भाषा

ENहिગુ
ग्रंथ पाठ

हेतुतत्त्वोपदेश (अन्य संस्करण) · भाग 13

हेतुतत्त्वोपदेशः
मञ्जुश्रीकुमारभूताय नमः
1. साधनं दूषणं चैव साभासं परसंविदे ।
प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥
अयं शास्त्रार्थरांग्रहः ॥
2. वादिना स्वयं साधयितुमिष्टो ऽर्थः साध्यः । येन साध्यते तत्साधनम् ॥
3. हेतोस्त्रैरूप्यमुच्यते । किं पुनस्तत्त्रैरूप्यम् । पक्षे सत्त्वमेव प्रथमं रूपम् । सपक्ष एव सत्त्वमिति द्वितीयं रूपम् । विपक्षे च असत्त्वमेव निश्चितमिति तृतीयं रूपम् ॥
4. तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषणेन विशिष्टः स्वयं साधयितुमिष्टः प्रत्यक्षाद्यविरुद्धः । यथा धर्मी शब्दो ऽनित्य इति विशेषणेन विशिष्टः साध्यः । कृतकत्वादिति हेतुर्भवतीति ॥
5. कः पुनः सपक्षः । साध्यधर्मसामान्येन समानः सपक्षः । यथा घटादिरिति ॥
6. को हेतोर्विपक्षः । यत्र साध्याभावाद्धेत्वभावो निश्चयेन प्रदर्श्यते । यथाकाशादिः ॥
7. त्रिरूपहेतुप्रदर्शनेन परावगमनिमित्तं कृतः प्रयोगः परार्थानुमानभित्युच्यते । यथा शब्दो ऽनित्य इति पक्षवचनम् । कृतकत्वादिति हेतुवचनम् । घटादिवदिति सपक्षवचनम् । आकाशादिवदिति विपक्षवचनम् ॥
8. स पुनर्द्विविधो दृश्यते । साधर्म्येण वैधर्म्येण च ॥
9. तत्र साधर्म्येण तावत् । यत्कृतकं तत्सर्वमनित्यं दृष्टम् । यथ घटादिः । शब्दो ऽपि कृतक इति ॥
10. वैधर्म्येणाप्यनित्यत्वाभावे कृतकत्वाभावः । यथाकाशादिः । शब्दस्तु कृतक इति ॥
11. कः पुनः पक्षाभासः । पक्षाभासो वस्तुतो न पक्षः । प्रत्यक्षादिविरोधादयं पक्षाभासः ॥
12. यथा धूमादिर्धर्मी बुद्धिमद्धेतूत्पन्नः साध्य इति प्रत्यक्षविरुद्धः पक्षाभासः । प्रत्यक्षतो वह्नेर्धूमोत्पत्तिदर्शनात् ॥
13. अनुमानविरुद्धो यथा । वेदवचनं धर्म्यपौरुषेयमिति साध्ये शब्दः प्रयत्नानन्तरीयक इति पौरुषेयत्वस्य सिद्धेः ॥
14. स्ववचनविरुद्धो यथा । अनुमानं न प्रमाणमिति । परावगमाय वाक्यप्रयोगः परार्थानुमानमिति निर्देशात् ॥
15. लोकविरुद्धो यथा । शुचि नरशिरः कपालं प्राण्यङ्गत्वाच् छङ्खशुक्तिवदिति ॥
16. प्रतीतिविरुद्धो यथा । यद् यावत्कालस्थायि तत् अनित्यम् । यद्यावत्कालस्थायि तत् सर्वं नित्यमिति लौकिकप्रतीतेः ॥
17. अप्रसिद्धविशेषणो यथा । वैशेषिकस्य सांख्यं प्रति शब्दो विनाशीति ॥
18. अप्रसिद्धविशेष्यो यथा । सांख्यस्य बौद्धं प्रत्यात्मा चेतन इति साध्यम् ॥
19. अप्रसिद्धोभयो यथा । वैशेषिकस्य बौद्धं प्रति समवायिकारणमात्मेति कायः स्थिरस्वभाव इति वा ॥
20. पक्षाभासा उक्ताः ॥
21. कीदृशो हेत्वाभासः । यो हेतुरिवाभासते न तु हेतुत्वेन सिध्यति ॥
22. हेत्वाभासस्त्रिविधः । असिद्धो विरुद्धो ऽनैकान्तिकश्च ॥
23. तत्र पक्षासिद्धेरसिद्ध इति हेत्वाभासः ॥
24. पक्षे सपक्षे चासन् विपक्षे च सन् यः स विरुद्ध इति हेत्वाभासः साध्यविपरीतसिद्धेः ॥
25. सपक्षविपक्षयोरुभयोर्भावे ऽभावे वा संशये वासिद्धप्रतिबन्धो यो हेतुः सो ऽनैकान्तिको हेत्वाभासः । वादिप्रतिवादिभ्यां साधयितुमिष्टस्यैकान्तेनासिद्धेः ॥
26. उभयासिद्धो यथा । शब्दस्यानित्यत्वे साध्ये हेतुश्चाक्षुषत्वं वादिप्रतिवादिनोरसिद्ध इति ॥
27. चेतनस्तरुरिति साध्ये सर्वत्वगपहरणे मरणादिति हेतुः प्रतिवादिनं बौद्धं प्रत्यसिद्ध इति प्रतिवाद्यसिद्धश्चित्तादिनिरोधस्य बौद्धस्येष्टत्वात् ॥
28. अचेतनाः सुखादय इति साध्ये उत्पत्तिमत्त्वादिति हेतुः सांख्यस्य स्वयं वादिनो ऽसिद्ध इति वाद्यसिद्धः ॥
29. वैशेषिकेण प्रतिवादिनं बौद्धं प्रति पृथिव्यादिर्धर्मी कार्य इति साध्य एकैकक्षणवदन्यान्योत्पादादिति वादिनः स्वयमसिद्धः । सिद्धे ऽप्युत्पाद एकैकक्षणवदन्यान्योत्पादासिद्धेः ॥
30. पक्षैकदेशासिद्धो यथा । चेतनास्तरवः स्वापादिति हेतुश्चन्दने वादिनः स्वयं पक्षैकदेशे ऽसिद्धः । न हि सर्वे वृक्षा रात्रौ पत्रसंकोचभाजः ॥
31. एवमेव क्षित्यादिर्घर्मी बुद्धिमज्जात इति साध्ये कार्यमिति हेतुर्बौद्धं प्रत्यसिद्धः प्रत्यक्षानुपलम्भाभ्यां कार्यकारणसम्बन्धसिद्धस्वरूपेण क्षित्यादीनां सिद्धेः । वासभोजनादिसिद्धिरिति चेत्तदा पक्षैकदेशासिद्धिः ॥
32. संदिग्धासिद्धो यथा । यदीह धूमः स्यादत्र वह्निः स्यादिति साध्ये हेत्वनिश्चयात् ॥
33. संदिग्धधर्म्यसिद्धो यथा । एष्वनेकेषु निकुञ्जेषु कस्मिंश्चिन् निकुञ्जे मयूर इति साध्ये केकायितादिति हेतुरिति ॥
34. धर्म्यसिद्धावप्यसिद्धो यथा । धर्म्यात्मा सर्वव्यापीति साध्ये सर्वत्रोपलभ्यमानगुणत्वादिति हेतुरिति ॥
35. नवैते ऽसिद्धा हेत्वाभासाः ॥
36. कीदृशः पुनरनैकान्तिको हेत्वाभासः । उच्यते ।

37. यथा शब्दस्य नित्यत्वादिके धर्मे साध्ये प्रमेयत्वादिति हेतुः सपक्षविपक्षयोः सर्वत्र वर्त्तमानः साधारणो ऽनैकान्तिक इति ॥
38. एवं शब्दो नित्य इति साध्ये श्रावणत्वादिति हेतुः सपक्षे विपक्षे चावृत्तेरसाधारणो ऽनैकान्तिकः ॥
39. एवं शब्दस्याप्रयत्नानन्तरीयकत्वे साध्ये ऽनित्यत्वादिति हेतुः सपक्षैकदेशवृत्ति र्विपक्षव्याप्यनैकान्तिकः । अप्रयत्नानन्तरीयकस्य शब्दस्य सपक्षः विद्युदाकाशादिः । तत्र सपक्षैकदेशे विद्युदादावनित्यत्वं वर्त्तते । नाकाशादौ । विपक्षाः प्रयत्नानन्तरीयकादयः सर्वे । तेषु सर्वेष्वस्ति ॥
40. एवं शब्दस्य प्रयत्नानन्तीयकत्वे साध्ये ऽनित्यत्वादिति हेतु र्घटादौ सर्वत्र विद्यते । अप्रयत्नानन्तरीयको विपक्षः पुन र्विद्युदाकाशादिः । तत्रैकदेशे विद्युदादौ वर्त्तते नाकाशादौ । तस्मादयं विपक्षैकदेशवृत्तिः सपक्षव्याप्यनैकान्तिको हेतुः ॥
41. उभयपक्षैकदेशवृत्तिरनैकान्तिको यथा । धर्मी शब्दो नित्य इति साध्ये ऽमूर्त्तत्वादिति हेतुः । परमाण्वाकाशादिः सपक्षः । तत्र सपक्षैकदेश आकाशे ऽमूर्त्तत्वं विद्यते न परमाणौ परमाणूनां मूर्त्तत्वात् । घटसुखादिरनित्यो विपक्षः । तदेकदेशे सुखादौ विद्यते न घटादाविति ॥
42. एवं संदिग्धविपक्षव्यावृत्तिः सपक्षव्याप्यनैकान्तिको हेतुर्यथा । कपिलादि र्धर्म्यसर्वज्ञ इति साध्ये वक्तृत्वादिति हेतू रथ्यापुरुषादौ सपक्षे विद्यते विपक्षे सर्वज्ञे संदिग्धः । सर्वज्ञस्यातीन्द्रियत्वाद्वक्तृत्वमस्ति न वेति संदेहः ॥
43. एवं संदिग्धसपक्षवृत्तिर्विपक्षव्याप्यनैकान्तिको हेतुर्यथा । ऋषभवर्धमानादि र्धर्मी सर्वज्ञ इति साध्ये केवलशास्त्रकर्त्तृत्वादिति हेतुः सपक्षे सर्वज्ञे संदिग्धः । सर्वज्ञस्यातीन्द्रियत्वात् केवलशास्त्रकर्त्तरि संदेहः । विपक्षे...........आदावसर्वज्ञे ऽस्तीति ॥
44. अन्वयव्यतिरेकयोः संदेहे ऽनैकान्तिको हेतुर्यथा । जीवच्छरीरं सात्मकं प्राणादिमत्वादिति हेतुः । जीवच्छरीरसम्बन्धी प्राणादिः सात्मके निरात्मके वा वर्त्तमानो व्यावृत्तो वेत्यनिश्चयः ॥
45. ततः केवलान्वयी हेतुर्दृष्टान्ताभावात् ॥
46. एवं द्वितीयो ऽपि केवलव्यतिरेकी । जीवच्छरीरमिदं न निरात्मकं प्राणाद्यभावप्रसङ्गादिति । दृष्टान्ताभावादन्वयस्यानिश्चयो व्यतिरेकस्य च निश्चय इत्ययं संदिग्धो हेतुः ॥
47. एते दशानैकान्तिकहेत्वाभासा उदाहृताः ॥
48. विरुद्धा हेत्वाभासाः कीदृशाः ॥
49. यथा धर्मी शब्दो नित्य इति साध्यधर्मः । कृतकत्वादाकाशादिवदित्ययं हेतुर्घटादौ विपक्ष एव विद्यते न सपक्षे ॥
50. एवं धर्मी शब्दो नित्य इति साध्ये प्रयत्नानन्तरीयकत्वादिति हेतुः सपक्ष आकाशादौ नास्ति घटादावेकदेशे ऽस्ति विद्युदादौ नास्तीति । इमौ द्वौ हेतू धर्मस्वरूपविपरीतसाधनौ ॥
51. धर्मिस्वरूपविपरीतसाधनो द्विविधो यथा । एते चक्षुरादयः परार्था इति साध्यधर्मः संघातत्वादिति हेतुः शयनासनादिवदिति सपक्षनिर्देशः । अयं हेतुर्यथा चक्षुरादेः पारार्थ्यं साधयति तथा संहतत्वमपि परस्य साधयति । शयनासनादेः संहतदेवदत्तादिपरार्थत्वदर्शनात् ॥
52. धर्मिस्वरूपविपरीतसाधनो यथा । धर्म्यादिर्बुद्धिमतः कारणादुत्पद्यत इति साध्ये साश्रत्वादिति हेतुः । घटादिवदिति सपक्षनिर्देशः । यथानेन हेतुना बुद्धिमद्धेतुतो जातत्वं साध्यते तथा बुद्धिमत्कर्त्तुः साश्रयत्वमपि साध्यते ॥
53. धर्मिविशेषविपरीतसाधनो यथा । वैशेषिकेण योगाचारं प्रति धर्म्यात्मा चेतना इति साध्ये विज्ञानाधिष्ठानादिति हेतु र्यथाचेतनमात्मानं चेतनं साधयति तथायं हेतुरनित्यमपि साधयति विज्ञानस्यानित्यत्वात् ॥
54. पञ्चभिरेतैर्विरुद्धा हेत्वाभासाः प्रदर्शिताः ॥
55. विरुद्धाव्यभिचारी कुत्रापि हेतुदोषो न भवतीति तस्योदाहरणोपन्यासो न युक्तः । उदाहरणमुच्यते चेत् । यत्सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपदभिसम्बध्यते तत्सर्वगतम् । यथाकाशम् । सर्वदेशावस्थितैः स्वसम्बन्धिभिर्युगपत् सामान्यमभिसम्बद्धमिति पैलुकस्य स्वभावहेतुप्रयोगः । द्वितीयो ऽपि प्रयोगः पैठरस्य । यदुपलब्धिलक्षणप्राप्तं सद्यत्र नोपलभ्यते न तत् तत्र अस्ति । तद्यथा कस्मिंश्चिद्देशे ऽविद्यमानो घटः । नोपलभ्यते च उपलब्धिलक्षणप्राप्तं सामान्यं व्यक्त्यन्तरालेष्विति । अयमनुपलम्भहेतुः पूर्वोक्तश्च स्वभावहेतुः । अनयोः परस्परविरोधेन संशयजनकत्वात् । सपक्षादन्यो दृष्टान्तो न कश्चिदस्तीति सपक्ष एवायं साधर्म्येण दृष्टान्तो भवति ।
56. तत्र कीदृशा दृष्टान्ताभासाः ॥
57. साधर्म्येण तावत् ॥
58. नित्यः शब्दो ऽमूर्त्तत्वात्कर्मवदिति साध्यविकलः कर्मणो ऽनित्यत्वात् ॥
59. नित्यः शब्दो ऽमूर्त्तत्वात्परमाणुवदिति साधनविकलः परमाणोर्मूर्त्तत्वात् ॥
60. नित्यः शब्दो ऽमूर्त्तत्वाद्धटवदिति साध्य साधन विकलः ॥
61. एवं संदिग्धसाध्यधर्मो दृष्टान्ताभासो यथा । धर्मी पुरुषः कश्चिद्रागादिमान् वचनाद्रथ्यापुरुषवदिति । रथ्यापुरुषदृष्टान्ते रागादिमत्त्वं संदिग्धम् । परचित्तानुमानस्य दुष्करत्वात् ॥
62. संदिग्धसाधनधर्मो यथा । मरणधर्मा पुरुष इति साध्ये रागादिमत्त्वादिति हेतू रथ्यापुरुषदृष्टान्ते संदिग्धः । वीतरागस्यापि सरागवच्चलत्वात् ॥
63. संदिग्धोभयधर्मो दृष्टान्ताभासो यथा । धर्मी कश्चित् पुरुषः अ सर्वज्ञ इति साध्ये रागादिमत्त्वादिति हेतुः । रथ्यापुरुषदृष्टान्ते साध्यं साधनं च संदिग्धम् ॥
64. अनन्वयो ऽप्रदर्शितान्वयो विपरीतान्वयश्च दृष्टान्ताभासाः ॥
65. तत्रानन्वयो यथा । यो वक्ता स रागादिमान् रथ्यापुरुषवत् । वक्तृत्वरागादिमत्त्वयोः कार्यकारणभावप्रतिषेधात् ॥
66. अप्रदर्शितान्वयो यथा । अनित्यः शब्दः कृतकत्वादिति । अत्रान्वयव्याप्तिरप्रदर्शिता । वक्तृदोषादयं दृष्टान्ताभासः ॥
67. विपरीतान्वयो यथा । यदनित्यं तत्कृतकमिति । घटादिवदिति । अत्रानित्यत्वं साध्यम् । साध्येन साधनस्य व्याप्तिर्दर्शनीया साधनेन तु साध्यस्य व्याप्तिर्दर्शिता । ततो विपरीतान्वयो दृष्टान्ताभासः ॥
68. साधर्म्येणैते नव दृष्टान्ताभासा उक्ताः ॥
69. वैधर्म्येण दृष्टान्ताभासा उच्यन्ते ॥
70. साध्याव्यावृत्तो दृष्टान्ताभासो यथा । नित्यः शब्दो ऽमूर्त्तत्वात्परमाणुवदिति । इह परमाणुर्वैधर्म्यदृष्टान्त इति साधनधर्मो ऽमूर्त्तत्वं व्यावृत्तं मूर्त्तत्वात्परमाणुनाम् । साध्यधर्मो नित्यत्वं न व्यावृत्तं नित्यत्वात्परमाणुनामिति ॥
71. साधनाव्यावृत्तो यथा । नित्यः शब्दो ऽमूर्त्तत्वात् कर्मवदिति । इह साध्यधर्मो नित्यत्वं व्यावृत्तं कर्मणो ऽनित्यत्वात् साधनधर्मो न व्यावृत्तो ऽमूर्त्तत्वात्कर्मणः ॥
72. उभयाव्यावृत्तो यथा । नित्यः शब्दो ऽमूर्त्तत्वादाकाशादिवदिति । अत्राकाशादेर्वैधर्म्यदृष्टान्तात् साध्यं साधनं च न व्यावृत्तम् ॥
73. तथा संदिग्धसाध्यव्यतिरेकः संदिग्धसाधनव्यतिरेकः संदिग्धोभयव्यतिरेकश्च ॥

74. संदिग्धसाध्यव्यतिरेको दृष्टान्ताभासो यथा । असर्वज्ञाः कपिलादयो ऽविद्यमानसर्वज्ञतालिङ्गभूतकेवलशास्त्रकर्त्तृत्वादिति । अत्र वैधर्म्येणोदाहरणमुच्यते । यः सर्वज्ञः स ज्योतिर्ज्ञानादिकमुपदिष्टवान् । तद्यथा ऋषभवर्द्धमानादिरिति । इह वैधर्म्योदाहरण उक्त ऋषभवर्धमानादेरसर्वज्ञत्वं व्यावृत्तमव्यावृत्तं वेति संदेहः ॥
75. संदिग्धसाधनव्यतिरेको यथा । इह त्रयीविदा ब्राह्मणेन कपिलकणादादिः पुरुषो न ग्राह्यवचनो रागादिमत्त्वादिति । अत्र वैधर्म्योदाहरणमुच्यते यो ग्राह्यवचनो न स रागादिमान् यथा गोतमादयः धर्मशास्त्राणां प्रणेतार इति । गोतमादिभ्यो रागादिमत्वस्य साधन धर्मस्य व्यावृत्तिः संदिग्धा ॥
76. संदिग्धोभयव्यतिरेको यथा । अवीतरागाः कपिलादयः परिग्रहाग्रहयोगादिति । अत्र वैधर्म्येणोदाहरणमुच्यते । यो वीतरागः स न परिग्रहाग्रहवान् यथा ऋषभवर्द्धेमानादिरिति । ऋषभादेः वै धर्म्यदृष्टान्ताद् वीतरागत्वपरिग्रहाग्रहयोः साध्यसाधनधर्मयोर्व्यतिरेको ऽव्यतिरेको वेति संदेहः । प्रागलब्धस्य वस्तुनो लाभः परिग्रहः लब्धस्यापरिवर्जनमाग्रहः । उभयोरपि तयो रृषभे सम्भवः । छत्रचामरमहादुन्दुभीनां परिग्रहाग्रहश्रवणात् ।

77. अव्यतिरेको वैधर्म्यदृष्टान्ताभासो ऽप्रदर्शितव्यतिरेको विपरीतव्यतिरेकश्चेति ॥
78. अव्यतिरेको यथा । कपिलादिरवीतरागो वक्तृत्वात् । यत्रावीतरागत्वं नास्ति न स वक्ता यथोपलखण्ड इति । यद्यपीदमुपलखण्डाद्व्यावृत्तं तथापि सर्वस्माद्वीतरागाद्वक्तृत्वं न व्यावृत्तं सन्देहात् ॥
79. अप्रदर्शितव्यतिरेको यथा । अनित्यः शब्दः कृतकत्वादाकाशादिवदिति । परमार्थतः सम्यगुदाहृतो ऽपि वक्तुरपराधाद्दृष्टान्ताभासः । परार्थानुमाने वक्तुर्गुणदोषयोर्द्वयो र्विचारणीयत्वात् । एवं यन्नित्यं तत्सर्वं नियतमकृतकं दृश्यते यथाकाशादिरिति वाग्विभागो वक्त्रा कर्त्तव्यः । पूर्ववर्त्तिनो व्यतिरेकस्याप्रदर्शनादप्रदर्शितव्यतिरेकः ॥
80. विपरीतव्यतिरेको यथा । यदकृतकं तन्नित्यं दृष्टमिति । इह तु साध्यविपरीते व्याप्तिर्दर्शनीया । तेन यद्यत्साध्यविपरीतं तत्तन्नियतं साधनविपरीतं भवेत् ॥
81. अष्टादश दृष्टान्ताभासा उक्ताः ॥
82. एभिरेव पक्षहेतुदृष्टान्ताभासैर्वादिना साधनस्याव्युत्पत्तेः प्रति वादी दूषणमुपन्यस्यति । तस्य दूषणस्य पूर्वपक्षवादिनो ऽभीष्टार्थसिद्धौ प्रतिबन्धकत्वात्साधनन्यूनतोद्भावनमेव दूषणमुच्यते । तस्मात्साधनवद्दूषणलक्षणविभगाः पृथग् नोक्तः ॥
83. दूषणाभासो दूषणमेवेति स प्रतिवादिनोच्यते । यदा पूर्वपक्षवादिनो ऽभूतं दोषमुद्भावयति तदा स दूषणाभासो जातिरिति । अभूतदोषोद्भावनं विपरीतोत्तरं जातिरित्युच्यते । यथा पक्षदोषाभावे पक्षदोषोद्भावनं हेतुदोषाभावे हेतुदोषोद्भावनं दृष्टान्तदोषाभावे च दृष्टान्तदोषोद्भावनं दूषणाभास इति ॥
84. तत्राहुरन्ये । प्रतिज्ञा हेतुः उदाहरणम् उपनयः निगमनं चेति पञ्चावयवं साधनमिति । यथानित्यः शब्दः इति प्रतिज्ञा । कृतकत्वादिति हेतुः । यत्कृतकं सर्वं तदनित्यं दृष्टं यथा घटादिरित्युदाहरणम् । तथा शब्दो ऽपि कृतक इति उपनयः । तस्मादनित्य इति निगमनम् । दृष्टान्तप्रतीतसामर्थ्यस्य हेतोर्धर्मिण्युपसंहार उपनय इति । प्रतिज्ञाया पुनः श्रवणं निगमनमित्युच्यते । मैवमन्वयो व्यतिरेकः पक्षधर्मश्चेति त्रयेणैव साध्यार्थसिद्धेः ॥
85. एवं वादकाले व्याप्तिपूर्वक एव प्रयोगः । यत्कृतकं सर्वं तदनित्यं दृष्टं यथा घटादिरिति दृष्टान्ते साध्यसाधनयोर्व्याप्तिप्रतिपादनमन्वय इत्युच्यते ॥
86. विपक्षे पुनः साध्यव्यावृत्त्या साधनव्यावृत्तिर्व्यतिरेक इत्युच्यते । यथानित्यत्वाभावे कृतकत्वाभावः स्याद्यथाकाशादिः ॥
87. शब्दो ऽपि कृतक इति पक्षधर्म उच्यते । प्रतिज्ञा निगमनं च सर्वथा न वक्तव्ये ॥
88. तथा साधर्म्यप्रयोगे ऽन्वयवचनसामर्थ्याद्व्यतिरेकावगमादयं पृथग् नोच्यते । यथा यत्कृतकं सर्वं तदनित्यं दृष्टं यथा घटादिः शब्दो ऽपि कृतक इति साधर्म्यप्रयोगः । वैधर्म्यप्रयोगे व्यतिरेकवचनसामर्थ्यादन्वयप्रतीतिः । अत्र पुनरन्वयो न वाच्यः । यन्नित्यं तदकृतकं दृष्टं यथाकाशादिः शब्दस्तु कृतक इति वैधर्म्यप्रयोगः ॥
89. साधनाभासो दूषणाभासश्चोक्तः ॥
90. किं नाम प्रत्यक्षमिति । प्रत्यक्षं कल्पनापोढमभ्रान्तम् । अक्षं प्रतिगतमाश्रितं यद्विज्ञानं तत्प्रत्यक्षम् । पञ्चेन्द्रियाश्रितं ज्ञानमित्यर्थः । अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासेनाभिधेयलिङ्गः प्रत्यक्षशब्दः सिद्धः । प्रत्यक्षो ऽवबोधः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानं चेति युक्तं भवति ॥
91. चक्षुः श्रोत्रं नासिका जिह्वा कायश्चेति पञ्चेन्द्रियाणि । तदाश्रितस्य ज्ञानस्य पञ्च ग्राह्यविषया रूपं शब्दो गन्धो रसः स्प्रष्टव्यञ्चेति पञ्चैव प्रमेयाणि ॥
92. तच्च प्रत्यक्षं नामजात्यादिकल्पनापोढं निर्विकल्पं वा यदि पुनरभ्रान्तं प्रमाणमुच्यते प्रदर्शितार्थे ऽविसंवादात् ।
93. तत्र नामविकल्पः देवदत्तो ऽयमिति ज्ञानम् । जातिविकल्पो ऽयं गौरिति ज्ञानम् । विशेष्यविशेषणविकल्पो नीलमुत्पलमिति । अन्यो ऽपि सविकल्पः प्रत्यक्षाभासः । विद्यमाने ऽर्थे विभ्रमस्तैमिरिकस्य द्विचन्द्रज्ञानम् । शुक्तौ रजतज्ञानम् । अयं स्थाणुर्वा पुरुषो वेति ज्ञानं च । ज्ञानान्तरमपि प्रत्यक्षाभासः प्रदर्शितार्थाप्रापकत्वात् ॥
94. तत्र प्रत्यक्षं त्रिविधम् । व्यावहारिकमिन्द्रियज्ञानं सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनं भूतार्थभावनास्फुटप्रकर्षपर्यन्तजं योगिज्ञानं चेति ॥
95. तस्य विषयः स्वलक्षणम् । अर्थक्रियासमर्थं स्वलक्षणम् । न सामान्यमर्थक्रियासमर्थम् ।
96. तदेव च प्रत्यक्षं प्रमाणमर्थप्रतीतिरूपत्वात् फलमपि । तथात्वेन च प्रमाणफलयोर्न मनागपि भेदः ॥
97. द्विविधमनुमानं स्वार्थं परार्थं च ॥
98. तत्र स्वार्थं तावत् पक्षधर्मग्रहणात् साध्यसाधनसम्बन्धस्मृतेः पश्चात् प्रतिपत्तुरर्थस्य यथावद्या प्रतीतिस्तदेव स्वार्थानुमानम् ॥
99. पक्षधर्मस्त्रिप्रकार एव कार्यं स्वभावो ऽनुपलब्धिश्च ॥
100. कार्यकारणसिद्धौ कार्यं हेतुरिति । यथा यत्न धूमः तत्र अग्निर्यथा महानसादौ । अत्रपि धूमसद्भावादिति । अग्न्यभावे धूमाभावो यथा सजले देश इति अत्र तु धूमादिति ॥
101. स्वभावो हेतुः । वृक्षो ऽयं शिंशपात्वात् पूर्वव्यवहारापन्नशिंशपावत् । वृक्षाभावे शिंशपाभावो यथा वृक्षरहिते प्रदेशे । इह पुनस्तेन व्यापकेन रूपेण व्याप्यो हेतुः ॥
102. अनुपलब्धिहेतुः । अत्र घटो नास्तुपलब्धिलक्षणप्राप्तस्यानुपलब्धेः शशविषाणादिवत् । अत्रापि यदोपलब्धियोग्यानुपलब्धावुपलब्धियोग्याभावव्याप्तिर्निश्चीयते तदायं हेतुस्तत्प्रतिपादको भवति ॥
103. कीदृशा अनुमानाभासाः । पूर्ववच्छेषवत्सामान्यतोदृष्टञ्च परकल्पितानि सर्वाणि अनुमानान्यनुमानाभासाः । तेषां तादात्म्यदुत्पत्तिलक्षणेन प्रतिबन्धाभावात् । हेतुफलसम्बन्धे व्याप्यव्यापकसम्बन्धे च सिद्धे साध्यसाधनसम्बन्धो भवति नान्यथा विसंवादकत्वात् ॥
104. यथा मेघो ऽयं वृष्टिमान् दृश्यते । गम्भीरनिर्घोषवत्त्वादित्यत्र गम्भीरघोषवतो मेघाद्वृष्ट्यनुद्भवसम्भवात् ।
105. यथोपरिष्टाद्वृष्टं नदीवृद्धिदर्शनादिति । नदीनिरोधादपि नदीवृद्धिदर्शनात् ॥
106. एवमिमे तण्डुलाः सिद्धा एकपात्रमध्यवर्तित्वाद् दृष्टतण्डुलवत् ॥
107. इमानि फलानि पक्वान्येकशाखातो जातत्वाद्भुक्तफलवदित्यत्र प्रायेणैवं दृष्टे ऽपि साध्यसाधनयोर्विसंवाद एव ॥
108. यत्पार्थिवं तत्सर्वं लोहलेख्यं दृश्यते यथा वृक्षादय इति । अत्र वज्रो ऽपि पार्थिवः ॥
109. ये प्राणिनस्ते सर्वे सकन्धरा यथोष्ट्रादय इति । अत्र कुलीरो ऽपि प्राणी ॥
110. यद्द्रवद्रव्यं तदार्द्रं दृश्यते यथा जलमिति । अत्र रसो ऽपि द्रवद्रव्यम् ॥
111. एवमन्ये ऽप्यनुमानाभासा दृश्यन्ते ॥
इति पण्डितप्रवरजितारिपादकृतो हेतुतत्त्वोपदेशः सम्पूर्णः ।

भारतीयोपाध्यायेन पण्डितेन कुमारकलसेन भाषान्तरकारकेण भिक्षुणा शाक्यप्रभेण च भोटभाषायां विपरिणमय्य संशोध्य च विन्यस्तः ॥

मूल पाठ: Hetutattvopadeśa · Edition: Durgacharan Chattopadhyaya: Hetutattvopadeśa by Jitāri : reconstructed Sanskrit text with the Tibetan version. Calcutta : University of Calcutta 1939 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc