भाषा

ENहिગુ
ग्रंथ पाठ

हेतुतत्त्वोपदेश · भाग 13

1. साधनं दूषणं चैव साभासं परसंविदे ।
प्रत्यक्षम् अनुमानं च साभासं त्व् आत्मसंविदे ॥
इति शास्त्रार्थसंग्रहः ॥
2. वादिना स्वयं साधयितुम् इष्टो ऽर्थः साध्यः । साध्यते येन तत् साधनम् ।
3. हेतोस् त्रिरूपवचनम् । कानि पुनस् तानि त्रिणि रूपाणि । पक्षे सत्त्वम् एवेत्य् एकं रूपम् । सपक्ष एव सत्त्वम् इति द्वितीयं रूपम् । विपक्षे चासत्त्वम् एव निश्चितम् इति तृतीयम् ॥
4. तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धेण विशेषेण विशिष्टः स्वयं साधयितुम् इष्टः प्रत्यक्षाद्यविरुद्धः । यथा शब्दो धर्मी अनित्यत्वेन विशेण विशिष्तः साध्यते कृतकत्वाद् इति हेतुः ॥
5. कः सपक्षः । साध्यधर्मेण सामान्येन समानः सपक्षो यथा घटादिर् इति ॥
6. को वा हेतोर् विपक्षः । यत्र साध्याभावेन हेतोर् अभावो नियमेन कथ्यते [ यथाकाशादिर् इति ॥
7. एतद् एव च हेतोस् त्रिरूपवचनं परप्रत्यायनाय प्रयुज्यमानं परार्थम् अनुमानम् उच्यते । यथा अनित्यः शब्द इति पक्षवचनं कृतकत्वाद् इति हेतुवचनम् । घटादिवद् इति सपक्षवचनं । आकाशवद् इति विपक्षवचनम् ॥
8. तत् पुनर् द्विविधं दृष्टम् । साधर्म्येण वैधर्म्येण च ।
9. तत्र साधर्म्येण तावत् । यत् कृतकं तत् सर्वम् अनित्यं दृष्टम् । यथा घटादिः । कृतकश् च शब्द इति ॥
10. वैधर्म्येण पुनः । असत्य् अनित्यत्वे न भवत्य् एव कृतकत्वं यथाकाशादौ । शब्दस् तु कृतक इति ॥
11. कः पुनः पक्षाभासः । यः पक्ष इवाभासते । न तु साक्षात् पक्षो भवति । प्रत्यक्षादिभिर् बाधितत्वात् ॥
12. स तु पक्षाभासः । यथा धूमादिर् धर्मीबुद्धिमता हेतुना जन्यत इति साध्ये । प्रत्यक्षविरुद्धः पक्षाभासः । प्रत्यक्षेण वह्निजन्यस्य धुमस्य दर्शनात् ॥
13. अनुमानविरुद्धो यथा । वेदवाक्यं धर्म्य् अपौरुषेयम् इति साध्ये । प्रयत्नानन्तरीयकत्वे शब्दस्य पौरुषेयत्वस्य प्रसाधनात् ॥
14. स्ववचनविरुद्धो यथा । नानुमानं प्रमाणम् इति परप्रतिपादनाय वचनम् उच्चार्यमाणं परार्थम् अनुमानम् इत्य् उक्तत्वात् ॥
15. लोकविरुद्धो यथा । शुचि नरशिरःकपालं प्राण्यङ्गत्वाच् छङ्खशुक्तिवत् ॥
16. प्रतीतिविरुद्धो यथा । कियत्कालस्थायी कृतको ऽनित्य इति । कियत्कालस्थायिनो ऽपि कृतकाः सर्वे नित्या इति लोकप्रतीतेः ॥
17. अप्रसिद्धविशेषणो यथा । वैशेषिकस्य सांख्यं प्रति विनाशी शब्द इति साध्ये ॥
18. अप्रसिद्धविशेष्यो यथा । सांख्यस्य बौद्धं प्रति आत्मा चेतन इति साधयतः ॥
19. उभयाप्रसिद्धो यथा । वैशेषिकस्य बौद्धं प्रति सुखादि समवायिकारणम् आत्मेति
॥ प्रसिद्धसंबन्धो यथा वायुर् अस्थिरस्वभाव इति ॥
20. उक्ताः पक्षाभासाः ॥ ॥
21. हेत्वाभासः कीदृशः । यो हेतुर् इवाभासते । न पुनः सिद्धो हेतुर् इति ॥
22. हेत्वाभासो ऽसिद्धो विरुद्धो ऽनैकान्तिकश् चेति त्रिप्रकारः ॥
23. तत्र पक्षे ऽसिद्धत्वाद् असिद्धसंज्ञको हेत्वाभासः ।
24. पक्षसपक्षयोर् नास्ति । विपक्ष एवास्ति स विरुद्धसंज्ञको हेत्वाभासः । साध्यविपर्ययसाधनात् ॥
25. तत्र यो हेतुः सपक्षविपक्षयोर् उभयत्रास्ति नास्ति वा संदिह्यते । अप्रसिद्धसंबन्धो वा सो ऽनैकान्तिकसंज्ञको हेत्वाभासः । वादिनः प्रतिवादिनो वा साधयितुम् इष्टस्यैकान्तस्यासाधनात् ॥
26. उभयासिद्धः तद्यथा शब्दस्यानित्यत्वे साध्ये चाक्षुषत्वं हेतुः वादिप्रतिवादिनोर् असिद्धः ॥
27. चेतनास् तरव इति साध्ये सर्वत्वगपहरणे मरणाद् इति हेतुः प्रतिवादिनो बौद्धस्यासिद्ध इति प्रतिवाद्यसिद्धः । चैतन्यादिनिरोधस्य बौद्धेनोपगमात् ॥
28. अचेतनाः सुखादय इति साध्ये । उत्पत्तिमत्त्वाद् इति हेतुः स्वयं वादिनः सांख्यस्यासिद्धः । इति वाद्यसिद्ध इति ॥
29. वैशेषिकस्य बौद्धं प्रति क्षमादिकं धर्मी कार्यम् इति साधयतः प्रतिक्षणं सदृशापरापरोत्पत्तेर् इति स्वयं वादिनो ऽसिद्धः । उत्पत्तौ सिद्धायाम् अपि प्रतिक्षणसदृशापरापरोत्पत्तिर् इत्य् असिद्धः ॥
30. पक्षैकदेशासिद्धो यथा । चेतनास् तरवः स्वापाद् इति हेतुः । दिगम्बरस्य स्वयं वादिनः पक्षैकदेशासिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः ॥
31. तथा पृथिव्यादिकं धर्मी बुद्धिमद्धेतुजन्यम् इति साध्ये कार्यत्वाद् इति हेतुर् बौद्धं प्रत्य् असिद्धः । प्रत्यक्षानुपलम्भनिबन्धनो हि कार्यकारणभावो बौद्धस्य पृथिव्यादौ न सिद्धः । विहाराहारादिषु सिद्धं चेत् तदा पक्षैकदेशासिद्धः ॥
32. संदिग्धासिद्धो यथा यद्य् अयं धूमो ऽग्निर् अत्रेति साध्ये हेतोर् एवानिश्चयात् ॥
33. धर्मिसंदेहे ऽप्य् असिद्धो यथा । इह बहुषु निकुञ्जेषु क्वचिद् एकस्मिन् निकुञ्जे मयूर इति साध्ये केकायिकाद् इति हेतुः ॥
34. धर्म्यसिद्धाव् अप्य् असिद्धो यथा आत्मा धर्मी सर्वगत इति साध्ये सर्वत्रोपलभ्यमानगुणत्वाद् इति हेतुः ॥
35. दशैते ऽसिद्धसंज्ञका हेत्वाभासाः ॥
36. ॥ अनैकान्तिको हेत्वाभासः कीदृश उच्यते ॥
37. यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये प्रमेयत्वं हेतुः सपक्स्विपक्षयोः सर्वत्र वर्तमानः साधारणानैकान्तिकः ॥

38. तथा शब्दस्य नित्यत्वे श्रावणत्वं हेतुः सपक्षविपक्षयोर् अप्रवर्तमानात् । असाधारणानैकान्तिकः ॥
39. तथा शब्दस्याप्रयत्नानन्तरीयकत्वे साध्ये ऽनित्यत्वाद् इति हेतुः । सपक्षैकदेशवृत्तिर् विपक्षव्याप्य् अनैकान्तिकः ॥ अप्रयत्नानन्तरीय क ः शब्दस्य विद्युदाकाशादिः सपक्षः तत्रैकदेशे विद्युदादौ वर्तते ऽनित्यत्वं नाकाशादौ प्रयत्नान्तरीयकः पुनः सर्वो घटादिर् विपक्षः । तत्र सर्वत्र वर्तते ॥
40. तथा प्रयत्नानन्तरीयकत्वे शब्दस्य साध्ये ऽनित्यत्वं हेतुः घटादौ सर्वत्र विद्यते । अप्रयत्नानन्तरीयकः पुनर् विद्युदाकाशादिर् विपक्षः । तत्रैकदेशे विद्युदादौ वर्तते नाकाशादौ । तस्माद् अयं विपक्षैकदेशवृत्तिः सपक्षव्यापी हेतुर् अनैकान्तिकः ॥
41. उभयपक्षैकदेशवृत्तिर् अनैकान्तिको यथा । शब्दे धर्मिणि नित्यत्वे साध्ये ऽमूर्तत्वाद् इति हेतुः । परमाण्वाकाशादिः सपक्षो ऽस्य । तत्रैकदेशे ऽमूर्तत्वम् आकाशे प्रवर्तते न परमाणौ मूर्तत्वात् परमाणूनम् । घटसुखादिर् अनित्यो विपक्षः । तत्रैकदेशे सुखादौ विद्यते न घटादौ ॥
42. तथा संदिग्धविपक्षव्यावृत्तिकः सपक्षव्यापी हेतुर् अनैकान्तिको यथा । कपिलादिधर्म्य् असर्वज्ञ इति साध्ये वक्तृत्वाद् इति हेतुः । रथ्यापुरुषादौ सपक्षे ऽस्ति । विपक्षे सर्वज्ञे संदिग्धः । सर्वज्ञस्यातीन्द्रियत्वाद् वचनम् अस्ति न वेति संदिग्धम् ॥
43. तथा संदिग्धसपक्षवृत्तिर् विपक्षव्याप्ल् हेतुर् अनैकान्तिको यथा । ऋषभवर्धामानादिधर्मी सर्वज्ञ इति साध्ये केवलिशास्त्रकरणाद् इति हेतुः सपक्षे सर्वज्ञे संदिग्धः । सर्वज्ञस्यातीन्द्रियत्वात् केवलिशास्त्रकरणं संदिग्धम् । विपक्षे वराहमिहिरादाव् असर्वज्ञे विद्यते ॥
44. संदिग्धान्वयव्यतिरेकहेतुर् अनैकान्तिको यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वाद् इति हेतुः । जीवच्छरीरसंबन्धी प्राणादिर् न सात्मके अनात्मके वा प्रवृत्तो निवृत्तो वेति निश्चीयते ॥
45. ततः केवलान्वयी हेतुर् दृष्टान्ताभावात् ॥
46. तथा द्वितीयो ऽपि केवलव्यतिरेकी नेदं निरात्मकं जीवच्छरीर म् अप्राणादिमत्त्वप्रसङ्गाद् इति । दृष्टान्ताभावाद् एव नान्वयनिश्चयो नापि व्यतिरेकनिश्चय इति संशयहेतुः ॥
47. उक्ता नव एते ऽनैकान्तिकसंज्ञका हेत्वाभासाः ॥
48. विरुद्धसंज्ञको हेत्वाभासः कीदृशः ॥
49. यथा शब्दो धर्मी नित्य इति साध्यो धर्मः कृतकत्वाद् आकाशादिवत् । अयं हेतुर् घटादौ विपक्ष एवास्ति न सपक्षे ॥
50. तथा शब्दो धर्मी नित्य इति साध्ये प्रयत्नानन्तरीयकत्वाद् इति हेतुर् आकाशादौ सपक्षे नास्त्य् एव । विपक्षैकदेसे घटादौ विद्यते न विद्युदादौ ॥ एतौ द्वौ हेतू धर्मस्वरूपविपरीतसाधनौ ॥
51. धर्म विशेश विपरीतसाधनो यथा । चक्षुरादय इति धर्मी परार्था इति साध्यो धर्मः संघतत्वाद् इति हेतुः । मञ्चपीठादिवद् इति सपक्षवचनं । अयं तु हेतुर् यथा चक्षुरादीनां पारार्थ्यं साधयति । तथा संघातत्वं परस्य साधयति । मञ्चपीठादीनां संघातस्य देवदत्तादेः परस्योपकारदर्शनात् ॥
52. धर्मिस्वरूपविपरीतसाधनो यथा पृथिव्यादिर् धर्मी बुद्धिमद्धेतुजन्य इति साध्ये साश्रयत्वाद् इति हेतुः । घटादिवद् इति सपक्षवचनम् । अयं हेतुर् यथा बुद्धिमद्धेतुजन्यत्वं साधयति तथा बुद्धिमतः कर्तुः साश्रयत्वम् अपि साधयति ॥
53. धर्मिविषेशविपरीतसाधनो यथा । वैशेषिकस्य मीमांस क ं प्रत्य् आत्मा धर्मी चेतयत इति साध्ये ( ह्तु 267 ) चेतनाधिष्ठानत्वाद् इति हेतुर् आत्मनो ऽचेतनस्य यथा चैतन्यं साधयति । तथा हेतुर् अयम् अनित्यत्वम् अपि साधयति । अनित्यत्वाद् विज्ञानस्य ॥
54. उक्ताः पञ्चैते विरुद्धसंज्ञका हेत्वाभासाः ॥
55. विरुद्धाव्यभिचारी नाम न कश्चिद् धेतुदोषो ऽस्तीति न तस्योदाहरणं युक्तम् । तत्रोदाहरणं । यत् सर्वदेशावस्थितैः स्वयं च स्वसंबन्धिभिर् युगपद् अभिसंबध्यते तत् सर्वगतम् । यथाकाशम् इति । अभिसंबध्यते च सर्वदेशावस्थितैः स्वसंबन्धिभिर् युगपत् सामान्यम् इति पैलुकस्य स्वभावहेतुप्रयोगः । । द्वितीयो ऽपि प्रयोगः पैठरस्य । यद् उपलब्धिलक्षणप्राप्तं यत्र नोपलभ्यते न तत्रास्ति । तद् यथा क्वचिद् अविद्यमानो घटः । नोपलभ्यते चोपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्व् इति ॥ अनुपलम्भो हेतुः पूर्वोक्तश् च स्वभावः परस्परं बाधयतः । संशयजननात् ।
56. न सपक्षाद् अन्यो दृष्टान्तो नाम कश्चिद् इति सपक्ष एव साधर्म्यदृष्टान्तः ॥ तत्र दृष्टान्ताभासः कीदृशः ।
57. साधर्म्येण तावत् ।
58. नित्यः शब्दो ऽमूर्तत्वात् कर्मवत् । साध्यविकलः कर्मणो ऽनित्यत्वात् ॥
59. नित्यः शब्दो ऽमूर्तत्वात् परमाणुवत् । साधनविकलः परमाणूनां मूर्तत्वात् ॥
60. नित्यः शब्दो ऽमूर्तत्वाद् घटवद् । साध्यसाधनोभयविकलः ॥
61. तथा संदिग्धसाध्यधर्मा दृष्टान्ताभासः । कश्चित् पुरुषो धर्मी रागादिमान् वचनात् । रथ्यापुरुषवत् । ( ह्तु 268 ) तत्र दृष्टान्ते रथ्यापुरुषे रागादिमत्त्वं संदिग्धः परचेतोवृत्तीनां दुरन्वयत्वात् ॥
62. संदिग्धसाधनधर्मा यथा । कश्चित् पुरुषो मरणधर्म इति साध्ये रागादिमत्त्वाद् इति हेतुः । रथ्यापुरुषे दृष्टान्ते संदिग्धः । वीतरागो ऽपि रागीव चेष्टते यतः ॥
63. संदिग्धोभयधर्मा दृष्टान्ताभासो यथा कश्चित् पुरुषो धर्मी असर्वज्ञ इति साध्ये रागादिमत्त्वाद् इति हेतुः । रथ्यापुरुषे दृष्टान्ते साध्यं साधनं संदिग्धम् ॥
64. अनन्वयो ऽप्रदर्शितान्वयो विपरीतान्वयश् च दृष्टान्टाभासाः ॥
65. तत्रानन्वयो यथा । यो वक्ता स रागादिमान् रथ्यापुरुषवत् । वक्तृत्वरागादिमत्त्वयोः कार्यकारणभावप्रतिषेधात् ॥
66. अप्रदर्शितान्वयो यथा । अनित्यः शब्दः कृतकत्वाद् इति । अत्र विद्यमानो ऽप्य् अन्वयो व्याप्त्या न दर्शित इति । वक्तृदोषाद् अयं दृष्टान्ताभासः ॥
67. विपरीतान्वयो यथा । यद् अनित्यं तत् कृतकं घटादिवद् इत्य् अत्रानित्यत्वं साध्यम् । साध्येनैव साधनं व्याप्तं कथनीयम् । न तु साधनेन व्याप्तं साध्यं कथ्यते । अथ विपरीतान्वयो दृष्टान्ताभासः ॥
68. उक्ता नवैते साधर्म्येण दृष्टान्ताभासाः ॥
69. वैधर्म्येण दृष्टान्ताभासा उच्यन्ते ।
70. साध्याव्यतिरेकी दृष्टान्ताभासो यथा । नित्यः शब्दो ऽमूर्तत्वात् परमाणुवत् । अत्र परमाणोर् वैधर्म्यदृष्टान्तत्वाद् अमूर्तत्वं साधनधर्मो व्यावृत्तो ( ह्तु 269 ) मूर्तत्वात् परमाणूनाम् । नित्यत्वं साध्यधर्मो न व्यावृत्तः । परमाणोर् नित्यत्वात् ॥
71. साधनाव्यतिरेक्ल् यथा । नित्यः शब्दो ऽमूर्तत्वात् कर्मवत् । अत्र नित्यत्वं साध्यधर्मो व्यावृत्तः कर्मणो ऽनित्यत्वात् । साधनधर्मो न व्यावृत्तः कर्मणो ऽमूर्तत्वात् ॥
72. उभयाव्यावृत्तो यथा । नित्यः शब्दो ऽमूर्तत्वाद् आकाशादिवत् । अत्राकाशादौ वैधर्म्यदृष्टान्तात् साध्यं साधनं च न व्यावृत्तम् ॥
73. तथा संदिग्धसाध्यव्यतिरेकी संदिग्धसाधनव्यतिरेकी । संदिग्धोभयव्यतिरेकी चेति ।

74. संदिग्धसाध्यव्यतिरेको दृष्टान्ताभासो यथा । असर्वज्ञाः कपिलादयः । सर्वज्ञतालिङ्गभूतकेवलिशास्त्राकरणाद् इति । अत्र वैधर्म्योदाहरणम् । यः सर्वज्ञः स ज्योतिर्ज्ञानादिकम् उपदिष्टवान् यथा ऋषभवर्धमानादिर् इति । अत्र वैधर्म्योदाहरणाद् ऋषभवर्धमानादेर् असर्वज्ञता निवृत्तान वेति संदेहः ॥
75. संदिग्धसाधनव्यतिरेको यथा । नात्र त्रयीविदा ब्राह्मणेन ग्राह्यवचनः कपिलकणादादिः पुरुषो रागादिमत्त्वाद् इति । अत्र वैधर्म्योदाहरणं ये ग्राह्यवचना न ते रागादिमन्तो यथा गौतमादयो धर्मशास्त्राणां प्रणेतार इति गौतमादिभ्यो रागादिमत्त्वस्य धर्मस्य व्यावृत्तिः संदिग्धा ॥
76. संदिग्धोभयव्यतिरेकी यथा । अवीतरागाः कपिलादयः परिग्रहाग्रहयोगाद् इति । अत्र वैधर्म्योदाहरणं यो वीतरागो न तस्य परिग्रहाग्रहौ संभवतः ( ह्तु 270 ) यथा ऋषभवर्धमानादेर् इति । ऋषभादेर् वैधर्म्यदृष्टान्तात् अवीतरागत्वं साध्यधर्मः परिग्रहाग्रहयो ग ः साधनधर्मो व्यावृत्तो न वेति संदेहः । अपूर्वार्थलाभः परिग्रहः । लब्धस्यापरित्याग आग्रहः । तौ च द्वाव् अपि ऋषभादौ संभव्येते । छत्रचामरदुन्दुभीनां परिग्रहाग्रहश्रवणात् ॥
77. अव्यतिरेको वैधर्म्यदृष्टान्ताभासो ऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश् चेति ।

78. अव्यतिरेको यथा । कपिइआदिर् अवीतरागो वक्तृत्वात् । यत्रावीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति । यद्य् उपलखण्डाद् अयं व्यावृत्तस् तथापि सर्वो वीतरागो वक्तेति संदेहः ॥
79. अप्रदर्शितव्यतिरेको यथा । अनित्यः शब्दः कृतकत्वाद् आकाशादिवद् इति । परमार्थतः संयग् दृष्टान्तो ऽप्य् अयं वक्तृदोषाद् दृष्टान्ताभासः । परार्थानुमाने वक्तुर् गुणदोषयोर् विचार्यमाणत्वात् । तथा हि यन् नित्यं तत् सर्वं नियमेनाकृतकं दृष्टं यथाकाशादिर् इति वचनेन विभज्य वक्त्रा व्याप्तिपूर्वको व्यातिरेको न प्रदर्शित इत्य् अप्रदर्शितव्यतिरेकः ॥
80. विपरीतव्यतिरेको यथा । यद् अकृतकं तन् नित्यं दृष्टम् इति । अत्र साधननिवृत्त्या साध्यनिवृत्तिर् व्याप्ता दर्शयितव्या तेन यत्र यत्र साध्यनिवृत्तिस् तत्र तत्र नियमेन साधननिवृत्तिः सिध्यतीति ॥
81. उक्ता दृष्टान्ताभासा अष्टादश ॥
82. एत एव सर्वे पक्षहेतुदृष्टान्ताभासाः । वादिना साधयितुम् इष्टम् अर्थं न साधयन्तीति साधनाभासा ( ह्तु 271 ) वादिनो भवन्ति । एवं च प्रतिवादिना दूषणत्वेनोपन्यस्ता दूषणानि भवन्ति । पूर्वपक्षवादिनो ऽभिप्रेतार्थसिद्धिप्रतिबन्धात् । साधनस्य न्यूनतोद्भावनम् एव दूषणस्य लक्षणं विभज्य पृथग् उच्यते ।
83. दूषणाभासः । एतान्य् एव दूषणानि प्रतिवादिनोक्तानि । यदा पूर्वपक्षवादी मिथ्यादूषणत्वेन प्रतिपादयतीति तदा दूषणाभासा जातय इति पठ्यन्ते । अभूतदोषोद्भावनानि मिथ्योत्तराणि जात्युत्तरणीति वचनात् । याथादुष्टपक्षे पक्षदोषोद्भावनं निर्दोषे हेतौ हेतुदोषख्यापनम् । अदुष्टदृष्टान्ते दृष्टान्तदोषोपादानं दूषणाभास इति न्यायात् । ज्
84. तत्र प्रतिज्ञाहेतुदाहरणोपनयनिगमनानि पञ्चावयवं परैः साधनम् उच्यते । यथानित्यः शब्द इति प्रतिज्ञा कृतकत्वाद् इति हेतुः । यत् कृतकं तत् सर्वम् अनित्यं दृष्टं यथा घटादीत्य् उदाहरणम् । तथा कृतकः शब्द इत्य् उपनयः । तस्माद् अनित्य इति निगमनम् । दृष्टान्ते प्रतीतिसमर्थो हेतुर् धर्मिण्य् उपनीयत इत्य् उपनयः । प्रतिज्ञायाः पुनर्वचनं निगमनम् इति वचनात् । नैतद् अस्ति । त्रिभिर् एवावयवैर् अन्वयव्यतिरेकपक्षधर्मसंज्ञकैः साध्यार्थसिद्धेः ॥
85. तथा हि । वादकाले व्याप्तिपूर्वक एव प्रयोगः कर्तव्यः । यत् कृतकं तत् सर्वम् अनित्यं दृस्तं यथा घटादिर् इति । साध्येन साधनस्य दृष्टान्ते व्याप्तिकथनम् अन्वय उच्यते ॥
86. विपक्षे च साध्यनिवृत्त्या साधननिवृत्तिर् व्यतिरेक उच्यते यथासत्य् अनित्यत्वे न भवत्य् एव कृतकत्वं यथाकाशादौ ।
87. कृतकश् च शब्द इति पक्षधर्मवचनम् । प्रतिज्ञानिगमने पुनः सर्वथा न वक्तव्ये ॥
88. तथा साधर्म्यवति प्रयोगे ऽन्वयाभिधानसामर्थ्याद् एव व्यतिरेको ऽवगन्तव्य इति न पृथग् उच्यते । यथा यत् कृतकं तत् सर्वम् अनित्यं द्रष्टव्यम् । यथा घटादिः । कृतकश् च शब्द इति । साधर्म्यवान् प्रयोगः । तथा वैधर्म्यवति प्रयोगे व्यतिरेकोक्तिसामर्थ्याद् एवान्वयः प्रतिपन्न इति नान्वयः पुनर् उच्यते । यन् नित्यं तद् अकृतकं दृष्टं यथाकाशादिः कृतकश् च शब्द इति । वैधर्म्यवान् प्रयोगः ॥
89. उक्ताः साधनाभासा दूषनाभसाः ॥
90. प्रत्यक्षं कीदृशम् । प्रत्यक्षं कल्पनापोढम् अभ्रान्तम् । प्रतिगतम् आश्रितम् अक्षं यद् विज्ञानं तत् प्रत्यक्षम् । पञ्चेन्द्रियाश्रयाणि ज्ञानानीति यावत् । अत्यादयः क्रान्ताद्यर्थे द्वितिययेति समासेन प्रत्यक्षशब्दो वाच्यलिङ्गः सिद्धः । प्रत्यक्षो बोधः प्रत्यक्षा बुद्धिः । प्रत्यक्षं ज्ञानम् इत्य् उपपन्नं भवति ॥
91. चक्षुःश्रोत्रघ्राणजिह्वाकायाख्यानि पञ्चेन्द्रियाणि तदाश्रितानि पञ्च ज्ञानानि प्रमाणानि । तद्ग्राह्या विषया रूपशब्दगन्धरसस्पर्शाख्याः प्रमेयाणि पञ्चैव ॥
92. तच् च प्रत्यक्षं नामजात्यादिकल्पनारहितं निर्विकल्पकम् अभ्रान्तं च यदि भवति । तदा प्रमाणम् उच्यते । दर्शितस्यार्थस्याविसंवादनात् ॥
93. तत्र नामकल्पना । देवदत्तो ऽयम् इति यद् ज्ञानम् । जातिकल्पना गौर् इयम् इति ज्ञानम् । विशेषणविशेष्यम् ( ह्तु 273 ) इति कल्पना नीलोत्पलम् इति ज्ञानं । अन्यद् अपि सविकैपकं ज्ञानं प्रत्यक्षाभासः । भ्रान्तं चार्थे ऽपि तैमिरिकस्य द्विचन्द्रज्ञानं । शुक्तिकायां रजतज्ञानं स्थाणुर् अयं पुरुषो वेति ज्ञानम् । अन्यद् अपि ज्ञानं प्रत्यक्षाभासः प्रदर्शितार्थाप्रापकत्वात् ॥
94. तत्र त्रिविधं प्रत्यक्षं । व्यवहारम् अपेक्ष्य इन्द्रियज्ञानम् । सर्वचित्तचैत्तानां स्वरूपसंवेदनं स्वसंवेदनम् । भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥
95. तस्य विषयः स्वलक्षणम् अर्थक्रियासमर्थं तु स्वलक्षणम् उच्यते । सामान्यं तु नार्थक्रियासमर्थम् ।
96. तद् एव च प्रत्यक्षं प्रमाणम् । प्रमाणम् अर्थप्रतीतिरूपं फलं च तादृशम् एव । न प्रमाणफलयोर् भेदः कश्चिद् अस्ति ॥
97. अनुमानं द्विधा स्वार्थं परार्थं च ।
98. तत्र स्वार्थं तावत् । गृहीते च पक्षधर्मे स्मृते च साध्यसाधनभावे पश्चात् प्रतिपत्ता यथार्थं प्रतिपद्यते येन तत् स्वार्थम् अनुमानम् ।
99. पक्षधर्मश् च त्रिविध एव भवति । कार्यं स्वभावो ऽनुपलम्भश् चेति ।
100. सिद्धे हि कार्यकारणभावे कार्यं हेतुर् द्रष्टव्यः । यथा यत्र धूमस् तत्राग्निः । यथा महानसादौ । अस्ति चेह धूम इति [ असत्य् अग्नौ न भवत्य् एव धूमो यथा सजलप्रदेशे । अस्ति चेह धूम इति ।
101. स्वभावहेतुः । वृक्षो ऽयं शिंशपात्वाद् इति । पूर्वप्रवर्तितशिंशपाव्यवहारवत् । असति वृक्षत्वे न भवत्य् एव शिंशपात्वम् । यथा स्थण्डिलप्रदेशे । अत्रापि व्याप्यव्यापकभावे निश्चिते सति व्याप्यो हेतुर् द्रष्टव्यः ॥
102. अनुपलम्भहेतुर् यथा । नात्र घट उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशविषाणादिवत् । अत्रापि दृष्यानुपलम्भो दृष्याभवेन व्याप्तो यदा निश्चितस् तदायं हेतुर् गमकः ॥
103. अनुमानाभासः कीदृशः । पूर्ववत् । शेषवत् । सामान्यतोदृष्टं चेति परैः कल्पितम् अनुमानं सर्वम् अनुमानाभासः ॥ तेषु तादात्म्यतदुत्पत्तिलक्षणस्य प्रतिबन्धाभावात् [ सिद्धे सत्य् एव हि कार्यकारणभावे व्याप्यव्यापकभावे च साध्यसाधनभावो नान्यथा व्यभिचारसंभवात् ॥
104. यथा वृष्टिमान् अयं मेघो गम्भीरध्वनत्वाद् इति । गम्भीरध्वनवतो ऽपि मेघस्य वृष्टिविघातसंभवात् ॥
105. यथोपरि वृष्टो देवो नदीपूरदर्शनात् बन्धभङ्गादिनापि नदीपूरस्य दर्शणात् ॥
106. यथा पक्वा एते तण्डुला एकस्थाल्यन्तर्गतत्वाद् दृष्टतण्डुलवत् ॥
107. पक्वान्य् एतान्य् फलानि एकशाखप्रबन्धात् । उपयुक्तफलवत् । अत्र भूयो दर्शने ऽपि साध्यसाधनयोर् व्यभिचारसंभव एव ॥
108. यथा यत् पार्थिवं तत् सर्वं लोहलेख्यं दृष्टम् । यथा काष्ठादि) । वज्रम् अपि पार्थिवं ॥
109. यः प्राणी स सर्वः सग्रीवः । यथा करभादिः कुलीरो ऽपि प्राणी ॥

110. यथा यद् द्रवद् द्रव्यम् आर्द्रकृत् तद् दृष्टं यथोदकं । पारदम् अपि द्रवद् द्रव्यम् इति । एवम् अन्ये ऽप्य् अनुमानाभासा द्रष्टव्या इति ॥
हेतुतत्त्वोपदेशः समाप्तः ॥ कृतिर् इयं पण्डितराजजितारिपादानाम् ॥

मूल पाठ: Hetutattvopadeśa · Edition: G. Tucci: Minor Buddhist Texts, part I, Roma 1956 (Serie Orientale Roma, 9), pp. 261-274. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc