भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 1.3

1.3.1

सत्यं किंतु स्मृतिज्ञानं पूर्वानुभवसंस्कृतेः ।
जातमप्यात्मनिष्ठं तन्नाद्यानुभववेदकम् ॥

1.3.2

दृक्स्वाभासैव नान्येन वेद्या रूपदृशेव दृक् ।
रसे संस्कारजत्वं तु तत्तुल्यत्वं न तद्गतिः ॥

1.3.3

अथातद्विषयत्वेऽपि स्मृतेस्तदवसायतः ।
दृष्टालम्बनता भ्रान्त्या ................................. ॥

1.3.4

स्मृतितैव कथं तावद्भ्रान्तेश्चार्थस्थितिः कथम् ।
पूर्वानुभवसंकारापेक्षा च किमितीष्यते ॥

1.3.5

भ्रान्तित्वे चावसायस्य न जडाद्विषयस्थितिः ।
ततोऽजाड्ये निजोल्लेखनिष्ठान्नार्थस्थितिस्ततः ॥

1.3.6

एवमन्योन्यभिन्नानामपरस्परवेदिनाम् ।
ज्ञानानामनुसंधानजन्मा नश्येज्जनस्थितिः ॥

1.3.7

न चेदन्तःकृतानन्तविश्वरूपो महेश्वरः ।
स्यादेकश्चिद्वपुर्ज्ञानस्मृत्यपोहनशक्तिमान् ॥

मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc