग्नपरिपौ नीचेऽथवा दुर्बले
जातो याति विदेशमिष्टदनुजाचार्येण दृष्टे यदि ।
तत्रैव स्थितिरन्त्यपे राविकरच्छन्ने विलग्नाधिपा-
दल्पग्नामचरो बलिन्यापि धनप्रामाधिवासो भवेत्
होरेशाद्वययपे विलग्नभवनात् केन्द्रत्रिकोणस्थिते
मित्रस्योषगृहोपगे शुभयुते पार्श्वद्वये मानवः ।
चेतोरम्यमहीचरो दिवचराचार्येन्दुशुक्रेक्षिते
दिव्यक्षेत्रमुपैति जन्मधरणीवासस्तदर्थे रिपौ
विदेशभाग्यं चरभे विलग्ने चरे तदीशे चरखेटदृष्टे ।
स्थिते स्वदेशे बहुभाग्ययुक्तः स्थिरहैर्भूरिधनान्वितः स्यात्
होराधीशे पापस्वेटे रिपुस्थे पापक्षेत्रे भानुपुत्रेण युक्ते ।
शूद्रप्रायो राहुणा केतुना वा जातश्चाण्डालोऽथवा नीचतुल्यः
लग्नाधिपे शोभनराशियुक्ते बलोपयते तनुपुष्टिमेति ।
लग्नस्थखेटे रिपुणिचभागे दुःस्थानपे देहसुखं न याति
विलग्नदर्शी तनुपो विलग्नगस्त्रयोऽपि षष्ठाष्टमरिष्फराशिपाः ।
सपत्ननीचोपगताश्च दुर्बला यदि स्वपाके न फलं प्रकुर्युः
लग्ने जलर्क्षे शुभखेचरेन्दैर्युक्ते तनोः स्थौल्यमुदाहरन्ति ।
लग्नाधिपे तोयरव(स्व)गे बलाढ्ये सौम्यान्विते तत्तनुपुष्टिमाहुः
लग्नाधिपे नाशगते तु शुष्कराशौ तनोः कष्टमतीव कृच्छ्रम् ।
लग्नांशपस्थांशपराशिनाथः शुष्कग्रहः स्यात्तनुशुष्कमाहुः
मध्यस्थे रिपुस्वेटयोस्तनुपतौ जातोऽरिभीतो भवेत्
केतौ लग्नगतेऽथवा फणिपतौ दुःस्थे विलग्नाधिपे ।
तत्पाके तदरीशभुक्तिसमये वैकल्यमङ्गे वदेत्
लग्ने शत्रुपतौ फाणिघ्वजयुते देहव्रणं देहिनाम्
बलाइर्विहीने यदि लग्ननाथे केन्द्रत्रिकोणे सति लग्नभाक् स्यात् ।
लग्नेश्वराधिष्ठितराशिनाये दुःस्थानगे दुर्बलदेहवान् स्यात्
सक्रूरो देहपोइ देहसौख्यहाऽन्त्यआरिरन्ध्रगः ।
सारीशे देहपे दुःस्थे लग्नस्थे वाऽथ रोगवान्
लग्ने सपापे लग्नेशे बलहीनोऽपि रोगवान् ।
लग्नेशे दुर्बले कोपी निर्व्याधिः केन्द्रकोणगे
देहेशस्थितराशीशे नाशगे दुर्बलो भवेत् ।
भावेशाक्रान्तराशईशैदुःस्थैर्भार्वाश्च दुर्बलाः
सर्पारयोर्बृहद्वीजो योगो वा सर्पमन्दयोः ।
लग्ने कुजे नाभिगुल्फव्रणस्थौल्यं समादिशेत्
लग्नेशे यदि रिष्फगे दिनकरस्थारातिनाथान्विते
जायावान् बहुरोगवान् कृशतनुः संरक्तगौरद्युतिः ।
लग्नर्क्षादरिनाथपेन च युते जातोऽसिताङ्गो यदा
साहौ लग्नपतौ तु वञ्चनविषाद्भीतिं समेति ध्रवम्
लग्ने शुभे शोभनदृष्तेयुक्ते बाल्यात् सुखं तन्नहि पापयोगात् ।
दुःखी भवेत्पापबहुत्वयोगे लग्ने तु बाल्यान्मरणान्तमाहुः
देवलोकांशके शुक्रे लग्नेशे गोपुरांशके ।
लग्ने शुभग्रहैर्दृष्टे मध्येऽन्ते सौख्यभाप्नुयात्
लग्ने शुभे धने पापे केन्द्रे पापसमन्विते ।
लग्नेश्वरोत्तमांशस्थे चादौ दुःखमतः सुखम्
लग्नेशे शुभराशिस्थे शुभग्रहनिरीक्षिते ।
गोपुरांशगते वापि षोडशाब्दात्परं सुखम्
लग्नेशस्थानाथे तु केन्द्रकोणोच्चसंयुते ।
लाभे वा बलसंयुक्ते त्रिंशद्वर्षात्परं सुखम्
लग्ने रव्यादिसन्दृष्टे पादशः फलमुच्यते ।
राजसेवी पितृधनो जलपण्यो महाधनः
धार्मिकः स्थूलशिश्नः स्याद्विद्याशिल्पयशोऽन्वितः ।
राजपूज्यो व्रतयुतो वेश्यासक्तो धनी सुखी
मन्ददृष्टे विलग्ने तु वृद्धस्त्रीको मली खलः ।
केनाप्यदृष्टम् लग्नं चेद्राशिग्रहवशाद्वदेत्
लग्ने स्वामीक्षिते राजा तात्प्रियो वा धनी सुखी ।
सौम्येक्षितेऽखिलं सौम्यं पापदृष्टे त्वशोभनम्
सुखी लग्ने द्व्यादिदृष्टे सर्वदृष्टे नृपो भवेत् ।
लग्ने त्रयः शुभा राजा दुःखी पापग्रहत्रयम्
लग्नाधिपोऽतिबलवानशुभैरदृष्टः केन्द्रस्थितः शुभकगौरवलोक्यमानः ।
मृत्युं विधूय विदघाति सुदीर्घमायुः सार्द्ध गुणैर्बहुभिरुजितया च लक्ष्म्या
अथ द्वितीयभावफलम् ।
तत्रादौ धनाविचारः ।
वित्तं नेत्रं मुखं विद्या वाक्कुदुम्बाशनानि च ।
द्वितीयस्थानजन्यानि क्रमाज्ज्योतिविदो विदुः
वित्तायेदयराशयः पातियुता वित्ताधिको जायते
लाभस्थौ धनलाभपौ निजसुहृत्तुङ्गादिगौ चेत्तथा ।
तद्वन्ताभधनाधिपौ तनुगतावन्योन्यमिष्टग्रहौ
लग्नेशे धनलाभराशिपयुते लग्ने बहुद्रव्यवान्
धनोपयातः प्रथमोऽथ दर्शी ग्रहो द्वितीयो धनपत्तृतीयः ।
तत्पाकभुक्तौ धनलाभमेति क्रमेण तत्कारकवर्गमूलात्
धनस्थे यदि लग्नेशे निधिमान् बलसंयुते ।
दुर्बले पापसंयुक्ते वङ्चनादिफलं वदेत्
धनस्थितः पापदृशा समेतः सपत्ननीचार्ककराभितप्तः ।
तत्पाकभुक्तौ धननाशमाहुः स गोचरे दुष्टबलान्विते वा
कुतुम्बभावे बहुखेटयुक्ते धनप्रदव्योमचरे बलाढये ।
स्वतुङ्गमित्रस्वगृहोपगे वा धनं समेत्यामरणन्तमाहुः
वित्ताधीशे सोदरेशेन युक्ते लग्नस्थे च भ्रातृवित्तं समेति ।
मातृस्थानस्वामिना मातृवित्तं यद्भावेशेनान्वितस्तद्भनं स्यात्
वित्ताधीशे लग्नगे लग्ननाथे वित्तस्थानेऽयत्नतो वित्तमेव ।
यद्भावस्थौ लग्नवित्तेश्वरौ चेत्तन्मूला तु द्रव्यवृत्तिर्नरणाम्
चन्द्रः कुटुम्बभवने शुक्रेण निरीक्षितः प्रदाता च ।
सौम्ये शुभसन्दृष्टे स एव धनवान् सदा ज्ञेयः
अर्थाधीशो यत्र संस्थो नराणां तस्मिन् काले तत्र वृद्धिर्विशेषात् ।
तद्भागे च द्रव्यलाभं करोति वक्रोऽसौ चेदृभु सर्धार्थसिद्धिः
धनेशे लाभसंयुक्ते लाभेशे धनलाभगे ।
तावुभौ केन्द्रगौ वापि धनवान् ख्यातिभान् भवेत्
धनेशे व्ययषष्ठस्थे व्ययेशे वित्तगेऽथवा ।
लाभेशे रिपुरन्ध्रस्थे व्यये वा धननाशनम्
व्ययभावगते जीवे वित्तेशे बलवर्जिते ।
शुभैरनीक्षिते लग्ने वित्तनाशं वदेद् बुधः
लग्नेशे धनराशिस्थे धनेशे लाभराशिगे ।
लाभेशे वा विलग्नस्थे निध्यादिधनमाप्नुयात्
लग्नायधनभाग्येशाः परमोच्चांशसंयुताः ।
वैशेषिकांशगा वापि तदा कोटीश्वरो भवेत्
दिनेश्वरकरच्छन्ने धनेशे नीचराशिगे ।
पापषष्थ्यंशसंयुक्ते शुणग्नस्ते भवेन्नरः
अथ नेत्रविचारः ।
शुक्रेन्दुनयनाधिशैरिकस्थैस्तु निशान्धकः ।
सूर्युअशुक्रविलग्नेशैरदृश्यैर्मध्यलोचनः
विलग्नवित्तास्ततपः सुतेशा रिपुव्ययच्छिद्रगृहोपयाताः ।
विलग्नसम्बन्धकरः सितश्वेद्विलोचनाभावमुपैति जातः
सितः सुतारीशयुतो विलग्ने निरेशकोपान्नयनप्रमादः ।
धनेशभौमौ यदि लग्नयातौ कर्णस्य रोगं कथयन्ति तज्ज्ञाः
शन्यारयोगे गुलिकेन युक्ते नेत्रेश्वरे तत्र तु नेत्ररोगः ।
नेत्र् यदा पापबहुत्वयोगे यमेन दृष्टे सति रुग्णनेत्रः
नेत्रेश्वरे शुभयुते शुभदृष्टियुतेऽथवा ।
शुभांशकस्थिते वाऽपि शुभदृक स नरो भवेत्
अथ मुखविचारः
जातोऽसौ सुमुखः शुभे धनगते तुङ्गदिवर्गन्विते
तद्भावे यदि सौम्यवर्गसहिते वाल्सिद्धिमेति ध्रुवम् ।
आज्यस्पर्शमुपैति वित्तगृहगे भौमे च पापेक्षिते
जातः किद्रवमुख्यभुग् धनगते रहौ च पापेक्षिते
लग्नास्तार्थाष्टमस्थेऽर्के भौमे वाऽन्यतरेक्षिते ।
आव्यस्पर्शोऽग्निभीतिर्षा सम्भवन्ति मसूरिकाः
पापैर्युते मुखस्थाने दुर्मुखः पापवीक्षिते ।
कोधाननो नरः पापी तदीशे गुलिकान्विते
प्रफुल्लवदनः श्रीमान् केन्द्रे मुखपतौ यदा ।
स्वोच्चस्वमित्रवर्गस्थे सुमुखः शुभवीक्षिते
वाग्भावेशे राहुयुक्ते च दुःस्थे राहुक्रान्तस्थाननाथान्विते च ।
पाके भुक्तौ तस्य दन्ताभयः स्याद् जिह्वारोगं तारकामूनुभुक्तौ
राहुद्वितीयगृहपौ सहजेशयुक्तौ जातः समेति गलरोगमतीव कष्टं ।
दारिद्रयदौ शशिरवी धनराशियातौ भौमार्कजौ सकलरोगकरौ भवेताम्
अथ विद्या-वग्विचारः ।
वाग्भावेशे गुरुयुते नाशस्ये मूकता भवेत् ।
देषकृन्नतु सर्वत्र स्वोच्चस्वर्क्षगतो ग्रहः
वागीशबुधजीवेषु निर्विद्यो नाशगेषु च ।
केन्द्रेषु ते त्रिकोणे वा स्वर्क्षे वा विद्ययाऽन्वितः
द्वितीये दुर्बले सौम्ये द्वन्द्वयुद्धहतो भवेत् ।
जीवार्थेशौ दुर्बलौ वा पवनव्याधिभान्नरः
वाक्स्थानपे देवपुरोहितेन युक्ते यदा नाशगते तु मूकः ।
वाक्स्थानपे सौम्ययुते त्रिकोणे केन्द्रस्थिते वा शुभदे च वाग्मी
वागीशस्थांशपे औम्ये स्वोच्चे वा शुभवीक्षिते ।
पारावतांशके वाऽपि वाग्मी पटुतरो भवेत्
केन्द्रत्रिकोणगे जीवे शुक्रे स्वोच्चं गते यदि ।
वाग्भावपेन्दुपुत्रे वा गणितज्ञो भवेन्नरः
गणितज्ञो भवेज्जातो वाग्भावे भूमिनन्दने ।
ससौम्ये बुधसन्दृष्टे केन्द्रे वा सोमनन्दने
वाग्भवपे रवौ भौमे गुरुशुक्रानिरीक्षिते ।
पारावतांशके वापि तर्कयुक्तिपरायणः
सम्पूर्णबलसंयुक्ते गुरौ तद्भवनेश्वरे ।
दिनेशभृगुसन्दृष्टे शाब्दिकोऽयं भवेश्वरः
वेदान्तपरीशीली स्यात्केन्द्रकोणे गुरौ यदि ।
बुधेन भृगुणा दृष्टे शनौ पारावतांशके
षट्शास्त्रवल्लभः केद्न्रे जीवे दानवपूजिते ।
सिंहासने गोपुराम्शे वाग्भावस्यांशपे बुधे
अथ कुटुम्बविचारः ।
उपजीव्य नरं सर्वे तदीशे गोपुरांशके ।
वर्द्धन्ते मुदितास्तस्य भृगौ पातावतांशके
जायाकुटिम्बगृहपौ सितपापयुक्तौ दुःस्थौ च तत्समकलत्रहरौ भवेतम् ।
वित्ताधिपे बलवति स्मरराशिपे वा तुङ्गादिगे यदि समेति कलत्रमेकम्
अथ पात्राशनयोविञ्चारः ।
भिक्तिस्थानपतौ सितेन्दुसहिते लग्नादिकेन्द्रस्थिते
रौप्यं पात्रमुपैति कालश्चनमयं जीवेन्दुशुक्रान्विते ।
भुक्तिस्थानपदेहपौ शनियुतौ लोहादिपात्रं वदेद्
भौमे पापनिरीक्षिते धनगते जातः कदग्नादिभुक्
वह्नाशनो भुक्तिपतौ सपापे दावाग्निदण्डायुधकालभागे ।
नीचांशके पापनिरीक्षिते च शुभैर्न दोषः सहितेक्षिते वा
भुक्तिस्थाने शुभयुते तदीशे शुभसंयुक्ते ।
शुभग्रहेण सन्दृष्टे सुखभुक् स नरो भवेत् ।
पराग्नभुक् तदीशेऽपि नीचशत्रुसमन्विते ।
नीचखेचरसन्दृष्टे तद्दूषणपरायणः
कालोचिताशनो भुक्तिनाथे लग्नेशवीक्षिते ।
पापग्रहेण सन्दृष्टे नीचांशादियुते न तु
स्वल्पाशी रुचिकामः स्याद् भुक्तिनाथे शुभे गृहे ।
स्वोच्चे शुभेन सन्दृष्टे मृद्वंशादिसमविते
भुक्तिस्थानाधिपे मन्दे तदीशे वाऽर्किसंयुते ।
नीचेऽर्कसूनुना दृष्टे श्राद्धभुक् सततं नरः
इति जातकपारिजाते एकादशे तनु-धनभावफलाध्याये विभला हिन्दी टिका समाप्ता
मूल पाठ: jātakapārijātaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0