भाषा

ENहिગુ
ग्रंथ पाठ

हेत्वाभासदशक · श्लोक 1-col

1

त्वं रुष्टा मयि चेन् नमामि भवतीं नेयं त्वया नम्यतां नम्यत्वं त्वयि भाति पार्थिवतया मन्ये महाराजवत् ।
कुम्भादिष्व् अतिवर्तनात् त्वदुदितं साधारणं साधनं वाग्वादेष्व् इति निर्जितो दयितया रामः सुखं रातु वः ॥

2

कृष्णः पुष्णातु सौख्यं सुमुखि सुमुखतां याहि याहि प्रियां ताम् अन्यासक्तं कुतो मां कलषसि दयिते केवलं त्वत्स्वभावात् ।
यद्य् एवं मुग्धता ते करणम् इदम् असाधारणं पक्षमात्रे वृत्तत्वाद् इत्य् अकस्मात् प्रणयकलहितां राधिकां सान्त्वयन् वः ॥

3

सर्वं वस्तु सुखावहं तव पुनः कौतस्कुतीयं व्यथा कस्माद् एवम् उदीर्यते जगद् इदं यत् तन्मयं भाषसे ।
हेतुस् सव्यभिचार एष विरहात् दृष्टान्तयोर् इत्य् अयं संलापस् सह लक्ष्मणेन वियुजः सीतापतेः पातु वः ॥

4

भीतो ऽहं विरही तुषारकिरणात् सो ऽयं समुज्जृम्भते विज्ञातः कथम् एष ते मम यतस् तापं करोत्य् उच्चकैः ।
लिङ्गात् को ऽनुमिनोति साध्यविरहव्याप्ताद् इयं मुग्धता मा भैषीर् इति पातु वो रघुपतिस् सौमित्रिणा सान्त्वितः ॥

5

का भीतिस् तव चन्द्रतो रघुपते दोषाकरत्वाद् असाव् आसक्तः परपीडने पिशुनवन् नैवं कुतः कथ्यते ।
हेतुः सत्प्रतिपक्ष एष यद् अयं सद्वृत्ततां गाहते सोदर्येण निरस्तभीर् इति सुखं पुष्णातु वो राघवः ॥

6

मिथ्येयं विरहव्यथा तव मुदं दत्ते पुरोवर्तिनी मायामैथिलकन्यका प्रियतमाभावेन सत्येव सा ।
इत्य् उक्तः सहजेन सान्त्वनविधौ हेतोर् अमुष्याश्रया सिद्धत्वं प्रतिपादयन्न् अवतु वः श्रीजानकीवल्लभः ॥

7

चित्तं मे चित्तजन्मा विदलयति शरैः स्वाश्रयं नाशयेत् कः स्थूलत्वाच् चेतसो ऽसौ किम् इव न कुरुते निर्विचारप्रवृत्तः ।
आहुश् चेतो ऽणुमानं कथम् इह भवति स्थूलता तत्स्वरूपा सिद्धो ऽयं हेतुर् एवं दशरथसुतयोः पातु संभाषितं वः ॥

8

वध्येतां शुकसारणौ न हि तयोर् वध्यत्वम् अस्त्य् एव तत् रक्षस्त्वाद् दशकन्धरादिवद् अयं हेतुस् सहोपाधिकः ।
सद्रोहत्वम् उपाधिर् अत्र सुगमः शेषस् त्वया चिन्त्यताम् इत्य् आदित्यसुतोक्तिखण्डनकरः श्रीराघवः पातु वः ॥

9

जय्यो राघव एष मानुषतया तद्भक्षिभीर् यातुभिः नैवं बाधित एव हेतुर् उदितः प्रत्यक्षमानेन हि ।
क्व प्रत्यक्षम् इदं खरादिनिहताव् इत्य् अग्रजस्याग्रतो दिश्यात् तन्मतभिद्विभीषणसमुद्गीतस् सुखं राघवः ॥

10

अज्ञात्वा हृद्गतं ते कथम् अभिलषितं प्रार्थये भामिनि त्वां नन्व् एतस्मात् कटाक्षाद् अनुमिनु हृदये राग एवेति चेन् न ।
हेतुस् सोपाधिको ऽयं भवति गुरुतरो ह्रीभरो ऽस्मिन्न् उपाधिः साध्यव्यापी प्रियादौ स खलु रणमुखे साधनाव्यापकश् च ॥

col

कोटिलिंगपुरे वासी युवराजो महाकविः ।
हेत्वाभासम् उदाजह्रे दशश्लोकैः सतां मुदे ॥

मूल पाठ: Hetvābhāsadaśaka · Edition: V. Varadachari Hetvābhāsa-daśakam by a Prince of Koṭiliṅgapura Rasiklal C. Parikh Ratilal M. Trivedi Umashankar J. Joshi Acharya Dhruva Smaraka Grantha Ahmedabad Gujarat Vidya Sabha 3 213-221 · Data entry Venkata Raghavan · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc