भाषा

ENहिગુ
ग्रंथ पाठ

हेतुबिन्दुटीका · अध्याय 1

1.1

श्रीमदर्चटविरचिता
॥ हेतुबिन्दुटीका ॥
॥ नमः सर्वज्ञाय ॥
[जिनमनस्कारेण मङ्गलम् ।]
यः सञ्जातमहाकृपो व्यसनिनं त्रातुं समग्रं जनम्,
पुण्यज्ञानमयं प्रचित्य विपुलं हेतुं विधूतश्रमः ।
कृत्स्नज्ञेयविसर्पि[निर्मलतरप्रज्ञोद]याद्रिं श्रितो
लोके हार्द्दतमोपहो जिनरविर्मूर्ध्ना नमस्यामि तम्

1.2

[धर्मकीर्तिवचसां सरसतमत्वख्यापनम् ।]
वरं हि धार्मकीर्तेषु चर्वितेष्वपि चर्वणम् ।
निष्पीडितापि मृद्वी[का ननु स्वादं जहा]ति किम्?

1.3

[स्वलाघवं प्रख्याप्य ग्रन्थविवरणप्रतिज्ञा ।]
न्यायमार्गतुलारूढं जगदेकत्र यन्मतिः ।
जयेत् तस्य क्व गम्भीरा गिरो ऽहं जडधीः क्व च?

1.4

तथापि मन्दमतयः सन्ति मत्तो [ऽपि केचन ।
तेषां कृते] मयाप्येष हेतुबिन्दुर्विभज्यते

मूल पाठ: Hetubinduṭīkā · Edition: Pandit S. Sanghavi and Muni Shri Jinavijayaji. Hetubinduṭīkā of Bhaṭṭa Arcaṭa, with the sub-commentary entitled Āloka of Durveka Miśra. Baroda 1949. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc