जन्ममरणविचार · भाग 18
सान्द्रोद्रेकक्षुभितम् अभितः स्वान्तम् अन्तर् नियम्य प्रायो धत्ते नवनवरसोल्लेखम् आनन्दकन्दम् ॥ 1
भूयो भूयः प्रलयविभवोद्दामदुःखान्तरायो यो ऽसाव् अन्तर् जयति हृदये को ऽपि संविद्विकासः ॥ 2
इह खलु निखिलजगदात्मा सर्वोत्तीर्णश् च सर्वमयश् च विकल्पासंकुचितसंवित्प्रकाशरूपः अनवच्छिन्नचिदानन्दविश्रान्तः प्रसरदविरलविचित्रपञ्चवाहवाहवाहिनीमहोदधिः निरतिशयस्वातन्त्र्यसीमनि प्रगल्भमानः सर्वशक्तिखचित एक एव अस्ति संविद् आत्मा महेश्वरः ॥ 3
तस्य प्रकाशरूपता चिच्छक्तिः स्वातन्त्र्यम् आनन्दशक्तिः तच्चमत्कारः इच्छाशक्तिः आमर्शात्मकता ज्ञानशक्तिः सर्वाकारयोगित्वं क्रियाशक्तिः इति ॥ 4
इत्थं सर्वशक्तियोगे ऽपि आभिर् मुख्याभिः शक्तिभिर् उपचर्यते स च भगवान् स्वातन्त्र्यशक्तिमहिम्ना स्वात्मानं संकुचितम् इव आभासयन् अणुः इति उच्यते ॥ 5
यथोक्तम् व्यापको हि शिवः स्वेच्छाकॢप्तसंकोचमुद्रणात् ॥ 6
विचित्रफलकर्मौघवशात् तत्तच्छरीरभाक् ॥ 7
इति निजस्वरूपगोपनकेलिलोलम् एवं माहेशशक्तिपरिस्पन्दं प्रवरगुरवः प्रतिपेदिरे ॥ 8
तथा च आहुः अतिदुर्घटकारित्वात् स्वाच्छन्द्यनिर्मलाद् असौ ॥ 9
स्वात्मप्रच्छादनक्रीडापण्डितः परमेश्वरः ॥ 10
अनावृते स्वरूपे ऽपि यदात्माच्छादनं विभोः ॥ 11
सैवाविद्या यतो भेद एतावान् विश्ववृत्तिकः इति ॥ 12
न च एतावता भगवतो देशकालाकारोपाधिविरहितनिरतिशयानन्दपरिस्यन्दात्मकस्य काचिद् अपि क्षतिः प्रत्युत परममहिम्नः परिपुष्टिर् इत्य् उक्तम् ॥ 13
अस्थास्यद् एकरूपेण वपुषा चेन् महेश्वरः ॥ 14
महेश्वरत्वं संवित्त्वं तद् अत्यक्ष्यद् घटादिवत् ॥ 15
परिच्छिन्नप्रकाशत्वं जडस्य किल लक्षणम् ॥ 16
जडाद् विलक्षणो बोधो यतो न परिमीयते ॥ 17
तेन बोधमहासिन्धोर् उल्लासिन्यः स्वशक्तयः ॥ 18
आश्रयन्त्य् ऊर्मय इव स्वात्मसंघट्टचित्रताम् ॥ 19
इत्यादि ॥ 20
तद् एवम् असौ भगवान् स्वमायाशक्त्याख्येन अव्यभिचरितस्वातन्त्र्यशक्तिमहिम्ना स्वात्मनैव आत्मानं संकुचितम् इव अवभासयन् विज्ञानाकलः प्रलयाकलः सकलश् च सम्पद्यते ॥ 21
तत्र आणवेन एकेनैव मलेन संयुक्तो विज्ञानाकल उच्यते द्वाभ्याम् आणवमायी याभ्याम् अपवेद्यः प्रलयाकलः त्रिभिर् आणवमायीयकार्मैः संवेद्यः तैर् एव कलादिधरण्यन्ततत्त्वमयः सकलः तदर्थम् एव अयम् अर्थसर्गः ॥ 22
तत्र सृष्ट्युन्मुखो भगवान् शुद्धाध्वनि वर्तमानः स्वशक्तिभिः मायां विक्षोभ्य कलातत्त्वं किंचित्कर्तृत्वलक्षणं पुद्गलस्य सृजति ततो ऽपि किंचिद् अवबोधाख्यं विद्यातत्त्वं किंचिद् अभिलाषरूपं च रागतत्त्वं तद् एतत् सरागं कर्तृतत्त्वं भूतभविष्यद्वर्तमानतया त्रिधा अवच्छिद्यते तत् कालतत्त्वं तुल्यत्वे ऽपि रागे येन कर्तृत्वस्य अवच्छेदः क्रियते तत् नियतितत्त्वं तद् एतत् कञ्चुकषट्कम् अन्तर्मलावृतस्य पुद्गलस्य बहिर् आच्छादकम् उक्तं च चिल्लाचक्रेश्वरमते माया कला शुद्धविद्या रागकालौ नियन्त्रणा ॥ 23
षड् एतान्य् आवृतिवशात् कञ्चुकानि मितात्मनः ॥ 24
एवं च पुद्गलस्यान्तर्मलः कञ्चुकवत् स्थितः ॥ 25
तुषवत् कञ्चुकानि स्युस् तस्माज् ज्ञानक्रियोज्झितः ॥ 26
इति ॥ 27
सा च कला पुरुषस्य परिमितं कर्तृत्वं प्रकाश्य सुखदुःखमोहरूपं भोग्यम् अव्यक्तत्वं सृजति ततो ऽपि अष्टगुणं बुद्धितत्त्वम् उत्पन्नं ततो ऽपि सात्त्विकराजसतामसभेदभिन्नं त्रिस्कन्धम् अहंकारतत्त्वम् तत्र पूर्वस्मात् अहंकारात् मनो जातम् अपरस्मात् इन्द्रियाणि तृतीयात् तन्मात्राणि एभ्यो भूतानि इत्य् एवम् अयम् एकस्यैव आदिदेवस्य स्वातन्त्र्यमहिम्ना संसारे संसरतः परिमितप्रमातृताम् अवलम्बमानस्य तत्त्वप्रसरः उक्तं च भूतानि तन्मात्रगणेन्द्रियाणि मूलं पुमान् कञ्चुकयुक् सुशुद्धम् ॥ 28
विद्यादिशक्त्यन्तम् इयान् स्वसंवित्सिन्धोस् तरंगप्रसरप्रपञ्चः ॥ 29
तथा सअल उत्त पुरिषुण्ण उ सअल्लुत्त उत्तिण्ण ॥ 30
परि आणह अत्ताण उ परि मसिवेण समाण उ ॥ 31
इति ॥ 32
एतेषां च उक्तरूपाणां तत्त्वानां प्रमातृभेदे वैचित्र्यात् प्रमेयवैचित्र्यं भवति इति श्रीपूर्वशास्त्रे कथितम् तथा हि शक्तिमच्छक्तिभेदेन धरातत्त्वं विभिद्यते ॥ 33
स्वरूपसहितं तच् च विज्ञेयं दशपञ्चधा ॥ 34
अनेनैव विधानेन पुंस्तत्त्वात् तु कलान्तिकम् ॥ 35
त्रयोदशविधं ज्ञेयं रुद्रवत् प्रलयाकलः ॥ 36
तद्वन् मायापि विज्ञेया नवधा ज्ञानकेवलः ॥ 37
मन्त्राः सप्तविधास् तद्वत् पञ्चधा मन्त्रनायकाः ॥ 38
त्रिधा मन्त्रेश्वरेशानाः शिवः साक्षान् न भिद्यते ॥ 39
यः पुनः सर्वतत्त्वानि वेत्त्य् एतानि यथार्थतः ॥ 40
स गुरुर् मत्समः प्रोक्तो मन्त्रवीर्यप्रकाशकः ॥ 41
दृष्टाः सम्भाषितास् तेन स्पृष्टाश् च प्रीतिचेतसा ॥ 42
नराः पापैः प्रमुच्यन्ते सप्तजन्मकृतैर् अपि ॥ 43
इति ॥ 44
तद् एवम् अनेकावसायो ऽयं तत्त्वक्रमः ॥ 45
एतेषां च तत्त्वानां वर्गशो यद् अनुगामि रूपम् एकरूपम् एकरूपकलनासहिष्णुत्वात् सा कला कथ्यते ॥ 46
तथा हि निवर्तन्ते यतस् तत्त्ववर्गाः सा निवृत्तिर् नाम कला ॥ 47
सा च पृथिव्याम् एव व्यवस्थिता ॥ 48
कारणत्वे पूरणाप्यायकारित्वात् प्रतिष्ठा नाम कला उच्यते ॥ 49
सा च जलादिमूलान्तं व्याप्य व्यवस्थिता ॥ 50
वेद्यविलये संविदाधिक्यात् विद्या नाम कला ॥ 51
सा च पुमादिमायान्तम् अध्वानम् अध्यास्ते ॥ 52
कञ्चुकतरंगोपशमात् शान्ता नाम कला उच्यते ॥ 53
सा च शुद्धविद्यादिशक्त्यन्ते स्थिता इति ॥ 54
एतद् एव अण्डचतुष्टयं पार्थिवप्राकृतमायीयशाक्तलक्षणम् ॥ 55
सर्वातीतत्वात् शिवतत्त्वे शान्त्यतीता ॥ 56
इति ॥ 57
परं तु तत्त्वं स्वतन्त्रत्वात् कलातीतम् आसाम् एव कलानां तत्त्ववद् अन्तर्भूतानि भुवनान्य् अपि बोद्धव्यानि एवं स्थूलसूक्ष्मपरत्वेन भुवनतत्त्वकलारूपं त्रिविधरूपं प्रमेयम् उक्तम् प्रमाणम् अपि तथैव पदमन्त्रवर्णतया त्रिविधम् एव इति एकस्यैव पूर्णप्रमातुः स्वातन्त्र्यात् संसरतः षड्विधे अध्वनि विश्रान्तिर् उक्ता ॥ 58
भवन्ति चात्र दीक्षापरिघटनसंग्रहश्लोकाः पदमन्त्रवर्णम् एकं पुरषोडशकं धरेति च निवृत्तिः ॥ 59
तत्त्वार्णम् अग्निनयनं रसशरपुरम् अस्त्रमन्त्रपदम् अन्या ॥ 60
मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनम् अपरकला ॥ 61
अग्न्यर्णतत्त्वम् एककपदमन्त्रं सैकभुवनम् इति तुर्या ॥ 62
षोडश वर्णाः पदमन्त्रतत्त्वम् एकं च शान्त्यतीतेयम् ॥ 63
इति ॥ 64
तद् एवम् आणवीं वृत्तिम् आलम्ब्य भगवान् विचित्रैः जात्यायुर्भोगैः जरायुजाण्डजोद्भेदजस्वेदजादिजातं प्रादुर्भावयति ॥ 65
तत्र उपभुक्तस्य अन्नपानस्य पाकवशात् रसरूपतया स्थितस्य रक्तमांसमेदोऽस्थिमज्जात्मना शुक्रधातौ विश्रान्तिर् भवति तत्र इमाः प्रजाः प्रजायन्ते ॥ 66
तथा चोक्तं सौश्रुते इह खलु पाञ्चभौतिकस्य चतुर्विधस्य आहारस्य षड्रसोपेतस्य द्विविधरसवीर्यस्य अष्टविधरसवीर्यस्य अनेकप्रकारोपभुक्तस्य परिणतस्य यस् तेजोरूपः सारः सूक्ष्मः स रस इत्य् उच्यते तस्य हृदयं स्थानं स च हृदयात् चतुर्विंशतिधमनीर् अनुप्रविश्य ऊर्ध्वगा दश दश च अधोगामिनीः चतस्रः तिर्यग्गाः सकलं शरीरम् अहरहस् तर्पयति जीवयति धारयति वर्धयति अदृष्टनिमित्तेन कर्मणा स खलु आप्यो रसो यकृत्प्लीहादिं प्राप्य रागम् उपैति भवन्ति वा अत्र श्लोकाः ॥ 67
रञ्जितास् तेजसा त्व् आपः शरीरस्थेन देहिनाम् ॥ 68
अव्यापन्नाः प्रसन्नेन रक्तम् इत्य् एव तद् विदुः ॥ 69
रसाद् एव स्त्रियो रक्तं रजःसंज्ञं प्रवर्तते ॥ 70
तद्वशाद् द्वादशाद् ऊर्ध्वं याति पञ्चाशतिः क्षितिम् ॥ 71
आर्तवं शोणितम् आग्नेयम् अग्नीषोमीयत्वात् गर्भस्य ॥ 72
रसाद् रक्तं ततो मांसं मांसमेदश् च जायते ॥ 73
मेदसो ऽस्थि ततो मज्जा मज्जातः शुक्रसम्भवः ॥ 74
एवं मांसेन शुक्रत्वं रसो याति यथाक्रमम् ॥ 75
स्त्रीणां तथैव मासेन भवेद् आर्तवसम्भवः ॥ 76
इति ॥ 77
तद् एवंभूते मातृपितृसम्बन्धसम्भूते अग्नीषोमात्मके रक्तरेतसी कुसुमसमयाद् अनन्तरं जननीजठरे रेतः कलिलीभवति ततो बुद्बुदम् ततः पेशी ततो घनः यावद् अङ्गपरिग्रहः अङ्गव्यक्तिः संविदुल्लासः सर्वाङ्गसम्पत्तिर् ओजःसंचारः सुखदुःखसंवित्तिर् इति यावत् प्रजायते ॥ 78
उक्तं श्रीचिल्लाचक्रेश्वरमते सोमसूर्यरसोल्लासपरस्परनिघर्षणात् ॥ 79
जातवेदसि संजाते मध्यधामविकासिनि ॥ 80
वीरारुणपरीणामवशाद् अङ्कुरसम्भवः ॥ 81
एकरात्रोषितं रेतः सिक्तं कलिलतां व्रजेत् ॥ 82
बुद्बुदं सप्तरात्रेण पेशी मासेन जायते ॥ 83
द्वितीये मासि च घनस् तृतीये ऽग्निपरिग्रहः ॥ 84
चतुर्थे व्यङ्गताङ्गानां चेतना पञ्चमे भवेत् ॥ 85
षष्ठे सर्वाङ्गसम्भेदः सप्तमे चलनोद्गमः ॥ 86
तेजो ऽष्टमे संचरति नवमे वेदनं भवेत् ॥ 87
सम्पूर्णदेहो दशमे मासि जन्तुः प्रजायते ॥ 88
जातो ऽसौ वायुना स्पृष्टो योनियन्त्रप्रपीडितः ॥ 89
न स्मरत्य् उग्रसंतापम् अनेकभवसम्भवम् ॥ 90
क्रमेण वृद्धिम् आयान्ति तस्यैते देहहेतवः ॥ 91
रसः स्थितिं प्रकुरुते रक्तं संजीवयत्य् अलम् ॥ 92
मांसं बृंहयति प्रायो मेदः स्नेहयति स्फुटम् ॥ 93
धारयन्ति तथास्थीनि मज्जान्तःसारसंश्रया ॥ 94
हर्षोत्कर्षकरं शुक्रं मूत्रं क्लेदविवेककृत् ॥ 95
वाय्वग्निसंरोधकरं पुरीषं परिकीर्तितम् ॥ 96
स्वेदक्लेदोपकरणं गर्भहेतुर् अथार्तवम् ॥ 97
एवं शरीरम् आसाद्य षाट्कोशं तत्परिग्रहात् ॥ 98
अनपेक्ष्य निजं भावं पुमान् भावान् अपेक्षते ॥ 99
इति ॥ 100
अयम् एव च अर्थो निरुक्तिकृतापि उक्तपार्थिवान् अष्टौ गुणान् विद्यात् त्रीन् मातृतः त्रीन् पितृतः इत्याद्य् उपक्रम्य उक्तः ॥ 101
अत्रैव इदं पुंस्त्रीनपुंसकलक्षणं प्रकृतित्रयकारणम् सोमाधिक्येन पुंजन्म सूर्याधिक्येन योषितः ॥ 102
साम्यात् क्लीबस् तु वातेन भेदात् स्याद् बह्वपत्यता ॥ 103
इति ॥ 104
अवयवभेदो ऽपि नवमे दशमे मासि प्रबलैः सूतिमारुतैः ॥ 105
निःसार्यते बाण इव यन्त्रच्छिद्रेण सज्वरः ॥ 106
तस्य षोढा शरीरं तत्षट्त्वचो धारयन्ति च ॥ 107
अस्थ्नां तथा षष्ट्यधिकं विनिबद्धं शतत्रयम् ॥ 108
स्थूलैः सह चतुःषष्टिर् दशना विंशतिर् नखाः ॥ 109
पाणिपादशलाकाश् च तासां स्थाने चतुष्टयम् ॥ 110
षष्ट्यङ्गुलीनां द्वे पार्ष्णी गुल्फेषु च चतुष्टयम् ॥ 111
चत्वार्य् अरत्निकास्थीनि जङ्घयोस् तावद् एव तु ॥ 112
द्वे द्वे जानुकपोलोरुफलकांससमुद्भवे ॥ 113
अक्षिस्थलूषके श्रोणीफलके च विनिर्दिशेत् ॥ 114
भगास्थ्य् एकं तथा पृष्ठे चत्वारिंशच् च पञ्च च ॥ 115
ग्रीवा पञ्चदशास्थीनि जत्र्व् एकं च तथा हनुः ॥ 116
तन्मूले द्वे ललाटाक्षिगण्डनासाघनास्थिका ॥ 117
पर्शुकास् तलकैः सार्धम् अर्बुदे च द्विसप्ततिः ॥ 118
द्वौ शङ्खकौ कपालानि चत्वार्य् एव शिरस् तथा ॥ 119
उरः पञ्चदशास्थीनि पुरुषस्यास्थिसंग्रहः ॥ 120
इति ॥ 121
एतेष्व् एव कपालभरणतुरुण्डरुण्डरुचकनलयष्टीलनलकभेदेन अभिधानानि शास्त्रान्तरेषु उक्तानि ॥ 122
स्थानान्तराणि आह वसावपावहननं नाभिक्लोमयकृत्प्लिहा ॥ 123
क्षुद्रान्त्रवृक्शको वस्तिः पुरीषापान एव च ॥ 124
आमाशयो ऽथ हृदयं स्थूलान्त्रं गुदम् एव च ॥ 125
उत्तरौ च गुदौ कोष्ठौ विस्तारो ऽयम् उदाहृतः ॥ 126
कनीनिके साक्षिकूटे शष्कुली कर्णपुत्रिके ॥ 127
गण्डौ शङ्खौ भ्रुवौ कष्टवेष्टावोष्ठौ कुकुन्दरे ॥ 128
वङ्क्षणौ वृषणौ वृक्कौ श्लेष्मसंघातिकौ स्तनौ ॥ 129
उपजिह्वास्फिजौ जिह्वाजङ्घे चोरू च पिण्डिके ॥ 130
तालूदरवस्तिशीर्षे चिबुके गलशुण्डिके ॥ 131
अक्षिपक्ष्मचतुष्कं च पद्धस्तहृदयानि तु ॥ 132
अवटुश् चैवम् आदीनि स्थानान्य् अत्र शरीरके ॥ 133
नवच्छिद्राणि तान्य् एव प्राणस्यायतनानि च ॥ 134
धमनीनां शते द्वे तु पञ्चपेशीशतानि च ॥ 135
इति ॥ 136
स्त्रीणां च स्तनयोर् गर्ताद् अष्टात्रिंशदधिकाः सपेश्यो धमन्यो भवन्ति इति सौश्रुतः ॥ 137
एकान्नत्रिंशल्लक्षाणि नव स्नायुशतानि च ॥ 138
षट्पञ्चशानि तु ज्ञेया सिरा धमनिसंततिः ॥ 139
सप्तोत्तरं मर्मशतं द्वे तु संधिशते तथा ॥ 140
लोम्नां कोट्यस् तु पञ्चाशच्चतस्रः कोट्य एव च ॥ 141
रसस्य नव विज्ञेया जलस्याञ्जलयो दश ॥ 142
सप्त वै तु पुरीषस्य रक्तस्याष्टौ प्रकीर्तिताः ॥ 143
श्लेष्मा षट् पञ्च पित्तं च चत्वारो मूत्रम् एव च ॥ 144
वसात्रयं च द्वौ मेदो मज्जैकार्धं च मस्तके ॥ 145
श्लेष्मौजसस् तावद् एव रेतसस् तावद् एव च ॥ 146
इत्य् एतद् अस्थिरं वर्ष्म यस्य मोक्षाय कृत्य् असौ ॥ 147
इति स्वस्थस्य सौम्यधातोर् एवम् ॥ 148
अन्यथा तु वैलक्षण्याच् छरीराणाम् अस्वस्थत्वात् तथैव च ॥ 149
दोषधातुमलानां च परिमाणं न विद्यते ॥ 150
इत्य् उक्तम् ॥ 151
तद् एतत् विभागेन बीभत्सदर्शनं वैराग्यमुनिभिर् अगायि तथा चाहुः अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ॥ 152
चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ 153
जराशोकसमाविष्टं रोगायतनम् आतुरम् ॥ 154
रजस्वलम् अनित्यं च भूतावासम् इमं त्यजेत् मुनिः पाराशर्यो ऽपि आह सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः ॥ 155
शरीरकस्यापि कृते मूढाः पापानि कुर्वते ॥ 156
आहारैर् नीयमानाय क्रमाद् दुःखेन रम्यताम् ॥ 157
को हि नाम शरीराय धर्मापेतं समाचरेत् ॥ 158
इति ॥ 159
एवं शरीरम् उक्त्वा शरीरिस्वरूपम् उच्यते द्वासप्ततिसहस्राणि हृदयाद् अभिनिःसृताः ॥ 160
हिता नामाहिता नाड्यस् तासां मध्ये शशिप्रभम् ॥ 161
मण्डलं तस्य मध्यस्थ आत्मा दीप इवाचलः ॥ 162
स ज्ञेयस् तं विदित्वेह पुनर् आजायते न तु ॥ 163
इदम् अत्र तात्पर्यं तं तथाभूतम् आत्मानं विदित्वा नरो न जन्मक्लेशम् अनुभवति किंभूतं यद् धृदयोक्तं द्वासप्ततिसंख्यावच्छिन्नं नाडीचक्रं तद् अन्तर् यत् शशिमण्डलं तदन्तःस्थं ताश् च नाड्यो ऽशितपीतरससंचरणाधिकारत्वात् पुण्योपचयेन हिताः तदभावेन अहिताः तासां संचारक एक एव व्यवहारभेदात् पञ्चभेदो वायुः तासां च द्वे प्रधाने दक्षिणोत्तरसम्बद्धे अग्नीषोमात्मके तद्द्वारेण प्राणस्य ऊर्ध्वगमनम् अहः अधो ऽपानस्य रात्रिः एतेन अर्धमासमासर्तुवत्सरादिकालविभागो ऽपि व्याख्यातः समप्राणचारो विषुवत् तयोर् मध्ये तृतीया दण्डाकारा ब्रह्मनाडी स्थिता तत्र निरुद्धप्राणो योगी दीपाकारम् आत्मानं पश्यति इति अत एवोक्तं सम्यग्दर्शनसम्पन्नः कर्मभिर् न स बध्यते ॥ 164
दर्शनेन विहीनस् तु संसारं प्रतिपद्यते ॥ 165
इति ॥ 166
संसारप्रवृत्तौ च तस्य कलातो विषयविभेदो मुनिभिर् उक्तः तथा हि परद्रव्याण्य् अभिध्यायंस् तथानिष्टानि चिन्तयन् ॥ 167
वितथाभिनिवेशी च जायते ऽन्त्यासु योनिषु ॥ 168
पुरुषो ऽनृतवादी च पिशुनः पुरुषस् तथा ॥ 169
अनिबद्धप्रलापी च मृगपक्षिषु जायते ॥ 170
अदत्तादाननिरतः परदारोपसेवकः ॥ 171
हिंसकश् चाविधानेन स्थावरेषूपजायते ॥ 172
इत्यादि अयं तु उक्तयातनस्य नियोगः अद्वयरूपस्य आत्मनः कुतस्त्यो ऽयं भेदः इति चेत् मायामहामोहविकल्पकल्पित इत्य् आह आकाशम् एकं हि यथा घटादिषु पृथग् भवेत् ॥ 173
तथात्मैको ऽप्य् अनेकश् च जलाधारेष्व् इवांशुमान् ॥ 174
इति ॥ 175
न च अपक्वकषायस्य कदाचिद् अपि उक्तरूपम् आत्मज्ञानं भवति तथा च मलिनो हि यथादर्शो रूपालोकस्य न क्षमः ॥ 176
तथा ह्य् अपक्वकरण आत्मज्ञानस्य न क्षमः ॥ 177
इत्याद्य् उक्तम् ॥ 178
इत्य् अलं भूयसा उक्तेन ॥ 179
एवम् असौ भगवान् स्वातन्त्र्यशक्तिमहिम्ना पशुदशाम् अवलम्बमानो भोगोपदानप्रवणः सम्पूर्णदेहप्राणबलः सन् उक्तेन षडध्वजालक्रमेण प्रबुद्धः शरीरपरिग्रहम् आसादयति क्रमेण भुक्तेषु कर्मसु षड्भिर् भावविकारैर् जरारोगादिभिः काययन्त्रे विघटमाने देहस्तम्भो वेपथुर् नाडीचक्रसंकोचः क्वचिद् विपर्ययेण तद्विकासो मर्मभङ्गः शोष इत्यादि पूर्वसंस्थापनोपमर्दकं सर्वम् उपपद्यते यावत् विनश्यति विनाशश् च क्षणिको ऽस्य यद्य् अपि तथापि स्थूलया वृत्त्या दशभिर् दशभिर् अभिव्यक्तः प्रोक्तः ॥ 180
तथा हि बाल्यं वृद्धिर् बलं प्रज्ञा त्वक् चक्षुः श्रोत्रम् इन्द्रियम् ॥ 181
आसनं शयनं पुंसां दशभिर् दशभिर् व्रजेत् ॥ 182
इत्य् उक्तम् ॥ 183
ततश् च तस्मिन् शरीरयन्त्रे विघटिते सा संवित् प्राणनात्मताम् अवलम्ब्य आतिवाहिकेन देहेन देहान्तरं नीयते ततश् च आतिवाहिकं शरीरकं भूतभविष्यद्देहान्तराले युग्यस्थानीयं सम्भवति यदारूढो ऽसौ पुद्गलः शरीरान्तरासङ्गम् अनुभवति उक्तं च कोशभाष्ये मृत्यूपपत्तिभवयोर् अन्तरा भवतीह यः ॥ 184
गम्यदेशानुषक्तत्वाद् उपपन्नो ऽन्तराभवः ॥ 185
व्रीहिसंतानसाधर्म्याद् अवच्छिन्नसमुद्भवः ॥ 186
प्रतिबिम्बम् असिद्धित्वाद् असाम्याच् च निदर्शनात् ॥ 187
स पुनर्मरणात् पूर्वम् उपपत्तिक्षणात् परम् ॥ 188
स्वजातिशुद्धकर्माक्षदृश्यकर्मविवेकवान् ॥ 189
इति ॥ 190
श्रुतिश् च द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ॥ 191
अथैकं चक्रं यद् गुहा तद् अद्धातय इद् विदुः ॥ 192
इति अयम् अर्थः हे सूर्ये भगवति आत्मशक्ते ब्रह्माणः ब्रह्मवादिनः ऋतुथा काले काले ते तव सम्बन्धिनी द्वे चक्रे विदुः चक्रम् इव चक्रं परिवर्तसाधर्म्यात् शरीरम् उच्यते तयोर् द्वित्वं वर्तमानभाविभेदात् अतस् तयोर् अन्तरे कथितया युक्त्या यद् एकम् आतिवाहिकाख्यं तत् गुहा गुप्तम् अनुपलक्ष्यम् इत्य् अर्थः अत एव तद् अद्धातयः इत् विदुः योगिन एव जानन्ति इति तात्पर्यम् ॥ 193
तथा च जाग्रदवस्थायां दृढकरणस्य प्रमातुर् इन्द्रियाणि श्रोत्रादीनि शब्दादयश् च विषया भवन्ति तथा प्रमेयसमये प्रचलितम् अन्तःकरणम् इन्द्रियं यियासुता च विषयः ताम् एव यियासुताम् अधिकृत्य प्रवरमुनिः पाराशर्यः समाधितवान् यं यं वापि स्मरन् भावं त्यजत्य् अन्ते कलेवरम् ॥ 194
तं तम् एवैति कौन्तेय सदा तद्भावभावितः ॥ 195
इति ॥ 196
अयम् अत्र संक्षेपार्थः सम्भवभोगः जन्मभोगः स्थितिभोगश् च इति तिस्रः शरीरस्य प्रागवस्था भवन्ति हि तथा हि जठरे चेतनायां संजातायां गर्भभोगः प्रसवसमये जन्मभोगः प्रसूतस्य बाल्यादिवयःपरावृत्त्या विचित्रः स्थितिभोगः ॥ 197
मृतिभोगः यियासुता च द्वे चरमावस्थे तत्र मृतिभोगः विचित्रा शरीरपीडा यियासुता आतिवाहिकशरीरसम्बद्धा ताम् एव च यियासुताम् उद्दिश्य यं यं वापि स्मरन् भावम् ॥ 198
इत्यादि प्रवृत्तम् अत एव भूतभविष्यदर्थहितार्थवादिनः स्मरन्न् इति शब्दप्रत्ययस्य यथार्थः प्रयोगः स्यात् एतद् एव च वितत्य श्रीतन्त्रालोके प्रतिपादितम् मृतिभोगः समस्तो ऽयं मर्मच्छिन् मूढताक्षगः ॥ 199
तत्रेन्द्रियाणां सम्मोहः श्वासायासपरीतता ॥ 200
यस् त्व् असौ क्षण एवैकश् चरमः प्राणनात्मकः ॥ 201
सा देहत्यागकालांशकला प्राणवियोगिनी ॥ 202
तस्यां यद् एव स्मरति प्राक्संस्कारप्रबोधतः ॥ 203
तद् एव रूपम् अभ्येति सुखदुःखविमोहितम् ॥ 204
इति ॥ 205
अत्र च विषयनैयत्येन विभागो व्यासमुनिनैव कृतः ॥ 206
यदा सत्त्वे विवृद्धे तु प्रलयं याति देहभृत् ॥ 207
इत्यादिना ग्रन्थेन ॥ 208
ता एताः शरीरावस्थाः पञ्चारे चक्रे परिवर्तमाने तस्मिन्न् आतस्थुर् भुवनानि विश्वा ॥ 209
इत्यादिश्रुताव् उक्ताः ॥ 210
अन्यत्रापि सम्भवो जन्म सत्ता च मृतिश् चाथ यियासुता ॥ 211
एताः पञ्च शरीरस्य परिणामविपत्तयः ॥ 212
इत्य् उक्तम् ॥ 213
एतद् एवम् उक्तरूपेण असौ आतिवाहिकेन देहेन देहान्तरं नीयते सो ऽपि देहः सुप्तोत्थितात् प्रबोधम् अवाप्य प्राणिति उक्तेन चक्रेण सो ऽपि विनश्यति यावत् अरघट्टघटीयन्त्रवत् परिवर्तमानो ऽणुः नानाकायनिकायैः संसरति संसारे ॥ 214
तथा च श्रुतिः सस्यम् इव मर्त्यः पच्यते सस्यम् इव जायते पुनः ॥ 215
इति ॥ 216
वासांसि जीर्णानि यथा विहाय ॥ 217
इत्यादिना व्यासमुनिनापि एतद् उक्तम् ॥ 218
अथ कदाचित् परमेश्वरानुग्रहशक्तिपातपवित्रितः केनापि दीक्षादिना उपायेन संविदानन्दविश्रान्तम् अद्वयं निजं रूपं परामृशति ततः स्वरूपम् आलम्बते यथोक्तं श्रीमालिनीविजये एवम् अस्यात्मनः काले कस्मिंश्चिद् योग्यतावशात् ॥ 219
इत्य् उपक्रम्य तत्क्षणाद् वोपभोगाद् वा देहपाते शिवं व्रजेत् ॥ 220
इत्य् एवम् अन्तेन ग्रन्थेन ॥ 221
यद् वा क्वापि परमेश्वरायतने शरीरम् अतिवाह्य पूर्वे विधौ क्रमेण परमेश्वरीभवति तद् उक्तं श्रीसात्त्वतायाम् प्रासादद्वारदेशाच् च यत्र शङ्खध्वनिश् चरन् ॥ 222
प्रयाति सर्वतो दिक्षु तत् क्षेत्रं वैष्णवं मतम् ॥ 223
मुनिप्रणीताद् द्विगुणं तद् एव परिकीर्तितम् ॥ 224
सिद्धावतारिताद् देवात् तद् एव त्रिगुणं स्मृतम् ॥ 225
चतुर्गुणं स्वयं व्यक्ताद् देहान्ते भावितात्मनाम् ॥ 226
फलं सायुज्यतापूर्वं विज्ञेयं तु क्रमात् ततः ॥ 227
दुष्टेन्द्रियवशाच् चित्तं नृणां यत् कल्मषेरितम् ॥ 228
तद् अन्तकाले संशुद्धिं याति नारायणालये ॥ 229
इति ॥ 230
श्रीमदमृतेशशिखायाम् अपि ये तु तत्त्वावतीर्णानां शंकराज्ञानुवर्तिनाम् ॥ 231
स्वयंभूमुनिदेवर्षिमनुजादिभुवां गृहे ॥ 232
मृतास् ते तत्पुरं प्राप्य पुरेशैर् दीक्षिताः क्रमात् ॥ 233
मर्त्ये ऽवतीर्य वा नावा प्रयान्ति परमं पदम् ॥ 234
तत्र स्वयंभुवो द्वेधा के ऽप्य् अनुग्रहतत्पराः ॥ 235
के ऽपि स्वकार्येणायाताः पूर्वे निर्वाणदायिनः ॥ 236
इति ॥ 237
तत्रापि न सर्वस्य मोक्ष इत्य् उक्तम् पशुमात्रस्य सालोक्यं सामीप्यं दीक्षितस्य तु ॥ 238
तत्परस्य तु सायुज्यम् इत्य् आज्ञा पारमेश्वरी ॥ 239
यस् तूर्ध्वशास्त्रगस् तत्र त्यक्तास्थः संशयेन सः ॥ 240
व्रजेद् आयतनं नैव स फलं किंचिद् अश्नुते ॥ 241
दीक्षायतनविज्ञानद्वेषिणो ये तु चेतसा ॥ 242
आचरन्ति च तत् ते वै सर्वे निरयगामिनः ॥ 243
ये च स्वभ्यस्तविज्ञानमयाः शिवमया हि ते ॥ 244
जीवन्मुक्ता न तेषां स्यान् मृतौ कापि विचारणा ॥ 245
इति ॥ 246
अत एव उक्तं श्रीनिशाटने गोदोहम् इषुपातं वा नयनोन्मीलनं च वा ॥ 247
सम्यग्युक्तः परे तत्त्वे न भूयो जन्मभाग् भवेत् ॥ 248
यस्मात् पूर्वं परे न्यस्तो येनात्मा ब्रह्मणि स्वयम् ॥ 249
स्मरणं तु कथं तस्य प्राणान्ते समुपस्थिते ॥ 250
इति ॥ 251
श्रीरामभट्टारके ऽपि तावत् क्षेत्रं तथा तीर्थं यावद् ब्रह्मणि नो विशेत् ॥ 252
तद् विदित्वा श्वपाको ऽपि मत्समो नात्र संशयः ॥ 253
इति ॥ 254
भगवता भेगिपतिनापि तीर्थे श्वपचगृहे वा नष्टस्मृतिर् अपि परित्यजन् देहम् ॥ 255
ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ 256
इति ॥ 257
श्रीमत्पौष्करायाम् अपि उक्तम् क्षित्यन्तानां च तत्त्वानां देवत्वेन व्यवस्थितः ॥ 258
मन्त्रज्ञो भगवद्भक्तः श्रद्दधानः सदास्तिकः ॥ 259
यत्र यत्राश्रमे चैव निवसेत् संयतेन्द्रियः ॥ 260
स्वदेहस्थं स्मरेन् नित्यं स्वमन्त्रं न्यस्तविग्रहः ॥ 261
देहसंन्यासकाले तु विश्रान्तो यत्र कुत्रचित् ॥ 262
प्रयाति पदम् आद्यं वै समुत्क्रान्तः स्वविग्रहम् ॥ 263
इति ॥ 264
अन्यत्रापि शरीरम् एवायतनं नान्यद् आयतनं व्रजेत् ॥ 265
तीर्थम् एकं श्रयेन् मन्त्रम् अन्यतीर्थानि वर्जयेत् इति ॥ 266
तथा स्वस्थचेष्टाश् च ये मर्त्याः स्मरन्ति मम नारद ॥ 267
काष्ठपाषाणतुल्यांस् तान् अन्तकाले स्मराम्य् अहम् ॥ 268
इत्य् उक्तम् ॥ 269
न च संस्थितस्य उत्तमतया अधिकारिणो लोकयात्राप्रसिद्धास्रुविमोचनादिपरिदेवितं कार्यम् यथोक्तं श्रीपूर्वशासने निषिद्धं सर्वशास्त्राणां रोदनं कायशासनम् ॥ 270
विशेषाद् भैरवे तन्त्रे शम्बरं पशुकल्पितम् ॥ 271
अयुक्तम् इमम् आचारं त्यजेद् वै नौर्ध्वदैहिकम् ॥ 272
इति ॥ 273
श्रीमतरहस्यतिलके ऽपि उत्तमनयाधिकारिणां संवृतनिजसदाचाराणां लोकप्रसिद्धिरक्षायै तदाचारापरित्यागो ऽपि आम्नातः तथा हि लोकाचारस्य विच्छेदो न कर्तव्यः कदाचन ॥ 274
गुह्यं गुह्यतरं कार्यं बाह्यं बाह्यान्तरं तथा इति ॥ 275
अनयोश् च पक्षयोर् एकतरपक्षावलम्बने प्रवरगुरव एव प्रमाणम् ॥ 276
पित्रुद्देशेन च यागजपहोमोपवासादि गुरुम् आराध्य अवश्यं विधातव्यम् इत्य् उक्तम् श्रीमहाकुले आसूत्रिते भागलुप्ते यथेष्टरजसान्विते ॥ 277
अपि मन्त्रम् अनाहूय मण्डले विधिचोदिते ॥ 278
संनिधानं प्रकुर्वन्ति मन्त्राणां सप्तकोटयः ॥ 279
किं पुनः कौलिकाम्नायस् तत्राहूय प्रपूजितः ॥ 280
समुद्दिश्य पितॄन् भद्रे तदानन्त्याय कल्पते ॥ 281
इति ॥ 282
श्रीप्रचण्डभैरवे ऽपि उक्तम् तनुवित्ताश् च ये मर्त्या गुरुमन्त्रपरायणाः ॥ 283
विशेषेण महायागपूजनं प्रति न क्षमाः ॥ 284
सिद्धलिङ्गं तदा तेषां पित्रर्थं पूजयेद् बुधः ॥ 285
उचितं पूजनं तत्र देवानाम् अपि दुर्लभम् ॥ 286
कुलान्य् उद्धरते तत्र दश पूर्वापराण्य् अपि ॥ 287
इति ॥ 288
श्रीभागेशमते ऽपि विषसर्पाग्न्यपस्मारक्षुधात्यशनबन्धनैः ॥ 289
चण्डालोदकनिर्घातराजशासनतस्करैः ॥ 290
निदाघशीतशकटलूतोषितमहाव्रजैः ॥ 291
ब्राह्मणम्लेच्छपाषण्डिनिर्मूलोड्डामरक्रमैः ॥ 292
ये हताः पापकर्माणो मित्रद्रोहरताश् च ये ॥ 293
स्वामिद्रोहकृताश् चान्ये ये तथात्मोपघातकाः ॥ 294
गुर्विण्यो दुश्चरित्राश् च प्रसवेन हताश् च याः ॥ 295
तेषाम् उद्धरणोपायो नान्यो ऽस्ति वरवर्णिनि ॥ 296
विना यागं विना होमं विना मूर्तिपरिग्रहम् ॥ 297
विना महाजालविधिप्रयोगाहृतपुद्गलम् ॥ 298
मृतोद्धरणसंज्ञां च दीक्षां सर्वाध्ववर्तिनीम् इति ॥ 299
तद् अयं तावत् ऊर्ध्वशासनवर्तिनां क्रमः ॥ 300
इतरेषां तु स्वशास्त्रसमयोपन्यस्तानुष्ठानम् एव श्रेयः तद् अलम् अनेन ॥ 301
एवं समनन्तरोदीरितया नीत्या जन्ममरणप्रबन्धसम्बन्धम् अवधार्य अकृत्रिमस्वरूपपरामर्शनेन जीवन्मुक्तिम् आसाद्य कृतकृत्यताम् आलम्बन्ते सन्तः ॥ 302
यथोक्तम् विदितमतिसतत्त्वाः संविदम्भोनिधानाद् अचलहृदयवीर्याकर्षनिष्पीडनोत्थम् ॥ 303
अमृतम् इति निगीर्णे कालकूटे ऽपि देवा यदि पिबत तदानीं निश्चितं वः शिवत्वम् ॥ 304
इति ॥ 305
श्रीमद्योगेश्वराचार्यप्रसादासादितस्थितिः ॥ 306
वामदेवश् चकारेदं जन्ममृत्युविचारणम् ॥ 307
अभिनवमदमन्थरा पुरंध्री मधुसमये मधुराश् च गीतिबन्धाः ॥ 308
बत बत हृदयं हरन्ति वाचो ललितपदाश् च रहस्यवस्तुगर्भाः ॥ 309
कृतिस् तत्रभवन्महामाहेश्वराचार्यवर्यश्रीमद्भट्टवामदेवस्य ॥ 310
सद्विद्यानां संश्रये ग्रन्थविद्वद्व्यूहे ह्रासं कालवृत्त्योपयाते ॥ 311
तत्तत्सद्धर्मोद्दिधीर्षैकतानसत्प्रेक्षौजःशालिना कर्मवृत्त्यै ॥ 312
श्रीमत्कश्मीराधिराजेन मुख्यैर् धर्मोद्युक्तैर् मन्त्रिभिः स्वैर् विवेच्य ॥ 313
प्रत्यष्ठापि ज्ञानविज्ञानगर्भग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ 314
तत्राजीवं निर्विशद्भिर् मुकुन्दरामाध्यक्षत्वाश्रितैः सद्भिर् एषः ॥ 315
पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात् पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ 316
तिलकम् ॥ 317
श्रीस्वात्मचिदमृतवपुःशंकरार्पणं भूयात् ॥ 318
मूल पाठ: Janmamaraṇavicāra · Edition: M.R. Shastri, Bombay: Nirnaya Sagar Press, 1918 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0