हर्षचरित · भाग 110
बाण: हर्षचरित
प्रथम उच्छ्वासः
[1] नमस् तुङ्ग-शिरश्-चुम्बि-चन्द्र-चामर-चारवे ।
त्रैलोक्य-नगर्âरम्भ-मूल-स्तम्भाय शम्भवे ॥ 1.1 ॥
[2] हर-कण्ठ-ग्रह्âनन्द-मीलित्âक्षीं नमाम्य् उमाम् ।
काल-कूट-विष-स्पर्श-जात-मूर्च्छ्âगमाम् इव ॥ 1.2 ॥
नमः सर्व-विदे तस्मै व्यासाय कवि-वेधसे ।
चक्रे पुण्यं सरस्वत्या यो वर्षम् इव भारतम् ॥ 1.3 ॥
प्रायः कु-कवयो लोके राग्âधिष्ठित-दृष्टयः ।
कोकिला इव जायन्ते वाच्âलाः काम-कारिणः ॥ 1.4 ॥
[3] सन्ति श्वान इव्âसंख्या जाति-भाजो गृहे-गृहे ।
उत्पादका न बहवः कवयः शरभा इव ॥ 1.5 ॥
अन्य-वर्ण-परावृत्त्या बन्ध-चिह्न-निगूहनैः ।
अन्-आख्याताः सतां मध्ये कविश् चौरो विभाव्यते ॥ 1.6 ॥
श्लेष-प्रायम् उदीच्येषु प्रतीच्येष्व् अर्थ-मात्रकम् ।
उत्प्रेक्षा दाक्षिणात्येषु गौडेष्व् अक्षर-डम्बरम् ॥ 1.7 ॥
नवो ऽर्थो जातिर् अ-ग्राम्या श्लेषो ऽक्लिष्टः स्फुटो रसः ।
विकट्âक्षर-बन्धश् च कृत्स्नम् एकत्र दुष्करम् ॥ 1.8 ॥
किं कवेस् तस्य काव्येन सर्व-वृत्त्âन्त-गामिनी ।
[4] कथ्êव भारती यस्य न व्याप्नोति जगत्-त्रयम् ॥ 1.9 ॥
उच्छ्वास्âन्ते ऽप्य् अ-खिन्नास् ते येषां वक्त्रे सरस्वती ।
कथम् आख्यायिक्âकारा न ते वन्द्याः कव्îश्वराः ॥ 1.10 ॥
कवीनाम् अगलद् दर्पो नूनं वासवदत्तया ।
शक्त्य् एव पाण्डु-पुत्राणां गतया कर्ण-गोचरम् ॥ 1.11 ॥
पद-बन्ध्ôज्ज्वलो हारी कृत-वर्ण-क्रम-स्थितिः ।
भट्टार-हरिश्चन्द्रस्य गद्य-बन्धो नृप्âयते ॥ 1.12 ॥
अ-विनाशिनम् अ-ग्राम्यम् अकरोत् सातवाहनः ।
[5] विशुद्ध-जातिभिः कोशं रत्नैर् इव सुभाषितैः ॥ 1.13 ॥
कीर्तिः प्रवरसेनस्य प्रयाता कुमुद्ôज्ज्वला ।
सागरस्य परं पारं कपि-सेन्âइव सेतुना ॥ 1.14 ॥
सूत्र-धार-कृत्âरम्भैर् नाटकैर् बहु-भूमिकैः ।
स-पताकैर् यशो लेभे भासो देव-कुलैर् इव ॥ 1.15 ॥
निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु ।
प्रीतिर् मधुर-सान्द्रासु मञ्जरीष्व् इव जायते ॥ 1.16 ॥
समुद्दीपित-कन्दर्पा कृत-गौरी-प्रसाधना ।
[6] हर-लील्êव नो कस्य विस्मयाय बृहत्-कथा ॥ 1.17 ॥
आढ्यराज-कृत्ôत्साहैर् हृदय-स्थैः स्मृतैर् अपि ।
जिह्व्âन्तः कृष्यमाण्êव न कवित्वे प्रवर्तते ॥ 1.18 ॥
तथ्âपि नृ-पतेर् भक्त्या भीतो निर्वहण्âकुलः ।
करोम्य् आख्यायिक्âम्भो-धौ जिह्वा-प्लवन-चापलम् ॥ 1.19 ॥
सुख-प्रबोध-ललिता सुवर्ण-घटन्ôज्ज्वलैः ।
शब्दैर् आख्यायिका भाति शय्य्êव प्रतिपादकैः ॥ 1.20 ॥
जयति ज्वलत्-प्रताप-ज्वलन-प्राकार-कृत-जगद्-रक्षः ।
[7] सकल-प्रणयि-मनोरथ-सिद्धि-श्री-पर्वतो हर्षः ॥ 1.21 ॥
एवम् अनुश्रूयते: पुरा किल भगवान् स्व-लोकम् अधितिष्ठन् परम्êष्ठी विकासिनि-पद्म-विष्ठरे समुपविष्टः सुनासीर् अ-प्रमुखैर् गीर्वाणैः परिवृतो ब्रह्म्ôद्याः कथाः कुर्वन्न् अन्याश् च निर्-अवद्या विद्या-गोष्ठीर् भावयन् कदाचिद् आसां-चक्रे. तथ्âसीनं च तं त्रिभुवन-प्रतीक्ष्यं मनु-दक्ष-चाक्षुष-प्रभृतयः प्रजापतयः सर्वे च सप्त-र्षि-पुरः-सरा मह-र्षयः सिषेविरे. केचिद् ऋचः स्तुति-चतुराः समुदचारयन्. केचिद् अपचिति-भाञ्जि यजूंष्य् अपठन्. केचित् प्रशंसा-सामानि सामानि जगुः. अपरे विवृत- [8] -क्रतु-क्रिया-तन्त्रान् मन्त्रान् व्याचचक्षिरे. विद्या-विसंवाद-कृताश् च तत्र तेषाम् अन्योन्यस्य विवादाः प्रादुर् अभवन्.
अथ्âतिरोषणः प्रकृत्या महा-तपा मुनिर् अत्रेस् तनयस् तारा-पतेर् भ्रता नाम्ना दुर्वासा द्वितीयेन्ôपमन्यु-नाम्ना मुनिना सह कलहायमानः साम-गायन् क्रोध्âन्धो विस्वरम् अकरोत्. सर्वेषु च तेषु शाप-भय-प्रतिपन्न-मौनेषु मुनिष्व् अन्य्âलाप-लीलया च्âवधीरयति कमल-संभवे भगवती कुमारी किञ्चिद् उन्मुक्त-बाल-भावे भूषित-नव-यौवने वयसि वर्तमाना, गृहीत-चामर-प्रचलद्-भुज-लता पितामहम् उपवीजयन्ती, निर्भर्त्सन-ताडन-जात-रागाभ्याम् इव स्व-भाव्âरुणाभ्यां पाद-पल्लवाभ्यां समुद्भासमाना, शिष्य-द्वयेन्êव पद-क्रम-मुखरेण नूपुर-युगलेन वाचालित-चरण-युगला, धर्म-नगर-तोरण-स्तम्भ-विभ्रमं बिभ्राणा जङ्घा-द्वितयम्, स-लीलम् उत्क-कल-हंस-कुल-कल्âलाप-प्रलापिनि मेखल्âदाम्नि विन्यस्त-वाम-हस्त-किसलया, विद्वन्-मानस-निवास-लग्नेन गुण-कलापेन्êव्âंस्âवलम्बिना ब्रह्मा-सूत्रेण पवित्री-कृत-काया, भास्वन्-मध्य-नायकम् अन्-एकम् उक्त्âनुयातम् अपवर्ग-मार्गम् इव [9] हारम् उद्वहन्ती, वदन-प्रविष्ट-सर्व-विद्या-लक्तक-रसेन्êव पाटलेन स्फुरता दशन-च्छदेन विराजमाना, संक्रान्त-कमल्âसन-कृष्ण्âजिन-प्रतिमां मधुर-गीता-कर्णन्âवतीर्ण-शशि-हरिणाम् इव कपोल-स्थलीं दधाना, तिर्यक्-स्âवज्ञम् उन्नमित्âइक-भ्रू-लता, श्रोत्रम् एकं विस्वर-श्रवण-कलुषितं प्रक्षालयन्त्îव्âपाङ्ग-निर्गतेन लोचन्âश्रु-जल-प्रवाहेण्êतर-श्रवणेन च विकसित-सित-सिन्धुवार-मञ्जरी-जुषा हसत्êव प्रकटित-विद्या-मदा, श्रुति-प्रणयिभिः प्रणवैर् इव कर्ण्âवतंस-कुसुम-मधु-कर-कुलैर् उपास्यमाना, सूक्ष्म-विमलेन प्रज्ञा-प्रतानेन्êव्âंशुकेन्âच्छादित-शरीरा, वाङ्मयम् इव निर्मलं दिक्षु दशन-ज्योत्स्ना-लोकं विकिरन्ती देवी सरस्वती श्रुत्वा जहास.
दृष्ट्वा च तां तथा हसन्तीं स मुनिः: "आः पाप-कारिणि, दुर्-गृहीत-विद्या-लव्âवलेप-दुर्-विदग्धे, माम् उपहससि" इत्य् उक्त्वा शिरः-कम्प-शीर्यमाण-बन्ध-विशरारोर् उन्मिषत्-पिङ्गलिम्नो जटा-कलापस्य रोचिषा सिञ्चन्न् इव रोष-दहन-द्रवेण दश दिशः कृत-काल-संनिधानाम् इव्âन्ध-कारित-ललाट-पट्ट्âष्ट्âपदाम् अन्तक्âन्तः पुर-मण्डन-पत्र-भङ्ग-मकरिकां भ्रु-कुटिम् [10] आबध्नन्, अतिलोहितेन चक्षुष्âमर्ष-देवतायै स्व-रुधिर्ôपहारम् इव प्रयच्छन्, निर्दय-दष्ट-दशन-च्छद-भय-पलायमानाम् इव वाचं रुन्धन् दन्त्âंशु-च्छलेन, अंस्âवस्रंसिनः शाप-शासन-पट्टस्य्êव ग्रथ्नन् ग्रन्थिम् अन्यथा कृष्ण्âजिनस्य, स्वेद-कण-प्रतिबिम्बितैः शाप-शङ्का-शरण्âगतैर् इव सुर्âसुर-मुनिभिः प्रतिपन्न-सर्व्âवयवः, कोप-कम्प-तरलित्âङ्गुलिना करेण प्रसादन-लग्नाम् अक्षर-मालाम् इव्âक्ष-मालाम् आक्षिप्य कामण्डलवेन वारिणा समुपस्पृश्य शाप-जलं जग्राह.
अत्र्âन्तरे स्वयम्भुवो ऽभ्याशे समुपविष्टा देवी मूर्तिमती पीयूष-फेन-पटल-पाण्डरं कल्प-द्रुम-दुकूल-वल्कलं वसाना, बिस-तन्तुमयेन्âंशुकेन्ôन्-नत-स्तन-मध्य-बद्ध-गात्रिका-ग्रन्थिः, तपो-बल-निर्जित-त्रि-भुवन-जय-पताकाभिर् इव तिसृभिर् भस्म-पुण्ड्रक-राजिभिर् विराजित-ललाट्âजिरा, स्कन्ध्âव-लम्बिना सुधा-फेन-धवलेन तपः-प्रभाव-कुण्डली-कृतेन गङ्गा-स्रोतस्êव योग-पट्टकेन विरचित-वैकक्ष्यका, सव्येन ब्रह्म्ôत्पत्ति-पुण्डरीक-मुकुलम् इव स्फटिक-कमण्डलुं करेण कलयन्ती, दक्षिणम् अक्ष-माला-कृत-परिक्षेपं कम्बु-निर्मित्ôर्मिका-दन्तुरितं तर्जन-तरङ्गित-तर्जनीकम् उत्क्षिपन्ती [11] करम्, "आः पाप, क्रोध्ôपहत, दुरात्मन्, अ-ज्ञ, अन्-आत्म-ज्ञ, ब्रह्म-बन्धो, मुनि-शेट, अपसद, निराकृत, कथम् आत्म-स्खलित-विलक्षः सुर्âसुर-मुनि-मनुज-वृन्द-वन्दनीयां त्रि-भुवन-मातरं भगवतीं सरस्वतीं शप्तुम् अभिलषसि" इत्य् अभिदधाना, रोष-विमुक्त-वेत्र्âसनैर् ओङ्-कार-मुखरित-मुखैर् उत्क्षेप-दोलायमान-जटा-भार-भरित-दिग्भिः परिकर-बन्ध-भ्रमित-कृष्ण्âजिन्âटोप-च्छाया-श्यामायमान-दिवसैर् अमर्ष-निःश्वास-दोला-प्रेङ्खोलित-ब्रह्मलोकैः सोम-रसम् इव स्वेद-विसर-व्याजेन स्रवद्भिर् अग्निहोत्र-पवित्र-भस्म-स्मेर-ललाटैः कुश-तन्तु-चामर-चीर-चीवरिभिर् आषाढिभिः प्रहरणी-कृत-कमण्डलु-मण्डलैर् मूर्तैश् चतुर्भिर् वेदैः सह बृसीम् अपहाय सावित्री समुत्तस्थौ.
ततो "मर्षय भगवन्, अ-भूमिर् एषा शापस्य" इत्य् अनुनाथ्यमानो ऽपि विबुधैः, "उपाध्याय, स्खलितम् एकं क्षमस्व" इति बद्ध्âञ्जलि-पुटैः प्रसाद्यमानो ऽपि स्व-शिष्यैः, "पुत्र, मा कृथास् तपसः प्रत्यूहम्" इति निवार्यमाणो ऽप्य् अत्रिणा, रोष्âवेश-विवशो दुर्वासाः "दुर्-विनीते, व्यपनयामि ते विद्या-जनिताम् उन्नतिम् इमाम्. अधस्ताद् गच्छ मर्त्य-लोकम्" इत्य् उक्त्वा तच्-छाप्ôदकं विससर्ज.
प्रतिशाप-दान्ôद्यतां सावित्रीम् "सखि, संहर रोषम्. अ-संस्कृत-मतयो ऽपि जात्य्âइव द्वि-जन्मानो माननीयाः" इत्य् अभिदधाना सरस्वत्य् एव न्यवारयत्. [12]
अथ तां तथा शप्तां सरस्वतीं दृष्ट्वा पितामहो भगवान् कमल्ôत्पत्ति-लग्न-मृणाल-सूत्राम् इव धवल-यज्ञ्ôपवीतिनीं तनुम् उद्वहन्, उद्गच्छद्-अच्छ्âङ्गुलीय-मरकत-मयूख-लता-कलापेन त्रि-भुवन्ôपप्लव-प्रशम-कुश्âपीड-धारिण्êव दक्षिणेन करेण निवार्य शाप-कलकलम्, अति-विमल-दीर्घैर् भावि-कृत-युग्âरम्भ-सूत्र-पातम् इव दिक्षु पातयन् दशन-किरणैः, सरस्वती-प्रस्थान-मङ्गल-पटहेन्êव पूरयन्न् आशाः, स्वरेण सुधीरम् उवाच: "ब्रह्मन्, न खलु साधु-सेवितो ऽयं पन्थाः येन्âसि प्रवृत्तः. निहन्त्य् एष परस्तात्. उद्दाम-प्रसृत्êन्द्रिय्âश्व-समुत्थापितं हि रजः कलुषयति दृष्टिम् अन्-अक्ष-जिताम्. कियद् दूरं वा चक्षुर् ईक्षते. विशुद्धया हि धिया पश्यन्ति कृत-बुद्धयः सर्वान् अर्थान् अ-सतः सतो वा. निसर्ग-विरोधिनी च्êयं पयः-पावकयोर् इव धर्म-क्रोधयोर् एकत्र वृत्तिः. आलोकम् अपहाय कथं तमसि निमज्जसि ? क्षमा हि मूलं सर्व-तपसाम्. पर-दोष-दर्शन-दक्षा दृष्टिर् इव कुपिता बुद्धिर् न ते आत्म-राग-दोषं पश्यति. क्व महा-तपो-भार-वैवधिकता, क्व पुरो-भागित्वम् ? अति-रोषणश् चक्षुष्मान् अन्ध एव जनः. न हि कोप-कलुषिता विमृशति मतिः कर्तव्यम् अ-कर्तव्यं वा. कुपितस्य प्रथमम् अन्ध-कारी भवति विद्या, ततो भ्रुकुटिः. आदाव् इन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः. [13] आरम्भे तपो गलति, पश्चात् स्वेद-सलिलम्. पूर्वम् अ-यशः स्फुरति, अनन्तरम् अधरः. कथं लोक-विनाशाय ते विष-पादपस्य्êव जटा-वल्कलानि जातानि. अन्-उचिता खल्व् अस्य मुनि-वेषस्य हार-यष्टिर् इव वृत्त-मुक्ता चित्त-वृत्तिः. शैलूष इव वृथा वहसि कृत्रिमम् उपशम-शून्येन चेतसा तापस्âकल्पम्. अल्पम् अपि न ते पश्यामि कुशल-जातम्. अनेन्âति-लघिम्न्âद्य्âप्य् उपर्य् एव प्लवसे ज्ञान्ôदन्वतः. न खल्व् अन्-एड-मूकाः एडा जडा वा सर्व एते महर्षयः. रोष-दोष-निषद्ये स्व-हृदये निग्राह्ये किम् अर्थम् असि निगृहीतवान् अन्-आगसं सरस्वतीम्. एतानि तान्य् आत्म-प्रमाद-स्खलित-वैलक्ष्याणि, यैर् याप्यतां यात्य् अ-विदग्धो जनः" इत्य् उक्त्वा पुनर् आह: "वत्से सरस्वति, विषादं मा गाः. एषा त्वाम् अनुयास्यति सावित्री. विनोदयिष्यति च्âस्मद्-विरह-दुःखिताम्. आत्म-ज-मुख-कमल्âवलोकन्âवधिश् च ते शापो ऽयं भविष्यति" इति. एतावद् अभिधाय विसर्जित-सुर्âसुर-मुनि-मनुज-मण्डलः स-संभ्रम्ôपगत-नारद-स्कन्ध-विन्यस्त-हस्तः समुचित्âह्निक-करणाय्ôदतिष्ठत्. सरस्वत्य् अपि शप्ता किञ्-चिद् अधो-मुखी धवल-कृष्ण-शारां कृष्ण्âजिन-लेखाम् इव दृष्टिम् उरसि पातयन्ती सुरभि-निःश्वास-परिमल-लग्नैर् मूर्तैः शाप्âक्षरैर् इव षट्-चरण-चक्रैर् आकृष्यमाणा शाप-शोक-शिथिलित-हस्ता ऽधो-मुखी-भूतेन्ôपदिश्यमान-मर्त्य-लोक्âवतरण-मार्ग्êव नख-मयूख-जालकेन [14] नूपुर-व्याहार्âहूतैर् भवन-कलहंस-कुलैर् ब्रह्म-लोक-निवासि-हृदयैर् इव्âनुगम्यमाना समं सावित्र्या गृहम् अगात्.
अत्र्âन्तरे सरस्वत्य्-अवतरण-वार्ताम् इव कथयितुं मध्यमं लोकम् अवततार्âंशु-माली. क्रमेण च मन्दायमाने मुकुलित-बिसिनी-विसर-व्यसन-विषण्ण-सरसि वासरे, मधु-मद-मुदित-कामिनी-कोप-कुटिल-कट्âक्ष-क्षिप्यमाण इव क्षेपीयः क्षिति-धर-शिखरम् अवतरति तरुणतर-कपि-लपन-लोहिते लोक्âइक-चक्षुषि भगवति, प्रस्नुत-मुख-माहेयी-यूथ-क्षरत्-क्षीर-धारा-धवलितेष्व् आसन्न-चन्द्र्ôदय्ôद्दाम-क्षीर्ôद-लहरी-क्षालितेष्व् इव दिव्य्âश्रम्ôपशल्येषु, अ-पर्âह्ण-प्रचार-चलिते चामरिणि चामीकर-तट-ताडन-रणित-रदने रदति सुर-स्रवन्ती-रोधांसि स्वैरम् ऐरावते, प्रसृत्âनेक-विद्याधर्âभिसारिका-सहस्र-चरण्âलक्तक-रस्âनुलिप्त इव प्रकटयति च तारा-पथे पाटलताम्, तारा-पथ-प्रस्थित-सिद्ध-दत्त-दिन-कर्âस्तम्-अय्âर्घ्य्âवर्जिते रञ्जित-ककुभि, कुसुम्भ-भासि स्रवति पिनाकि-प्रणति-मुदित-संध्या-स्वेद-सलिल इव रक्त-चन्दन-द्रवे, वन्दारु-मुनि-वृन्दारक-वृन्द-बध्यमान-संध्य्âञ्जलि-वने, ब्रह्म्ôत्पत्ति-कमल-सेव्âगत-सकल-कमल्âकर इव राजति ब्रह्म-लोके, समुच्चारित-तृतीय-सवन-ब्रह्मणि ब्रह्मणि, ज्वलित-वैतान-ज्वलन-ज्वाला-जटाल्âजिरेष्व् आरब्ध-धर्म-साधन-शिबिर-नीराजनेष्व् इव सप्त-र्षि-मन्दिरेषु, अघ-मर्षण-मुषित-किल्बिष-विष-गद्ô- [15] -ल्लाघ-लघुषु यतिषु संध्य्ôपासन्âसीन-तपस्वि-पङ्क्ति-पूत-पुलिने प्लवमान-नलिन-योनि-यान-हंस-हास-दन्तुरित्ôर्मिणि मन्दाकिनी-जले, जल-देवत्âतपत्रे पत्र-रथ-कुल-कलत्र्âन्तःपुर-सौधे निज-मधु-मधुर्âमोदिनि कृत-मधुप-मुदि मुमुदिषमाणे कुमुद-वने, दिवस्âवसान-ताम्यत्-ताम-रस-मधुर-मधु-स-पीति-प्रीते सुषुप्सति मृदु-मृणाल-काण्ड-कण्डूयन-कुण्डलित-कन्धरे धुत-पक्ष-राजि-वीजित-राजीव-सरसि राज-हंस-यूथे, तट-लता-कुसुम-धूलि-धूसरित-सरिति सिद्ध-पुर-पुरंध्रि-धम्मिल्ल-मल्लिका-गन्ध-ग्राहिणि सायंतने तनीयसि निशा-निःश्वास-निभे नभस्वति, संकोच्ôदञ्चद्-उच्च-केसर-कोटि-संकट-कुशे-शय-कोश-कोटर-कुटी-शायिनि षट्-चरण-चक्रे, नृत्य्ôद्धूत-धूर्जटि-जट्âटवी-कुटज-कुड्मल-निकर-निभे नभस्-तलं स्तबकयति तारा-गणे, संध्य्âनुबन्ध-ताम्रे परिणमत्-ताल-फल-त्वक्-त्विषि काल-मेघ-मेदुरे, मेदिनीं मीलयति नव-वयसि तमसि तरुणतर-तिमिर-पटल-पाटन-पटीयसि समुन्मिषति यामिनी-कामिनी-कर्ण-पूर-चम्पक-कलिका-कदम्बके प्रदीप-प्रकरे, प्रतनु-तुहिन-किरण-किरण-लावण्य्âलोक-पाण्डु-न्य्-आश्यान-नील-नीर-मुक्त-कालिन्दी-कूल-बाल-पुलिनायमाने शात-क्रतवे क्रश- [16] -यति तिमिरम् आशा-मुखे, ख-मुचि मेचकित-विकचित-कुवलय-सरसि शश-धर-कर-निकर-कच-ग्रह्âविले विलीयमाने मानिनी-मनस्îव शर्वरी-शबरी-चिकुर-चये चाष-पक्ष-त्विषि तमसि, उदिते भगवत्य् उदय-गिरि-शिखर-कटक-कुहर-हरि-खर-नखर-निवह-हेति-निहत-निज-हरिण-गलित-रुधिर-निचय-निचितम् इव लोहितं वपुर् उदय-राग-धरम् अधरम् इव विभावरी-वध्वा धारयति श्वेत-भानौ, अ-चल-च्युत-चन्द्र-कान्त-जल-धारा-धौत इव ध्वस्ते ध्वान्ते, गो-लोक-गलित-दुग्ध-विसर-वाहिनि दन्तमय-मकर-मुख-महा-प्रणाल इव्âपूरयितुं प्रवृत्ते पयोधिम् इन्दु-मण्डले, स्पष्टे प्रदोष-समये सावित्री शून्य-हृदयाम् इव किम् अपि ध्यायन्तीं स्âस्रां सरस्वतीम् अवादीत्: "सखि, त्रि-भुवन्ôपदेश-दान-दक्षायास् तव पुरो जिह्वा जिह्रेति मे जल्पन्ती. जानास्य् एव यादृश्यो विसंस्थुला गुणवत्य् अपि जने दुर्-जनवन्-निर्दाक्षिण्याः क्षण-भङ्गिन्यो दुर्-अतिक्रमणीया न रमणीया दैवस्य वामा वृत्तयः. निष्कारणा च निकार-कणिक्âपि कलुषयति मनस्विनो ऽपि मानसम् अ-सदृश-जनाद् आपतन्ती. अन्-अवरत-नयन-जल-सिच्यमानश् च तरुर् इव विपल्लवो ऽपि सहस्रधा प्ररोहति. अति-सुकुमारं च जनं संताप-परम्âणवो मालती-कुसुमम् इव म्लानिम् आनयन्ति. महतां च्ôपरि निपतन्न् अणुर् अपि सृणिर् इव करिणां क्लेशः कदर्थनाय्âलम्. सहज-स्नेह-पाश-ग्रन्थि-बन्धनाश् च [17] बान्धव-भूता दुस्-त्यजा जन्म-भूमयः. दारयति दारुणः क्रकच-पात इव हृदयं संस्तुत-जन-विरहः, सा न्âर्हस्य् एवं भवितुम्. अ-भूमिः खल्व् असि दुःख-क्ष्वेड्âङ्कुर-प्रसवानाम्. अपि च पुरा-कृते कर्मणि बलवति शुभे ऽशुभे वा फल-कृति तिष्ठत्य् अधिष्ठातरि प्रष्ठे पृष्ठतश् च को ऽवसरो विदुषि शुचाम्. इदं च ते त्रि-भुवन-मङ्गल्âइक-कमलम् अ-मङ्गल-भूताः कथम् इव मुखम् अपवित्रयन्त्य् अश्रु-बिन्दवः. तद् अलम्. अधुना कथय कतमं भुवो भागम् अलङ्-कर्तुम् इच्छसि. कस्मिन्न् अवतितीर्षति ते पुण्य-भाजि प्रदेशे हृदयम्. कानि वा तीर्थान्य् अनुग्रहीतुम् अभिलषसि. केषु वा धन्येषु तपो-वन-धामसु तपस्यन्ती स्थातुम् इच्छसि. सज्जो ऽयम् उपचरण-चतुरः सह-पांशु-क्रीडा-परिचय-पेशलः प्रेयान् सखी-जनः क्षिति-तल्âवतरणाय. अन्-अन्य-शरणा च्âद्य्âइव प्रभृति प्रतिपद्यस्व मनसा वाचा क्रियया च सर्व-विद्या-विधातारं दातारं च श्वः-श्रेयसस्य चरण-रजः-पवित्रित-त्रिदश्âसुरं सुधा-सूति-कलिका-कल्पित-कर्ण्âवतंसं देव-देवं त्रि-भुवन-गुरुं त्र्य्-अम्बकम्. अल्पीयस्âइव कालेन स ते शाप-शोक-विरतिं वितरिष्यति" इति.
एवम्-उक्ता मुक्त-मुक्ता-फल-धवल-लोचन-जल-लवा सरस्वती प्रत्यवादीत्: "प्रिय-सखि, त्वया सह विचरन्त्या न मे कां-चिद् अपि पीडाम् उत्पादयिष्यति ब्रह्म-लोक-विरहः शाप-शोको वा. केवलं कमल्âसन-सेवा-सुखम् आर्द्रयति मे हृदयम्. अपि च त्वम् एव वेत्सि मे भुवि धर्म-धामानि समाधि-साधनानि योग-योग्यानि च स्थानानि स्थातुम्" इत्य् एवम् अभिधाय विरराम. रण-रणक्ôपनीत-प्रजागरा च्â-निमीलित-लोचन्âइव तां निशाम् अनयत् [18]
अन्येद्युर् उदिते भगवति त्रि-भुवन-शेखरे खण-खणायमान-स्खलत्-खलीन-क्षत-निज-तुरग-मुख-क्षिप्तेन क्षत-जेन्êव पाटलित-वपुष्य् उदय्âचल-चूडा-मणौ जरत्-कृकवाकु-चूड्âरुण्âरुण-पुरःसरे विरोचने न्âति-दूर-वर्ती विविच्य पितामह-विमान-हंस-कुल-पालः पर्यटन्न् अ-पर-वक्त्रम् उच्चैर् अगायत्:
"तरलयसि दृशं किम् उत्सुकाम् अ-कलुष-मानस-वास-लालिते ।
अवतर कल-हंसि वापिकां पुनर् अपि यास्यसि पङ्कज्âलयम्" ॥ 1.21 [सिच्] ॥
तच् छ्रुत्वा सरस्वती पुनर् अचिन्तयत्: "अहम् इव्âनेन पर्यनुयुक्ता. भवतु. मानयामि मुनेर् वचनम्" इत्य् उक्त्व्ôत्थाय कृत-मही-तल्âवतरण-संकल्पा परित्यज्य वियोग-विक्लवं स्व-परिजनं ज्ञाति-वर्गम् अ-विगणय्य्âवगणा त्रिः प्रदक्षिणी-कृत्य चतुर्-मुखं कथम् अप्य् अनुनय-निवर्तित्âनुयायि-व्रति-व्राता ब्रह्म-लोकतः सावित्री-द्वितीया निर्जगाम.
ततः क्रमेण ध्रुव-प्रवृत्तां धर्म-धेनुम् इव्âधो-धावमान-धवल-पयो-धराम्, [19] उद्धुर-ध्वनिम्, अन्धक-मथन-मौलि-मालती-मालिकाम्, आलीयमान-वालखिल्य-रुद्ध-रोधसम्, अरुन्धती-धौत-तारव-त्वचम् त्वङ्गत्-तुङ्ग-तरङ्ग-तरत्-तरल-तर-तार-तारकाम्, तापस-वितीर्ण-तरल-तिल्ôदक-पुलकित-पुलिनाम्, आप्लवन-पूत-पितामह-पातित-पितृ-पिण्ड-पाण्डुरित-पाराम्, पर्य्-अन्त-सुप्त-सप्त-र्षि-कुश-शयन-सूचित-सूर्य-ग्रह-सूतक्ôपवासाम्, आचमन-शुचि-शचीपति-मुच्यमान्âर्चन-कुसुम-निकर-शाराम्, शिव-पुर-पतित-निर्माल्य-मन्दार-दामकाम् अनादर-दारित-मन्दर-दरी-दृषदम्, अनेक-नाक-नायक-निकाय-कामिनी-कुच-कलश-विलुलित-विग्रहाम्, ग्राह-ग्राव-ग्राम-स्खलन-मुखरित-स्रोतसम्, सुषुम्णा-स्रुत-शशि-सुधा-शीकर-स्तबक-तारकित-तीराम्, धिषण्âग्नि-कार्य-धूम-धूसरित-स्âइकताम्, सिद्ध-विरचित-वालुका-लिङ्ग-लङ्घन-त्रास-विद्रुत-विद्या-धराम्, निर्मोक-मुक्तिम् इव गगन्ôरगस्य, लीला-ललाटिकाम् इव त्रि-विष्टप-विटस्य, विक्रय-वीथीम् इव पुण्य-पण्यस्य, दत्त्âर्गलाम् इव नरक-नगर-द्वारस्य, अंशुक्ôष्णीष-पट्टिकाम् इव सुमेरु-नृपस्य, दुगूल-कदलिकाम् इव कैलास-कुञ्जरस्य, पद्धतिम् इव्âपवर्गस्य, नेमिम् इव कृत-युगस्य सप्त-सागर-राज-महिषीं मन्दाकिनीम् अनुसरन्ती मर्त्य-लोकम् अवततार. अपश्यच् च्âम्बर-तल-स्थित्âइव हारम् इव वरुणस्य, अमृत-निर्झरम् इव चन्द्र्âचलस्य, शशि-मणि-निष्यन्दम् इव विन्ध्यस्य, कर्पूर-द्रुम-द्रव-प्रवाहम् इव दण्डक्âरण्यस्य, लावण्य-रस-प्रस्रवणम् इव दिशाम्, स्फाटिक-शिला-पट्ट-शयनम् इव्âम्बर-श्रियाः स्वच्छ-शिशिर-सु-रस-वारि-पूर्णं भगवतः पितामहस्य्âपत्यं हिरण्यवाह-नामानं महा-नदम्, यं जनाः शोण इति कथ- [20] -यन्ति. दृष्ट्वा च तं रामणीयक-हृत-हृदया तस्यैव तीरे वासम् अरचयत्. उवाच च सावित्रीम्: "सखि, मधुर-मयूर-विरुतयः कुसुम-पांशु-पटल-सिकतिल-तरु-तलाः परिमल-मत्त-मधुप-वेणी-वीणा-रणित-रमणीया रमयन्ति मां मन्दी-कृत-मन्दाकिनी-द्युतेर् अस्य महा-नदस्य्ôपकण्ठ-भूमयः. पक्षपाति च हृदयम् अत्र्âइव स्थातुं मे" इति. अभिनन्दित-वचना च तथ्êति तया तस्य पश्चिमे तीरे समवातरत्. एकस्मिंश् च शुचौ शिला-तल-सनाथे तट-लता-मण्डपे गृह-बुद्धिं बबन्ध. विश्रान्ता च न्âति-चिराद् उत्थाय सावित्र्या सार्धम् उच्चित्âर्चन-कुसुमा सस्नौ. पुलिन-पृष्ठ-प्रतिष्ठित-शिव-लिङ्गा च भक्त्या परमया पर-ब्रह्म-पुरः-सरां सम्यङ्-मुद्रा-बन्ध-विहित-परिकरां ध्रुवा-गीति-गर्भाम् अवनि-पवन-वन-गगन-दहन-तपन-तुहिन-किरण-यजमान-मयीर् मूर्तिर् अष्टाव् अपि ध्यायन्ती सुचिरम् अष्ट-पुष्पिकाम् अदात्. अ-यत्न्ôपनतेन फल-मूलेन्âमृत-रसमम् अप्य् अति-शिशयिषमाणेन च स्वादिम्ना शिशिरेण शोण-वारिणा शरीर-स्थितिम् अकरोत्. अति-वाहित-दिवसा च तस्मिंल् लता-मण्डप-शिला-तले कल्पित-पल्लव-शयना सुष्वाप. अन्येद्युर् अप्य् अनेन्âइव क्रमेण नक्तं-दिनम् अत्य्-अवाहयत्.
एवम् अति-क्रामत्सु दिवसेषु गच्छति च काले याम-मात्र्ôद्गते च रवाव् उत्तरस्यां ककुभि प्रतिशब्द-पूरित-वन-गह्वरं गम्भीर-तार-तरं तुरङ्ग-हेषित-ह्रादम् अशृणोत्. उपजात-कुतूहला च निर्गत्य लता-मण्डपाद् विलोकयन्ती विकच-केतकी-गर्भ-पत्त्र-पाण्डुरं रजः-सङ्घातं न्âतिदवीयसि [21] संमुखम् आपतन्तम् अपश्यत्. क्रमेण च सामीप्य्ôपजायमान्âभिव्यक्ति तस्मिन् महति शफर्ôदर-धूसरे रजसि पयस्îव मकर-चक्रं प्लवमानं पुरः प्रधावमानेन, प्रलम्ब-कुटिल-कच-पल्लव-घटित-ललाट-जूटकेन, धवल-दन्तपत्रिका-द्युति-हसित-कपोल-भित्तिना, पिनद्ध-कृष्णागुरु-पङ्क-कल्क-च्छुरण-कृष्ण-शबल-कषाय-कञ्चुकेन, उत्तरीय-कृत-शिरो-वेष्टनेन, वाम-प्रकोष्ठ-निविष्ट-स्पष्ट-हाटक-कटकेन, द्वि-गुण-पट्ट-पट्टिका-गाढ-ग्रन्थि-ग्रथित्âसिधेनुना, अन्-अवरत-व्यायाम-कृत-कर्कश-शरीरेण, वात-हरिण-यूथेन्êव मुहुर्-मुहुः खम् उड्डीयमानेन, लङ्घित-सम-विषम्âवट-विटपेन, कोण-धारिणा, कृपाण-पाणिना, सेवागृहीत-विविध-वन-कुसुम-फल-मूल-पर्णेन, "चल चल, याहि याहि, अपसर्प्âपसर्प, पुरः प्रयच्छ पन्थानम्" इत्य् अन्-अवरत-कृत-कलकलेन युव-प्रायेण, सहस्र-मात्रेण पदाति-जनेन स-नाथम् अश्व-वृन्दं संददर्श.
मध्ये च तस्य स्âर्ध-चन्द्रेण मुक्ता-फल-जाल-मालिना विविध-रत्न-खण्ड-खचितेन शङ्ख-क्षीर-फेन-पाण्डुरेण क्षीर्ôदेन्êव स्वयं लक्ष्मीं दातुम् आगतेन गगन-गतेन्âतपत्रेण कृत-च्छायम्, अच्छ्âच्छेन्âभरण-द्युतीनां निवहेन दिशाम् इव दर्शन्âनुराग-लग्नेन चक्रवालेन्âनुगम्यमानम्, आ-नितम्ब-विलम्बिन्या मालती-शेखर-स्रजा सकल-भुवन-विजय्âर्जितया रूप-पताकय्êव विराजमानम्, उत्सर्पिभिः शिखण्ड-खण्डिका-पद्म-राग-मणेर् अरुणैर् अंशु-जालैर् अ-दृश्यमान-वन-देवता-विधृतैर् बाल-पल्लवैर् इव प्रमृज्यमान-मार्ग-रेणु-परुष-वपुषम्, बकुल-कुड्मल-मण्डली-मुण्ड-माला-मण्डन-मनोहरेण कुटिल-कुन्तल-स्तबक-मालिना मौलिना मीलित्âतपं [22] पिबन्तम् इव दिवसम्, पशु-पति-जटा-मुकुट-मृग्âङ्क-द्वितीय-शकल-घटितस्य्êव सहज-लक्ष्मी-समालिङ्गितस्य ललाट-पट्टस्य मनःशिला-पङ्क-पिङ्गलेन लावण्येन लिम्पन्तम् इव्âन्तरिक्षम्, अभिनव-यौवन्âरम्भ्âवष्टम्भ-प्रगल्भ-दृष्टि-पात-तृणी-कृत-त्रि-भुवनस्य चक्षुषः प्रथिम्ना विकच-कुमुद-कुवलय-कमल-सरः-सहस्र-संछादित-दश-दिशं शरदम् इव प्रवर्तयन्तम्, आयत-नयन-नदी-सीम्âन्त-सेतु-बन्धेन ललाट-तट-शशि-मणि-शिला-तल-गलितेन कान्ति-सलिल-स्रोतस्êव द्राघीयसा नासा-वंशेन शोभमानम्, अति-सुरभि-सहकार-कर्पूर-कक्कोल-लवङ्ग-पारिजातक-परिमल-पुचा मत्त-मधु-कर-कुल-कोलाहल-मुखरेण मुखेन स-नन्दन-वनं वसन्तम् इव्âवतारयन्तम्, आसन्न-सुहृत्-परिहास-भावन्ôत्तानित-मुख-मुग्ध-हसितैर् दशन-ज्योत्स्ना-स्नपित-दिङ्-मुखैः पुनः-पुनर् नभसि संचारिणं चन्द्र्âलोकम् इव कल्पयन्तम्, कदम्ब-मुकुल-स्थूल-मुक्ता-फल-युगल-मध्य्âध्यासित-मरकतस्य त्रि-कण्टक-कर्ण्âभरणस्य प्रेङ्खतः प्रभया समुत्सर्पन्त्या कृत-स-कुसुम-हरित-कुन्द-पल्लव-कर्ण्âवतंसम् इव्ôपलक्ष्यमाणम्, आमोदित-मृग-मद-पङ्क-लिखित-पत्र-भङ्ग-भास्वरम्, भुज-युगलम् उद्दाम-मकर्âक्रान्त-शिखरम् इव मकर-केतु-केतोः दण्ड-द्वयं दधानम्, धवल-ब्रह्म-सूत्र-सीमन्तितं सागर-मथन-सामर्ष-गङ्गा-स्रोतः-संदानितम् इव मन्दरं देहम् उद्वहन्तम्, कर्पूर-क्षोद-मुष्टि-च्छुरण-पांशुलेन्êव कान्त्ôच्च-कुच-चक्रवाक-युगल-विपुल-पुलिनेन्ôरः-स्थलेन स्थूल-भुज्âयाम-पुञ्जितम्, पुरो विस्तारयन्तम् इव दिक्-चक्रम्, पुरस्ताद् ईषद्-अधोनाभि-निहित्âइक-कोण-क्रमनीयेन पृष्ठतः कक्ष्य्âधिक-क्षिप्त-पल्लवेन्ôभयतः संवलन-प्रकटित्ôरु-त्रि-भागेन हारीत-हरिता निबिड-निपीडितेन्âधर-वाससा विभज्यमान-तनु-तर-मध्य-भागम्, अन्-अवरत-श्रम्ôपचित-मांस-कठिन-विकट-मकर- [23] -मुख-संलग्न-ज्âनुभ्याम् अति-विशाल-वक्षः-स्थल्ôपल-वेदिक्ôत्तम्भन-शिला-स्तम्भाभ्यां चारु-चन्दन-स्थासक-स्थूल-तर-कान्तिभ्याम् ऊरु-दण्डाभ्याम् उपहसन्तम् इव्âइरावत-कर्âयामम्, अति-भरित्ôरु-भार-वहन-खेदेन्êव तनु-तर-जङ्घा-काण्डम्, कल्प-पादप-पल्लव-द्वयस्य्êव पाटलस्य्ôभयपार्श्व्âवलम्बिनः पाद-द्वयस्य दोलायमानैर् नख-मयूखैर् अश्व-मण्डन-चामर-मालाम् इव रचयन्तम्, अभिमुखम् उच्चैर् उदञ्चद्भिर् अति-चिरम् उपरि-विश्राम्यद्भिर् इव वलित-विकटं, पतद्भिः खुरैः खण्डित-भुवि प्रति-क्षण-दशन-विमुक्त-खण-खणायित-खर-खलीने दीर्घ-घ्राण-लीन-लालिके ललाट-लुलित-चारु-चामी-कर-चक्रके शिञ्जान-शातकौम्भ्âयान-शोभिनि मनो-रंहसि गोलाङ्गूल-कपोल-काल-काय-लोम्नि नील-सिन्धुवार-वर्णे वाजिनि महति समारूढम्, उभयतः पर्याण-पट्ट-श्लिष्ट-हस्ताभ्याम् आसन्न-परिचारकाभ्यां दोधूयमान-धवल-चामरिका-युगलम्, अग्रतः पठतो बन्दिनः सुभाषितम् उत्कण्टकित-कपोल-फलकेन लग्न-कर्ण्ôत्पल-केसर-पक्ष्म-शकलेन्êव मुख-शशिना भावयन्तम्. अनङ्ग-युग्âवतारम् इव दर्शयन्तम्, चन्द्र-मयीम् इव सृष्टिम् उत्पादयन्तम्, विलास-प्रायम् इव जीव-लोकं जनयन्तम्, अनुराग-मयम् इव सर्ग्âन्तरम् आरचयन्तम्, शृङ्गार-मयम् इव दिवसम् आपादयन्तम्, राग-राज्यम् इव प्रवर्तयन्तम्, आकर्षण्âञ्जनम् इव चक्षुषोः, वशी-करण-मन्त्रम् इव मनसः, स्वस्था-वेश-चूर्णम् इव्êन्द्रियाणाम्, अ-संतोषम् इव कौतुकस्य, सिद्ध-योगम् इव सौभाग्यस्य, [24] पुनर्-जन्म-दिवसम् इव मन्मथस्य, रसायनम् इव यौवनस्य, एक-राज्यम् इव रामणीयकस्य, कीर्ति-स्तम्भम् इव रूपस्य, मूल-कोशम् इव लावण्यस्य, पुण्य-कर्म-परिणामम् इव संसारस्य, प्रथम्âङ्कुरम् इव कान्ति-लतायाः, सर्ग्âभ्यास-फलम् इव प्रजापतेः, प्रतापम् इव विभ्रमस्य, यशः-प्रवाहम् इव वैदग्धयस्य, अष्टादश-वर्ष-देशीयं युवानम् अद्राक्षीत्.
पार्श्वे च तस्य द्वितीयम् अ-पर-संश्लिष्ट-तुरङ्गम्, प्रांशुम् उत्तप्त-तपनीय-स्तम्भ्âकारम्, परिणत-वयसम् अपि व्यायाम-कठिन-कायम्, नीच-नख-श्मश्रु-केशम्, शुक्ति-खलतिम्, इषत्-तुन्दिलम्, रोमश्ôरः-स्थलम्, अन्-उल्वण्ôदार-वेषतया जराम् अपि विनयम् इव शिक्षयन्तम्, गुणान् अपि गरिमाणम् इव्âनयन्तम्, मह्âनुभावताम् अपि शिष्यताम् इव्âनयन्तम्, आचारस्य्âप्य् आचार्यम् इव कुर्वाणम्, वलक्ष-वारबाण-धारिणम्, धौत-दुकूल-पट्टिका-परिवेष्टित-मौलिं पुरुषम्.
अथ स युवा पुरो-यायिनां यथा-दर्शनं प्रतिनिवृत्य्âति-विस्मित-मनसां कथयतां पद्âतीनां सकाशाद् उपलभ्य दिव्य्âकृति-तत्-कन्या-युगलम् उपजात-कुतूहलः प्रतूर्ण-तुरगो दिदृक्षुस् तं लता-मण्डप्ôद्देशम् आजगाम. दूराद् एव च तुरगाद् अवततार. निवारित-परिजनश् च तेन द्वितीयेन साधुना सह चरणाभ्याम् एव स-विनयम् उपससर्प. कृत्ôप- [25] -संग्रहणौ तौ सावित्री समं सरस्वत्या किसलय्âसन-दान्âदिना स-कुसुम-फल्âर्घ्य्âवसानेन वन-वास्ôचितेन्âतिथ्येन यथा-क्रमम् उपजग्राह. आसीनयोश् च तयोर् आसीन न्âतिचिरम् इव स्थित्वा तं द्वितीयं प्रवयसम् उद्दिश्य्âवादीत्: "आर्य, सहज-लज्जा-धनस्य प्रमदा-जनस्य प्रथम्âभिभाषणम् अ-शालीनता, विशेषतो वन-मृगी-मुग्धस्य कुल-कुमारी-जनस्य. केवलम् इयम् आलोकन-कृत्âर्थाय चक्षुषे स्पृहयन्ती प्रेरयत्य् उदन्त-श्रवण-कुतूहलिनी श्रोत्र-वृत्तिः. प्रथम-दर्शने च्ôपायनम् इव्ôपनयति सज्-जनः प्रणयम्. अ-प्रगल्भम् अपि जनं प्रभवता प्रश्रयेण्âर्पितं मनो-मध्व् इव वाचालयति. अ-यत्नेन्âइव्âति-नम्रे साधौ धनुष्îव गुणः परां कोटिम् आरोपयति विस्रम्भः. जनयन्ति च विस्मयम् अति-धीर-धियाम् अप्य् अ-दृष्ट-पूर्वा दृश्यमाना जगति स्रष्टुः सृष्ट्य्-अतिशयाः. यतस् त्रि-भुवन्âभिभावि रूपम् इदम् अस्य मह्âनुभावस्य. सौजन्य-परतन्त्रा च्êयं देवानां-प्रियस्य्âतिभद्रता कारयति कथां न तु युवति-जन-सह्ôत्था तरलता. तत् कथय्âगमनेन्âपुण्य-भाक् कतमो विजृम्भित-विरह-व्यथः शून्यतां नीतो देशः? क्व वा गन्तव्यम्? कस्य व्âयम् अपहृत-हर-हुङ्कार्âहङ्कारो ऽपर इव्âनन्य-जो युवा? किं-नाम्नो वा समृद्ध-तपसः पितुर् अयम् अ-मृत-वर्षी कौस्तुभ-मणिर् इव हरेर् हृदयम् आह्लादयति? का च्âस्य त्रि-भुवन-नमस्या विभात-संध्य्êव महतस् तेजेसो जननी? कानि व्âस्य पुण्य-भाञ्जि भजन्त्य् अभिक्याम् अक्षराणि? [26] आर्य-परिज्ञाने ऽप्य् अयम् एव क्रमः कौतुक्âनुरोधिनो हृदयस्य" इत्य् उक्तवत्यां तस्यां प्रकटित-श्रयो ऽसौ प्रतिव्याजहार: "आयुष्मति, सतां हि प्रियं-वदता कुल-विद्या. न केवलम् आननं हृदयम् अपि च ते चन्द्र-मयम् इव सुधा-शीकर-शीतलैर् आह्लादयति वचोभिः. सौजन्य-जन्म-भूमयो भूयसा शुभेन सज्-जन-निर्माण-शिल्प-कला इव भवादृश्यो दृश्यन्ते. दूरे तावद् अन्योन्यस्य्âभिलपनम् अभिजातैः सह दृशो ऽपि मिश्री-भूता महतीं भूमिम् आरोपयन्ति. श्रूयताम्: "अयं खलु भूषणं भार्गव-वंशस्य भगवतो भूर्-भुवः-स्वस्-त्रितय-तिलकस्य, अ-दभ्र-प्रभाव-स्तम्भित-जम्भारि-भुज-स्तम्भस्य, सुर्âसुर-मुकुट-मणि-शिला-शयन-दुर्-ललित-पाद-पङ्केरुहस्य, निज-तेजः-प्रसर-प्लुष्ट-पुलोम्नश् च्यवनस्य बहिर्-वृत्ति-जीवितं दधीचो नाम तनयः. जन्यन्य् अप्य् अस्य जित-जगतो ऽनेक-पार्थिव-सहस्र्âनुयातस्य शर्यातस्य सुता राजपुत्री त्रि-भुवन-कन्या-रत्नं सुकन्या नाम. तां खलु देवीम् अन्तर्वत्नीं विदित्वा वैजनने मासि प्रसवाय पिता पत्युः पार्श्वात् स्व-गृहम् आनाययत. असूत च सा तत्र देवी दीर्घ्âयुषम् एनम्. अवर्धत्âन्-एहसा च तत्र्âइव्âयम् आनन्दित-ज्ञाति-वर्गो बालस् तारक-राज इव राजीव-लोचनो राज-गृहे. भर्तृ-भवनम् आगच्छन्त्याम् अपि दुहितरि न्âसेचनक-दर्शनम् इमम् अमुञ्चन् माता-महो मनो-विनोदनं नप्तारम्. अशिक्षत्âयं तत्र्âइव सर्वा विद्याः सकलाश् च कलाः. कालेन च्ôपारूढ-यौवनम् इमम् आलोक्य्âहम् इव्âसाव् अप्य् अनुभवतु मुख-कमल्âवलोकन्âनन्दम् अस्य्êति माता-महः कथङ्-कथम् अप्य् एनं पितु- [27] -र् अन्तिकम् अधुना व्यसर्जयत्. माम्âपि तस्य्âइव देवस्य सुगृहीत-नाम्नः शर्यातस्य्âज्ञाकारिणं विकुक्षि-नामानं भृत्य-परमाणुम् अवधारयतु भवती. पितुः पाद-मूलम् आयान्तं मया स्âभिसारम् अकरोत् स्वामी. तद् धि नः कुल-क्रम्âगतं राज-कुलम्. उत्तमानां च चिरन्तनता जनयत्य् अनुजीविन्य् अपि जने कियन्-मात्रम् अपि मन्द्âक्षम्. अ-क्षीणः खलु दाक्षिण्य-कोशो महताम्. इतश् च गव्यूति-मात्रम्-इव पारे-शोणं तस्य भगवतश् च्यवनस्य स्व-नाम्ना निर्मित-व्यपदेशं च्यावनं नाम चैत्र-रथ-कल्पं काननं निवासः. तद्-अवधिर् एव्êयं नौ यात्रा. यदि च वो गृहीत-क्षणं दाक्षिण्यम् अन्-अवहेलं वा हृदयम् अस्माकम् उपरि भूमिर् वा प्रसादानाम् अयं जनः श्रवण्âर्हे वा, ततो न विमाननीयो ऽयं नः प्रथमः प्रणयः कुतूहलस्य. वयम् अपि शुश्रूषवो वृत्त्âन्तम् आयुष्मत्योः. न्êयम् आकृतिर् दिव्यतां व्यभिचरति. गोत्र-नामनी तु श्रोतुम् अभिलषति नौ हृदयम्. तत् कथय कतमो वंशः स्पृहणीयतां जन्मना नीतः. का च्êयम् अत्र-भवती भवत्याः समीपे समवाय इव विरोधिनां पद्âर्थानाम्. तथा हि, संनिहित-बाल्âन्धकारा भास्वन्-मूर्तिश् च, पुण्डरीक-मुखी हरिण-लोचना च, बाल्âतप-प्रभा-धारा कुमुद-हासिनी च, कलहंस-स्वना समुन्नत-पयो-धरा च, कमल-कोमल-करा हिम-गिरि-शिला-पृथु-नितम्बा च, करभ्ôरुर् विलम्बित-गमना च, अ-मुक्त-कुमार-भावा स्निग्ध-तारका च" इति.
सा त्व् आवादीत्: "आर्य, श्रोष्यसि कालेन. भूयसो दिवसान् अत्र स्थातुम् अभिलषति नौ हृदयम्. अल्पीयांश् च्âयम् अध्वा. परिचय एव प्रकटी-करिष्यति. आर्येण न विस्मरणीयो ऽयम् अनुषङ्ग-दृष्टो जनः" [28] इत्य् अभिधाय तूष्णीम् अभूत्. दधीचस् तु नव्âम्भो-भर-गभीर्âम्भो-धर-ध्वान-निभया भारत्या नर्तयन् वन-लता-भवन-भाजो भुजङ्ग-भुजः सु-धीरम् उवाच: "आर्य, करिष्यति प्रसादम् आर्य्âराध्यमाना. पश्यामस् तावत् तातम्. उत्तिष्ठ. व्रजामः" इति. तथ्êति च तेन्âभ्यनुज्ञातः शनकैर् उत्थाय कृत-नमस्कृतिर् उच्चचाल. तुरग्âरूढं च तं प्रयान्तं सरस्वती सु-चिरम् उत्तम्भित-पक्ष्मणा निश्चल-तारकेण लिखितेन्êव चक्षुषा व्यलोकयत्. उत्तीर्य च शोणम् अ-चिरेण्âइव कालेन दधीचः पितुर् आश्रम-पदं जगाम. गते च तस्मिन् सा ताम् एव दिशम् आलोकयन्ती सु-चिरम् अतिष्ठत्. कृच्छ्राद् इव च संजहार दृशम्.
अथ मुहूर्त-मात्रम् इव स्थित्वा स्मृत्वा च तां तस्य रूप-संपदं पुनः-पुनर् व्यस्मयत्âस्या हृदयम्. भूयो ऽपि चक्षुर् आककाङ्क्ष तद्-दर्शनम्. अ-वश्êव केन्âप्य् अनीयत ताम् एव दिशं दृष्टिः. अ-प्रिहतम् अपि मनस् तेन्âइव सार्धम् अगात्. अजायत च नव-पल्लव इव बाल-वन-लतायाः कुतो ऽप्य् अस्या अनुरागश् चेतसि. ततः-प्रभृति च स्âलस्य्êव शून्य्êव स-निद्र्êव दिवसम् अनयत्. अस्तम् उपयाति च प्रत्यक्-पर्यस्त-मण्डले लाङ्गलिका-स्तबकताम्र-त्विषि कमलिनी-कामुके कठोर-सालस-शिरः-शोण-शोचिषि सावित्रे त्रयी-मये तेजसि, तरुण-तर-तमाल-श्यामले च मलिनयति व्योम व्योम-व्यापिनि तिमिर-संचये, संचरत्-सिद्ध-सुन्दरी- [29] -नूपुर-रव्âनुसारिणि च मन्दं मन्दं मन्दाकिनी-हंस इव समुत्सर्पति शशिनि गगन-तलम्, कृत-संध्या-प्रणामा निशा-मुख एव निपत्य विमुक्त्âङ्गी पल्लव-शयने तस्थौ. सावित्र्य् अपि कृत्वा यथा-क्रियमाणं सायन्तनं क्रिया-कलापम् उचिते शयन-काले किसलय-शयनम् अभजत. जात-निद्रा च सुष्वाप.
इतरा तु मुहुर्-मुहुर्-अङ्ग-वलनैर् विलुलित-किसलय-शयन-तला निमीलित-नयन्âपि न्âलभत निद्राम्. अचिन्तयच् च: "मर्त्य-लोकः खलु सर्व-लोकानाम् उपरि, यस्मिन्न् एवं-विधानि भवन्ति त्रि-भुवन-भूषणानि सकल-गुण-ग्राम-गुरूणि रत्नानि. तथा हि: तस्य मुख-लावण्य-प्रवाहस्य निष्यन्द-बिन्दुर् इन्दुः. तस्य च चक्षुषो विक्षेपाः कुमुद-कुवलय-कमल्âकराः. तस्य च्âधर-मणेर् दीधितयो विकसित-बन्धूक-वन-राजयः. तस्य च्âङ्गस्य पर-भाग्ôपकरणम् अनङ्गः. पुण्य-भाञ्जि तानि चक्षूंषि चेतांसि यौवनानि वा स्त्रैणानि, येषाम् असाव् अविषयो दर्शनस्य. क्षणं नु दर्शयता च तम् अन्य-जन्म-जनितेन्êव मे फलितम् अ-धर्मेण. का प्रतिपत्तिर् इदानीम्?" इति चिन्तयन्त्य् एव कथं-कथम् अप्य् उपजात-निद्रा चिरात् क्षणम् अशेत. सुप्त्âपि च तम् एव दीर्घ-लोचनं ददर्श. [30] स्वप्न्âसादित-द्वितीय-दर्शना च्âकर्ण्âकृष्ट-कार्मुकेण मनसि निर्दयम् अताड्यत मकर-केतुना. प्रतिबुद्धाया मदन-शर्âहतायाश् च तस्या वार्ताम् इव्ôपलब्धुम् अरतिर् आजगाम. तथा हि: ततः-प्रभृति कुसुम-धूलि-धवलाभिर् वन-लताभिर् अ-ताडितापि वेदनाम् अधत्त. मन्द-मन्दम् आरुत-विधुतैः कुसुम-रजोभिर् अ-दूषित-लोचन्âप्य् अश्रु-जलं मुमोच. हंस-पक्ष-तालवृन्त-वात-व्रात-विततैः शोण-शीकरैर् अ-सिक्त्âप्य् आर्द्रताम् अगात्. प्रेङ्खत्-कादम्ब-मिथुनाभिर् अन्-ऊढ्âप्य् अघूर्णत वन-कमलिनी-कल्लोल-दोलाभिः. विघटमान-चक्रवाक-युगल-विमृष्टैर् अ-स्पृष्ट्âपि श्यामताम् आससाद विरह-निःश्वास-धूमैः. पुष्प-धूलि-धूसरैर् अ-दष्ट्âपि व्यचेष्टत मधुकर-कुलैः.
अथ गण-रात्र्âपगमे निवर्तमानस् तेन्âइव वर्त्मना तं देशं समागत्य तथ्âइव निवारित-परिजनश् छत्र-धार-द्वितीयो विकुक्षिर् डुढौके. सरस्वती तु तं दूराद् एव संमुखम् आगच्छन्तं प्रीत्या स-संभ्रमम् उत्थाय वन-मृगीव्ôद्ग्रीवा विलोकयन्ती मार्ग-परिश्रान्तम् अस्नपयद् इव धवलित-दश-दिशा दृशा. कृत्âसन-परिग्रहं तु तं प्रीत्या सावित्री पप्रच्छ: "आर्य, कच्-चित् कुशली कुमारः?" इति. सो ऽब्रवीत्: "आयुष्मति, कुशली. स्मरति च भवत्योः. केवलम् अमीषु दिवसेषु तनीयसीम् इव तनु बिभर्ति. अ-विज्ञायमान-निमित्तां च शून्यताम् इव्âधत्ते. अपि [31] च. अन्वक्षम् आगमिष्यत्य् एव मालतीति नाम्ना वाणिनी वार्तां वो विज्ञातुम्. उच्छ्वसितं हि सा कुमारस्य" इति. तच् छ्रुत्वा पुनर् अपि सावित्री समभाषत: "अति-मह्âनुभावः खलु कुमारो येन्âइवम् अ-विज्ञायमाने क्षण-दृष्टे ऽपि जने परिचितिम् अनुबध्नाति. तस्य हि गच्छतो यदृच्छया कथम् अप्य् अंशुकम् इव मार्ग-लतासु मानसम् अस्मासु मुहूर्तम् आसक्तम् आसीत्. अ-शून्यं हि सौजन्यम् आबिजात्येन वः स्वामि-सूनोः. अलसः खलु लोको यद् एवं सुलभ-सौहार्दानि येन केन-चिन् न क्रीणाति महतां मनांसि. सो ऽयम् औदार्य्âतिशयः को ऽपि मह्âत्मनाम् इतर-जन-दुर्-लभो येन्ôपकरणी-कुर्वन्ति त्रि-भुवनम्" इति. विकुक्षिस् त्ûच्चावचैर् आलापैः सु-चिरम् इव स्थित्वा यथ्âभिलषितं देशम् अयासीत्.
अपरेद्युर् उद्यति भगवति द्युमणाव् उद्दाम-द्युताव् अभिद्रुत-तारके तिरस्-कृत-तमसि तामरस-व्यास-व्यसनिनि सहस्र-रश्मौ शोणम् उत्तीर्यायान्ती, तरल-देह-प्रभावित्âनच्-छलेन्âत्य्-अच्छं सकलं शोण-सलिलम् इव्âनयन्तीं, स्फुटित्âति-मुक्तक-कुसुम-स्तबक-सम-त्विषि सटाले महति मृग-पताव् इव गौरी तुरङ्गमे स्थिता, सलीलम् उरो-बन्ध्âरोपितस्य तिर्यग्-उत्कर्ण-तुरग्âकर्ण्यमान-नूपुर-पटु-रणितस्य्âति-बहलेन पिण्डा-लक्तकेन पल्लवितस्य कुङ्कुम-पिञ्जरित-पृष्ठस्य चरण-युगलस्य प्रसरद्भिर् अति-लोहितैः प्रभा-प्रवाहैर् उभयतस्-ताडन-दोहद-लोभ्âगतानि किसलयितानि रक्त्âशोक-वनान्îव्âकर्षयन्ती, सकल-जीव-लोक-हृदय-हठ-हरण्âघोषणय्êव रशनया शिञ्जान-जघन-स्थला, धौत-धवल-नेत्र-निर्मितेन निर्मोक-लघु-तरेण्âप्रपदीनेन कञ्चुकेन तिरो-हित-तनु-लता, [32] छात-कञ्चुक्âन्तर-दृश्यमानैर् आश्यान-चन्दन-धवलैर् अवयवैः स्व्-अच्छ-सलिल्âभ्यन्तर-विभाव्यमान-मृणाल-काण्ड्êव सरसी, कुसुम्भ-राग-पाटलं पुलक-बन्ध-चित्रं चण्डातकम् अन्तः-स्फुटं स्फटिक-भूमिर् इव रत्न-निधानम् आदधाना, हारेण्âमलकी-फल-निस्तुल-मुक्ता-फलेन स्फुरित-स्थूल-ग्रह-गण-शारा शारद्îव श्वेत-विरल-जल-धर-पटल्âवृता द्यौः, कुच-पूर्ण-कलशयोर् उपरि रत्न-प्रालम्ब-मालिकाम् अरुण-हरित-किरण-किसलयिनीं कस्य्âपि पुण्यवतो हृदय-प्रवेश-वन-मालिकाम् इव बद्धां धारयन्ती, प्रकोष्ठ-निविष्टस्य्âइकस्य हाटक-कटकस्य मरकत-मकर-वेदिका-स-नाथस्य हरिती-कृत-दिग्-अन्ताभिर् मयूख-संततिभिः स्थल-कमलिनीबिर् इव लक्ष्मी-शङ्खय्âनुगम्यमाना, अति-बहल-ताम्बूल-कृष्णिक्âन्धकारितेन्âधर-संपुटेन मुख-शशि-पीतं स-संध्या-रागं तिमिरम् इव वमन्ती, विकच-नयन-कुवलय-कुतूहल्âनिलीयमान-यलिकुल-संहत्या नील्âंशुक-जालिकय्êव निरुद्ध्âध-वदना, नीली-राग-निहित-नीलिम्ना शिखि-गल-शितिना वाम-श्रवण्âश्रयिणा दन्त-पत्रेण काल-मेघ- पल्लवेन्êन विद्युद् इव द्योतमाना बकुल-फल्âनुकारिणीभिस् तिसृभिर् मुक्ताभिः कल्पितेन बालिका-युगलेन्âधो-मुखेन्âलोक-जल-वर्षिणा सिञ्चन्त्îव्âति-कोमले भुज-लते, दक्षिण-कर्ण्âवतंसितया केतकी-गर्भ-पलाश-लेखया रजनिकर-जिह्वा-लतय्êव लावण्य-लोभेन लिह्यमान-कपोल-तला, तमाल-श्यामलेन मृग-मद्âमोद-निष्यदिना तिलक-बिन्दुना मुद्रितम् इव मनो-भव-सर्वस्वं वदनम् उद्वहन्ती, ललाट-लासकस्य सीमन्त-चुम्बिनश् चटुला-तिलक-मणेर् उदञ्चता चटुलेन्âंशुजाल्êव रक्त्âंशुकेन्êव कृत-शिरो-ऽवगुण्ठना, पृष्ठ-प्रेङ्खद्-अनादर-संयमन-शिथिल-जूटिका-बन्धा नील-चामर्âवकूलिन्îव, चूडा- [33] -मणि-मकरिका-स-नाथा, मकर-केतु-पताकय्êव, कुल-देवत्êव चन्द्रमसः, पुनः-सञ्जीवन्âउषधिर् इव पुष्प-धनुषः, वेल्êव राग-सागरस्य, ज्योत्स्न्êव यौवन-चन्द्र्ôदयस्य, महा-नद्îव रति-रस्âमृतस्य, कुसुम्ôद्गतिर् इव सुरत-तरोः, बाल-विद्य्êव वैदग्ध्यस्य, कौमुद्îव कान्तेः, धृतिर् इव धैर्यस्य, गुरु-शाल्êव गौरवस्य, बीज-भूमिर् इव विनयस्य, गोष्ठ्îव गुणानाम्, मनस्वित्êव मह्âनुभावतायाः, तृप्तिर् इव तारुण्यस्य, कुवलय-दल-दाम-दीर्घ-लोचनया पाटला-धरया कुन्द-कुढ्मल-स्फुट-दशनया शिरीष-माला-सु-कुमार-भुज-युगलया कमल-कोमल-करया बकुल-सुरभि-निःश्वसितया चम्पक्âवदात-देहया कुसुम-मय्य्êव ताम्बूल-करण्ड-वाहिन्या मालती समदृश्यत. दूराद् एव च दधीच-प्रेम्णा सरस्वत्या लुण्ठित्êव मनो-रथैः, आकृष्ट्êव कुतूहलेन, प्रत्युद्गत्êवोत्कलिकाभिः, आलिङ्गित्êव्ôत्कण्ठया, अन्तः-प्रवेशित्êव [34] हृदयेन, स्नपित्êव्âनन्द्âश्रुभिः, विलिप्त्êव स्मितेन, वीजित्êव्ôच्छ्वसितैः, आच्छादित्êव चक्षुषा, अभ्यर्चित्êव वदन-पुण्डरीकेण, सखी-कृत्êव्âशया सविधम् उपययौ. अवतीर्य च दूराद् एव्âनतेन मूर्ध्ना प्रणामम् अकरोत्. आलिङ्गिता च ताभ्यां स-विनयम् उपाविशत्. स-प्रश्रयं ताभ्यां संभाषिता च पुण्य-भाजनम् आत्मानम् अमन्यत. अकथयच् च दधीच-संदिष्टं शिरसि निहितेन्âञ्जलिना नमस्-कारम्. अगृह्णाच् च्âकरतः प्रभृत्य् अ-ग्राम्यतया तैस् तैर् अति-पेशलैर् आलापैः सावित्री-सरस्वत्योर् मनसी.
क्रमेण च्âतीते मध्यन्-दिन-समये शोणम् अवतीर्णायां सावित्र्यां स्नातुम् उत्सारित-परिजना स्âकूत्êव मालती कुसुम-स्रस्तर-शायिनीं समुपसृत्य सरस्वतीम् आबभाषे: "देवि, विज्ञाप्यं नः किञ्-चिद् अस्ति रहसि. यतो मुहूर्तम् अवधान-दानेन प्रसादं क्रियमाणम् इच्छामि" इति. सरस्वती तु दधीच-सदेश्âशङ्किनी किं वक्ष्यत्îति स्तन-निहित-वाम-कर-नखर-किरण-दन्तुरितम् उद्भिद्यमान-कुतूहल्âङ्कुर-निकरम् इव हृदयम् उत्तरीय-दुकूल-वल्कल्âइक-देशेन संछादयन्ती, गलत्âवतंस-पल्लवेन श्रोतुं श्रवणेन्êव कुतूहलाद् धावमानेन्âविरत-श्वास-संदोह-दोलायितां जीवित्âशाम् इव समासन्न-तरुण-तरु-लताम् अवलम्बमाना, समुत्फुल्लस्य मुख-शशिनो लावण्य-प्रवाहेण शृङ्गार-रसेन्êव्âप्लावयन्ती सकलं जीव-लोकम्, शयन-कुसुम-परिमल-लग्नैर् मधुकर-कदम्बकैर् मदन्âनल-दाह-श्यामलैर् मनो-रथैर् इव निर्गत्य मूर्तैर् उत्क्षिप्यमाणा, कुसुम-शयनीयात् स्मर-शर-संज्वरिणी, मन्दं मन्दम् उदगात्. "उपांशु कथय" इति कपोल-तल-प्रतिबिम्बितां लज्जया कर्ण-मूलम् इव मालतीं प्रवेशयन्ती मधुरया गिरा सु-धीरम् उवाच: "सखि मालति, किम्-अर्थम् एवम् अभिदधासि? क्âहम् अवधान-दानस्य शरीरस्य प्राणानां वा? सर्वस्य्âप्रार्थितो ऽपि प्रभवत्य् एव्âति-वेलं चक्षुष्यो जनः. सा न का-चिद् या [35] न भवसि मे स्वसा सखी प्रणयिनी प्राण-समा च. नियुज्यतां यावतः कार्यस्य क्षमं क्षोदीयसो गरीयसो वा शरीरकम् इदम्. अन्-अवस्करम् आश्रवं त्वयि हृदयम्. प्रीत्या प्रतिसरा विधेय्âस्मि ते. व्यावृणु वर-वर्णिनि, विवक्षितम्" इति. सा त्व् अवादीत्: "देवि, जानास्य् एव माधुर्यं विषयाणाम्, लोलुपतां च्êन्द्रिय-ग्रामस्य, उन्मादितां च नव-यौवनस्य, पारिप्लवतां च मनसः. प्रख्यात्âइव मन्मथस्य दुर्-निवारता. अतो न माम् उपालम्भेन्ôपस्थातुम् अर्हसि. न च बालिशता चपलता चारणता वा वाचालतायाः कारणम्. न किञ्-चिन् न कारयत्य् अ-साधारणा स्वामि-भक्तिः. सा त्वं देवि, यद्âइव दृष्ट्âसि देवेन तत एव्âरभ्य्âस्य कामो गुरुः, चन्द्रमा जीवित्êशः, मलय-मरुद्-उच्छ्वास-हेतुः, आधयो ऽन्तर्-अङ्ग-स्थानेषु, संतापः, परम-सुहृत्, प्रजागर आप्तः, मनो-रथाः सर्व-गताः, निःश्वासा विग्रह्âग्रे-सराः, मृत्युः पार्श्व-वर्ती, रणरणकः संचारकः संकल्पा बुद्ध्य्-उपदेश-वृद्धाः. किञ् च विज्ञा- [36] -पयामि. अनुरूपो देव इत्य् आत्म-संभावना, शीलवान् इति प्रक्रम-विरुद्धम्, धोर इत्य् अवस्था-विपरीतम्, सुभग इति त्वद्-आयत्तम्, स्थिर-प्रीतिर् इति निपुण्ôपक्षेपः, जानाति सेवितुम् इत्य् अ-स्वामि-भाव्ôचितम्, इच्छति दास-भावम् आ-मरणात् कर्तुम् इति धूर्त्âलापः, भवन-स्वामिनी भव्êत्य् उपप्रलोभनम्, पुण्य-भागिनी भजति भर्तारं तादृशम् इति स्वामि-पक्ष-पातः, त्वं तस्य मृत्युर् इत्य् अ-प्रियम्, अ-गुण-ज्ञ्âस्îत्य् अधिक्षेपः, स्वप्ने ऽप्य् अस्य बहुशः कृत-प्रसाद्âस्îत्य् अ-स्âक्षिकम्, प्राण-रक्ष्âर्थम् अर्थयत इति कातरता, तत्र गम्यताम् इत्य् आज्ञा, वारितो ऽपि बलाद् आगच्छत्îति परिभवः. तद् एवम् अ-गोचरे गिराम् अस्îति श्रुत्वा देवी प्रमाणम्" इत्य् अभिधाय तूष्णीम् अभूत्.
अथ सरस्वती प्रीति-विस्फारितेन चक्षुषा प्रत्यवादीत्: "अयि, न शक्नोमि बहु भाषितुम्. एष्âस्मि ते स्मित-वादिनि वचसि स्थिता. गृह्यन्ताम् अमी प्राणाः" इति. मालती तु "देवि, यद् आज्ञापयसि, अति-प्रसादाय" इति व्याहृत्य प्रहर्ष-पर-वशा प्रणम्य प्रजविना तुरगेण ततार शोणम्. अगाच् च दधीचम् आनेतुं च्यवन्âश्रम-पदम्. इतरा तु सखी-स्नेहेन सावित्रीम् अपि विदित-वृत्त्âन्ताम् अकरोत्. उत्कण्ठ्âभार-भृता च ताम्यता चेतसा कल्पायितं कथङ्-कथम् अपि दिवस-शेषम् अनैषीत्, अस्तम्-उपगते च भगवति गभस्तिमति, स्तिमित-तरम् अवतरति तमसि, प्रहसिताम् इव सितां दिशं पौरन्दरीं दरीम् इव केसरिणि मुञ्चति चन्द्रमसि सरस्वती शुचिनि चीन्âंशुक-सु-कुमार-तरे तरङ्गिणि दुगूल-कोमल-शयन इव शोण-सैकते समुपविष्टा स्वप्न-कृत-प्रार्थना पाद-पतन-लग्नां दधीच-चरण-नख-चन्द्रिकाम् इव ललाटिकां दधाना, गण्ड-स्थल्âदर्श-प्रतिबिम्बितेन "चारु-हासिनि, अयम् असाव् आहृतो हृदय-दयितो जनः" इति श्रवण-समीप-वर्तिना निवेद्यमान- [37] -मदन-संदेश्êव्êन्दुना, विकीर्यमाण-नख-किरण-चक्रवालेन वाल-व्यजनी-कृत-चन्द्र-कला-कलापेन्êव करेण वीजयन्ती स्वेदिनं कपोल-पट्टम्, "अत्र दधीचाद् ऋते न केन-चित् प्रवेष्टव्यम्" इति तिरश्चीनं चित्त-भुवा पातितां विलास-वेत्र-लताम् इव बाल-मृणालिकाम् अधि-स्तनं स्तनयन्ती कथम् अपि हृदयेन वहन्ती प्रतिपालयाम् आस. आसीच् च्âस्या मनसि: "अहम् अपि नाम सरस्वती यत्र्âमुना मनो-जन्मना जानत्य्êव पर-वशी-कृता. तत्र का गणन्êतरासु तपस्विनीष्व् अति-तरलासु तरुणीषु" इति.
आजगाम च मधु-मास इव सुरभि-गन्ध-वाहः, हंस इव कृत-मृणाल-धृतिः, शिखण्ड्îव घन-प्रीत्य्-उन्मुखः, मलय्âनिल इव्âहित-सरस-चन्दन-धवल-तनु-लत्ôत्कम्पः, कृष्यमाण इव कृत-कर-कच-ग्रहेण ग्रह-पतिना, प्रेर्यमाण इव कन्दर्प्ôद्दीपन-दक्षेण दक्षिण्âनिलेन, उह्यमान इव्ôत्कलिका-बहुलेन रति-सरसेन, परिमल-संपातिना मधुप-पटलेन पटेन्êव नीलेन्âच्छादित्âङ्ग-यष्टिः, अन्तः-स्फुरता मत्त-मदन-करि-कर्ण-शङ्खायमानेन प्रतिम्êन्दुना प्रथम-समागम-विलास-विलक्ष-स्मितेन्êव धवली-क्रियमाण्âइक-कपोल्ôदरो मालती-द्वितीयो दधीचः. आगत्य च हृदय-गत-दयिता-नूपुर-रव-विमिश्रय्êव हंस-गद्गदया गिरा कृत-संभाषणो यथा मन्मथः समाज्ञापयति, यथा यौवनम् उपदिशति, यथा विदग्धत्âध्यापयति, यथ्âनुरागः शिक्षयति, तथा ताम् अभिरामां [38] रामाम् अरमयत्. उपजात-विस्रम्भा च्âत्मानम् अकथयद् अस्य सरस्वती. तेन तु स्âर्धम् एक-दिवसम् इव संवत्सरम् अधिकम् अनयत्.
अथ दैव-योगात् सरस्वती बभार गर्भम्. असूत च्âनेहसा सर्व-लक्षण्âभिरामं तनयम्. तस्मै च जात-मात्राय्âइव "सम्यक्-सरहस्याः सर्वे वेदाः सर्वाणि च शास्त्राणि सकलाश् च कला मत्-प्रभावात् स्वयम् आविर्-भविष्यन्ति" इति वरम् अदात्. सद्-भर्तृ-श्लाघया दर्शयितुम् इव हृदयेन्âदाय दधीचं पितामह्âदेशात् समं सावित्र्या पुनर् अपि ब्रह्म-लोकम् आरुरोह. गतायां च तस्यां दधीचो ऽपि हृदये ह्रादिन्य् एव्âभिहतो भार्गव-वंश-संभूतस्य भ्रातुर् ब्राह्मणस्य जायाम् अक्षमाल्âभिधानां मुनि-कन्यकाम् आत्म-सूनोः संवर्धनाय नियुज्य विरह्âतुरस् तपसे वनम् अगात्. यस्मिन्न् एव्âवसरे सरस्वत्य् असूत तनयं तस्मिन्न् एव्âक्षमाल्âपि सुतं प्रसूतवती. तौ तु सा निर्-विशेषं सामान्य-स्तन्य्âदिना शनैः शनैः शिशू समवर्धयत्. एकस् तयोः सारस्वत्âख्य एव्âभवत्, अपरो ऽपि वत्स-नाम्âसीत्. आसीच् च तयोः स्ôदर्ययोर् इव स्पृहणीया प्रीतिः.
अथ सारस्वतो मातुर् महिम्ना यौवन्âरम्भ एव्âविर्-भूत्âशेष-विद्या-संभारस् तस्मिन् स-वयसि भ्रातरि प्रेयसि प्राण-समे सुहृदि वत्से वाङ्-मयं समस्तम् एव संचारयाम् आस. चकार च कृत-दार-परिग्रहस्य्âस्य तस्मिन्न् एव प्रदेशे प्रीत्या प्रीतिकूट-नामानं निवासम्. आत्मन्âप्य् आषाढी, कृष्ण्âजिनी, अक्ष-वलयी, वल्कली, मेखली, जटी च भूत्वा तपस्यतो जनयितुर् एव जगाम्âन्तिकम्.
अथ वत्सात् प्रवर्धमान्âदि-पुरुष-जनित्âत्म-चरण्ôन्नति-निर्गत-प्रघोषः, परम्êश्वर-शिरो-धृतः, सकल-कल्âगम-गम्भीरः, महा-मुनि-मान्यः, [39] विपक्ष-क्षोभ-क्षमः, क्षिति-तल-लब्ध्âयतिः, अ-स्खलित-प्रवृत्तो भागीरथी-प्रवाह इव पावनः प्रावर्तत विमलो वंशः. यस्माद् अजायन्त वात्स्यायना नाम गृह-मुनयः, आश्रित-श्रौता अप्य् अन्-आलम्बित्âलीक-बक-काकवः, कृत-कुक्कुट-व्रता अप्य् अ-बैडाल-वृत्तयः, विवर्जित-जन-पङ्क्तयः, परिहृत-कपट- कौरुकुची -कूर्च्âकूताः, अ-गृहीत-गह्वराः, न्यक्कृत-निकृतयः, प्रसन्न-प्रकृतयः, विहत-विकृतयः, पर-परीवाद-पराचीन-चेतो-वृत्तयः, वर्ण-त्रय-व्यावृत्ति-विशुद्ध्âन्धसः, धीर-विषणः, विधूत्âध्येषणाः, अ-सङ्कसुक-स्वभावाः, प्रणत-प्रणयिनः, शमित-समस्त-शाख्âन्तर-संशीतयः उद्घाटित-समग्र-ग्रन्थ्âर्थ-ग्रन्थयः, कवयः, वाग्मिनः, वि-मत्सराः, पर-सुभाषित-व्यसनिनः, विदग्ध-परिहास-वेदिनः, परिचय-पेशलाः, नृत्य-गीत-वादित्रेष्व् अ-बाह्याः,ऐतिह्यस्य्â-वितृष्णाः, स्âनुक्रोशाः, सर्व्âतिथयः, सर्व-साधु-संमताः, सर्व-सत्त्व- [40] -साधारण-सौहार्द-द्रव्âर्द्री-कृत-हृदयाः, तथा सर्व-गुण्ôपेता राजसेन्âन्-अभिभूताः, क्षमा-भाज आश्रित-नन्दनाः, अ-निस्त्रिंशा विद्या-धराः, अ-जडाः कलावन्तः, अ-दोषास् तारकाः, अ-पर्ôपतापिनो भास्वन्तः, अन्-उष्माणो हुत-भुजः, अ-कुसृतयो भोगिनः, अ-स्तम्भाः पुण्य्âलयाः, अ-लुप्त-क्रतु-क्रिया दक्षाः, अ-व्यालाः काम-जितः, अ-साधारणा द्वि-जातयः.
तेषु च्âइवम् उत्पद्यमानेषु, संसरति च संसारे, यात्सु युगेषु, अवतीर्णे कलौ, वहत्सु वत्सरेषु, व्रजत्सु वासरेषु, अतिक्रामति च काले प्रसव-परम्पराभिर् अन्-अवरतम् आपतति विकाशिनि वात्स्यायन-कुले, क्रमेण कुबेर-नामा वैनतेय इव गुरु-पक्ष-पाती द्विजो जन्म लेभे. तस्याभवन्न् अच्युत इशानो हरः पाशुपतश् च्êति चत्वारो युग्âरम्भा इव ब्राह्म-तेजो-जन्यमान-प्रजा-विस्तारा नारायण-बाहु-दण्डा इव सच्-चक्र-नन्दकास् तनयाः. तत्र पाशुपतस्य्âइक एव्âभवद् भू-भार इव्â- [41] -चल-कुल-स्थितिः स्थिरश् चतुर्-उदधि-गम्भीरो ऽर्थपतिर् इति नाम्ना समग्र्âग्र-जन्म-चक्र-चूडा-मणिर्-मह्âत्मा सूनुः. सो ऽजनयद् भृगुं हंसं शुचिं कविं महीदत्तं धर्मं जातवेदसं चित्रभानुं त्र्यक्षं महिदत्तं विश्वरूपं च्êत्य् एक्âदश रुद्रान् इव सोम्âमृत-रस-शीकर-च्छुरित-मुखान् पवित्रान् पुत्रान्. अलभत च चित्रभानुस् तेषां मध्ये राजदेव्य्-अभिधानायां ब्राह्मण्यां बाणम् आत्मजम्. स बाल एव बलवतो विधेर् वशाद् उपसंपन्नया व्ययुज्यत जनन्या. जात-स्नेहस् तु नितरां पित्âइव्âस्य मातृताम् अकरोत्. अवर्धत च तेन्âधिकतरम् आधीयमान-धृतिर् धाम्नि निजे.
कृत्ôपनयन्âदि-क्रिया-कलापस्य समावृत्तस्य च्âस्य चतुर्-दश-वर्ष-देशीयस्य पित्âपि श्रुति-स्मृति-विहितं कृत्वा द्वि-ज-जन्ôचितं निखिलं पुण्य-जातं कालेन्â-दशमीस्थ एव्âस्तम्-अगमत्. संस्थिते च पितरि महता शोकेन्âभीलम् अनुप्राप्तो दिवा-निशं दह्नमान-हृदयः कथङ्-कथम् अपि कतिपयान् दिवसान् आत्म-गृह एव्âनैषीत्. गते च विरलतां शोके शनैः शनैर् अ-विनय-निदानतया स्वातन्त्रयस्य, कुतूहल-बहुलतया च बाल-भावस्य, धैर्य-प्रतिपक्षतया च यौवन्âरम्भस्य, शैशव्ôचितान्य् अन्-एकानि चापलान्य् आचरन्न् इत्वरो बभूव. अभवंश् च्âस्य स-वयसः समानाः सुहृदः सहायाश् च. तथा च. भ्रातरौ पारशवौ चन्द्रसेन-मातृषेणौ, भाषाकविर् ईशानः परं मित्त्रम्, प्रणयिनौ रुद्र-नारायणौ, विद्वांसौ वारबाण-वासबाणौ, वर्णकविर् वेणीभारतः प्राकृत-कृत्-कुल-पुत्रो वायुविकारः, बन्दिनाव् अनङ्गबाण-सूचीबाणौ, कत्यायनिका [42] चक्रवाकिका, जाङ्गुलिको मयूरकः, ताम्बूल-दायकश् चण्डकः, भिषक्-पुत्रो मन्दारकः,पुस्तक-वाचकः सुदृष्टिः, कलादश् चामीकरः, हैरिकः सिन्धुषेणः, लेखको गोविन्दकः, चित्र-कृद् वीरवर्मा, पुस्त-कृत् कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ सोमिल-ग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकर-पारावतौ, गान्धर्व्ôपाध्यायो दर्दुरकः, संवाहिका केरलिका लासक-युवा ताण्डविकः, आक्षिक आखण्जलः, कितवो भीमकः, शैलालि-युवा शिखण्डकः, नर्तकी हरिणिका, पाराशरी सुमतिः, क्षपणको वीरदेवः, कथको जयसेनः, शैवो वक्रघोणः, मन्त्र-साधकः करालः, अ-सुर-विवर-व्यसनी लोहिताक्षः, धातु-वाद-विद् विहङ्गमः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश् चकीराक्षः, मस्करी ताम्रचूडकः. स एभिर् अन्यैश् च्âनुगम्यमानो बालतया निघ्नताम् उपगतो देश्âन्तर्âवलोकन-कौतुक्âक्षिप्त-हृदयः सत्स्व् अपि पितृ-पितामह्ôपात्तेषु ब्राह्मण-जन्ôचितेषु विभवेषु सति च्â-विच्छिन्ने विद्या-प्रसङ्गे गृहान् निरगात्. अगाच् च निर्-अवग्रहो ग्रहवान् इव नव-यौवनेन स्वैरिणा मनसा महताम् उपहास्यताम्.
अथ शनैः शनैर् अत्य्-उदार-व्यवहृति-मनो-हृन्ति बृहन्ति राज-कुलानि वीक्षमाणः, निर्-अवद्य-विद्या-विद्योतितानि गुरु-कुलानि च सेवमानः, मह्âर्ह्âलाप-गम्भीर-गुणवद्-गोष्ठीश् च्ôपतिष्ठमानः, स्व-भाव-गम्भीर-धी- [43] -र् धनानि विदग्ध-मण्डलानि च गाहमानः, पुनर् अपि तम् एव वैपश्चितीम् आत्म-वंश्ôचितां प्रकृतिम् अभजत्. महतश् च कालात् तम् एव भूयो वात्स्यायन-वंश्âश्रमम् आत्मनो जन्म-भुवं ब्राह्मण्âधिवासम् अगमत्. तत्र च चिर-दर्शनाद् अभिनवी-भूत-स्नेह-सद्-भावैः स-संस्तव-प्रकटित-ज्ञातेयैर् आप्तैर् उत्सव-दिवस इव्âनन्दित्âगमनो बाल-मित्र-मण्डल-मध्य-गतो मोक्ष-सुखम् इव्âन्वभवत्.
इति श्री-महा-कवि-बाण-भट्ट-कृतौ हर्षचरिते वात्स्यायन-वंश-वर्णनं नाम प्रथम उच्छ्वासः
[44] द्वितीय उच्छ्वासः
अति-गम्भीरे भूपे कूप इव जनस्य निर्-अवतारस्य ।
दधति समीहित-सिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ 2.1 ॥
रागिणि नलिने लक्ष्मीं दिवसो निदधाति दिन-कर-प्रभवाम् ।
अन्-अपेक्षित-गुण-दोषः पर्ôपकारः सतां व्यसनम् ॥ 2.2 ॥
अथ तत्र्âन्-अवरत्âध्ययन-ध्वनि-मुखराणि, भस्म-पुण्ड्रक-पाण्डुर-ललाटैः कपिल-शिखा-जाल-जटिलैः कृशानुभिर् इव क्रतु-लोभ्âगतैर् बटुभिर् अध्यास्यमानानि, सेक-सु-कुमार-सोम-केदारिका-हरितायमान-प्रघनानि, कृष्ण्âजिन-विकीर्ण-शुष्यत्-पुरोडाशीय-श्यामाक-तण्डुलानि, बालिका-विकीर्यमाण-नीवार-बलीनि, शुचि-शिष्य-शत्âनीयमान-हरित-कुश-पूली-पलाश-समिन्धि, इन्धन-गोमय-पिण्ड-कूट-संकटानि, आमिक्षीय-क्षीर-क्षारिणीनाम् अग्निहोत्र-धेनूनां खुर-वलयैर् विलिखित्âजिर-वितर्दिकानि, कमण्डलव्य-मृत्-पिण्ड-मर्दन-व्यग्र-यति-जनानि, वैतान-वेदी-शङ्कव्यानाम् औदुम्बरीणां शाखानां राशिभिः पवित्रित-पर्यन्तानि वैश्वदेव- [45] -पिण्ड-पाण्डुरित-प्रदेशानि, हविर्-धूम-धूसरित्âङ्गण-विटपि-किसलयानि, वत्सीय-बालक-लालित-ललत्-तरल-तर्णकानि, क्रीडत्-कृष्ण-सार-च्छाग-शावक-प्रकटित-पशु-बन्ध-प्रबन्धानि, शुक-सारिक्âरब्ध्âध्ययन-दीयमान्ôपाध्याय-विश्रान्ति-सुखानि, साक्षात्-त्रयी-तपो-वनान्îव चिर-दृष्टानां बान्धवानां प्रीयमाणो भ्रमन् भवनानि, बाणः सुखम् अतिष्ठत्.
तत्र-स्थस्य च्âस्य कदा-चित् कुसुम-समय-युगम् उपसंहरन्न् अजृम्भत ग्रीष्म्âभिधानः संफुल्ल-मल्लिका-धवल्âट्ट-हासो महा-कालः. प्रत्यग्र-निर्जितस्य्âस्तम्-उपगतवतो वसन्त-सामन्तस्य बालापत्येष्व् इव पयः-पायिषु नव्ôद्यानेषु दर्शित-स्नेहो मृदुर् अभूत्. अभिनव्ôदितश् च सर्वस्यां पृथिव्यां सकल-कुसुम-बन्धन-मोक्षम् अकरोत् प्रतपन्न् उष्ण-समयः. स्वयम् ऋतु-राजस्य्âभिषेक्âर्द्राश् चामर-कलापा इव्âगृह्यन्त कामिनी-चिकुर- [46] -चयाः कुसुम्âयुधेन, हिम-दग्ध-सकल-कमलिनी-कोपेन्êव हिम्âलय्âभिमुखीं यात्राम् अदाद् अंशु-माली.
अथ ललाटन्-तपे तपति तपने चन्दन-लिखित-ललाटिका-पुण्ड्रकैर् अलक-चीर-चीवर-संवीतैः स्वेद्ôद-बिन्दु-मुक्त्âक्ष-वलय-वाहिभिर् दिन-कर्âराधन-नियमा इव्âगृह्यन्त ललना-ललाट्êन्दु-द्युतिभिः. चन्दन-धूसराभिर् अ-सूर्यम्-पश्याभिः कुमुदिनीभिर् इव दिवसम् असुप्यत सुन्दरीभिः. निद्रा-लसा रत्न्âलोकम् अपि न्âसहन्त दृशः, किम् उत जरठम् आतपम्. अ-शिशिर-समयेन चक्रवाक-मिथुन्âभिनन्दिताः सरित इव तनिमानम् आनीयन्त स्ôडुपाः शर्वर्यः. अभिनव-पटु-पाटल्âमोद-सुरभि-परिमलं न केवलं जलम्, जनस्य पवनम् अपि पातुम् अभूद् अभिलाषो दिवस-कर-संतापात्.
क्रमेण च खर-खग-मयूखे खण्डित-शैशवे, शुष्यत्-सरसि, सीदत्-स्रोतसि, मन्द-निर्झरे झिल्लिका-झाङ्कारिणि, कातर-कपोतकूजि- [47] -त्âनुबन्ध-बधिरित-विश्वे10, श्वसत्-पतत्त्रिणि, करीर्षं-कष-मरुति, विरल-वीरुधि, रुधिर-कुतूहलि-केसरि-किशोरक-लिह्यमान-कठोर-धातकी-स्तबके, ताम्यत्-स्तम्बेरम-यूथ-वमथु-तिम्यन्-महा-मही-धर-नितम्बे, दिन-कर-दूयमान-द्विरद-दीन-दान्âश्यान-दान-श्यामिका-लीन-मूक-मधुलिहि, लोहितायमान-मन्दार-सिन्दूरित-सीम्नि, सलिल-स्यन्द-संदोह-संदेह-मुह्यन्-महा-महिष-विषाण-कोटि-विलिख्यमान-स्फुटत्-स्फाटिक-दृषदि, घर्म-मर्मरित-गर्मुति, तप्त-पांशु-कुकूल-कातर-विकिरे, विवर-शरण-श्वाविधे, तटार्जुन-कुरर-कूजा-ज्वर-विवर्तमान्ôत्तान-शफर-शार-पङ्क-शेष-पल्पल्âम्भसि, दाव-जनित-जगन्-नीराजने, रजनी-राजय-क्ष्मणि, कठोरी-भवति निदाघ-काले प्रतिदिशम् आटीकमाना इव्ôषरेषु प्रपा-वाट-कुटी-पटल-प्रकट-लुण्ठकाः, [48] प्रपक्व-कपिकच्छू-गुच्छ-च्छटा-च्छोटन-चापलैर् अ-काण्ड-कण्डूला इव कर्षन्तः शर्करिलाः कर्कर-स्थलीः, स्थूल-दृषच्-चूर्ण-मुचः, मुचुकुन्द-कन्दल-दलन-दन्तुराः, संतत-तपन-ताप-मुखर-चीरी-गण-मुख-शीकर-शीक्यमान-तनवः, तरुण-तर-तरणि-ताप-तरले तरन्त इव तरङ्गिणि मृग-तृष्णिका-तरङ्गिणीनाम् अलीक-वारिणि, शुष्यच्-छमी-मर्मर-मारव-मार्ग-लङ्घन-लाघव-जव-जङ्घालाः, रैणवावर्त-मण्डली-रेचक-रास-रस-रभस्âरब्ध-नर्तन्âरम्भ्âरभटी-नटाः, दाव-दग्ध-स्थली-मषी-मिलन-मलिनाः शिक्षित-क्षपणक-वृत्तय इव वन-मयूर-पिच्छ-चयान् उच्चिन्वन्तः, स-प्रयाण-गुञ्जा इव [49] शिञ्जान-जरत्-करञ्ज-मञ्जरी-बीज-जालकैः, स-प्ररोहा इव्âतप्âतुर-वन-महिष-नासा-निकुञ्ज-स्थूल-निःश्वासैः, स्âपत्या इव्ôड्डीयमान-जवन-वात-हरिण-परिपाटी-पेटकैः, स-भ्रुकुटय इव दह्यमान-खल-धान-बुस-कूट-कुटिल-धूम-कोटिभिः, स्âवीचि-वीचय इव मह्ôष्म-मुक्तिभिः, लोमशा इव शीर्यमाण-शाल्मलि-फल-तूल-तन्तुभिः, दद्रुणा इव शुष्क-पत्र-प्रकर्âकृष्टिभिः, शिराला इव तृण-वेणी-विकरणैः उच्-छ्मश्रव इव धूयमान-नव-यवशूक-शकल-शङ्कुभिः, दंष्ट्राला इव चलित-शलल-सूची-शतैः, जिह्वाला इव वैश्वानर-शिखाभिः, उत्सर्पत्-सर्प-कञ्चुकैश् चूडाला इव ब्रह्म-स्तम्भ-रस्âभ्यवहरणाय कवल-ग्रहम् इव्ôष्णैः कमल-वन-मधुभिर् अभ्यस्यन्तः सकल-सलिल्ôच्छोषण-घर्म-घोषणा-घोर-पटहैर् इव शुष्क-वेणु-वन्âस्फोटन-पटु-रवैस् त्रि-भुवन-बिभीषिकाम् उद्भावयन्तः, च्युत-चपल-चाष-पक्ष-श्रेणी-शारित-सृतयः, त्विषिमन्-मयूख-लत्âलात-प्लोष-कल्माष-वपुष इव [50] स्फुटित-गुञ्जा-फल-स्फुलिङ्ग्âङ्गार्âङ्कित्âङ्गाः, गिरि-गुहा-गम्भीर-भाङ्कार-भीषण-भ्रान्तयः, भुवन-भस्मी-करण्âभिचार-चरु-पचन-चतुराः, रुधिर्âहुतिभिर् इव पारिभद्र-द्रुम-स्तबक-वृष्टिभिस् तर्पयन्तस् तारवान् वन-विभावसून्, अ-शिशिर-सिकता-तारकित-रंहसः, तप्त-शैल-विलीयमान-शिला-जतु-रस-लव-लिप्त-दिशः, दाव-दहन-पच्यमान-चटक्âण्ड-खण्ड-खचित-तरु-कोटर-कीट-पटल-पुटपाक-गन्ध-कटवः, प्रावर्तन्त्ôन्मत्ता मातरिश्वानः.
सर्वतश् च भूरि-भस्त्रा-सहस्र-संधुक्षण-क्षुभिता इव जरठ्âजगर-गम्भीर-गल-गुहा-वाहि-वायवः, क्व-चित् स्वच्छन्द-तृण-चारिणो हरिणाः, क्व-चित् तरु-तल-विवर-विवर्तिनो बभ्रवः, क्व-चिज् जट्âवलम्बिनः कपिलाः क्व-चिच् छकुनि-कुल-कुलाय-पातिनः श्येनाः, क्व-चिद् विलीन-लाक्षा-रस- [51] -लोहित-च्छवयो ऽधराः, क्व-चिद् आसादित-शकुनि-पक्ष-कृत-पटु-गतयो वि-शिखाः, क्व-चिद् दग्ध-निःशेष-जन्म-हेतवो निर्वाणाः, क्व-चित् कुसुम-वासित्âम्बर-सुरभयो रागिणः, क्व-चित् स-धूम्ôद्गारा मन्द-रुचयः, क्व-चित् सकल-जगद्-ग्रास-घस्मराः स-भस्मकाः, क्व-चिद् वेणु-शिखर-लग्न-मूर्तयो ऽत्यन्त-वृद्धाः, क्व-चिद् अ-चल्ôपयुक्त-शिला-जतवः क्षयिणः क्व-चित् सर्व-रस-भुजः पीवानः, क्व-चिद् दग्ध-गुग्गुलवो रौद्राः, क्व-चिज् ज्वलित-नेत्र-दहन-दग्ध-स-कुसुम-शर-मदनाः कृत-स्थाणु-स्थितयः, चटुल-शिखा-नर्तन्âरम्भ्âरभटीनटाः क्व-चिच् छुष्क-कासार-सृतिभिः स्फुटन्-नीरस-नीवार-बीज-लाज-वर्षिभिर् ज्वाल्âञ्जलिभिर् अर्चयन्त इव घर्म-घृणिम्, अ-घृणा इव हठ-हूयमान-कठोर-स्थल-कमठ-वसा-विस्र-गन्ध-गृध्नवः, स्वम् अपि धूमम् अम्भोद-समुद्भूति-भिय्êव भक्षयन्तः, स-तिल्âहुतय इव स्फुटद्-बहल-बाल-कीट-पटलाः कक्षेषु, श्वित्रिण इव प्लोष-विचटद्-वल्कल-धवल-शम्बूक- [52] -शुक्तयः, शुष्केषु सरःसु, स्वेदिन इव विलीयमान-मधु-पटल-गोल-गलित-मध्ûच्छिष्ट-वृष्टयः काननेषु, खलतय इव परिशीर्यमाण-शिखा-संहतयो मह्ôषरेषु, गृहीत-शिला-कवला इव ज्वलित-सूर्य-मणि-शकलेषु शिल्ôच्चयेषु, प्रत्यदृश्यन्त दारुणा दाव्âग्नयः.
तथा-भूते च तस्मिन्न् अत्य्-उग्रे ग्रीष्म-समये कदा-चिद् अस्य स्व-गृह्âवस्थितस्य भुक्तवतो ऽपर्âह्ण-समये भ्राता पारशवश् चन्द्रसेन-नामा प्रविश्य्âकथयत्: "एष खलु देवस्य चतुः-समुद्र्âधिपतेः सकल-राज-चक्र-चूडा-मणि-श्रेणी-शाण-कोण-कषण-निर्मली-कृत-चरण-नख-मणेः सर्व-चक्र-वर्तिनां धौरेयस्य महा-राज्âधिराज-परम्êश्वर-श्री-हर्ष-देवस्य भ्रात्रा कृष्ण-नाम्ना भवताम् अन्तिकं प्रज्ञाततमो दीर्घ्âध्व-गः प्रहितो द्वारम् अध्यास्ते" इति. सो ऽब्रवीत्: "आयुष्मन्, अ-विलम्बितं प्रवेशय्âइनम्" इति.
अथ तेन्âनीयमानम्, अति-दूर-गमन-गुरु-जड-जङ्घा-काण्डम्, कार्दमिक-चेल-चीरिका-नियमित्ôच्चण्ड-चण्डातकम्, पृष्ठ-प्रेङ्खत्-पटच्चर-कर्पट-घटित-गल-ग्रन्थिम्, अति-निबिड-सूत्र-बन्ध-निम्नित्âन्तराल-कृत-लेख-व्यवच्छेदया लेख-मालिकया परिकलित-मूर्धानम्, प्रविशन्तं लेख-हारकम् अद्राक्षीत्. अप्राक्षीच् च दूराद् एव: "भद्र, भद्रम् अ-शेष-भुवन-निष्कारण-बन्धोस् तत्र-भवतः कृष्णस्य?" इति. स "भद्रम्" इत्य् उक्त्वा प्रणम्य न्âति-दूरे समुपाविशत्. विश्रान्तश् च्âब्रवीत्: "एष खलु स्वामिना माननीयस्य लेखः प्रहितः" इति विमुच्य्â- [53] -र्पयत्. बाणस् तु स्âदरं गृहीत्वा स्वयम् एव्âवाचयत्: "मेखलकात् संदिष्टम् अवधार्य फल-प्रतिबन्धी धीमता परिहरणीयः काल्âतिपात इत्य् एतावद् अत्र्âर्थ-जातम्. इतरद्-वार्ता-संवादन-मात्रकम् ". अवधृत-लेख्âर्थश् च समुत्सारित-परिजनः संदेशं पृष्टवान्. मेखलकस् त्व् अवादीत्: "एवम् आह मेधाविनं स्वामी: जानात्य् एव मान्यो यथ्âइकगोत्रता वा, समान-ज्ञानता वा, समान-जातिता वा, सह-संवर्धनं वा, एक-देश-निवासो वा, दर्शन्âभ्यासो वा, परस्पर्âनुराग, श्रवणं वा, परोक्ष्ôपकार-करणं वा, समान-शीलता वा, स्नेहस्य हेतवः. त्वयि तु विना कारणेन्âदृष्टे ऽपि प्रत्यासन्ने बन्धाव् इव बद्ध-पक्ष-पातं किम् अपि स्निह्यति मे हृदयं दूर-स्थे ऽप्îन्दोर् इव कुमुद्âकरे. यतो भवन्तम् अन्तरेण्âन्यथा च्âन्यथा च्âयं चक्रवर्ती दुर्-जनैर् ग्राहित आसीत्. न च तत् तथा. न सन्त्य् एव ते येषां सताम् अपि सतां न विद्यन्ते मित्र्ôदासीन-शत्रवः. शिशु-चापल्âपराचीन-चेतो-वृत्तितया च भवतः केन-चिद् अ-सहिष्णुना यत्-किञ्-चिद् अ-सदृशम् उदीरितम्. इतरो लोकस् तथ्âइव तद् गृह्णाति वक्ति च. सलिलान्îव गत्âनुगतिकानि लोलानि खलु भवन्त्य् अ-विवेकिनां मनांसि. बहु-मुख-श्रवण-निश्चली-कृत-निश्चयश् च किं करोतु पृथिवी-पतिः. तत्त्व्âन्वेषिभिश् च्âस्माभिर् दूर-स्थितो ऽपि प्रत्यक्षी-कृतो ऽसि. विज्ञप्तश् चक्रवर्ती त्वद्-अर्थम्: यथा प्रायेण प्रथमे वयसि सर्वस्य्âइव चापलैः शैशवम् अपराध्îति. तथ्êति च स्वामिना प्रतिपन्नम्. अतो भवता राज-कुलम् अ-कृत-काल-क्षेपम् आगन्तव्यम्. अवकेश्îव्âदृष्ट-परम्êश्वरो बन्धु-मध्यम् अधिवसन्न् अपि न मे बहु-मतः. न च सेवा-वैषम्य-विषादिना परम्êश्वर्ôपसर्पण-भीरुणा वा भवता भवितव्यम्. यतो यद्य् अपि:
[54] स्व्êच्छ्ôपजात-विषयो ऽपि न याति वक्तुं देह्îति मार्गण-शतैश् च ददाति दुःखम् ।
मोहात् समाक्षिपति जीवनम् अप्य् अ-काण्डे कष्टं मनो-भव इव्êश्वर-दुर्-विदग्धः ॥2.3॥
तथ्âप्य् अन्ये ते भू-पतयः, अन्य एव्âयम्. न्यक्कृत-नृग-नल-निषध-नहुष्âम्बरीष-दशरथ-दिलीप-नाभाग-भरत-भगीरथ-ययातिर् अ-मृतमयः स्वामी. न्âस्य्âहङ्कार-कालकूट-विष-दिग्ध-दुष्टा दृष्टयः, न गर्व-गर-गुरु-गल-ग्रह-गद-गद्गदा गिरः, न्âति-स्मय्ôष्म्âपस्मार-विस्मृत-स्थैर्याणि स्थानकानि, न्ôद्दाम-दर्प-दाह-ज्वर-वेग-विक्लवा विकाराः, न्âभिमान-महा-संनिपात-निर्मित्âङ्ग-भङ्गानि गतानि, न मद्âर्दित-वक्री-कृत्âउष्ठ-निष्ठ्यूत-निष्ठुर्âक्षराणि जल्पितानि. तथा च: अस्य विमलेषु साधुषु रत्न-बुद्धिः, न शिला-शकलेषु. मुक्ता-धवलेषु गुणेषु प्रसाधन-धीः, न्âभरण-भारेषु. दानवत्सु कर्मसु साधन-श्रद्धा, न करि-कीटेषु. सर्व्âग्रे-सरे यशसि महा-प्रीतिः, न जीवित-जरत्-तृणे. गृहीत-करास्व् आशासु [55] प्रसाध्न्âभियोगः, न निज-कलत्र-धर्म-पुत्रिकासु. गुणवति धनुषि सहाय-बुद्धिः, न पिण्ड्ôपजीविनि सेवक-जने. अपि च,: अस्य मित्र्ôपकरणम् आत्मा, भृत्य्ôपकरणं प्रभुत्वम्, पण्डित्ôपकरणं वैदग्ध्यम्, बान्धव्ôपकरणं लक्ष्मीः, कृपण्ôपकरणम् ऐश्वर्यम्, द्वि-ज्ôपकरणं सर्वस्वम्, सु-कृत-संस्मरण्ôपकरणं हृदयम्, धर्म्ôपकरणम् आयुः, साहस्ôपकरणं शरीरम् असिलत्ôपकरणं पृथिवी, विनोद्ôपकरणं राजकम्, प्रताप्ôपकरणं प्रतिपक्षः. न्âस्य्âल्प-पुण्यैर् अवाप्यते सर्व्âतिशायि-सुख-रस-प्रसूतिः पाद-पल्लव-च्छाया" इति. श्रुत्वा च तम् एव चन्द्रसेनं समादिशत्: "कृत-कशिपुं विश्रान्त-सुखिनम् एनं कारय" इति.
अथ गते तस्मिन्, पर्यस्ते च वासरे, संघट्टमान-रक्त-पङ्कज-संपुट-पीयमान एव क्षयिणि क्षामतां व्रजति बाल-वायस्âस्य्âरुणे ऽपर्âह्ण्âतपे, शिथिलित-निज-वाजि-जवे जप्âपीड-पाटलिम्न्य् अस्ताचल-शिखर-स्खलिते खञ्जत्îव कमलिनी-कण्टक-क्षत-पाद-पल्लवे पतङ्गे, पुरः [56] परापतति प्रेङ्खद्-अन्धकार-लेश-लम्बालके शशि-विरह-शोक-श्याम इव श्यामा-मुखे, कृत-संध्य्ôपासनः शयनीयम् अगात्. अचिन्तयच् च्âइकाकी: किं करोमि. अन्यथा सम्भावितो ऽस्मि राज्ञा. निर्निमित्त-बन्धुना च संदिष्टम् एवं कृष्णेन. कष्टा च सेवा. विषमं भृत्यत्वम्. अति-गम्भीरं महद्-राज-कुलम्. न च मे तत्र पूर्व-ज-पुरुष-प्रवर्तिता प्रीतिः, न कुल-क्रम्âगता गतिः, न्ôपकार-स्मरण्âनुरोधः, न बाल-सेवा-स्नेहः, न गोत्र-गौरवम्, न पूर्व-दर्शन-दाक्षिण्यम्, न प्रज्ञा-संविभाग्ôपप्रलोभनम्, न विद्य्âतिशय-कुतूहलम्, न्âकार-सौन्दर्य्âदरः, न सेवाकाकु-कौशलम्, न विद्वद्-गोष्ठी-बन्ध-वैदग्ध्यम्, न वित्त-व्यय-वशी-करणम्, न रज-वल्लभ-परिचयः. अवश्यं गन्तव्यञ् च. सर्वथा भगवान् भवानी-पतिर् भुवन-पतिर् गतस्य मे शरणम्, सर्वं सांप्रत-चरिष्यति , इत्य् अवधार्यं गमनाय मतिम् अकरोत्.
अथ्âन्यस्मिन्न् अहन्य् उत्थाय, प्रातर् एव स्नात्वा, धृत-धवल-दुकूल-वासाः, गृहीत्âक्ष-मालः, प्रास्थानिकानि सूक्तानि मन्त्र-पदानि च बहुशः समावर्त्य देव-देवस्य विरूप्âक्षस्य क्षीर-स्नपन-पुरः-सरां सुरभि-कुसुम-धूप-गन्ध-ध्वज-बलि-विलेपन-प्रदीपक-बहुलां विधाय परमया भक्त्या पूजाम्, प्रथम-हुत-तरल-तिल-त्वग्-विघटन-चटुल-मुखर-शिखा-शेखरं प्राज्य्âज्य्âहुति-प्रवर्धित-दक्षिण्âर्चिषं भगवन्तम् आशुशुक्षणिं हुत्वा, दत्त्वा द्युम्नं यथ्âविद्यमानं द्वि-जेभ्यः, प्रदक्षिणी-कृत्य प्राङ्-मुखीं नैचिकीम्, शुक्ल्âङ्ग-रागः, शुक्ल-माल्यः, शुक्ल-वासाः, रोचना-चित्र-दूर्व्âग्र-पल्लव-ग्रथित-गिरि-कर्णिका-कुसुम-कृत-कर्ण-पूरः, शिख्âसक्त-सिद्ध्âर्थकः, पितुः कनीयस्या स्वस्रा मात्र्êव स्नेह्âर्द्र-हृदयया श्वेत-वाससा साक्षाद् इव [57] भगवत्या महा-श्वेतया मालत्य्-आख्यया कृत-सकल-गमन-मङ्गलः, दत्त्âशीर्-वादो बान्धव-वृद्धाभिः, अभिनन्दितः परिजन-जरतीभिः वन्दित-चरणैर् अभ्यनुज्ञातो गुरुभिः, अभिवादितैर् आघ्रातः शिरसि कुल-वृद्धैः, वर्धित-गमन्ôत्साहः शकुनैः, मौहूर्तिक-मतेन कृत-नक्षत्र-दोहदः, शोभने मुहूर्ते हरित-गोमय्ôपलिप्त्âजिर-स्थण्डिल-स्थापितम् असित्êतर-कुसुम-माला-परिक्षिप्त-कण्ठं दत्त-पिष्ट-पञ्च्âङ्गुल-पाण्डुरं मुख-निहित-नव-चूत-पल्लवं पूर्ण-कलशम् ईक्षमाणः, प्रणम्य कुल-देवताभ्यः कुसुम-फल-पाणिभिर् अ-प्रतिरथं जपद्भिर् निज-द्विजैर् अनुगम्यमानः, प्रथम-चलित-दक्षिण-चरणः, प्रीति-कूटान् निरगात्.
प्रथमे ऽहनि तु घर्म-काल-कष्टं निर्-उदकं निष्-पत्र-पादप-विषमं पथिक-जन-नमस्-क्रियमाण-प्रवेश-पादप्ôत्कीर्ण-कात्यायनी-प्रतियातनं शुष्कम् अपि पल्लवितम् इव तृषित-श्वापद-कुल-लम्बित-लोल-जिह्वा-लता-सहस्रैः पुलकितम् इव्âच्छभल्ल-गोलाङ्गूल-लिह्यमान-मधु-गोल-चलित-सरघा-संघातै रोम्âञ्चितम् इव दग्ध-स्थली-रूढ-स्थूल्âभीरु-कन्दल-शतैः शनैश् चण्डिक्âयतन-काननम् अतिक्रम्य मल्लकूट-नामानं ग्रामम् अगात्. तत्र च हृदय-निर्-विशेषेण भ्रात्रा सुहृदा च जगत्पति-नाम्ना संपादित-सपर्यः सुखम् अवसत्. अथ्âपरेद्युर् उत्तीर्य भगवतीं भागीरथीं यष्टिगृहक-नाम्नि वन-ग्रामके निशाम् अनयत्. अन्यस्मिन् दिवसे स्कन्धावारम् उप-मणिपुरम् अन्व्-अजिरवति कृत-सन्निवेशं समाससाद. अतिष्ठच् च न्âतिदूरे रज-भवनस्य. [58] निवर्तित-स्नान्âशन-व्यतिकरो विश्रान्तश् च मेखलकेन सह याम-मात्र्âवशेषे दिवसे भुक्तवति भू-भुजि प्रख्यातानां क्षिति-भुजां बहूञ् शिबिर-संनिवेश्âन्वीक्षमाणः शनैः शनैः पट्ट-बन्ध्âर्थम् उपस्थापितैश् च डिण्डिम्âधिरोहणाय्âहृतैश् च्âभिनव-बद्धैश् च विक्षेप्âपार्जितैश् च कौशलिक्âगतैश् च प्रथम-दर्शन-कुतूहल्ôपनीतैश् च नाग-वीथी-पाल-प्रेषितैश् च पल्ली- परिवृढ-ढौकितैश् च स्व्êच्छा-युद्ध-क्रीडा-कौतुक्âकारितैश् च दूत-संप्रेषण-प्रेषितैश् च दीयमानैश् च्âच्छिद्यमानैश् च मुच्यमानैश् च याम्âवस्थापितैश् च सर्व-द्वीप-विजिगीषया गिरिभिर् इव सागर-सेतु-बन्धन्âर्थम् एकी-कृतैर् ध्वज-पट-पटु-पटह-शङ्ख-चामर्âङ्ग-राग-रमणीयैः पुष्य्âभिषेक-दिवसैर् इव कल्पितैर् वारण्êन्द्रैः श्यामायमानम्, अन्-अवरत-चलित-खुर-पुट-प्रहत-मृदङ्गैश् च नर्तयद्भिर् इव राज-लक्ष्मीम् उपहसद्भिर् इव सृक्वि-पुट-प्रसृत-फेन्âट्ट-हासेन जव-जड-जङ्घां हरिण-जातिम् आकारयद्भिर् इव संघट्ट-हेतोर् हर्ष-हेषितेन्ôच्चैर् उच्चैःश्रवसम् उत्पतद्भिर् इव दिवस-कर-रथ-तुरग-रुषा यक्षायमाण-मण्डन-चामर-मालैर् गगन-तलं तुरङ्गैस् तरङ्गायमाणम्, अन्यत्र प्रेषितैश् च प्रेष्यमाणैश् च प्रेषित-प्रतिनिवृत्तैश् च बहु-योजन-गमन-गणन-संख्य्âक्षर्âवलीभिर् इव वराटिक्âवलीभिर् घटित-मुख-मण्डनकैस् तारकितैर् इव संध्य्âतप-च्छेदैर् अरुण-चामरिका-रचित-कर्ण-पूरैः स-रक्त्ôत्पलैर् इव रक्त-शालि-शालेयैर् अन्-अवरत-झणझणायमान-चारु-चामीकर-घुरुघुरुक-मालिकैर् जरत्-करञ्ज-वनैर् इव रणित-शुष्क-बीज-कोशी-शतैः श्रवण्ôपान्त-प्रेङ्खत्-पञ्च-राग-वर्ण्ôर्णा-चित्र-सूत्र-जूट-जटा-जालैः कपि-कपोल-कपिलैः क्रमेलक-कुलैः कपिलायमानम्, [59] अनयत्र शरज्-जल-धरैर् इव सद्यः-स्रुत-पयः-पटल-धवल-तनुभिः कल्प-पादपैर् इव मुक्ता-फल-जालक-जायमान्âलोक-लुप्त-च्छाया-मण्डलैर् नारायण-नाभि-पुण्डरीकैर् इव्âश्लिष्ट-गरुड-पक्षैः क्षीर्ôद्ôद्देशैर् इव द्योतमान-विकट-विद्रुम-दण्डैः शेष-फणा-फलकैर् इव्ôपरि-स्फुरत्-स्फीत-माणिक्य-खण्डैः श्वेत-गङ्गा-पुलिनैर् इव राज-हंस्ôपसेवितैर् अभिभवद्भिर् इव निदाघ-समयम् उपहसद्भिर् इव विवस्वतः प्रतापम् आपिबद्भिर् इव्âतपं चन्द्र-लोकमयम् इव जीव-लोकं जनयद्भिः कुमुदमयम् इव कालं कुर्वद्भिर् ज्योत्स्नामयम् इव वासरं विरचयद्भिः फेनमयीम् इव दिवं दर्शयद्भिर् अ-काल-कौमुदी-सहस्राण्îव सृजद्भिर् उपहसद्भिर् इव शातक्रतवीं श्रियं श्वेतायमानैर् आतपत्र-खण्डैः श्वेत-द्वीपायमानम्, क्षण-दृष्ट-नष्ट्âष्ट-दिङ्-मुखं च मुष्णद्भिर् इव भुवनम् आक्षेप्ôत्क्षेप-दोलायितं दिनं गत्âगतान्îव कारयद्भिर् उत्सारयद्भिर् इव कु-नृ-पति-सम्पर्क-कलङ्क-कालीं कालेयीं स्थितिं विकच-विशद-काश-वन-पाण्डुर-दश-दिशं शरत्-समयम् इव्ôपपादयद्भिर् बिस-तन्तुमयम् इव्âन्तरिक्षम् आविर्-भावयद्भिः शशि-कर-रुचीनां चलतां चामराणां सहस्रैर् देलायमानम्, अपि च हंस-यूथायमानं करि-कर्ण-शङ्खैः, कल्प-लता-वनाय- [60] -मानं कदलिकाभिः, माणिक्य-वृक्षक-वनायमानं मायूर्âतपत्रैः, मन्दाकिनी-प्रवाहायमाणम् अंशुकैः, क्षीर्ôदायमानं क्षौमैः, कदली-वनायमानं मरकत-मयूखैः, जन्यमान्âन्य-दिवसम् इव पद्म-राग-बाल्âतपैः, उत्पद्यमान्âपर्âम्बरम् इव्êन्द्रनील-प्रभा-पटलैः, आरभ्यमाण्âपूर्व-निशम् इव महा-नील-मयूख्âन्धकारैः स्यन्दमान्âन्-एक-कालिन्दी-सहस्रम् इव गारुड-मणि-प्रभा-प्रतानैः अङ्गारकितम् इव पुष्प-राग-रश्मिभिः, कैश्-चित् प्रवेशम् अ-लभमानैर् अधो-मुखैश् चरण-नख-पतित-वदन-प्रतिबिम्ब-निभेन लज्जया स्व्âङ्गान्âव विशद्भिः कैश्-चिद् अङ्गुली-लिखितायाः क्षितेर् विकीर्यमाण-कर-नख-किरण-कदम्ब-व्याजेन सेवा-चामराण्îव्âर्पयद्भिः कैश्-चिद् उरः-स्थल-दोलायमान्êन्द्रनील-तरल-प्रभा-पट्टैः स्वामि-कोप-प्रशमनाय कण्ठ-बद्ध-कृपाण-पट्टैर् इव कैश्-चिद् उच्छ्वास-सौरभ-भ्राम्यद्-भ्रमर-पटल्âन्धकारित-मुखैर् अपहृत-लक्ष्मी-शोक-धृत-लम्ब-श्मश्रुभिर् इव्âन्यैः शेखर्ôड्डीयमान-मधुप-मण्डलैः प्रणाम-विडम्बन्âभय-पलायमान-मौलिभिर् इव निर्जितैर् अपि सु-संमानितैर् इव्âन्-अन्य-शरणैर् अन्तर्âन्तरा निष्पततां प्रविशतां च्âन्तर-प्रतीहाराणाम् अनु-मार्ग-प्रधानित्âन्-एक्âर्थि-जन-सहस्राणाम् अनुयायिनः पुरुषान् अ-श्रान्तैः पुनः पुनः पृच्छद्भिः "भद्र! अद्य भविष्यति भुक्त्वा स्थाने दास्यति दर्शनं परम्êश्वरः, निष्पतिष्यति वा बाह्यां कक्षाम्" इति दर्शन्âशया दिवसं नयद्भिर् भुज-निर्जितैः शत्रु-महा-सामन्तैः समन्ताद् आसेव्यमानम्, अन्यैश् च प्रताप्âनुराग्âगतैर् नाना-देश-जैर् महा-मही-पालैः प्रतिपालयद्भिर् नर-पति-दर्शन-कालम् अध्यास्यमानम्, एक्âन्त्ôपविष्टैश् च जैनैर् आर्हतैः पाशुपतैः पाराशरिभिर् वर्णिभिः सर्व-देश-जन्मभिश् च जन-पदैः सर्व्âम्भोधि-वेला-वन-वलय-वासिभिश् च म्लेच्छ-जातिभिः सर्व-देश्âन्तर्âगतैश् च दूत-मण्डलैर् उपास्यमानम् सर्व-प्रजा-निर्माण-भूमिम् इव [61] प्रजा-पतीनां, लोक-त्रय-सार्ôच्चय-रचितं चतुर्थम् इव लोकम्, महा-भारत-शतैर् अप्य् अ-कथनीय-समृद्धि-संभारम्, कृत-युग-सहस्रैर् इव कल्पित-संनिवेशम्, स्वर्ग्âर्बुदैर् इव विहित-रामणीयकम्, राज-लक्ष्मी-कोटिभिर् इव कृत-परिग्रहं राज-द्वारम् अगमत्.
अभवच् च्âस्य जात-विस्मयस्य मनसि: "कथम् इव्êदम् इयत्-प्रमाणं प्राणि-जातं जनयतां प्रजा-सृजां न्âसीत् परिश्रमः, महा-भूतानां वा परिक्षयः, परम्âणूनां वा विच्छेदः, कालस्य व्âन्तः, आयुषो वा व्युपरमः, आकृतीनां वा परिसमाप्तिः" इति. मेखलकस् तु दूराद् एव द्वार-पाल-लोकेन प्रत्यभिज्ञायमानः "तिष्ठतु तावत् क्षण-मात्रम् अत्र्âइव पुण्य-बागी" इति तम् अभिधाय्âप्रतिहतः पुरः प्राविशत्.
अथ स मुहूर्ताद् इव प्रांशुना, कर्णिकार-गौरेण, वीध्र-कञ्चुक-च्छन्न-वपुषा, समुन्मिषन्-माणिक्य-पदक-बन्ध-बन्धुर-वस्त-बन्ध-कृश्âवलग्नेन, हिम-शैल-शिला-विशाल-वक्षसा, हर-वृष-ककुद-कूट-विकट्âंस-तटेन, उरसा चपल-हृषीक-हरिण-कुल-संयमन-पाशम् इव हारं बिभ्रता, "कथयतं यदि सोम-वंश-संभवः सूर्य-वंश-संभवो वा भू-पतिर् अभूद् एवं-विधः" इति प्रष्टुम् आनीताभ्यां सोम-सूर्याभ्याम् इव श्रवण-गताभ्यां मणि-कुण्डलाब्यां समुद्भासमानेन, वहद्-वदन-लावण्य-विसर-वेणिक्âक्षिप्यमाणैर् अधिकार-गौरवाद् दीयमान-मार्गेण्êव दिन-कृतः किरणैः प्रसाद-लब्धया विकच-पुण्डरीक-मुण्ड-मालय्êव दीर्घया दृष्ट्या दूराद् एव्âनन्दयता, नैष्ठुर्य्âधिष्ठाने ऽपि प्रतिष्ठितेन पदे पदे प्रश्रयम् इव्âवनम्रेण, [62] मौलिना पाण्डुरम् उष्णीषम् उद्वहता, वामेन स्थूल-मुक्ता-फल-च्छुरण-दन्तुर-त्सरुं कर-किसलयेन कलयता कृपाणम्, इतरेण्âपनीत-तरलतां ताडनीम् इव लतां शातकौम्भीं वेत्रयष्टिम् उन्मृष्टां धारयता पुरुषेण्âनुगम्यमानो निर्गत्य्âवोचत्: "एष खलु महा-प्रतीहाराणाम् अन्-अन्तरश् चक्षुष्यो देवस्य पारियात्र-नामा दौवारिकः. समनुगृह्णात्व् एनम् अनुरूपया प्रतिपत्त्या कल्याण्âभिनिवेशी" इति. दौवारिकस् तु समुपसृत्य कृत-प्रणामो मधुरया गिरा स-विनयम् अभाषत: "आगच्छत. प्रविशत देव-दर्शनाय. कृत-प्रसादो देवः" इति. बाणस् तु "धन्यो ऽस्मि, यद् एवम् अनुग्राह्यं मां देवो मन्यते" इत्य् उक्त्वा तेन्ôपदिश्यमान-मार्गः प्राविशद् अभ्यन्तरम्.
अथ वनायु-जैः, आरट्ट-जैः, काम्बो-जैः, भारद्वा-जैः, सिन्धु-देश-जैः, पारसीकैश् च, शोणैश् च, श्यामैश् च, श्वेतैश् च, पिञ्जरैश् च, हरिद्भिश् च, तित्तिरि-कल्माषैश् च, पञ्च-भद्रैश् च, मल्लिक्âक्षैश् च, कृत्तिका-पिञ्जरैश् च, आयत-निर्मांस-मुखैः, अन्-उत्कट-कर्ण-कोशैः, सु-वृत्त-श्लक्ष्ण-सु-घटित-घण्टिका-बन्धैः, यूप्âनुपूर्वी-वक्र्âयत्ôदग्र-ग्रीवैः, उपचय-श्वसत्-स्कन्ध- [63] -संधिभिः, निर्भुग्न्ôरः-स्थलैः अ-स्थूल-प्रगुण-प्रसृतैर् लोह-पीठ-कठिन-खुर-मण्डलैः, अति-जव-त्रुटन-भयाद् अ-निर्मित्âन्त्राण्îव्ôदराणि वृत्तानि धारयद्भिः, उद्यद्-द्रोणी-विभज्यमान-पृथु-जघनैः, जगती-दोलायमान-बाल-पल्लवैः, कथम् अप्य् उभयतो निखात-दृढ-भूरि-पाश-संयमन-नियन्त्रितैः, आयतैर् अपि पश्चात् पाश-बन्ध-पर-वश-प्रसारित्âइक्âङ्घ्रिभिर् आयत-तरैर् इव्ôपलक्ष्यमाणैः, बहु-गुण-सूत्र-ग्रथित-ग्रीवा-गण्डकैः, आमीलित-लोचनैः, दूर्वा-रस-श्यामल-फेन-लव-शबलान् दशन-गृहीत-मुक्तान् फरफरित-त्वचः कण्डूजुषः प्रदेशान् प्रचालयद्भिः, स्âलस-वलित-वालधिभिः, एक-शफ-विश्रान्ति-श्रम-स्रस्त-शिथिलित-जघन्âर्धैः, निद्रया प्रध्यायद्भिश् च, स्खलित-हुङ्कार-मन्द-मन्द-शब्दायमानैश् च, ताडित-खुर-धरणी-रणित-मुखर-शिखर-खुर-लिखित-क्ष्मा-तलैर् घासम् अभिलषद्भिश् च, ताडितखूरधरणीरणितमुखरशिखरखुरलिखितक्ष्मातलैर्घासमभिलषद्भिश्च, प्रकीर्यमाण-यवस-ग्रास-रस-मत्सर-समुद्भूत-क्षोभैश् च, प्रकुपित-चण्ड-चण्डाल-हुङ्कार-कातर-तर-तरल-तारकैश् च, कुङ्कुम-प्रमृष्टि-पिञ्जर्âङ्गतया सतत-संनिहित-नीराजन्âनल-रक्ष्यमाणैर् इव्ô- [64] -परि-वितत-वितानैः, पुरः-पूजित्âभिमत-दैवतैः, भू-पाल-वल्लभैस् तुरङ्गैर् आरचितां मन्दुरां विलोकयन्, कुतूहल्âक्षिप्त-हृदयः किञ्-चिद् अन्तरम् अतिक्रान्तो हस्त-वामेन्âत्य्-उच्चतया निर्-अवकाशम् इव्âकाशं कुर्वाणम्, महता कदली-वनेन परिवृत-पर्यन्तं सर्वतो मधु-करमयीभिर् मद-स्रुतिभिर् नदीभिर् इव्âपतन्तीभिर् आपूर्यमाणम्, आशा-मुख-विसर्पिणा बकुल-वनानाम् इव विकसताम् आमोदेन लिम्पन्तं घ्राण्êन्द्रियं दूराद् अव्यक्तम् इभ-धिष्ण्य्âगारम् अपश्यत्. अपृच्छच् च: "अत्र देवः किं करोति?" इति. असाव् अकथयत्: "एष खलु देवस्य्âउपवाह्यो वाह्यं हृदयं जात्य्-अन्तरित आत्मा बहिश्-चराः प्राणा विक्रम-क्रीडा-सुहृद् दर्पशात इति यथ्âर्थ-नामा वारण-पतिः. तस्य्âवस्थान-मण्डपो ऽयं महान् दृश्यते" इति. स तम् अवादीत्: "भद्र! श्रूयते दर्पशातः. यद्य् एवम् अ-दोषो वा पश्यामि तावद् वारण्êन्द्रम् एव. अतो ऽर्हसि माम् अत्र प्रापयितुम्. अति-परवान् अस्मि कूतूहलेन" इति. सो ऽभाषत: "भवत्व् एवम्. आगच्छतु भवान्. को दोषः. पश्यतु तावद् वारण्êन्द्रम्" इति.
गत्वा च तं प्रदेशं दूराद् एव गभ्भीर-गल-गर्जितैर् वियति चातक-कदम्बकैर् भुवि च भवन-नील-कण्ठ-कुलैः कल-केका-कलकल-मुखर-मुखैः क्रियमाण्âकाल-कोलाहलम्, विकच-कदम्ब-संवादि-मद-सुरा-सौरभ-भरित-भुवनम्, कायवन्तम् इव्âकाल-मेघ-कालम्, अ-विरल-मधु-बिन्दु- [65] -पिङ्गल-पद्म-जालकितां सरसीम् इव्âत्य्-अवगाढां दशां चतुर्थीम् उत्सृजन्तम्, अन्-अवरतम् अवतंस-शङ्कैर् आमन्द्र-कर्ण-ताल-दुन्दुभि-ध्वनिभिः पञ्चमी-प्रवेश-मङ्गल्âरम्भम् इव सूचयन्तम्, अ-विरत-चलन-चित्र-त्रि-पदी-ललित-लास्य-लयैर् दोलायमान-दीर्घ-देह्âभोगवत्तया मेदिनी-विदलन-भयेन भारम् इव लघयन्तम्, दिग्-भित्ति-तटेषु कायम् इव कण्डूयमानम्, आहवाय्ôदस्त-हस्ततया दिग्-वारणान् इव्âह्वयमानम्, ब्रह्म-स्तम्भम् इव स्थूल-निशित-दन्तेन कर-पत्रेण पाटयन्तम्, अमान्तं भुवन्âब्यन्तरे बहिर् इव निर्गन्तुम् ईहमानम्; सर्वतः-सरस-किसलय-लता-लासिभिर् लेशिकैश् चिर-परिचय्ôपचितैर् वनैर् इव विक्षिप्तं, स-शैवल-बिस-विसर-शबल-सलिलैः सरोभिर् इव च्âधोरणैर् आधीयमान-निदाघ-समय-समुचित्ôपचार्âनन्दम्, अपि च प्रति-गज-दान-पवन्âदान-दूर्ôत्क्षिप्तेन्âन्-एक-समर-विजय-गणना-लेखाभिर् इव वलि-वलय-राजिभिस् तनीयसीभिस् तरङ्गित्ôदरेण्âतिस्थवीयसा हस्त्âर्गल-दण्डेन्âर्गलयन्तम् इव सकलं स-कुल-शैल-समुद्र-द्वीप-काननं ककुभां चक्र-वालम्, एकं कर्âन्तर्âर्पितेन्ôत्पलाशेन कदली-दण्डेन्âन्तर्-गत-शीकर-सिच्यमान-मूलम्, मुक्त-पल्लवम्-इव्âपरं लील्âवलम्बिना मृणाल-जालकेन समर-रस्ôच्च-रोमाञ्च-कण्टकितम् इव दन्त-काण्डम् उद्वहन्तम्, विसर्पन्त्या च दन्त-काण्ड-युगलस्य कान्त्या सरः-क्रीडा-स्वादितानि कुमुद-वनान्îव बहुधा वमन्तम्, [66] निज-यशो-राशिम् इव दिशाम् अर्पयन्तम्, कु-करि-कीट-पाटन-दुर्-विदग्धान् सिंहान् इव्ôपहसन्तम्, कल्प-द्रुम-दुकूल-मुख-पटम् इव च्âत्मनः कलयन्तम्, हस्त-काण्ड-दण्ड्ôद्धरण-लीलासु च लक्ष्यमाणेन रक्त्âंशुक-सु-कुमार-तरेण तालुना कवलितानि रक्त-पद्म-वनान्îव वर्षन्तम्, अभिनव-किसलय-राशीन् इव्ôद्गिरन्तम्, कमल-कवल-पीतं मधु-रसम् इव स्व-भाव-पिङ्गलेन वमन्तं चक्षुषा, चूत-चम्पक-लवली-लवङ्ग-कक्कोलवन्त्य् एला-लत्âमिश्रितानि स-सहकाराणि कर्पूर-पूरितानि पारिजातक-वनान्îव्ôपभुक्तानि पुनः पुनः करटाभ्यां बहल-मद्âमोद-व्याजेन विसृजन्तम्, अहर्-निशं विभ्रम-कृत-हस्त-स्थितिभिर् अर्ध-खण्डित-पुण्ड्रेक्षु-काण्ड-कण्डूयन-लिखितैर् अलिकुल-वाचालितैर् दान-पट्टकैर् विलभमानम् इव सर्व-काननानि करि-पतीनाम्, अ-विरल्ôद-बिन्दु-स्यन्दिना हिम-शिला-शकलमयेन विभ्रम-नक्षत्र-माला-गुणेन शिशिरी-क्रियमाणम्, सकल-वारण्êन्द्र्âधिपत्य-पट्ट-बन्ध-बन्धुरम् इव्ôच्चैस्-तरां शिरो दधानम्, मुहुर्-मुहुः स्थगित्âपावृत-दिङ्-मुखाभ्यां कर्ण-ताल-तालवृन्ताभ्यां वीजयन्तम् इव भर्तृ-भक्त्या दन्त-पर्यङ्किका-स्थितां राज-लक्ष्मीम्, आयत-वंश-क्रम्âगतेन [67] गज्âधिपत्य-चिह्नेन चामरेण्êव चलता वालधिना विराजमानम्, स्व्-अच्छ-शिशिर-शीकर-च्छलेन दिग्-विजय-पीताः सरित इव पुनः-पुनर् मुखेन मुञ्चन्तम्, क्षणम् अवधान-दान-निःस्पन्दी-कृत-सकल्âवयवानाम् अन्य-द्विरद-डिण्डिम्âकर्णन्âङ्ग-वलनानाम् अन्ते दीर्घ-फूत्-कारैः परिभव-दुःखम् इव्âवेदयन्तम्, अ-लब्ध-युद्धम् इव्âत्मानम् अनुशोचन्तम्, आरोह्âधिरूढि-परिभवेन लज्जमानम् इव्âङ्गुली-लिखित-मही-तलम्, मदं मुञ्चन्तम्, अवज्ञा-गृहीत-मुक्त-कवल-कुपित्âरोह्âरटन्âनुरोधेन मद-तन्द्री-निमीलित-नेत्र-त्रि-भागम्, कथं कथम् अपि मन्द-मन्दम् अन्-आदराद् आददानं कवलान्, अर्ध-जग्ध-तमाल-पल्लव-स्रुत-श्यामल-रसेन प्रभूततया मद-प्रवाहम् इव मुखेन्âप्य् उत्सृजन्तम्, चलन्तम् इव दर्पेण, श्वसन्तम् इव शौर्येण, मूर्च्छन्तम् इव मदेन, त्रुट्यन्तम् इव तारुण्येन, द्रवन्तम् इव दानेन, वल्गन्तम् इव बलेन, माद्यन्तम् इव मानेन, उद्यन्तम् इव्ôत्साहेन, ताम्यन्तम् इव तेजसा, लिम्पन्तम् इव लावण्येन, सिञ्चन्तम् इव सौभाग्येन, स्निग्धं नखेषु, परुषं रोम-विषये, गुरुं मुखे, सच्-छिष्यं विनये, मृदुं शिरसि, दृढं परिचयेषु, ह्रस्वं स्कन्ध-बन्धे, दीर्घम् आयुषि, दरिद्रम् उदरे, सतत-प्रवृत्तं दाने, बल-भद्रं मद-लीलासु, कुल-कलत्रम् आयत्ततासु, जिनं क्षमासु, वह्नि-वर्षं क्रोध-मोक्षेषु, गरुडं नाग्ôद्धृतिषु, नारदं [68] कलह-कुतूहलेषु, शुष्क्âशनि-पातम् अवस्कन्देषु, मकरं वाहिनी-क्षोभेषु, आशीविषं दशन-कर्मसु, वरुणं हस्त-पाश्âकृष्टिषु, यम-वागुरा-मर्âति-संवेष्टनेषु, कालं परिणतिषु, राहुं तीक्ष्ण-कर-ग्रहणेषु, लोहित्âङ्गं वक्र-चारेषु, अलात-चक्रं मण्डल-भ्रान्ति-विज्ञानेषु, मनो-रथ-संपादकं चिन्ता-मणि-पर्वतं विक्रमस्य, दन्त-मुक्ता-शैल-स्तम्भ-निवास-प्रासादम् अभिमानस्य, घण्टा-चामर-मण्डन-मनो-हरम् इच्छा-संचरण-विमानं मनस्वितायाः, मद-धारा-दुर्-दिन्âन्धकारं गन्ध्ôदक-धारा-गृहं क्रोधस्य, स-काञ्चन-प्रतिमं महा-निकेतनम् अहङ्-कारस्य, स-गण्ड-शैल-प्रस्रवणं क्रीडा-पर्वतम् अवलेपस्य, स-दन्त-तोरणं वज्र-मन्दिरं दर्पस्य, उच्च-कुम्भ-कूट्âट्टालक-विकटं संचारि-गिरि-दुर्गं राज्यस्य, कृत्âन्-एक-बाण-विवर-सहस्रं लोह-प्राकारं पृथिव्याः, शिली-मुख-शत-झाङ्कारितं पारिजात-पादपं भू-नन्दनस्य, तथा च संगीत-गृहं कर्ण-ताल-ताण्डवानाम्, आपान-मण्डपं मधुप-मण्डलानाम्, अन्तः-पुरं शृङ्गार्âभरणानाम्, मदन्ôत्सवं मद-लीला-लास्यानाम्, अ-क्षुण्ण-प्रदोषं नक्षत्र-माला-मण्डलानाम्, अ-काल-प्रावृट्-कालं मद-महा-नदी-पूर-प्लवानाम्, अलीक-शरत्-समयं सप्त-च्छद- [69] -वन-परिमलानाम्, अ-पूर्व-हिम्âगमं शीकर-नीहाराणाम्, मिथ्या-जल-धरं गर्जित्âडम्बराणां दर्प-शातम् अपश्यत्. आसीच् च्âस्य चेतसि: "नूनम् अस्य निर्माणे गिरयो ग्राहिताः परम्âणुताम्. कुतो ऽन्यथा गौरवम् इदम्. आश्चर्यम् एतत्. विन्ध्यस्य दन्ताव् आदि-वराहस्य करः" इति विस्मयमानम् एवं दौवारिको ऽब्रवीत्: "पश्य,:
मित्य्âइव्âलिखितां मनो-रथ-शतैर् निःशेष-नष्टां श्रियं चिन्ता-साधन-कल्पन्âकुल-धियां भूयो वने विद्विषाम् ।
आयातः कथम् अप्य् अयं स्मृति-पथं शून्यी-भवच्-चेतसां नाग्êन्द्रः सहते न मानस-गतान् आशा-गज्êन्द्रान् अपि ॥2.4॥
तद् एहि. पुनर् अप्य् एनं द्रक्ष्यसि. पश्य तावद् देवम्" इत्य् अभिधीयमानश् च तेन मद-जल-पङ्किल-कपोल-पट्ट-पतितां मत्ताम् इव मद-परिमलेन मुकुलितां कथम् अपि तस्माद् दृष्टिम् आकृष्य तेन्âइव दौवारिकेण्ôपदिश्यमान-वर्त्मा समतिक्रम्य भू-पाल-कुल-सहस्र-संकुलानि त्रीणि कक्ष्âन्तराणि चतुर्थे भुक्त्âस्थान-मण्डपस्य पुरस्ताद् अजिरे स्थितम्, दूराद् ऊर्ध्व-स्थितेन प्रांशूना कर्णिकार-गौरेण व्यायाम-व्यायत-वपुषा शस्त्रिणा मौलेन शरीर-परिवारक-लोकेन पङ्क्ति-स्थितेन कार्तस्वर-स्तम्भ-मण्डलेन्êव परि- [70] -वृतम्, आसन्न्ôपविष्ट-विशिष्ट्êष्ट-लोकम्, हरि-चन्दन-रस-प्रक्षालिते तुषार-शीकर-शीतल-तले दन्त-पाण्डुर-पादे शशिमय इव मुक्ता-शैल-शिला-पट्ट-शयने समुपविष्टम्, शयनीय-पर्यन्त-विन्यस्ते समर्पित-सकल-विग्रह-भारं भुजे, दिङ्-मुख-विसर्पिणि देह-प्रभा-विताने वितत-मणि-मयूखे घर्म-समय-सुभगे सरस्îव मृदु-मृणाल-जाल-जटिल-जले स-राजकं रममाणम्, तेजसः परम्âणुभिर् इव केवलैर् निर्मितम्, अन्-इच्छन्तम् अपि बलाद् आरोपयितुम् इव सिंह्âसनम्, सर्व्âवयवेषु सर्व-लक्षणैर् गृहीतम्, गृहीत-ब्रह्म-चर्यम् आलिङ्गितं राज-लक्षम्या, प्रतिपन्न्âसि-धारा-धारण-व्रतम् अ-विसंवादिनं राज-र्षिम्, विषम-राज-मार्ग-विनिहित-पद-स्खलन-भिय्êव सु-लग्नं धर्मे, सकल-भू-पाल-परित्यक्तेन भीतेन्êव लब्ध-वाचा सर्व्âत्मना सत्येन सेव्यमानम्, आसन्न-वार-विलासिनी-प्रतियातनाभिश् चरण-नख-पातिनीभिर् दिग्भिर् इव दशभिर् विग्रह्âवर्जिताभिः प्रणम्यमानम्, दीर्घैर् दिग्-अन्त-पातिभिर् दृष्टि-पातैर् लोक-पालानां कृत्âकृतम् इव प्रत्यवेक्षमाणम्, [71] मणि-पाद-पीठ-पृष्ठ-प्रतिष्ठित-करेण्ôपरिगमन्âभ्यनुज्ञां मृग्यमाणम् इव दिवस-करेण, भूषण-प्रभा-समुत्सारण-बद्ध-पर्यन्त-मण्डलेन प्रदक्षिणी-क्रियमाणम् इव दिवसेन, अ-प्रमणद्भिर् गिरिभिर् अपि दूयमानं, शौर्य्ôष्मणा फेनायमानम् इव चन्दन-धवलं लावण्य-जलधिम् उद्वहन्तम् एक-राज्य्ôर्जित्येन, निज-प्रतिबिम्बान्य् अपि नृप-चक्र-चूडा-मणि-धृतान्य् अ-सहमानम् इव दर्प-दुःख्âसिकया चामर्âनिल-निभेन बहुध्êव श्वसन्तीं राज-लक्ष्मीं दधानम्, सकलम् इव चतुः-समुद्र-लावण्यम् आदाय्ôत्थितया श्रिया समुपश्लिष्टम्, आभरण-मणि-किरण-प्रभा-जाल-जायमानान्îन्द्र-धनुः-सहस्राण्îन्द्र-प्राभृत-प्रहितानि विलभमानम् इव राज्ञां संभाषणेषु परित्यक्तम् अपि मधु वर्षन्तम्, काव्य-कथास्व् अ-पीतम् अप्य् अमृतम् उद्वमन्तम्, विस्रम्भ-भाषितेष्व् अन्-आकृष्टम् अपि हृदयं दर्शयन्तम्, प्रसादेषु निश्चलाम् अपि श्रियं स्थाने स्थाने स्थापयन्तम्, वीर-गोष्ठीषु पुलकितेन कपोल-स्थलेन्âनुराग-संदेशम् इव्ôपांशु रण-श्रियः शृण्वन्तम्, अतिक्रान्त-सुभट-कलह्âलापेषु स्नेह-वृष्टिम् इव दृष्टिम् इष्टे कृपाणे पातयन्तम्, परिहास-स्मितेषु गुरु-प्रताप-भीतस्य राजकस्य स्व्-अच्छम् आशयम् इव दशन्âंशुभिः कथयन्तम्, सकल-लोक-हृदय-स्थितम् अपि न्याये तिष्ठन्तम्, अ-गोचरे गुणानाम् अ-भूमौ सौभाग्यानाम् अ-विषये वर-प्रदानानाम् अ-शक्य आशिषाम् अ-मार्गे मनो-रथानाम् अति-दूरे दैवस्य्â-दिश्य् उपमानानाम् अ-साध्ये धर्मस्य्â-दृष्ट-पूर्वे लक्ष्म्या महत्त्वे स्थितम्, अरुण-पाद-पल्लवेन सु-गत-मन्थर्ôरुणा वज्र्âयुध- [72] -निष्ठुर-प्रकोष्ठ-पृष्ठेन वृष-स्कन्धेन भास्वद्-बिम्ब्âधरेण प्रसन्न्âवलोकितेन चन्द्र-मुखेन कृष्ण-केशेन वपुषा सर्व-देवत्âवतारम् इव्âइकत्र दर्शयन्तम्, अपि च मांसल-मयूख-माला-मलिनित-मही-तले महति मह्âर्हे माणिक्य-माला-मण्डित-मेखले महा-नीलमये पाद-पीठे कलि-काल-शिरस्îव सलीलं विन्यस्त-वाम-चरणम्, आक्रान्त-कालिय-फणा-चक्रवालं बालम् इव पुण्डरीक्âक्षम्, क्षौम-पाण्डुरेण चरण-नख-दीधिति-प्रतानेन प्रसरता महीं महा-देवी-पट्ट-बन्धेन्êव महिमानम् आरोपयन्तम्, अ-प्रणत-लोक-पाल-कोपेन्êव्âति-लोहितौ सकल-नृ-पति-मौलि-मालास्व् अति-पीतं पद्म-राग-रत्न्âतपम् इव वमन्तौ सर्व-तेजस्वि-मण्डल्âस्तम्-अय-संध्याम् इव धारयन्ताव् अ-शेष-राजक-कुसुम-शेखर-मधुर-स-स्रोतांस्îव स्रवन्तौ समस्त-सामन्त-सीमन्त्ôत्तंस-स्रक्-सौरभ-भ्रान्तैर् भ्रमर-मण्डलैर् अ-मित्र्ôत्तम्âङ्गैर् इव मुहूर्तम् अप्य् अ-विरहितौ संवाहन-तत्परायाः श्रियो विकच-रक्त-पङ्कज-वन-वास-भवनान्îव कल्पयन्तौ जलज-शङ्ख-मीन-मकर-स-नाथ-तलतया कथित-चतुर्-अम्भोधि-भोग-चिह्नाव् इव चरणौ दधानम्, दिङ्-नाग-दन्त-मुसलाभ्याम् इव विकट-मकर-मुख-प्रतिबन्ध-बन्धुराभ्याम् उद्वेल-लावण्य-पयोधि-प्रवाहाभ्याम् इव फेन्âहित-शोभाब्यां कला-चन्दन-द्रुमाभ्याम् इव भोगि-मण्डल-शिरो-रत्न-रश्मि-रज्यमान-मूलाभ्यां हृदय्âरोपित-भू-भार-धारण-माणिक्य-स्तम्भाब्याम् ऊरु-दण्डाभ्यां विराजमानम्, अ-मृत-फेन-पिण्ड-पाण्डुना मेखला-मणि-मयूख-खचितेन नितम्ब-बिम्ब-व्यासङ्गिना विमल-पयो-धौतेन नेत्र-सूत्र-निवेश-शोभिन्âधर-वाससा वासुकि-निर्मोकेण्êव [73] मन्दरं द्योतमानम्, अ-घनेन स-तारा-गणेन्ôपरि-कृतेन द्वितीय्âम्बरेण भुवन्âभोगम् इव भासमानम्, इभ-पति-दशन-मुसल-सहस्र्ôल्लेख-कठिन-मसृणेन्âपर्याप्त्âम्बर-प्रथिम्ना विविध-वाहिनी-संक्षोभ-कलकल-संमर्द-सहिष्णुना कैलासम् इव महता स्फटिक-तटेन्ôरुण्ôरः-कपाटेन विराजमानम्, श्री-सरस्वत्योर् उरो-वदन्ôपभोग-विभाग-सूत्रेण्êव पातितेन शेषेण्êव च तद्-भुज-स्तम्भ-विन्यस्त-समस्त-भू-भार-लब्ध-विश्रान्ति-सुख-प्रसुप्तेन हार-दण्डेन परिवलित-कंधरम्. जीवित्âवधि-गृहीत-सर्वस्व-महा-दान-दीक्षा-चीरेण्êव हार-मुक्ता-फलानां किरण-निकरेण प्रावृत-वक्षः-स्थलम्, अज-जिगीषया बालैर् भुजैर् इव्âपरैः प्ररोहद्भिर् बाह्ûपधान-शायिन्याः श्रियाः कर्ण्ôत्पल-मधु-रस-धारा-संतानैर् इव गलद्भिर् भुज-जन्मनः प्रतापस्य निर्गमन-मार्गैर् इव्âविर्-भवद्भिर् अरुणैः केयूर-रत्न-किरण-दण्डैर् उभयतः प्रसारित-मणिमय-पक्ष-वितानम् इव माणिक्य-मही-धरम्, सकल-लोक्âलोक-मार्ग्âर्गलेन चतुर्-उदधि-परिक्षेप-खात-शात-कुम्भ-शिला-प्राकारेण सर्व-राज-हंस-बन्ध-वज्र-पञ्जरेण भुवन-लक्ष्मी-प्रवेश-मङ्गल-महा-मणि-तोरणेन्âति-दीर्घ-दोर्-दण्ड-युगलेन दिशां दिक्-पालानां च युगपद्-आयतिम् अपहरन्तम्, स्ôदर्य-लक्ष्मी-चुम्बन-लोभेन कौस्तुभ-मणेर् इव मुख्âवयवतां गतस्य्âधरस्य गलता रागेण पारिजात-पल्लव-रसेन्êव सिञ्चन्तं दिङ्-मुखानि, अन्तर्âन्तरा सुहृत्-परिहास-स्मितैः प्रकीर्यमाण-विमल-दशन-शिखा-प्रतानैः प्रकृति-मूढाया राज-श्रियाः प्रज्ञ्âलोकम् इव दर्शयन्तम्, मुख-जनित्êन्दु-संदेह्âगतानि कुमुदिनी-वनान्îव प्रेषयन्तम्, स्फुट-स्फटिक-धवल-दशन-पङ्क्ति-कृत-कुमुद-वन-शङ्का-प्रविष्टां शरज्-ज्योत्स्नाम् इव विसर्जयन्तम्,
मदिर्âमृत-पारिजात-गन्ध-गर्भेण भरित-सकल-ककुभा मुख्âमोदेन्âमृत-मथन-दिवसम् इव सृजन्तम्, विकच-मुख-कमल-क- [74] -र्णिका-कोशेन्âन्-अवरतम् आपीयमान-श्वास-सौरभम् इव्âधो-मुखेन नासा-वंशेन, चक्षुषः क्षीर-स्निग्धस्य धवलिम्ना दिङ्-मुखान्य् अ-पूर्व-वदन-चन्द्र्ôदय्ôद्वेल-क्षीर्ôद्ôत्प्लावितान्îव कुर्वाणम्, विमल-कपोल-फलक-प्रतिबिम्बितां चामर-ग्राहिणीं विग्रहिणीम् इव मुख-निवासिनीं सरस्वतीं दधानम्, अरुणेन चूडा-मणि-शोचिषा सरस्वत्îर्ष्या-कुपित-लक्ष्मी-प्रसादन-लग्नेन चरण्âलक्तकेन्êव लोहित्âयत-ललाट-तटम्, आपाटल्âंशु-तन्त्री-संतान-वलयिनीं कुण्डल-मणि-कुटिल-कोटि-बाल-वीणाम् अन्-अवरत-चलित-चरणानां वादयताम् उपवीणयताम् इव स्वर-व्याकरण-विवेक-विशारदम्, श्रवण्âवतंस-मधु-कर-कुलानां कल-क्वणितम् आकर्णयन्तम्, उत्फुल्ल-मालतीमयेन राज-लक्ष्म्याः कच-ग्रह-लील्âलग्नेन नख-ज्योत्स्ना-वलयेन्êव मुख-शशि-परिवेष-मण्डलेन मुण्ड-माला-गुणेन परिकलित-केश्âन्तम्, शिखण्ड्âभरण-भुवा मुक्ता-फल्âलोकेन मरकत-मणि-किरण-कलापेन च्âन्योन्य-संवलन-वृजिनेन प्रयाग-प्रवाह-वेणिका-वारिण्êव्âगत्य स्वयम् अभिषिच्यमानम्, श्रम-जल-विलीन-बहल-कृष्णागुरु-पङ्क-तिलक-कलङ्क-कल्पितेन कालिम्ना प्रार्थना-चाटु-चतुर-चरण-पतन-शत-श्यामिका-किणेन्êव नीलायमान-ललाट्êन्दु-लेखाभिः क्षुभित-मानस्ôद्गतैर् उत्कलिका-कलापैर् इव हारैर् उल्लसद्भिर् अवष्टभ्यमानाभिर् विलास-वल्गन-चटुलैर् भ्रू-लता-कल्पैर् ईर्ष्यया श्रियम् इव तर्जयन्तीभिर् आयामिभिः स्वसितैर् अ-विरल-परिमलैर् मलय-मारुतमयैः पाशैर् इव्âकर्षन्तीभिर् विकट-बकुल्âवली-वराटक-वेष्टित-मुखै- [75] -र् बृहद्भिः स्तन-कलशैः स्व-दार-संतोष-रसम् इव्â-शेषम् उद्धरन्तीभिः कुच्ôत्कम्पिका-विकार-प्रेङ्खितानां हार-तरल-मणीनां रश्मिभिर् आकृष्य हृदयम् इव हठात् प्रवेशयन्तीभिः प्रभा-मुचाम् आभरण-मणीनां मयूखैः प्रसारितैर् बहुभिर् इव बाहुभिर् आलिङ्गन्तीभिर् जृम्भ्âनुबन्ध-बन्धुर-वदन्âरविन्द्âवरणी-कृतैर् उत्तानैः कर-किसलयैः स-रभस-प्रधावितानि मानसान्îव निरुन्धतीभिर् मदन्âन्ध-मधु-कर-कुल-कीर्यमाण-कर्ण-कुसुम-रजः-कण-कूणित-कोणानि कुसुम-शर-शर-निकर-प्रहार-मूर्च्छ्âमुकुलितान्îव लोचनानि चतुरं संचारयन्तीभिर् अन्योन्य-मत्सराद् आविर्-भवद्-भङ्घुर-भ्रुकुटि-विभ्रम-क्षिप्तैः कट्âक्षैः कर्ण्êन्दीवराण्îव ताडयन्तीभिर् अ-निमेष-दर्शन-सुख-रस-राशिं मन्थरित-पक्ष्मणा चक्षुषा पीतम् इव कोमल-कपोल-पाली-प्रतिबिम्बितं वहन्तीभिर् अभिलाष-लीला-निर्-निमित्त-स्मितैश् चन्द्र्ôदयान् इव मदन-सहायकाय संपादयन्तीभिर् अङ्ग-भङ्ग-वलन्âन्योन्य-घटित्ôत्तानकर-वेणिकाभिः स्फुटन-मुखर्âङ्गुली-काण्ड-कुण्डली-क्रियमाण-नख-दीधिति-निवह-निभेन्â-किञ्-चित्-कर-काम-कार्मुकाण्îव रुषा भञ्जन्तीभिर् वार-विलासिनीभिर् विलुप्यमान-सौभाग्यम् इव सर्वतः, स्पर्श-स्विन्न-वेपमान-कर-किसलय-गलित-चरण्âरविन्दां चरण-ग्राहिणीं विहस्य कोणेन लीला-लसं शिरसि ताडयन्तम्, अन्-अवरत-कर-कलित-कोणतया च्âत्मनः प्रियां वीणाम् इव श्रियम् अपि शिक्षयन्तम्, निः-स्नेह इति धनैः, अन्-आश्रयणीय इति दोषैः, निग्रह-रुचिर् इत्îन्द्रियैः, दुर्-उपसर्प इति कलिना, नीरस इति व्यसनैः, भीरुर् इत्य् अ-यशसा, दुर्-ग्रह-चित्त-वृत्तिर् इति चित्त-भुवा, स्त्री-पर इति सरस्वत्या, षण्ढ इति पर-कलत्रैः, काष्ठा-मुनिर् इति यतिभिः, धूर्त इति वेश्याभिः, नेय इति सुहृद्भिः, कर्म-कर इति [76] विप्रैः, सु-सहाय इति शत्रु-योधैः, एकम् अप्य् अन्-एकधा गृह्यमाणम्, शन्तनोर् महा-वाहिनी-पतिम्, भीष्माज् जित-काशितमम्, द्रोणाच्-चाप-लालसम्, गुरुपुत्राद् अ-मोघ-मार्गणम्, कर्णान् मित्र-प्रियम्, युधिष्ठिराद् बहु-क्षमम्, भीमाद् अन्-एक-नागा-युत-बलम्, धनञ्जयान् महाभारत-रण-योग्यम्, कारणम् इव कृत-युगस्य, बीजम् इव विबुध-सर्गस्य, उत्पत्ति-द्वीपम् इव दर्पस्य, एक्âगारम् इव करुणायाः, प्रातिवेशिकम् इव पुरुषोत्तमस्य, खनि-पर्वतम् इव परा-क्रमस्य, सर्व-विद्या-संगीत-गृहम् इव सरस्वत्याः, द्वितीय्âमृत-मन्थन-दिवसम् इव लक्ष्मी-समुत्थानस्य, बल-दर्शनम् इव वैदग्ध्यस्य, एक-स्थानम् इव स्थितीनाम्, सर्वस्व-कथनम् इव कान्तेः, अपवर्गम् इव रूप-परम्âणु-सर्गस्य, सकल-दुश्-चरित-प्रायश्-चित्तम् इव राज्यस्य, सर्व-बल-सन्दोह्âवस्कन्दम् इव कन्दर्पस्य, उपायम् इव पुरन्दर-दर्शनस्य, आवर्तनम् इव धर्मस्य, कन्य्âन्तः-पुरम् इव कलानाम्, परम-प्रमाणम् इव [77] सौभाग्यस्य राज-सर्ग-समाप्त्य्-अवभृथ-स्नान-दिवसम् इव सर्व-प्रजा-पतीनाम्, गम्भीरं च, प्रसन्नं च, त्रास-जननं च, रमणीयं च, कौतुक-जननं च, पुण्यं च, चक्र-वर्तिनं हर्षम् अद्राक्षीत्.
दृष्ट्वा च्âनुगृहीत इव निगृहीत इव स्âभिलाष इव तृप्त इव रोमाञ्च-मुचा मुखेन मुञ्चन्न् आनन्द-बाष्प-वारि-बिन्दून् दूराद् एव विस्मय-स्मेरः समचिन्तयत्: "सो ऽयं सु-जन्मा, सु-गृहीत-नामा, तेजसां राशिः, चतुर्-उदधि-केदार-कुटुम्बी, भोक्ता ब्रह्म-स्तम्भ-फलस्य, सकल्âदि-राज-चरित-जय-ज्येष्ठ-मल्लो देवः परम्êश्वरो हर्षः. एतेन च खलु राजन्वती पृथ्वी. न्âस्य हरेर् इव वृष-विरोधीनि बाल-चरितानि, न पशुपतेर् इव दक्ष-जन्ôद्वेग-कारीण्य् ऐश्वर्य-विलासतानि, न शतक्रतोर् इव गोत्र-विनाश-पिशुनाः प्रवादाः न यमस्य्êव्âति-वल्लभानि दण्ड-ग्रहणानि, न वरुणस्य्êव निस्त्रिंश-ग्राह-सहस्र-रक्षिता रत्न्âलयाः, न धनदस्य्êव निष्-फलाः सन्निधि-लाभाः, न जिनस्य्êव्âर्थ-वाद-शून्यानि दर्शनानि, न चन्द्रमस इव बहुल-दोष्ôपहताः श्रियः. चित्रम् इदम् अत्य्-अ-मरं राज- [78] -त्वम्. अपि च्âस्य त्यागस्य्âर्थिनः, प्रज्ञायाः शास्त्राणि, कवित्वस्य वाचः, सत्त्वस्य साहस-स्थानानि, उत्साहस्य व्यापाराः कीर्तेर् दिङ्-मुखानि, अनुरागस्य लोक-हृदयानि, गुण-गणस्य संख्या, कौशलस्य कला, न पर्याप्तो विषयः. अस्मिंश्-च राजनि यतीनां योग-पट्टकाः, पुस्त-कर्मणां पार्थिव-विगृहाः, षट्-पदानां दान-ग्रहण-कलहाः, वृत्तानां पाद-च्छेदाः, अष्ट-पदानां चतुर्-अङ्ग-कल्पना, पन्न-गानां द्वि-ज-गुरु-द्वेषाः, वाक्य-विदाम् अधिकरण-विचाराः," इति समुपसृत्य च्ôपवीती स्वस्ति-शब्दम् अकरोत्.
अथ्ôत्तरे न्âति-दूरे राज-धिष्ण्यस्य गज-परिचारको मधुरम् अपरवक्त्रम् उच्चैर् अगायत्:
"करि-कलभ विमुञ्च लोलतां चर विनय-व्रतम् आनत्âननः ।
मृग-पति-नख-कोटि-भङ्गुरो गुरुर् उपरि क्षमते न ते ऽङ्कुशः" ॥2.5॥
राजा तु तच् छ्रुत्वा दृष्ट्वा च तं गिरि-गुह्âगत-सिंह-बृंहित-गम्भीरेण स्वरेण पूरयन्न् इव नभो-भागम् अपृच्छत्: "एष स बाणः?" इति. "यथ्âज्ञापयति देवः. सो ऽयम्" इति विज्ञापितो दौवारिकेण. "न [79] तावद् एनम् अ-कृत-प्रसादः पश्यामि" इति तिर्यङ्-नील-धवल्âंशुक-शारां तिरस्-करिणीम् इव भ्रमयन्न् अपाङ्ग-नीयमान-तरल-तारकस्य्âयामिनीं चक्षुषः प्रभां परिवृत्य प्रेष्ठस्य पृष्ठतो निषण्णस्य मालव-राज-सूनोर् अकथयत्: "महान् अयं भुजङ्गः" इति. तूष्णीं-भावेन त्व् अ-गमित-नर्êन्द्र-वचसि तस्मिन् मूके च राज-लोके मुहूर्तम् इव तूष्णीं स्थित्वा बाणो व्यज्ञापयत्: "देव! अ-विज्ञात-तत्त्व इव, अ-श्रद्द-धान इव, नेय इव, अ-विदित-लोक-वृत्त्âन्त इव च कस्माद् एवम् आज्ञापयसि? स्वैरिणो विचित्राश् च लोकस्य स्वभावाः प्रवादाश् च. महद्भिस् तु यथ्âर्थ-दर्शिभिर् भवितव्यम्. न्âर्हसि माम् अन्यथा संभावयितुम् अ-विशिष्टम् इव. भ्राह्मणो ऽस्मि जातः सोम-पायिनां वंशे वात्स्यायनानाम्. यथा-कालम् उपनयन्âदयाः कृताः संस्काराः. सम्यक्-पठितः स्âङ्गो वेदः. श्रुतानि चे यथा-शक्ति शास्त्राणि. दार-परिग्रहाद् अभ्यागारिको ऽस्मि. कामे भुजङ्गता. लोक-द्वय्â-विरोधिभिस् तु चापलैः शैशवम् अ-शून्यम् आसीत्. अत्र्âन्-अपलापो ऽस्मि. अनेन्âइव च गृहीत-विप्रतीसारम् इव मे हृदयम्. इदानीं तु सु-गत इव शान्त-मनसि मनाव् इव कर्तरि वर्ण्âश्रम-व्यवस्थानां सम-वर्तिन्îव च साक्षाद्-दण्ड-भृति देवे शासति सप्त्âम्बुराशि-रशनाम् अ-शेष-द्वीप-मालिनीं महीं क इव्â-विशङ्कः सर्व-व्यसन-बन्धोर् अ-विनयस्य मनस्âप्य् अभिनयं कल्पयिष्यति. आसतां च तावन् मानुष्यक्ôपेताः. त्वत्-प्रभावाद् अलयो ऽपि भीता इव मधु पिबन्ति. रथाङ्ग-नामानो ऽपि लज्जन्त इव्âभ्यनुवृत्ति-व्यसनैः प्रियाणाम्. कपयो ऽपि चकिता इव चपलायन्ते. शरारवो ऽपि स्âनुक्रोशा इव श्वापद-गणाः पिशितानि [80] भुञ्जते. सर्वथा कालेन मां ज्ञास्यति स्वामी स्वयम् एव. अन्-अपाचीन-चित्त-वृत्ति-ग्राहिण्यो हि भवन्ति प्रज्ञावतां प्रकृतयः" इत्य् अभिधाय तूष्णीम् अभूत्. भू-पतिर् अपि "एवम् अस्माभिः श्रुतम्" इत्य् अभिधाय तूष्णीम् एव्âभवत्. संभाषण्âसन-दान्âदिना तु प्रसादेन्âइनम् अन्वग्रहीत्. केवलम् अ-मृत-वृष्टिभिः स्नपयन्न् इव स्नेह-गर्भेण दृष्टि-पात-मात्रेण्âन्तर्-गतां प्रीतिम् अकथयत्. अस्त्âभिलाषिणि च लम्बमाने सवितरि विसर्जित-राज-लोको ऽभ्यन्तरं प्राविशत्.
बाणो ऽपि निर्गत्य धौत्âरकूट-कोमल्âतप-त्विषि निर्वाति वासरे, अस्त्âचल-कूट-किरीटे निचुल-मञ्जरी-भांसि तेजांसि मुञ्चति वियन्-मुचि मरीचि-मालिनि, अति-रोमन्थ-मन्थर-कुरङ्ग-कुटुम्बक्âध्यास्यमान-म्रदिष्ठ-गोष्ठीन-पृष्ठास्व् अरण्य-स्थलीषु, शोक्âकुल-कोक-कामिनी-कूजित-करुणासु तरङ्गिणी-तटीषु वास-विटप्ôपविष्ट-वाचाट-चटक-चक्र-वालेष्व् आलवाल्âवर्जित-सेक-जल-कुटेषु निष्-कुटेषु, दिवस-विहृति-प्रत्यागतं प्रस्रुत-स्तनं स्तनन्धये धयति धेनु-वर्गम् उद्गत-क्षीरं क्षुधित-तर्णक-व्राते, क्रमेण च्âस्त-धर्âधर-धातु-धुनी-पूर-प्लावित इव लोहितायमान-महसि मज्जति सन्ध्या-सिन्धु-पान-पात्रे पातङ्गे मण्डले, कमण्डलु-जल-शुचि-शय-चरणेषु चैत्य-प्रणति-परेषु पाराशरिषु, यज्ञ-पात्र-पवित्र-पाणौ प्रकीर्ण-बर्हिष्य् उत्-तेजसि जात-वेदसि हवींषि वषट्-कुर्वन्ति यायजूक-जने, निद्रा-विद्राण-द्रोण-कुल-कलिल-कुलायेषु कापेय-विकल-कपि-कुलेष्व् आराम-तरुषु, निर्जिगमिषति जरत्-तरु-कोटर-कुटी-कुटुम्बिनि कौशिक-कुले, मु- [81] -नि-कर-सहस्र-प्रकीर्ण-सन्ध्या-वन्दन्ôद-बिन्दु-निकर इव दन्तुरयति तारा-पथ-स्थलीं स्थवीयसि तारका-निकुरम्बे अम्बर्âश्रयिणि शर्वरी-शबरी-शिखण्डे, खण्ड-परशु-कण्ठकाले कवलयति बाले ज्योतिः-शेषं सान्ध्यम् अन्ध-कार्âवतारे, तिमिर-तर्जन-निर्गतासु दहन-प्रविष्ट-दिन-कर-कर-शाखास्व् इव स्फुरन्तीषु दीप-लेखासु, अरर-संपुट-संक्रीडन-कथित्âवृत्तिष्व् इव गोपुरेषु, शयन्ôपजोष-जुषि जरती-कथित-कथे शिशयिषमाणे शिशु-जने, जरन्-महिष-मषी-मलीमस-तमसि जनित-पुण्य-जन-प्रजागरे विजृम्भमाणे भीषणतमे तमी-मुखे, मुखरित-वितत-ज्य-धनुषि वर्षति शर-निकरम् अन्-अवरतम् अ-शेष-संसार-शेमुषी-मुषि मकर-ध्वजे, रत्âकल्प्âरम्भ-शोभिनि शम्भली-सुभाषित-भाजि भजति भूषां भुजिष्या-जने, सैरन्ध्री-बध्यमान-रशना-जाल-जल्पाक-जघनासु जनीषु, वशिक-विशिखा-विहारिणीष्व् अनन्य-जानु-प्लवासु प्रचलितास्व् अभिसारिकासु, विरली-भवति वरटानां वेशन्त-शायिनीनां मञ्जुनि मञ्जीर-शिञ्जित-जडे जल्पिते, निद्रा-विद्राण-द्राघीयसि द्रावयत्îव च विरहि-हृदयानि सारस-रसिते, भावि-वासर-बीज्âङ्कुर-निकर इव च विकीर्यमाणे जगति प्रदीप-प्रकरे निवास-स्थानम् अगात्. अकरोच् च चेतसि: "अति-दक्षिणः खलु देवो हर्षः, यद् एवम् अन्-एक-बाल-चरित-चापल्ôचित-कौलीन-कोपितो ऽपि मनसा स्निह्यत्य् एव मयि. यद्य् अहम् अक्षि-गतः स्याम्, न मे दर्शनेन प्रसादं कुर्यात्. इच्छति तु मां गुणवन्तम्. उपदिशन्ति हि विनयम् अनुरूप-प्रतिपत्त्य्-उपपादनेन वाचा विन्âपि भर्तव्यानां स्वामिनः. अपि च धिङ् मां स्व-दोष्âन्ध-मानसम्-अनादर-पीडितम् एवम् अति-गुणवति राजन्य् अन्यथा च्âन्यथा [82] च चिन्तयन्तम्. सर्वथा तथा करोमि, यथा यथ्âवस्थितं जानाति माम् अयं कालेन" इत्य् एवम् अवधार्य च्âपरेद्युर् निष्क्रम्य कटकात् सुहृदां बान्धवानां च भवनेषु तावद् अतिष्ठत्, यावद् अस्य स्वयम् एव गृहीत-स्व-भावः पृथिवी-पतिः प्रसादवान् अभूत्. अविशच् च पुनर् अपि नर-पति-भवनम्. स्वल्पैर् एव च्âहोभिः परम-प्रीतेन प्रसाद-जन्मनो मानस्य प्रेम्णो विस्रम्भस्य द्रविणस्य नर्मणः प्रभावस्य च परां कोटिम् आनीयत नर्êन्द्रेण्êति.
इति श्री-महा-कवि-बाण-भट्ट-कृते हर्षचरिते राज-दर्शनं नाम द्वितीय उच्छ्वासः.
[83] तृतीय उच्छ्वासः
निज-वर्ष्âहित-स्नेहा बहु-भक्त-जन्âन्विताः ।
सु-काला इव जायन्ते प्रजा-पुण्येन भू-भुजः ॥ 3.1 ॥
साधूनाम् उपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् ।
न कुतूहलि कस्य मनश्-चरितं च मह्âत्मनां श्रोतुम् ॥ 3.2 ॥
अथ कदा-चिद् विरलित-बलाहके, चातक्âतङ्क-कारिणि क्वणत्-कादम्बे, दर्दुर-द्विषि, मयूर-मद-मुषि, हंस-पथिक-स्âर्थ-सर्व्âतिथौ, धौत्âसि-निभ-नभसि, भास्वर-भास्वति, शुचि-शशिनि, तरुण-तारा-गणे, गलत्-सुनासीर-शर्âसने, सीदत्-सौदामनी-दाम्नि, दाम्ôदर-निद्रा-द्रुहि, द्रुत-वैदूर्य-वर्ण्âर्णसि घूर्णमान-मिहिका-लघु-मेघ-मोघ-मघवति, निमीलन्-नीपे, निष्-कुसुम-कुटजे, निर्-मुकुल-कन्दले, कोमल-कमले, मधु-स्यन्द्îन्दीवरे, कह्लार्âह्लादिनि, शेफालिका-शीतली-कृत-निशे, यूथिका-मोदिनि, मोदमान-कुमुद्âवदात-दश-दिशि, सप्त-च्छद-धूलि-धूसरित-समीरे, स्तबकित-बन्धुर-बन्धूक्âबध्यमान्âकाण्ड-संध्ये, नीराजित- [84] -वाजिनि, उद्दाम-दन्तिनि दर्प-क्षीब्âउक्षके, क्षीयमाण-पङ्क-चक्र-वाले, बाल-पुलिन-पल्लवित-सिन्धु-रोधसि, परिणाम्âश्यान-श्यामाके, जनित-प्रियङ्गु-मञ्जरी-रजसि, कठोरित-त्रपुस-त्वचि, कुसुम-स्मेर-शरे, शरत्-समय्âरम्भे राज्ञः समीपाद् बाणो बन्धून् द्रष्टुं पुनर् अपि तं ब्राह्मण्âधिवासम् अगात्.
समुपलब्ध-भू-पाल-संमान्âतिशय-परितुष्टास् त्व् अस्य ज्ञातयः श्लाघमाना निर्ययुः. क्रमेण च कांश्-चिद् अभिवादयमानः, कैश्-चिद् अभिवाद्यमानः, कैश्-चिच् छिरसि चुम्ब्यमानः, कांश्-चिन् मूर्ध्नि समाजिघ्रन्, कैश्-चिद् आलिङ्ग्यमानः, कांश्-चिद् आलिङ्गन्, अन्यैर् आशिष्âनुगृह्यमाणः, परान् अनुगृह्णन्, बहु-बन्धु-मध्य-वर्ती परं मुमुदे. संभ्रान्त-परिजन्ôपनीतं च्âसनम् आसीनेषु गुरुषु भेजे. भजमानश् च्âर्च्âदि-सत्कारं नितरां ननन्द. प्रीयमाणेन च मनसा सर्वांस् तान् पर्यपृच्छत्: "कच्-चिद् एतावतो दिवसान् सुखिनो यूयम्? अ-प्रत्यूहा वा सम्यक्-करण-परितोषित-द्विज-चक्रा क्रातवी क्रिया क्रियते? यथावद्-अ-विकल-मन्त्र-भाञ्जि भुञ्जते वा हवींषि हुत-भुजः? यथा-कालम् अधीयते वा बटवः? प्रति-दिनम् अ-विच्छिन्नो वा वेद्âभ्यासः? कच्-चित् स एव चिरंतनो यज्ञ-विद्या-कर्नण्य् अभियोगः? तान्य् एव व्याकरणे परस्पर-स्पर्ध्âनुबन्ध्âबन्ध्य-दिवस-दर्शित्âदराणि व्याख्यान-मण्डलानि, स्âइव वा पुरातनी परित्यक्त्âन्य-कर्तव्या प्रमाण-गोष्ठी, स एव वा मन्दी-कृत्êतर-शास्त्र-रसो मीमांसायाम् अति-रसः? कच्-चित् त एव्âभिनव-सुभाषित-सुधा-वर्षिणः काव्य्âलापाः?" इति.
अथ ते तम् ऊचुः: "तात! संतोष-जुषां सतत-संनिहित-विद्या-विनो- [85] -दानां वैतान-वह्नि-मात्र-सहायानां कियन्-मात्रं न कृत्यं सुखितया सकल-भुवन-भुजि भुजङ्ग-राज-देह-दीर्घे रक्षति क्षितिं क्षिति-भुजे. सर्वथा सुखिन एव वयम्, विशेषेण तु त्वयि विमुक्त-कौसीद्ये परम्êश्वर-पार्श्व-वर्तिनि वेत्र्âसनम् अधितिष्ठति. सर्वे च यथा-शक्ति यथा-विभवं यथा-कालं च संपाद्यन्ते विप्र-जन्ôचिताः क्रिया-कलापाः" इत्य् एवम्-आदिभिर् आलापैः स्कन्ध्âवार-वार्ताभिश् च शैशव्âतिक्रान्त-क्रीड्âनुस्मरणैः पूर्व-ज-कथाभिश् च विनोदित-मनास् तैः सह सु-चिरम् अतिष्ठत्. उत्थाय च मध्यं-दिने यथा-क्रियमाणाः स्थितीर् अकरोत्. भुक्तवन्तं च तं सर्वे ज्ञातयः पर्यवारयन्.
अत्र्âन्तरे दुगूल-पट्ट-प्रभवे शिखण्ड्य्-अप्âङ्ग-पाण्डुनी पौण्ड्रे वाससी वसानः स्नान्âवसान-समये बन्दितया तीर्थ-मृदा गोरोचनया च रचित-तिलकः, तैल्âमलक-मसृणित-मौलिः, अन्-उच्च-चूडा-चुम्बिना निबिडेन कुसुम्âपीडकेन समुद्भासमानः, असकृद्-उपयुक्त-ताम्बूल-विरल्âधर-राग-कान्तिः, एक-शलाक्âञ्जन-जनित-लोचन-रुचिः, अ-चिर-भुक्तः, विनीतम् आर्यं च वेषं दधानः, पुस्तक-वाचकः सुदृष्टिर् आजगाम. न्âति-दूर-वर्तिन्यां च्âसन्द्यां निषसाद. स्थित्वा च मुहूर्तम् इव तत्-काल्âपनीत-सूत्र-वेष्टनम् अपि नख-किरणैर् मृदु-मृणाल-सूत्रैर् इव्âवेष्टितं पुस्तकं पुरो-निहित-शर-शलाका-यन्त्रके निधाय, पृष्ठतः सनीड-संनिविष्टाभ्यां मधुकर-पारावताभ्यां वंशिकाभ्यां दत्ते स्थानके प्राभातिक-प्रपाठक-च्छेद-चिह्नी-कृतम् अन्तरं पत्रम् उत्क्षिप्य, गृहीत्वा च कतिपय-पत्र-लघ्वीं कपाटिकाम् क्षालयन्न् इव मषी-मलिनान्य् अक्षराणि दन्त-कान्तिभिः, अर्चयन्न् इव [86] सित-कुसुम-मुक्तिभिर् ग्रन्थम्, मुख-संनिहित-सरस्वती-नूपुर-रवैर् इव गमकैर् मधुरैर् आक्षिपन् मनांसि श्रोतॄणां गीत्या पवमान-प्रोक्तं पुराणं पपाठ. तस्मिंश् च तथा श्रुति-सुभग-गीति-गर्भं पठति सुदृष्टौ न्âति-दूर-वर्ती बन्दी सूचीबाणस् तार-मधुरेण गीति-ध्वनिम् अनुवर्तमानः स्वरेण्êदम् आर्या-युगलम् अगायत्:
तद् अपि मुनि-गीतम् अति-पृथु तद् अपि जगद्-व्यापि पावनं तद् अपि ।
हर्ष-चरिताद् अ-भिन्नं प्रतिभाति हि मे पूराणम् इदम् ॥ 3.3 ॥
वंश्âनुगम-विवादि स्फुट-करणं भरत-मार्ग-भजन-गुरु ।
श्री-कण्ठ-विनिर्यातं गीतम् इदं हर्ष-राज्यम् इव ॥ 3.4 ॥
तच् छ्रुत्वा बाणस्य चत्वारः पिता-मह-मुख-पद्मा इव वेद्âभ्यास-पवत्रित-मूर्तयः, उपाया इव साम-प्रयोग-ललित-मुखाः, गणपतिः, अधिपतिः, तारापतिः, श्यामल इति पितृव्य-पुत्रा भ्रातरः, प्रसन्न-वृत्तयः, गृहीत-वाक्याः, कृत-गुरु-पद-न्यासाः, न्याय-वादिनः, सु-कृत-संग्रह्âभ्यास- [87] -गुरवो लब्ध-साधु-शब्दा लोक इव व्याकरणे ऽपि सकल-पुराण-राज-र्षि-चरित्âभिज्ञाः, महा-भारत-भावित्âत्मानः, विदित-सकल्êतिहासाः, महा-विद्वांसः, महा-कवयः, महा-पुरुष-वृत्त्âन्त-कुतूहलिनः, सुभाषित-श्रवण-रस-रसायनाः, वि-तृष्णाः, वयसि वचसि यशसि तपसि सदसि महसि वपुषि यजुषि च प्रथमाः, पूर्वम् एव कृत-संगराः, विवक्षवः, स्मित-सुधा-धवलित-कपोल्ôदराः, परस्परस्य मुखानि व्यलोकयन्.
अथ तेषां कनीयान् कमल-दल-दीर्घ-लोचनः श्यामलो नाम बाणस्य प्रेयान् प्राणानाम् अपि वशयिता दत्त-संज्ञस्तैः स-प्रणयं दशन-ज्योत्स्ना-स्नपित-ककुभा मुख्êन्दुना बभाषे: "तात बाण! द्विजानां राजा गुरु-दार-ग्रहणम् अकार्षीत्. पुरूरवा ब्राह्मण-धन-तृष्णया दयितेन्âयुषा व्ययुज्यत. नहुषः पर-कलत्र्âभिलाषा महा-भुजङ्ग आसीत्. [88] ययातिर् आहित-ब्राह्मणी-पाणि-ग्रहणः पपात. सुद्युम्नः स्त्रीमय एव्âभवत्. सोमकस्य प्रख्याता जगति जन्तु-वध-निर्घृणता. मांधाता मार्गण-व्यसनेन स-पुत्र-पौत्रो रसातलम् अगात्. पुरुकुत्सः कुत्सितं कर्म तपस्यन्न् अपि मेकल-कन्यकायाम् अकरोत्. कुवलयाश्वो भुजङ्ग-लोक-परिग्रहाद् अश्वतर-कन्याम् अपि न परिजहार. पृथुः प्रथम-पुरुषकः परिभूतवान् पृथिवीम्. नृगस्य कृकलास-भावे ऽपि वर्ण-संकरः समदृश्यत. [89] सौदासेन नरक्षिता पर्याकुली-कृता क्षितिः. नलम् अ-वश्âक्ष-हृदयं कलिर् अभिभूतवान्. संवरणो मित्र-दुहितरि विक्लवताम् अगात्. दशरथ इष्ट-राम्ôन्मादेन मृत्युम् अवाप. कार्तवीर्यो गो-ब्राह्मण्âति-पीडनेन निधनम् अयासीत्. मरुत्त इष्ट-बहु-सुवर्णको ऽपि देव-द्विज-बहु-मतो न [90] बभूव. शन्तनुर् अति-व्यसनाद् एकाकी वियुक्तो वाहिन्या विपिने विललाप. पाण्डुर् वन-मध्य-गतो मत्स्य इव मदन-रस्âविष्टः प्राणान् मुमोच. युधिष्ठिरो गुरु-भय-विषण्ण-हृदयः समर-शिरसि सत्यम् उत्सृष्टवान्. इत्थं न्âस्ति राजत्वम् अपकलङ्कम् ऋते देवदेवाद् अमुतः सर्व-द्वीप-भुजो हर्षात्. अस्य हि बहून्य् आश्चर्याणि श्रूयन्ते. तथा हि: अत्र बल-जिता निश्-चली-कृताश् चलन्तः कृत-पक्षाः क्षिति-भृतः. अत्र प्रजा-पतिना शेष-भोगि-मण्डलस्य्ôपरि क्षमा कृता. अत्र पुरुष्ôत्तमेन [91] सिन्धु-राजं प्रमथ्य लक्ष्मीर् आत्मी-कृता. अत्र बलिना मोचित-भूभृद्-वेष्टनो मुक्तो महा-नागः. अत्र देवेन्âभिषिक्तः कुमारः. अत्र स्वामिन्âइक-प्रहार-प्रपतित्âरातिना प्रख्यापिता शक्तिः. अत्र नर-सिंहेन स्व-हस्त-विशसित्âरातिना प्रकटी-कृतो विक्रमः. अत्र परम्êश्वरेण तुषार-शैल-भुवो दुर्गाया गृहीतः करः. अत्र लोक-नाथेन दिशां मुखेषु परिकल्पिता लोक-पालाः, सकल-भुवन-कोशश् च्âग्र-जन्मनां विभक्तः, इत्य् एवम्-आदयः प्रथम-कृत-युगस्य्êव दृश्यन्ते महा-समारम्भाः. अतो ऽस्य सु-गृहीत-नाम्नः पुण्य-राशेः पूर्व-पुरुष-वंश्âनुक्रमेण्âदितः प्रभृति चरितम् इच्छामः श्रोतुम्. सु-महान् कालो नः शुश्रूषमाणानाम्. अयस्कान्त-मणय इव लोहानि नीरस-निष्ठुराणि क्षुल्लकानाम् अप्य् आकर्षन्ति मनांसि महतां गुणाः, किम् उत स्व-भाव-सरस-मृदून्îतरेषाम्. कस्य न द्वितीय-महा-भारते भवेद् अस्य चरिते कुतूहलम्? आचष्टां भवान्. भवतु भार्गवो ऽयं वंशः [92] शुचिन्âनेन पुण्य-राज-र्षि-चरित-श्रवणेन सुतरां शुचितरः," इत्य् एवम् अभिधाय तूष्णीम् अभूत्.
बाणस् तु विहस्य्âब्रवीत्: "आर्य! न युक्त्य्-अनुरूपम् अभिहितम्. अ-घटमान-मनो-रथम् इव भवतां कुतूहलम् अवकल्पयामि. शक्य्âशक्य-परिसंख्यान-शून्याः प्रायेण स्व्âर्थ-तृषः. पर-गुण्âनुरागिणी प्रिय-जन-कथा-श्रवण-रस-रभस-मोहिता च मन्ये महताम् अपि मतिर् अपहरति प्रविवेकम्. पश्यत्व् आर्यः क्व परम्âणु-परिमाणं बटु-हृदयम्, क्व समस्त-ब्रह्म-स्तम्भ-व्यापि देवस्य चरितम्? क्व परिमित-वर्ण-वृत्तयः कतिपये शब्दाः, क्व संख्य्âतिगास् तद्-गुणाः? सर्व-ज्ञस्य्âप्य् अयम् अ-विषयः, वाचस्पतेर् अप्य् अ-गोचरः, सरस्वत्या अप्य् अति-भारः, किम् उत्âस्मद्-विधस्य? कः खलु पुरुष्âयुष-शतेन्âपि शक्नुयाद् अ-विकलम् अस्य चरितं वर्णयितुम्? एक-देशे तु यदि कुतूहलं वः, सज्जा वयम्. इयम् अधिगत कतिपय्âक्षर-लव-लघीयसी जिह्वा क्व्ôपयोगं गमिष्यति? भवन्तः श्रोतारः. वण्यते हर्ष-चरितम्. किम् अन्यत्. अद्य तु परिणत-प्रायो दिवसः. पश्चाल् लम्बमान-कपिल-किरण-जट्âभार-भास्वरो भगवान् भार्गवो राम इव समन्त-पञ्चक-रुधिर-महा-ह्रदे निमज्जति संध्या-राग-पटले पूषा. श्वो निवेदयित्âस्मि" इति. सर्वे च ते "तथा" इति प्रत्यपद्यन्त. न्âति-चिराद् उत्थाय संध्याम् उपासितुं शोणम् अयासीत्.
अथ मधु-मद-पल्लवित-मालवी-कपोल-कोमल्âतपे मुकुलिते ऽह्नि, कमलिनी-मीलनाद् इव लोहिततमे तमो-लिहि रवौ लम्बमाने, रवि-रथ- [93] -तुरग-मार्ग्âनुसारेण यम-महिष इव धावति नभसि तमसि, क्रमेण च गृह-तापस-कुटीरक-पटल्âवलम्बिषु रक्त्âतप-च्छेदैः सह संहृतेषु वल्कलेषु, कलि-कल्मष-मुषि मुष्णति गगनम् अग्नि-होत्र-धाम-धूमे, स-नियमे यजमान-जने मौन-व्रतिनि, विहार-वेला-विलोले पर्यटति पत्नी-जने, विकीर्यमाण-हरित-श्यामाक-शालि-पूलिकासु दुग्धासु होम-कपिलासु, हूयमाने वैतान-तनूनपाति, पूत-विष्टर्ôपविष्टे कृष्ण्âजिन-जटिले जटिनि जपति बटु-जने, ब्रह्म्âसन्âध्यासिनि ध्यायति योगि-गणे, तालध्वनि-धावमान्âन्-अन्त्âन्ते-वासिनि अलस-वृद्ध-श्रोत्रिय्âनुमतेन गलद्-ग्रन्थ-दण्डक्ôद्गारिणि सद्यां समवधारयति वठर-विट-बटु-समाजे, समुन्मज्जति च ज्योतिषि तारक्âख्ये खे, प्राप्ते प्रदोष्âरम्भे भवनम् आगत्य्ôपविष्टः स्निग्धैर् बन्धुभिश् च सार्ध तय्âइव गोष्ठ्या तस्थौ. नीत-प्रथम-यामश् च गणपतेर् भवने परिकल्पितं शयनीयम् असेवत. इतरेषां तु सर्वेषां निमीलित-दृशाम् अप्य् अन्-उपजात-निद्राणां कमल-वनानाम् इव सूर्य्ôदयं प्रतिपालयतां कुतूहलेन कथम् अपि सा क्षपा क्षयम् अगच्छत्.
अथ यामिन्यास् तुर्ये यामे प्रतिबुद्धः स एव बन्दी श्लोक-द्वयम् अगायत्:
"पश्चाद् अङ्घ्रिं प्रसार्य त्रिक-नति-विततं द्राघयित्व्âङ्गम् उच्चैर्
आसज्य्âभुग्न-कण्ठो मुखम् उरसि सटा धूलि-धूम्रा विधूय ।
घास-ग्रास्âभिलाषाद् अन्-अवरत-चलत्-प्रोथ-तुण्डस् तुरङ्गो
मन्दं शब्दायमानो विलिखति शयनाद् उत्थितः क्ष्मां खुरेण ॥ 3.5 ॥
[94] कुर्वन्न् आभुग्न-पृष्ठो मुख-निकट-कटिः कंधराम् आतिरश्चीं
लोलेन्âहन्यमानं तुहिन-कण-मुचा चञ्चता केसरेण ।
निद्रा-कण्डू-कषायं कषति निबिडित-श्रोत्र-शुक्तिस् तुरङ्गस्
त्वङ्गत्-पक्ष्म्âग्र-लग्न-प्रतनु-बुस-कणं कोणम् अक्ष्णः खुरेण" ॥ 3.6 ॥
बाणस् तु तच् छ्रुत्वा समुत्सृज्य निद्राम् उत्थाय प्रक्षाल्य वदनम् उपास्य च भगवतीं संध्या-मुदिते च भगवति सवितरि गृहीत-ताम्बूलस् तत्र्âइव्âतिष्ठत्. अत्र्âन्तरे सर्वे ऽस्य ज्ञातयः समाजग्मुः, परिवार्य च्âसां-चक्रिरे. असाव् अपि पूर्व्ôद्धातेन विदित्âभिप्रायस् तेषां पुरो हर्ष-चरितं कथयितुम् आरेभे:
श्रूयताम्: अस्ति पुण्य-कृताम् अधिवासो वासव्âवास इव वसुधाम् अवतीर्णः सततम्-अ-संकीर्ण-वर्ण-व्यवहार-स्थितिः कृत-युग-व्यवस्थः, स्थल-कमल-बहलतया पोत्र्ôन्मूल्यमान-मृणालैर् उद्गीत-मेदिनी-सार-गुणैर् इव कृत-मधु-कर-कोलाहलैर् हलैर् उल्लिख्यमान-क्षेत्रः, क्षीर्ôद-पयःपायि-पयोद-सिक्ताभिर् इव पुण्ड्र्êक्षुवाट-संततिभिर् निर्-अन्तरः, प्रति-दिशम् अ-पूर्व-पर्वतकैर् इव खल-धान-धामभिर् विभज्यमानैः सस्य-कूटैः संकट-सकल-सीम्âन्तः, समन्ताद् उद्धात-घटी-सिच्यमानैर् जीरक-जूटैर् जटिलित-भूमिः, उर्वरा-वरीयोभिः शालेयैर् अलं-कृतः, पाक-विशरारु-राजमाष-निकर-किर्मीरितैश् च स्फुटित-मुद्ग-फल-कोशी-कपिशितैर् गो-धूम-धामभिः स्थली-पृष्ठैर् अधिष्ठितः, महिष-पृष्ठ-प्रतिष्ठित-गायद्-गोपाल-पालितैश् च कीट-पटल-लम्पट-चटक्âनुसृतैर् अवटु-घटित-घण्टा-घटी-रटित-रमणीयैर् अटद्भिर् अटवीं हर-वृषभ-पीतम् आमय्âशङ्कया बहुधा-विभक्तं क्षीर्ôदम् इव क्षीरं क्षरद्भिर् बाष्प- [95] -च्छेद्य-तृण-तृप्तैर् गो-धनैर् धवलित-विपिनः, विविध-मख-होम-धूम्âन्ध-शत-मन्यु-मुक्तैर् लोचनैर् इव सहस्र-संख्यैः कृष्ण-शारैः शारी-कृत्ôद्देशः, धवल-धूलि-मुचा केतकी-वनानां रजोभिः पाण्डुरी-कृतैः प्रथम्ôद्धूलन-भस्म-धूसरैः शिव-पुरस्य्êव प्रवेशैः प्रदेशैर् उपशोभितः, शाक-कन्दल-श्यामलित-ग्राम्ôपकण्ठ-काश्यपी-पृष्ठः, पदे पदे करभ-पालीभिः पीलु-पल्लव-प्रस्फोटितैः कर-पुट-पीडित-कोमल-मातुलुङ्गी-दल-रस्ôपलिप्तैः स्व्êच्छा-विचित-कुङ्कुम-केसर-कृत-पुष्प-प्रकरैः प्रत्यग्र-फल-रस-पान-सुख-सुप्त-पथिकैर् वन-देवता-दीयमान्âमृत-रस-प्रपा-गृहैर् इव द्राक्षा-लता-मण्डपैः स्फुरत्-फलानां च बीज-लग्न-शुक-चञ्चु-रागाणाम् इव समारूढ-कपि-कुल-कपोल-संदिह्यमान-कुसुमानां दाडिमीनां वनैर् विलोभनीय्ôपनिर्गमः, वन-पाल-पीयमान-नारिकेल-रस्âसवैश् च पथिक-लोक-लुप्यमान-पिण्ड-खर्जूरैर् गोल्âङ्गूल-लिह्यमान-मधुर्âमोद-पिण्डी-रसैश् चकोर-चञ्चु-जर्जरित्âरुकैर् उपवनैर् अभिरामः, तुङ्ग्âर्जुन-पाली-परिवृतैश् च गो-कुल्âवतार-कलुषित-कूल-कीलालैर् अध्वग-शत-शरण्यैर् अरण्य-वरुण-धरा-बन्धैर् अ-वन्ध्य-वन-रन्ध्रः, करभीय-कुमारक-पाल्यमानैर् औष्ट्रकैर् औरभ्रकैश् च कृत-संबाधः, दिशि दिशि रवि-रथ-तुरग-विलोभनाय्âइव विलोठन-मृदित-कुङ्कुम-स्थली-रस-समालब्धानाम् उत्-प्रोथ-पुटैर् उन्मुखैर् उदर-शायि-किशोरक-जव-जननाय प्रभञ्जनम् इव च्âपिबन्तीनां वात-हरिणीनाम् इव स्व-च्छन्द-चारिणीनां वडवानां वृन्दैर् विचरद्भिर् आचितः, अन्-अवरत-क्रतु-धूम्âन्धकार-प्रवृत्तैर् हंस-यूथैर् इव गुणैर् धवलित-भुवनः, संगीत-गत-मुरज-रव-मत्तैर् मयूरैर् इव विभवैर् मुखरित-जीव-लोकः, शशि-कर्âवदात-वृत्तैर् मुक्ता-फलैर् इव गुणिभिः प्रसाधितः, पथिक-शत-विलुप्यमान-स्फीत-फलैर् महा-तरुभिर् इव सर्व्âतिथिभिर् अभि- [96] -गमनीयः, मृग-मद-परिमल-वाहि-मृग-रोम्âच्छादितैर् हिमवत्-पादैर् इव महत्तरैः स्थिरी-कृतः, प्रोद्दण्ड-सहस्र-पत्र्ôपविष्ट-द्विज्ôत्तमैर् नारायणन्âभिमण्डलैर् इव तोय्âशयैर् मण्डितः, मथित-पयः-प्रवाह-प्रक्षालित-क्षितिभिः क्षीर्ôद-मथन्âरम्भैर् इव महा-घोषैः पूरित्âशः श्रीकण्ठो नाम जन-पदः.
यत्र त्रेत्âग्नि-धूम्âश्रु-पात-जल-क्षालिता इव्âक्षीयन्त कु-दृष्टयः. पच्यमान-चयन्êष्टका-दहन-दग्धान्îव न्âदृश्यन्त दुरितानि. छिद्यमान-यूप-दारु-परशु-पाटित इव व्यदीर्यत्âधर्मः. मख-शिखि-धूम-जल-धर-धारा-धौत इव ननाश वर्ण-संकरः. दीयमान्âन्-एक-गो-सहस्र-शृङ्ग-खण्ड्यमान इव्âपलायत कलिः. सुर्âलय-शिला-घट्टन-टङ्क-निकर-निकृता इव व्यदीर्यन्त विपदः. महा-दान-विधान-कलकल्âभिद्रुता इव प्राद्रवन्न् उपद्रवाः. दीप्यमान-सत्र-महानस-सहस्र्âनलसंतापिता इव व्यलीयन्त व्याधयः. वृष-विवाह-प्रहत-पुण्य-पटह-पटु-रव-त्रासिता इव न्ôपासर्पन्न् अपमृत्यवः. संतत-ब्रह्म-घोष-बधिरी-कृता इव्âपजग्मुर् ईतयः. धर्म्âधिकार-परिभूतम् इव न प्राभवद् दुर्-वैवम्. [97] तत्र च्âइवं-विधे नाना-राम्âभिराम-कुसुम-गन्ध-परिमल-सुभगो यौनारम्भ इव भुवनस्य, कुङ्कुम-मलन-पिञ्जरित-बहु-महिषी-सहस्र-शोभितो ऽन्तः-पुर-निवेश इव धर्मस्य, मरुद्-उद्धूयमान-चमरी-बाल-व्यजन-शत-धवलित-प्रान्त एक-देश इव सुर-राज्यस्य, ज्वलन्-मख-शिखि-सहस्र-दीप्यमान-दश-दिग्-अन्तः शिबिर-संनिवेश इव कृत-युगस्य; पद्म्âसन-स्थित-ब्रह्म-र्षि-ध्यान्âधीयमान-सकल्âकुशल-प्रशमः प्रथमो ऽवतार इव ब्रह्म-लोकस्य, कलकल-मुखर-महा-वाहिनी-शत-संकुलो विपक्ष इव्ôत्तर-कुरूणाम्, ईश्वर-मार्गण-संताप्âन्-अभिज्ञ-सकल-जनो विजिगीषुर् इव त्रि-पुरस्य, सुधा-रस-सिक्त-धवल-गृह-पङ्क्ति-पाण्डुरः प्रतिनिधिर् इव चन्द्र-लोकस्य, मधु-मद-मत्त-काशिनी-भूषण-रव-भरित-भुवनो नाम्âभिहार इव कुबेर-नगरस्य, स्थाण्व्-ईश्वर्âख्यो जन-पद-विशेषः.
यस् तपो-वनम् इति मुनिभिः, काम्âयतनम् इति वेश्याभिः, संगीत-शाल्êति लासकैः, यम-नगरम् इति शत्रुभिः, चिन्ता-मणि-भूमिर् इत्य् अर्थिभिः वीर-क्षेत्रम् इति शस्त्र्ôपजीविभिः, गुरु-कुलम् इति विद्य्âर्थिभिः, गन्धर्व-नगरम् इति गायनैः, विश्व-कर्म-मन्दिरम् इति विज्ञानिभिः, लाभ-भूमिर् इति वैदेहकैः, द्यूत-स्थानम् इति बन्धिभिः, साधु-समागम इति सद्भिः, वज्र-पञ्जरम् इति शरण्âगतैः, विट-गोष्ठ्îति विदग्धैः, सु-कृत-परिणाम इति पथिकैः, असुर-विवरम् इति वातिकैः शाक्य्â- [98] -श्रम इति शमिभिः, अप्सरः-पुरम् इति कामिभिः, मह्ôत्सव-समाज इति चारणैः, वसु-धार्êति च विप्रैर् अगृह्यत.
यत्र च मातङ्ग-गामिन्यः शीलवत्यश् च, गौर्यो विभव-रताश् च, श्मामाः पद्म-रागिण्यश् च, धवल-द्विज-शुचि-वदना मदिर्âमोदि-श्वसनाश् च, चन्द्र-कान्त-वपुषः शिरीष-कोमल्âङ्ग्यश् च, अ-भुजङ्ग-गम्याः कञ्चुकिन्यश् च, पृथु-कलत्र-श्रियो दरिद्र-मध्य-कलिताश् च, लावण्यवत्यो मधुर-भाषिण्यश् च, अ-प्रमत्ताः प्रसन्न्ôज्ज्वल-मुख-रागाश् च अ-कौतुकाः प्रौढाश् च प्रमदाः.
यत्र च प्रमदानां चक्षुर् एव सहजं मुण्ड-माला-मण्डनं भारः कुवलय-दल-दामानि, अलक-प्रतिबिम्बान्य् एव कपोल-तल-गतान्य् अ-क्लिष्टाः श्रवण्âवतंसाः पुनर्-उक्तानि तमाल-किसलयानि, प्रिय-कथा एव सुभगाः कर्ण्âलंकारा आडम्बरः कुम्डल्âदिः, कपोला एव सततम् आलोक-कारका विभवो निःश्वास-मणि-प्रदोपाः सुरभि-निःस्वास्âकृष्टं मधु-कर-कुलम् एव रमणीयं मुख्âवरणं कुल-स्त्री-जन्âचारो जालिका, वाण्य् एव मधुरतरा वीणा बाह्य-विज्ञानं तन्त्री-ताडनम्, हासा एव्âति- [99] -शय-सुरभयः पट-वासा निर्-अर्थकाः कर्पूर-पांसवः, अधर-कान्ति-विसर एव्ôज्ज्वलतरो ऽङ्ग-रागो निर्-गुणो लावण्य-कलङ्कः कुङ्कुम-पङ्कः, बाहव एव कोमलतमाः, परिहास-प्रहार-वेत्र-लता निष्-प्रयोजनानि मृणालानि, यौवन्ôष्म-स्वेद-बिन्दव एव विदग्धाः कुच्âलं-कृतयो हारास् तु भाराः, श्रोण्य एव विशाल-स्फटिक-शिलातल-चतुरस्रा रागिणां विश्रम-कारणम् अ-निमित्तं भवन-मणि-वेदिकाः. कमल-लोभ-निलानान्य् अलि-कुलान्य् एव मुखराणि पद्âभरणकानि निष्-फलान्îन्द्र-नील-मणि-नूपुराणि. नूपुर-रव्âहृता भवन-कलहंसा एव समुचिताः संचरण-सहाया ऐश्वर्य-प्रपञ्चाः परिजनाः.
तत्र च साक्षात्-सहस्र्âक्ष इव सर्व-वर्ण-धरं धनुर् दधानः, मेरुमय इव कल्याण-प्रकृतित्वे, मन्दरमय इव लक्ष्मी-समाकर्षणे, जल-निधिमय इव मर्यादायाम्, आकाशमय इव शब्द-प्रादुर्-भावे, शशिमय इव कला-संग्रहे, वेदमय इव्âकृत्रिम्âलापत्वे, धरणिमय इव लोक-धृति-करणे, पवनमय इव सर्व-पार्थिव-रजो-विकार-हरणे, गुरुर् वचसि, पृथुर् उरसि, विशालो मनसि, जनकस् तपसि, सु-यात्रस् तेजसि, सु-मन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, निषधो [100] वपुषि, शत्रुघ्नः समरे, शूरः शूर-सेन्âक्रमणे, दक्षः प्रजा-कर्मणि, सर्व्âदि-राज-तेजः-पुञ्ज-निर्मित इव राजा पुष्पभूतिर् इति नाम्ना बभूव.
पृथुना गौर् इव्êयं कृत्êति यः स्पर्धमान इव महीं महिषीं चकार. निसर्ग-स्वैरिणी स्व-रुच्य्-अनुरोधिनी च भवति हि महतां मतिः. यतस् तस्य केन-चिद् अन्-उपदिष्टा सहज्âइव शैशवाद् आरभ्य्âन्-अन्य-देवता भगवति, भक्ति-सुलभे, भुवन-भृति, भूत-भावने, भव-च्छिदि, भवे भूयसी भक्तिर् अभूत्. अ-कृत-वृषभ-ध्वज-पूजा-विधिर् न स्वप्ने ऽप्य् आहारम् अकरोत्. अ-जम्, अ-जरम्, अ-मर-गुरुम्, असुर-पुर-रिपुम्, अ-परिमित-गण-पतिम्, अ-चल-दुहितृ-पतिम्, अखिल-भुवन-कृत-चरण-नतिम्, पशु-पतिं प्रपन्नो ऽन्य-देवता-शून्यम् अमन्यत त्रैलोक्यम्. भर्तृ-चित्त्âनुवर्तिन्यश् च्âनुजीविनां प्रकृतयः. तथा हि: गृहे गृहे भगवान् अपूज्यत खण्ड-परशुः. ववुर् अस्य होम्âलवाल्âनल-विलीयमान-बहल-गुग्गुलु-गन्ध-गर्भाः स्नपन-क्षीर-शीकर-क्षोद-क्षारिणो बिल्व-पल्लव-दाम-दल्ôद्वाहिनः पुण्य-विषयेषु वायवः. शिव-सपर्या-समुचितैर् उपायनैः प्राभृतैश् च पौराः पाद्ôपजीविनः सचिवाः स्व-भुज-बल-निर्जिताश् च करदी-कृता महा-सामन्तास् तं सिषेविरे. तथा हि: कैलास-कूट-धवलैः कनक-पत्र-लत्âलङ्-कृत-विषाण-कोटिभिर् महा-प्रमाणैः संध्या-बलि-वृषैः सौवर्णैश् च स्नपन-कलशैर् अर्घ-भाजनैश् च धूप-पात्रैश् च पुष्प-पट्टैश् च मणि-यष्टि-प्रदीपैश् च ब्रह्म-सूत्रैश् च मह्âर्ह-माणिक्य-खण्ड-खचितैश् च मुख-कोषैः परितोषम् अस्य मनसि चक्रुः. अन्तः-पुराण्य् अपि स्वयम्-आरब्ध-बालेय-तण्डुल-कण्डनानि देव-गृह्ôपलेपन-लोहिततर-कर-किसलयानि कुसुम-ग्रथन-व्यग्र-समस्त-परिजनानि तस्य्âभिलषितम् अन्ववर्तन्त. तथा च परम-माहेश्वरः स भू-पालो लोकतः [101] शुश्राव भुवि भगवन्तम् अ-परम् इव साक्षाद् दक्ष-मख-मथनं दाक्षिणात्यं बहु-विध-विद्या-प्रभाव-प्रख्यातैर् गुणैः शिष्यैर् इव्âन्-एक-सहस्र-संख्यैर् व्याप्त-मर्त्य-लोकं भैरवाचार्य-नामानं महा-शैवम्. उपनयन्ति हि हृदयम् अ-दृष्टम् अपि जनं शील-संवादाः. यतः स राजा श्रवण-सम-कालम् एव तस्मिन् भैरवाचार्ये भगवति द्वितीय इव कपर्दिनि दूर-गते ऽपि गरीयसीं बबन्ध भक्तिम्. आचकाङ्क्ष च मनो-रथैर् अप्य् अस्य सर्वथा दर्शनम्.
अथ कदा-चित् पर्यस्ते ऽस्त्âचल-चुम्बिनि वासरे ऽन्तः-पुर-वर्तिनं राजानम् उपसृत्य प्रतीहारी विज्ञापितवती: "देव! द्वारि परिव्राड् आस्ते, कथयति च भैरवाचार्य-वचनाद् देवम् अनुप्राप्तो ऽस्मि" इति. राजा तु तच् छ्रत्वा स्âदरम्: "क्व्âसौ? आनय्âत्र्âइव, प्रवेशय्âइनम्" इति च्âब्रवीत्. तथा च्âकरोत् प्रतीहारी. न चिराच् च प्रविशन्तं प्रांशुम्, आ-जानु-भुजम्, भैक्ष-क्षामम् अपि स्थूल्âस्थिभिर् अवयवैः पीवरम् इव्ôपलक्ष्यमाणम्, पृथ्ûत्तम्âङ्गम्, उत्तुङ्ग-वलि-भङ्ग-स्थ-पुट-ललाटम्, निर्-मांस-गण्ड-कूपकम्, मधु-बिन्दु-पिङ्गल-परिमण्डल्âक्षम्, ईषद्-आवक्र-घोणम्, अति-प्रलम्ब्âइक-कर्ण-पाशम्, अलाबु-बीज-विकट्ôन्नत-दन्त-पङ्क्तिम्, तुरग्âनूक-श्लथ्âधर-लेखम्, लम्ब-चिबुक्âयततर-लपनम्, अंस्âवलम्बिना काषायेण योग-पट्टकेन विरचित-वैकक्षकम्, हृदय-मध्य-निबद्ध-ग्रन्थिना च रागेण्êव खण्डशः कृतेन धातु-रस्âरुणेन कर्पटेन कृत्ôत्तर्âसङ्गम्. पुनर्-उक्त-बाल-प्रग्रह-वेष्टन-निश्-चल-मूलेन बद्ध-मृत्-परिशोधन-वंश-त्वक्-तितौना कौपीन-स-नाथ-शिखरेण खर्जूर-पुट-समुद्गक-गर्भी-कृत-भिक्षा-कपालकेन दारव-फलक-त्रय-त्रि-कोण-त्रि-यष्टि-निविष्ट-कमण्डलुना बहिर्-उपपादित- [102] -पादुक्âवस्थानेन स्थूल-दशा-सूत्र-नियन्त्रित-पुस्तिका-पूलकेन वाम-कर-धृतेन योग-भारकेण्âध्यासित-स्कन्धम्, इतर-कर-गृहीत-वेत्र्âसनं मस्करिणम् अद्राक्षीत्. क्षिति-पतिर् अप्य् उपगतम् उचितेन च्âइनम् आदरेण्âन्वग्रहीत्. आसीनं च पप्रच्छ: "क्व भैरवाचार्यः?" इति. स्âदर-नर-पति-वचन-मुदित-मतिस् तु परिव्राट् तम् उपनगरं सरस्वती-तट-वन्âवलम्बिनि शून्य्âयतने स्थितम् आचचक्षे. भूयश् च्âबभाषे: "अर्चयति हि महा-भागं भगवान् आशीर्-वचसा" इत्य् उक्त्वा च्ôपनिन्ये योग-भारकाद् आकृष्य भैरवाचार्य-प्रहितानि रत्नवन्ति बहल्âलोक-लिप्त्âन्तः-पुराणि पञ्च राजतानि पुण्डरीकाणि.
नर-पतिस् तु प्रिय-जन-प्रणय-भङ्ग-कातरो दाक्षिण्यम् अनुरुध्यमानो ग्रहण-लाघवं च लङ्घयितुम् अ-समर्थो दोलायमानेन मनसा स्थित्वा चिरं कथं-कथम् अप्य् अति-सौजन्य-निघ्नस् तानि जग्राह. जगाद च: "सर्व-फल-प्रसव-हेतुः शिव-भक्तिर् इयं नो मनो-रथ-दुर्-लभानि फलति फलानि. येन्âइवम् अस्मासु प्रीयते तत्र-भगवान् भुवन-गुरुर् भैरवाचार्यः. श्वो द्रष्टास्मि भगवन्तम्" इत्य् उक्त्वा च मस्करिणं व्यसर्जयत्. अनया च वार्तया परां मुदम् अवाप.
अपरेद्युश् च प्रातर् एव्ôत्थाय वाजिनम् अधिरुह्य समुच्छ्रित-श्वेत्âतपत्रः समुद्धूयमान-धवल-चामर-युगलः कतिपयैर् एव राज-पुत्रैः परिवृतो भैरवाचार्यं सवितारम् इव शशी द्रष्टुं प्रतस्थे. गत्वा च किञ्-चिद् अन्तरं तदीयम् एव्âभि-मुखम् आपतन्तम् अन्यतमं शिष्यम् अद्राक्ष्रीत्. अप्राक्षीच् च: "क्व भगवान् आस्ते?" इति. सो ऽकथयत्: "अस्य जीर्ण-मातृ-गृहस्य्ôतरेण बिल्व-वाटिकाम् अध्यास्ते" इति. गत्वा च तं प्रदेशम् अवततार तुरगात्. प्रविवेश च बिल्व-वाटिकाम्.
अथ महतः कार्पठिक-वृन्दस्य मध्ये प्रातर् एव स्नातम्, दत्त्âष्ट- [103] -पुष्पिकम्, अनुष्ठित्âग्नि-कार्यम्, कृत-भस्म-रेखा-परिहार-परिकरे हरित-गोमय्ôपलिप्त-क्षिति-तल-वितते व्याघ्र-चर्मण्य् उपविष्टम्, कृष्ण-कम्बल-प्रावरण-निभेन्âसुर-विवर-प्रवेश्âशङ्कया पाताल्âन्धकार्âवासम् इव्âभ्यस्यन्तम्, उन्मिषता विद्युत्-कपिलेन्âत्म-तेजसा महा-मांस-विक्रय-क्रीतेन मनः-शिला-पङ्केन्êव शिष्य-लोकं लिम्पन्तम्, जटी-कृत्âइक-देश-लम्बमान-रुद्र्âक्ष-शङ्ख-गुटिकेन्ôर्ध्व-बद्धेन शिखा-पाशेन बध्नन्तम् इव विद्य्âवलेप-दुर्-विदग्धान् उपरि-संचरतः सिद्धान् धवल-कतिपय-शिरो-रुहेण वयसा पञ्च-पञ्चाशतं वर्षाण्य् अतिक्रामन्तम्, खालित्य-क्षीयमाण-शङ्ख-लोम-लेखम्, लोमश-कर्ण-शष्कुली-प्रदेशम्, पृथु-ललाट-तटम्, तिरः-श्याम-भस्म-ललाटिकया बहुशः शिरो-र्ध-धृत-दग्ध-गुग्गुलु-संताप-स्फुटित-कपाल्âस्थि-पाण्डुर-राजि-शङ्कामिव जनयन्तम्, सहज-ललाट-वलि-भङ्ग-संकोचित-कूर्च-भागां बभ्रु-भासं भ्रू-संगत्या निर्-अन्तराम् आयामिनीम् एकाम् इव भ्रू-लेखां बिभ्राणम्, ईषत्-काचर-कनीनिकेन रक्त्âपाङ्ग-निर्गत्âंशु-प्रतानेन मध्य-ध्वल-भास्îन्द्र्âयुधेन्êव्âति-दीर्घेण लोचन-युगलेन परितो महा-मण्डलम् इव्âन्-एक-वर्ण-रागम् आलिखन्तम्, सित-पीत-लोहित-पताका-वलि-शबलम्, शिव-बलिम् इव दिक्षु विक्षिपन्तम्, तार्क्ष्य-तुण्ड-कोटि-कुब्ज्âग्र-घोणम्, दूर-विदीर्ण-सृक्क-संक्षिप्त-कपोलम्, किञ्-चिद् दन्तुरतया सदा-हृदय-संनिहित-हर-मौलि-चन्द्र्âतपेन्êव निर्गच्छता दन्त्âलोकेन धवलयन्तं दिशं जालम्, जिह्व्âग्र-स्थित-सर्व-शैव-संहित्âति-भारेण्êव मनाक्-प्रलम्बित्âउष्ठम्, प्रलम्ब-श्रवन-पाली-प्रेङ्खिताभ्यां स्फाटिक-कुण्डलाभ्यां शुक्र-बृहस्पतिभ्याम् इव सुर्âसुर-विजय-विद्या-सिद्धि-श्रद्धय्âनुबध्यमानम्, बद्ध-विविध्âउषधि-मन्त्र-सूत्र-पङ्क्तिना स-लोह-वलयेन्âइक-प्रकोष्टेन शङ्ख-खण्डं पूष्णो दन्तम् इव भगवता भवेन भग्नं भक्त्या भूषणी- [104] -कृतं कलयन्तम्, अखिल-रस-कूप्ôदञ्चन-घटी-यन्त्र-मालाम् इव रुद्र्âक्ष-मालां दक्षिणेन पाणिना भ्रमयन्तम्, उरसि दोलायमानेन्âपिङ्गल्âग्रेण कूर्च-कच-कलापेन संमार्जयन्तम् इव्âन्तर्-गतं निज-रजो-निकरम्, अति-निबिड-नील-लोम-मण्डल-विचितं च ध्यान-लब्धेन ज्योतिषा दग्धम् इव हृदय-देशे दधानर्म्, ईषत्-प्रशिथिल-वलि-वलय-बध्यमान-तुन्दम्, उपयमान-स्फिङ्-मांस-पिण्डकम्, पाण्डुर-पवित्र-क्षौम्âवृत-कौपीनम्, स्âवष्ठम्भ-पर्यङ्क-बन्ध-मण्डलितेन्â-मृत-फेन-श्वेत-रुचा योग-पट्टकेन वासुकिन्êव्âप्रतिहत्âन्-एक-मन्त्र-प्रभाव्âविर्-भूतेन प्रदक्षिणी-क्रियम्णम्, अरुण-तामरस-सुकुमारतर-तलस्य पाद-युगलस्य निर्-मलैर् नख-मयूख-जालकैर् जर्जरयन्तम् इव महा-निधान्ôद्धरण-रसेन रसा-तलम्, तोय-क्षालित-शुचिना धौत-पादुका-युगलेन हंस-मिथुनेन्êव भाघीरथी-तीर्थ-यात्रा-परिचय्âगतेन्âमुच्यमान-चरण्âन्तिकम्, शिखर-निखात-कुब्ज-कालायस-कण्टकेन वैणवेन विशाखिका-दण्डेन सर्व-विद्या-सिद्धि-विघ्न-विनायक्âपनयन्âङ्कुशेन्êव सतत-पार्श्व-वर्तिना विराजमानम्, अ-बहु-भाषिणं मन्द-हासिनं सर्व्ôपकारिणं कुमार-ब्रह्म-चारिणम्, अति-तपस्विनम्, महा-मनस्विनं कृश-क्रोधम्, अ-कृश्âनुरोधम्, महा-नगरम् इव्âदीन-प्रकृति-शोभितम्, मेरुम् इव कल्प-तरु-पल्लव-राशि-सुकुमार-च्छायम्, कैलासम् इव पशु-पति-चरण-रजः-पवित्रित-शिरसम्, शिव-लोकम् इव माह्êश्वर-गण्âनुयातम्, जल-निधिम् इव्âन्-एक-नद-नदी-सहस्र-प्रक्षालित-शरीरम्, जाह्नवी-प्रवाहम् इव बहु-पुण्य-तीर्थस्-थान-शुचिम्, धाम धर्मस्य, तीर्थं तथ्यस्य, कोशं कुशलस्य, पत्तनं पूततायाः शाला शीलस्य, क्षेत्रं क्षमायाः शालेयं शा- [105] -लीनतायाः, स्थानं स्थितेः, आधारं धृतेः आकरं करुणायाः, निकेतनं कौतुकस्य, आरामं रामणीयकस्य, पासादं प्रसादस्य, अगारं गौरवस्य, समाजं सौजन्यस्य, संभवं सद्-भावस्य, कालं कलेः, भगवन्तं साक्षाद् इव वि-रूप्âक्षं भैरवाचार्यं ददर्श.
भैरवाचार्यस् तु दूराद् एव राजानं दृष्ट्वा शशिनम् इव जल-निधिश् चचाल. प्रथमतर्ôत्थित-शिष्य-लोकश् च्ôत्थाय प्रत्युज्जगाम. समर्पित-श्री-फल्ôपायनश् च जह्नु-कर्ण-समुद्गीर्यमाण-गङ्गा-प्रवाह-ह्राद-गम्भीरया गिरा स्वस्ति-शब्दम् अकरोत्.
नर-पतिर् अपि प्रीति-विस्तार्यमाण-धवलिम्ना चक्षुषा प्रत्यर्पयन्न् इव बहुतराणि पुण्डरीक-वनानि ललाट-पट्ट-पर्यस्तेन च्ôद्-अंशुना शिखा-मणिना मह्êश्वर-प्रसादम् इव तृतीय-नयन्ôद्गमेन प्रकाशयन्न् आवर्जित-कर्ण-पल्लव-पलायमान-मधु-करः शिव-सेवा-समुन्मूलित्âशेष-पाप-लव-मुच्यमान इव दूराद् अवनतः प्रणामम् अभिनवं चकार. आचार्यो ऽपि: "आगच्छ. अत्र्ôपविश" इति शार्दूल-चर्म्âत्मीयम् अदर्शयत्. उपदर्शित-प्रश्रयस् तु राजा मत्त-हंस-कल-गद्गद-स्वर-सुभगां मधु-रसमयीं महा-नदीम् इव प्रवर्तयन् वाचं व्याजहार: "भगवन्! न्âर्हसि माम् अन्य-नृप-स्खलितैः खली-कर्तुम्. अ-शेष-राज-कोप्êक्षिताया हत-लक्ष्म्याः खल्व् अयं शील्âपराधो द्रविण-दौरात्म्यं वा यद् एवम् आचरति मयि गुरुः. अ-भूमिर् अयम् उपचाराणाम्. अलम् अति-यन्त्रणया. दूर-स्थितो ऽपि मनो-रथ-शिष्यो ऽयं जनो भवताम्. माननीयं च गुरुवन् न्ôल्लङ्घनम् अर्हति गुरोर् आसनम्. आसतां च भवन्त एव्âत्र" इति व्याहृत्या परिजन्ôपनीते वाससि निषसाद. भैरवाचार्यो ऽपि प्रीत्य्âन्-अतिक्रमणीयं नृप-वचनम् अनुवर्तमानः पूर्ववत् तद् एव व्याघ्र्âजिनम् अभजत.
आसीने च स-राजके परिजने शिष्य-जने च समुचितम् अर्ध्य्â- [106] -दिकं चक्रे. क्रमेण च नृप-माधुर्य-हृत्âन्तः-करणः शशि-कर-निकर-विमला दश-नदी-धितीः स्फुरन्तीः शिव-भक्तीर् इव साक्षाद् द्रशयन्न् उवाच: "तात! अति-नम्रत्âइव ते कथयति गुणानां गौरवम्. सकल-संपत्-पात्रम् असि. विभव्âनुरूपास् तु प्रतिपत्तयः. जन्मनः प्रभत्य् अ-दत्त-दृष्टिर् एव्âस्मि स्वापतेयेषु. यतः सकल-दोष-कलाप्âनल्êन्धनैर् धनैर् अ-विक्रीतं क्व-चिच् छरीरकम् अस्ति. भैक्ष-रक्षिताः सन्ति प्राणाः. दुर्-गृहीतानि कति-चिद् विद्यन्ते विद्य्âक्षराणि. भगवच् छिव-भट्टारक-पाद-सेवया समुपार्जिताः कियत्यो ऽपि संनिहिताः पुण्य-कणिकाः. स्वी-क्रियतां यद् अत्र्ôपयोग्âर्हम्. प्रतनु-गुण-ग्राह्याणि कुसुमान्îव हि भवन्ति सतां मनांसि. अपि च, विद्वत्-संमताः श्रूयमाणा अपि साधवः शब्दा इव सुधीरे ऽपि हि मनसि यशांसि कुर्वन्ति. विवरं विशतः कुतूहलस्य फेन-धवलैः स्रोतोभिर् इव्âपह्रियमाणो गुण-गणैर् आनीतो ऽस्मि कल्याणिना" इति.
राजा तु तं प्रत्यवादीत्: "भगवन्! अनुरक्तेष्व् अपि शरीर्âदिषु साधूनां स्वामिन एव प्रणयिनः. युष्मद्-दर्शनाद् उपार्जितम् एव च्â-परिमितं कुशल-जातम्. अनेन्âइव्âगमनेन स्पृहणीयं पदम् आरोपितो ऽस्मि गुरुणा" इति विविधाभिश् च कथाभिश् चिरं स्थित्वा गृहम् अगात्.
अन्यस्मिन् दिवसे भैरवाचार्यो ऽपि राजानं द्रष्टुं ययौ. तस्मै च राजा स्âन्तः-पुरं स-परिजनं स-कोषम् आत्मानं निवेदितवान्. स च विहस्य्ôवाच: "तात! क्व विभवाः, क्व च वयं वन-वर्धिताः? [107] धन्ôष्मणा म्लायत्य् अलं लत्êव मनस्विता. खद्योतानाम् इव्âस्माकम् इयम् अ-पर्ôपतापिनी राजते तेजस्विता. भवादृशा एव भाजनं भूतेः" इति स्थित्वा च कं-चित् कालं जगाम.
परिव्राट् तेन्âइव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्य् उपायनी-चकार. एकदा तु श्वेत-कर्पट्âवृतं किम् अप्य् आदाय प्राविशत्. उपविश्य च पूर्ववत् स्थित्वा मुहूर्तम् अब्रवीत्: "महा-भाग! भवन्तम् आह भगवान् यथ्âस्मच्-छिष्यः पातालस्वामि-नामा ब्राह्मणः. तेन ब्रह्म-राक्षस-हस्ताद् अपहृतो मह्âसिर् अट्टहास-नामा. सो ऽयं भवद्-भुज-योग्यो गृह्यताम्" इत्य् अभिधाय्âपहृत-कर्पट्âवच्छादनात् परिवाराद् आचकर्ष शरद्-गगन-तलम् इव पिण्डतां नीतम्, कालिन्दी-प्रवाहम् इव स्तम्भित-जलम्, नन्दक-जिगीषया कृष्ण-कोपितं कालियम् इव कृपाणतां गतम्, लोक-विनाशाय प्रकाशित-धारा-सारं प्रलय-काल-मेघ-खण्डम् इव नभस्-तलात् पतितम्, दृश्यमान-विकट-दन्त-मण्डलं हासम् इव हिंसायाः, हरि-बाहु-दण्डम् इव कृत-दृढ-मुष्टि-ग्रहम्, सकल-भुवन-जीवित्âपहरण-क्षमेण काल-कूटेन्êव निर्मितम्, कृत्âन्त-कोप्âनल-तप्तेन्êव्âयसा घटितम्, अति-तीक्ष्णतया पवन-स्पर्शेन्âपि रुष्êव क्वणन्तम् मणि-सभा-कुट्टिम-पतत्-प्रतिबिम्ब-च्छद्मन्âत्मानम् अपि द्विध्êव पाटयन्तम्, अरि-शिरश्-छेद-लग्नैः कचैर् इव किरणैः करालित-धारम्, मुहुर्-मुहुस् तडिद्-उन्मेष-तरलैः प्रभा-चक्र-च्छुरितैर् जर्जरित्âतपम्, खण्डशश् छिन्दन्तम् इव दिवसम्, कट्âक्षम् इव काल-रात्रेः, कर्ण्ôत्पलम् इव कालस्य, ओं-कारम् इव क्रौर्यस्य अलं-कारम् अहं-कारस्य, कुल-मित्रं कोपस्य, देहं दर्पस्य, [108] सु-सहायं साहसस्य, अपत्यं मृत्योः, आगमन-मार्गं लक्ष्म्याः, निर्गमन-मार्गं कीर्तेः, कृपाणम्.
अवनि-पतिस् तु तं गृहीत्वा करेण्âयुध-प्रीत्या प्रतिमा-निभेन्âलिङ्गन्न् इव सु-चिरं ददर्श. संदिदेश च: "वक्तव्यो भगवान् पर-द्रव्य-ग्रहण्âवज्ञा-दुर्-विदग्धम् अपि हि मे मनो युष्मद्-विषये न शक्नोति वचन-व्यतिक्रम-व्यभिचारम् आचरितुम्" इति. परिव्राट् तु गृहीते तस्मिन् परितुष्टः "स्वस्ति भवते. साधयामः" इत्य् उक्त्वा निरयासीत्. नृपश् च प्रकृत्या वीर-रस्âनुरागी तेन कृपाणेन्âमन्यत कर-तल-वर्तिनीं मेदिनीम्.
अथ व्रजत्सु दिवसेष्व् एकदा भैरवाचार्यो राजानम् उपह्वरे स्ôपग्रहम् अवादीत्: "तात! स्व्âर्थ्âलसाः पर्ôपकार-दक्षाश् च प्रकृतयो भवन्ति भव्यानाम्. भव्âदृशां च्âर्थि-दर्शनं मह्ôत्सवः प्रणयनम् आराधनम् अर्थ-ग्रहणम् उपकारः. भूमिर् असि सर्व-लोक-मनो-रथानाम्. येनाभिधीयसे. श्रूयताम्. भगवतो महा-काल-हृदय-नाम्नो महा-मन्त्रस्य कृष्ण-स्रग्-अम्बर्âनुलेपनेन्âकल्पेन कल्प-कथितेन महा-श्मशाने जप-कोट्या कृत-पूर्व-सेवो ऽस्मि. तस्य च वेताल-साधन्âवसाना सिद्धिः. अ-सहायैश् च सा दुर्-अवापा. त्वं च्âलम् अस्मै कर्मणे. त्वयि च गृहीत-भरे भविष्यन्त्य् अ-परे सहायास् त्रयः एकः स एव्âस्माकं टीटिभ-नामा बाल-मित्रं मस्करी यो भवन्तम् उपतिष्ठते. द्वितीयः स पातालस्वामी. अ-परो मच्-छिष्य एव कर्णताल-नामा द्राविडः. यदि साधु मन्यसे ततो नीयताम् अयं दिङ्-नाग-हस्त-दीर्घो गृहीत्âट्टहासो निशाम् एकाम् एक-दिङ्-मुख्âर्गलतां बाहुः." इति कृत-वचसि च तस्मिन्न् अन्धकार-प्रविष्ट इव दृष्ट-प्रकाशः प्राप्त्ôपकार्âवकाशः प्रमुदितेन्âन्तर्-आत्मना नर्êन्द्रः समभाषत: "भगवन्! परम् अनुगृहीतो ऽस्म्य् अनेन शिष्य-जन-सामान्येन निदेशेन कृत-परिग्रहम् इव्âत्मानम् एव्âइमि" इति. ननन्द च तेन [109] नर्êन्द्र-व्याहृतेन भैरवाचार्यः. चकार च संकेतम्: "अस्याम् एव्âगामिन्याम् असित-पक्ष-चतुर्-दशी-क्षपायाम् इयत्यां वेलायाम् अमुष्मिन् महा-श्मशान-समीप-भाजि शून्य्âयतने शस्त्र-द्वितीयेन्âयुष्मता द्रष्टव्या वयम्" इति.
अथ्âतिक्रान्तेष्व् अहःसु प्राप्तायां च तस्याम् एव कृष्ण-चतुर्-दश्यां शैवेन विधिना दीक्षितः क्षितिपो नियमवान् अभूत्. कृत्âधिवासं च संपादित-गन्ध-धूप-माल्य्âदि-पूजं खड्गम् अट्टहासम् अकरोत्. ततः परिणते दिवसे केन्âपि कर्म-साधनाय कृत-रुधिर-बलि-विधानास्व् इव लोहित्âयमानासु दिक्षु, रुधिर-बलि-लम्पटासु च वेताल-जिह्वास्व् इव लम्बमानासु च रवि-दीधितिषु, नर्êन्द्र्âनुरागेण गृहीत्âप्-अर-दिशि स्वयम् इव दिक्-पालतां चिकीर्षति सवितरि, यातुधानीष्व् इव वर्धमानासु तरु-च्छायासु, पाताल-तल-वासिषु विघ्नाय दानवेष्व् इव्ôत्तिष्ठत्सु तमो-मण्डलेषु, नभसि पुञ्जी-भवति, रौद्रं कर्म दिदृक्षमाणा इव नक्षत्र-गणे विगाढायां शर्वर्याम्, सुप्त-जने निः-शब्दस् तिमिते निशीथे, राजा स्âन्तः-पुरं परिजनं वञ्चयित्वा वाम-कर-स्फुरत्-सरुर् दक्षिण-करेण्ôत्खातं खड्गम् अट्टहासम् आदाय विसर्पता च खड्ग-प्रभा-पटलेन नील्âंशुक-पटेन्êव दर्शन-भयाद् अवगुण्ठित-निखिल-गात्र-यष्टिर् अन्-आदिष्टय्âप्य् अनुगम्यमानो राज-लक्ष्म्या पृष्ठतः परिमल-लग्न-मधु-कर-वेणि-व्याजेन केशेष्व् इव कर्म-सिद्धिम् आकर्षन्न् एकाकी नगरान् निरगात्. अगाच् च तम् उद्देशम्.
अथ प्रत्युपजग्मुस् ते त्रयो ऽपि द्रौणि-कृप-कृतवर्माण इव सौप्तिके संनद्धाः स्नाताः स्रग्विणो गृहीत-विकट-वेषाः, कुसुम-शेखर-संचारिभिः क्रियमाण-मन्त्र-शिखा-बन्धा इव गुञ्जद्भिः षट्-चरणैर् उष्णीष-पट्टकांल् ललाट-मध्य-घटित-विकट-स्वस्तिका-ग्रन्थीन्-महा-मुद्रा-बन्धान् इव धारयन्तो मूर्धभिः एक-श्रवण-विवर-वितत-विमल-दन्त-पत्र-प्रभा-लोक-लेप-धवलित-क- [110] -पोलैर् मुखैर् आपिबन्त इव निशा-चर्âपचय-चिकीर्षया शार्वरम् अन्धकारम्, इतर-कर्ण्âवलम्बिनां रत्न-कुण्डलानाम् अच्छ्âच्छया रुचा गो-रोचनय्êव मन्त्र-परिजप्तया समालब्ध्âङ्गाः, स्व-प्रतिबिम्ब-गर्भान् कर्म-सिद्धये दत्त-पुरुष्ôपहारान् इव्ôल्लासयन्तो निशितान् निस्त्रिंशान्, निस्त्रिंश्âंशु-संतान-सीमन्तित-तिमिराम् आत्मीय्âत्मीय-दिग्-विभाग-संरक्षणाय त्रिध्êव त्रि-यामां पाटयन्तः स्âर्ध-चन्द्रैः कल-धौत-बुद्बुद्âवलि-तरल-तारा-गणैर् निशाया इव परुष्âसि-धारा-निकृत्तैः खण्डैर् गृहीतैश् चर्म-फलकैर् अ-काण्ड-शर्वरीम् अ-परां घटयन्तः, काञ्चन-शृङ्खला-कलाप-नियमित-निबिड-निष्प्रवाणयः, बद्ध्âसि-धेनवः, टीटिभ-कर्णताल-पातालस्वामिनो निवेदितवन्तश्-च्âत्मानम्.
अवनि-पतिस् तु: "को ऽत्र कः?" इति त्रीन् अपृच्छत्. आचचक्षिरे च स्वं स्वं नाम त्रयो ऽपि ते. तैर् एव च्âनुगम्यमानो जगाम तां बलि-दीप्âलोक-जर्जरित-गुग्गुलु-धूप-धूम-गृह्यमाण-दिग्-विभागतया विक्षिप्यमाण-रक्षा-सर्षप्âर्ध-दग्ध्âन्धकार-पलायमान-निशाम् इव समुपकल्पित-सर्व्ôपकरणां निः-शब्दां च गम्भीरां च भीषणां च साधन-भूमिम्.
तस्यां च कुमुद-धूलि-धवलेन भस्मना लिखितस्य महतो मण्डलस्य मध्ये स्थितं दीप्ततर-तेजः-प्रसरम्, पृथु-परिवेष-परिक्षिप्तम् इव शरत्-सवितारम्, मथ्यमान-क्षीर्ôद्âवर्त-वर्तिनम् इव मन्दरम्, रक्त-चन्दन्âनुलेपिनो रक्त-स्रग्-अम्बर्âभरणस्य्ôत्तान-शयस्य शवस्य्ôरस्य् उपविश्य जात-जात-वेदसि मुख-कुहरे प्रारब्ध्âग्नि-कार्यम्, कृष्ण्ôष्णीषम्, [111] कृष्ण्âङ्ग-रागम्, कृष्ण-प्रतिसरम्, कृष्ण-वाससम्, कृष्ण-तिल्âहुति-निभेन विद्या-धरत्व-तृष्णया मानुष-निर्माण-कारण-कालुष्य-परम्âणून् इव क्षयम् उपनयन्तम्, आहुति-दान-पर्यस्ताभिः प्रेत-मुख-स्पर्श-दूषितं प्रक्षालयन्तम् इव्âशुशुक्षणिं कर-नख-दीधितिभिः, धूम्âलोहितेन चक्षुषा क्षतज्âहुतिम् इव हुत-भुजि पातयन्तम्, ईषद्-विवृत्âधर-पुट-प्रकटित-सित-दशन-शिखरेण दृश्यमान-मूर्त-मन्त्र्âक्षर-पङ्क्तिन्êव मुखेन किम् अपि जपन्तम्, होम-श्रम-स्वेद-सलिल-प्रतिबिम्बिताभिर् आसन्न-दीपिकाभिर् दहन्तम् इव कर्म-सिद्धये सर्व्âवयवान्, अंस्âवलम्बिना बहु-गुणेन विद्या-राजेन्êव ब्रह्म-सूत्रण परिगृहीतं भैरवाचार्यम् अपश्यत्. उपसृत्य च्âकरोन् नमस्-कारम्. अभिनन्दितश् च तेन स्व-व्यापारम् अन्वतिष्ठत्.
अत्र्âन्तरे पातालस्वामी शातक्रतवीम् आशाम् अङ्गी-चकार, कर्णतालः कौबेरीं परिव्राट् प्राचेतसीम्. राजा तु त्रैशङ्कवेन ज्योतिष्âङ्कितां ककुभम् अलं-कृतवान्.
एवं च्âवस्थितेषु दिक्-पालेषु दिक्-पाल-भुज-पञ्जर-प्रविष्टे विस्रब्धं कर्म साधयति भैरवं भैरवाचार्ये ऽति-चिरं च कृत-कोलाहलेषु निष्-फल-प्रयत्नेषु प्रत्यूह-कारिषु शान्तेषु कौणपेषु गलत्य् अर्ध-रात्र-समये मण्डलस्य न्âति-दवीयस्य् उत्तरेण्âकस्माद् एव प्रलय-महा-वराह-दंष्ट्रा-विवरम् इव दर्शयन्ती क्षितिर् अदीर्यत. सहस्âइव च तस्माद् विवराद् आश्âवारण्ôत्क्षिप्त [112] इव्âलाना लोह-स्तम्भः, महा-वराह-पीवर-स्कन्ध-पीठो नरक्âसुर इव भुवो गर्भाद् उद्भूतो बलि-दानव इव भित्त्व्ôत्थितः पातालम्, इन्द्र-नील-प्रासाद इव्ôपरि-ज्वलित-रत्न-प्रदीपः, स्निग्ध-नील-घन-निबिड-कुटिल-कुन्तल-कान्त-मौलिर् उन्मीलन् मालती-मुण्ड-मालः, गद्गदतया स्वरस्य स्व-भाव-पाटलतया च चक्षुषः क्षीब इव यौवन-मदेन वल्गद्-गल-दामकः, कर-संपुट-मृदितया मृदा दिङ्-नाग-कुम्भ्âभा-वंस-कूटौ पुनः पुनः परिपङ्कयन् सान्द्र-चन्दन-कर्दम-दत्तैर् अव्यवस्था-स्थासकैर् अति-सित-जल-धर-शकल-शारित इव शारद्âकाश्âइक-देशः, केतकी-गर्भ-पत्र-पाण्डुरस्य चण्डातकस्य्ôपरि क्षामतरी-कृत-कुक्षिः, कक्ष्या-बन्धं विधाय विलास-विक्षिप्तेन धवल-व्यायाम-फाली-पट्âन्तेन धरणि-तल-गतेन धार्यमाण इव पृष्ठतः शेषेण, स्थिर-स्थूल्ôरु-दण्डः, भूमि-भङ्ग-भयेन्êव मन्थराणि स्थापयन् पदानि निर्-भर-गर्व-गुरु कथम् अपि शैलम् इव गात्रम् उद्वहन् दर्पेण मुहुर्-मुहुर् उरसि द्वि-गुणिते दोष्णि वामे तिर्यग्-उत्क्षिप्ते च दक्षिणे जङ्घा-काण्डे कुण्डलिते च चण्ड्âस्फोटन-टाङ्कारैः कर्म-विघ्न-निर्घातान् इव पातयन्न् एक्êन्द्रिय-विकलम् इव जीव-लोकं कुर्वन् कुवलय-श्यामलः पुरुष उज्जगाम. जगाद च विहस्य नर-सिंह-नाद-निर्घोष-घोरया भारत्या: "भो विद्या-धरी-श्रद्धा-कामुक! किम् अयं विद्य्âवलेपः सहाय-मदो वा यद् अस्मै जनाय्âविधाय बलिं बालिश इव सिद्धिम् अभिलषसि? का ते दुर्-बुद्धिर् इयम्? एतावता कालेन क्षेत्र्âधिपतिर् अस्य मन्-नाम्न्âइव लब्ध-व्यपदेशस्य देशस्य न्âगतस् ते श्रोत्र्ôपकण्ठं श्रीकण्ठ-नामा नागो ऽहम्? अन्-इच्छति मयि का शक्तिर् ग्रह-गणस्य्âपि गन्तुं गगने. भू-नाथो ऽप्य् अयम् अ-नाथस् तपस्वी यस् त्वादृशैः शैव्âपसदैर् उपकरणी-क्रियते. सहस्व्êदानीं सह्âमुना दुर्-नर्êन्द्रेण [113] दुर्-नयस्य फलम्" इत्य् अभिधाय च निष्ठुरैः प्रकोष्ठ-प्रहारैस् त्रीन् अपि टीटिभ-प्रभृतीन् अभिमुखं प्रधावितान् स-शरीर्âवरण-कृप्âणान् अपातयत्.
अथ्âपूर्व्âधिक्षेप-श्रवणाद् अ-शस्त्र-व्रणैर् अप्य् अ-मर्ष-स्वेद-च्छलेन्âनेक-समर-पीतम् असि-धारा-जलम् इव वमद्भिर् अवयवैर् अपि रोमाञ्च-निभेन मुक्त-शर-शत-शल्य-निकर-भर-लघुम् इव्âत्मानं रणाय कुर्वद्भिर् अट्टहासेन्âपि प्रतिबिम्बित-तारा-गणेन स्पष्ट-दृष्ट-धवल-दन्त-मालम् अवज्ञया हसत्êव कथ्यमान-सत्त्व्âवष्टम्भः परिकर-बन्ध-विभ्रम-भ्रमित-कर-नख-किरण-चक्र-वालेन व्यपगमन्âशङ्कया नाग-दमन-मन्त्र-मण्डल-बन्धेन्êव रुन्धन् दश-दिशो नर-नाथः स्âवज्ञम् अवादीत्: "अरे काक्ôदर काक! मयि स्थिते राज-हंसे न जिह्रेषि बलिं याचितुम्? अमीभिः किं वा परुष-भाषितैः? भुजे वीर्यं निवसति, न वाचि. प्रतिपद्यस्व शस्त्रम्. अयं न भवसि. अ-गृहीत-हेतिष्व् अ-शिक्षितो मे भुजः प्रहर्तुम्" इति. नागस् त्व् अन्-आदृततरम्: "एहि, किं शस्त्रेण? भुजाभ्याम् एव भनज्मि भवतो दर्पम्" इत्य् अभिधाय्âस्फोटयाम्-आस. नर-पतिर् अपि निर्-आयुधम् आयुधेन युधि लज्जमानो जेतुम् उत्सृज्य स-चर्म-फलकम् अट्टहासम् असिम् अर्ध्ôरुकस्य्ôपरि बबन्ध बाहु-युद्धाय कक्ष्याम्. युयुधाते च निर्दय्âस्फोटन-स्फुटित-भुज-रुधिर-शीकर-सिच्यमानौ शिला-स्तम्भैर् इव पतद्भिर् बाहु-दण्डैः शब्दमयम् इव कुर्वाणौ भुवनं तौ. न चिराच् च पातयाम्-आस भू-तले भुजङ्गमं भू-पतिः. जग्राह च केशेषु. उच्चखान च शिरश् छेत्तुम् अट्टहासम्. अपश्यच् च वैकक्षक-माल्âन्तरेण्âस्य यज्ञ्ôपवीतम्. उपसंहृत-शस्त्र-व्यापारश् च्âवादीत्: "दुर्-विनीत! अस्ति ते दुर्-नय-निर्वाह-बीजम् इदम्. यतो विश्रब्धम् एव्âचरसि चापलानि" इत्य् उक्त्व्ôत्ससर्ज च तम्. अन्-अन्तरं च सहस्âइव्âति-बहलां ज्योत्स्नां ददर्श. शरदि विकसतां [114] कमल-वनानाम् इव च घ्राण्âवलेपिनम् आमोदम् अजिघ्रत्. झटिति च नूपुर-शब्दम् अशृणोत्. व्यापारयाम्-आस च शब्द्âनुसारेण दृष्टिम्.
अथ कर-तल-स्थितस्य्âट्टहासस्य मध्ये तडितम् इव नील-जल-धर्ôदरे स्फुरन्तीं प्रभया पिबन्तीम् इव त्रि-यामाम्, तामरस-हस्ताम्, कोमल्âङ्गुलि-राग-राजि-जालकानि च चरण-लग्नानि वेला-बाल-विद्रुम-लता-वनान्îव्âकर्षन्तीम्, कर-पङ्कज-संकोच्âशङ्कया शश्âङ्क-मण्डलम् इव खण्डशः कृतं निर्-मल-चरण-नख-निवह-निभेन बिभ्रतीम्, गुल्फ्âवलम्बि-नूपुर-पुटतया स्थित-निबिड-कटक्âवलि-बन्धनाद् इव परिभ्रश्य्âगताम्, बहु-विध-कुसुम-शकुनि-शत-शोभितात् पवन-चलित-तनु-तरङ्गाद् अति-स्व्-अच्छाद् अंशुकाद् उदधि-सलिलाद् इव्ôत्तरन्तीम्, उदधि-जन्म-प्रेम्णा त्रि-वलि-च्छलेन त्रि-पथगय्êव परिष्वक्त-मध्याम्, अत्य्-उन्नत-स्तन-मण्डलाम्, दृश्यमान-दिङ्-नाग-कुम्भाम् इव ककुभम्, मद-लग्नैर् आवत-कर-शीकर-निकरम् इव शरत्-तारा-गण-तारं हारम् उरसा दधानाम्, धवल-चामरैर् इव च मन्द-मन्द-निःश्वास-दोलायितैर् हार-किरणैर् उपवीज्यमानाम्, स्व-भाव-लोहितेन मद्âन्ध-गन्ध्êभ-कुम्भ्âस्फालन-संक्रान्त-सिन्दुरेण्êव कर-द्वयेन द्योतमानाम्, हर-शिखण्ड्êन्दु-द्वितीय-खण्डेन्êव कुण्डली-कृतेन ज्योत्स्ना-मुचा दन्त-पत्रेण विभ्राजमानाम्, कौस्तुभ-गभस्ति-स्तबकेन्êव च श्रवण-लग्नेन्âशोक-किसलयेन्âलं-कृताम्, महता मत्त-मातङ्ग-मदमयेन तिलकेन्âदृश्य-च्छत्र-च्छाया-मण्डलेन्êव्âविरहित-ललाटाम्, आ-पाद-तलाद् आ-सीमन्ताच् च चन्द्र्âतप-धवलेन चन्दनेन्âदि-राज-यशस्êव धवली-कृताम्, धरणि-तल-चुम्बिनीबिः कण्ठ-कुसुम-मालाभिः सरिद्भिर् इव सागर्âधिष्ठात्रीभिर् अधिष्ठिताम्, मृणाल-कोमलैर् अवयवैः कमल-संभवत्वम् अन्-अक्षरम् आचक्षाणां स्त्रियम् अपश्यत्. अ-संभ्रान्तश् च पप्रच्छ: "भद्रे! क्âसि, किम्-अर्थं वा दर्शन-पथम् आगत्âसि?" इति. सा तु स्त्री-जन-विरुद्धेन्âवष्टम्भेन्âभिभवन्त्îव्âभाषत तम्: "वीर! विद्धि मां [115] नारायण्ôरः-स्थली-लीला-विहार-हरिणीम्, पृथु-भरत-भगीरथ्âदि-राज-वंश-पताकाम्, सु-भट-भुज-जय-स्तम्भ-विलास-शाल-भञ्जिकाम्, रण-रुधिर-तरङ्गिणी-तरङ्ग-क्रीडा-दोहद-दुर्-ललित-राज-हंसीम्, सित-नृप-च्छत्र-षण्ड-शिखण्डिनीम्, अति-निशित-शस्त्र-धारा-वन-भ्रमण-विभ्रम-सिंहीम्, असि-धारा-जल-कमलिनीं श्रियम्. अपहृत्âस्मि तव्âमुना शौर्य-रसेन. याचस्व. ददामि ते वरम् अभिलषितम्" इति.
वीराणां त्व् अ-पुनर्-उक्ताः पर्ôपकाराः. यतो राजा तां प्रणम्य स्व्âर्थ-विमुखो भैरवाचार्यस्य सिद्धिं ययाचे. लक्ष्मीस् तु देवी प्रीततर-हृदया विस्तीर्यमाणेन चक्षुषा क्षीर्ôदेन्êव्ôपरि पर्यस्तेन्âभिषिञ्चन्ती भू-पालम् "एवम् अस्तु" इत्य् अब्रवीत्. अवादीच् च पुनः: "अनेन सत्त्व्ôत्कर्षेण भगवच्-छिव-भट्टारक-भक्त्या च्âसाधारणया भवान् भुवि सूर्या-चन्द्रमसोस् तृतीय इव्â-विच्छिन्नस्य प्रति-दिनम् उपचीयमान-वृद्धेः शुचि-सु-भग-मान्य-सत्य-त्याग-शौर्य-शौण्ड-पुरुष-प्रकाण्ड-प्रायस्य महतो राज-वंशस्य कर्ता भविष्यति. यस्मिन्न् उत्पत्स्यते सर्व-द्वीपानां भोक्ता हरिश्चन्द्र इव हर्ष-नामा चक्रवर्ती त्रि-भुवन-विजिगीषुर् द्वितीयो मान्धात्êव यस्य्âयं करः स्वयम् एव कमलम् अपहाय ग्रहीष्यति चामरम्" इति वचसो ऽन्ते तिरो-बभूव.
भूमि-पालस् तु तद् आकर्ण्य हृदयेन्âति-मात्रम् अप्रीयत. भैरवाचार्यो ऽपि तस्या देव्यास् तेन वचसा कर्मणा च सम्यग्-उपपादितेन सद्य एव कुन्तली किरीटी कुण्डली हारी केयूरी मेखली मुद्गरी खढ्गी च भूत्व्âवाप विद्या-धरत्वम्. प्रोवाच च: "राजन्! अ-दूर-व्यापिनः फल्गु-चेतसाम् अलसानां मनोरथाः. सतां तु भुवि विस्तार- [116] -वत्यः स्व-भावेन्âइव्ôपकृतयः. स्वप्ने ऽप्य् अ-संबावितां दातुम् इमां दक्षिणां क्षमः को ऽन्यो भवन्तम् अपहाय. संपत्-कणिकाम् अपि प्राप्य तुल्êव लघु-प्रकृतिर् उन्नतिम् आयाति. त्वदीयैर् गुणैर् उपकरणी-कृतस्य त्वत्त एव च लब्ध्âत्म-लाभस्य निर्लज्जत्êयम् अस्य मूढ-हृदयस्य. तद् इच्छामि येन केन-चित् कार्य-लव्ôपपादन्ôपयोगेन स्मरयितुम् आत्मानम्" इति. प्रत्युपकार-दुष्-प्रवेशास् तु भवन्ति धीराणां हृदय्âवष्टम्भाः. यतस् तं राजा "भवत्-सिद्ध्य्âइव परिसमाप्त-कृत्यो ऽस्मि. साधयतु मान्यो यथा-समीहितं स्थानम्" इति प्रत्याचचक्षे.
तथ्ôक्तश् च भू-भुजा जिगमिषुः सु-दृढं समालिङ्ग्य टीटिभ्âदीन् कुवलय-वनेन्êव्âश्याय-शीकर-स्राविणा स्âस्रेण चक्षुषा वीक्षमाणः क्षिति-पतिं पुनर्-उवाच: "तात! ब्रवीमि याम्îति न स्नेह-सदृशम्. त्वदीयाः प्राणा इति पुनर् उक्तम्. गृह्यताम् इदं शरीरकम् इति व्यतिरेकेण्âर्थ-करणम्. तिलशः क्रीता वयम् इति न्ôपकार्âनुरूपम्. बान्धवो ऽस्îति दूरी-करणम् इव. त्वयि स्थितं हृदयम् इत्य् अ-प्रत्यक्षम्. त्वद्-विरह्âनुकारिणी कारण्êयं न सिद्धिर् इत्य् अ-श्रद्धेयम्. निष्-कारणस् तव्ôपकार इत्य् अनुवादः. स्मर्तव्या वयम् इत्य् आज्ञा. सर्वथा कृतघ्न्âलापेष्व् अ-सज्-जन-कथासु च चेतसि कर्तव्यो ऽयं स्व्âर्थ-निष्ठुरो जनः" इत्य् अभिधाय वेग-च्छिन्न-हार्ôच्छलित-मुक्ता-फल-निकर-ताडित-तारा-गणं गगन-तलम्-उत्पपात. ययौ च सीमन्तित-ग्रह-ग्रामः सिद्ध्य्-उचितं धाम. श्रीकण्ठो ऽपि: "राजन्! पराक्रम-क्रीतः कर्तव्येषु नियोगेन्âनुग्राह्यो ग्राहित-विनयो ऽयं जनः" इत्य् अभिधाय राज्âनुमोदितस् तद् एव भूयो भू-विवरं विवेश. [117] नर-पतिस् तु क्षीण-भूयिष्ठायां क्षपायां, प्रवातुम् आरब्धे प्रबुध्यमान-कमलिनी-निःश्वास-सुरभौ, वन-देवता-कुच्âंशुक्âपहरण-परिहास-स्वेदिन्îव स्âवश्याय-शीकरे परिमल्âकृष्ट-मधुकृति कुमुद-निद्रा-वाहिनि निशा-परिणति-जडे तुषार-लेशिनि वन्âनिले, विरह-विधुर-चक्र-वाक-चक्र-निःश्वसित-संतापितायाम् इव्â-पर-जलनिधिम् अवतरन्त्यां त्रि-यामायां, साक्षाद्-आगत-लक्ष्मी-विलोकन-कुतूहलिनीष्व् इव समुन्मीलन्तीषु नलिनीषु, उन्निद्र-पक्षिणि क्षरति कुसुम-विसरम् इव तुहिन-कण-निकरं मृदु-पवन-लासित-लते कानने, कमल-लक्ष्मी-प्रबोध-मङ्गल-शङ्खेष्व् इव रसत्स्व् अन्तर्-बद्ध-ध्वनन्-मधुकरेषु मुकुलायमानेषु, कुमुदेषु, उज्जिहान-रवि-रथ-वाजि-विसृष्टैः प्रोथ-पटु-पवनैः प्रोत्सायमाणास्व् इव वारुण्यां ककुभि पुञ्जी-भवन्तीषु श्यामा-लता-कलिकासु तारकासु, मन्दर-शिखर्âश्रयिणि मन्द्âनिल-लुलित-कल्प-लता-वन-कुसुम-धूलि-विच्छुरित इव धूसरी-भवति सप्त-र्षि-मण्डले, सुर-वारण्âङ्कुश इव च्युते गलति तारामये मृगे त्रीन् अपि टीटिभ्âदीन् गृहीत्वा नाग-युद्ध-व्यतिकर-मलीमसानि शुचिनि वन-वापी-पयसि प्रक्षाल्य्âङ्गानि नगरं विवेश. अन्यस्मिन्न् अहनि तेषाम् आत्म-शरीर्âन्-अन्तरं स्नान-भोजनाच् छादन्âदिना प्रीतिम् अकरोत्.
कतिपय-दिवस्âपगमे च पिरव्राड् भू-भुजा वार्यमाणो ऽपि वनं ययौ. पातालस्वामि-कर्णतालौ तु शौर्य्âनुरक्तौ तम् एव सिषेवाते. संपादित-मनो-रथ्âतिरिक्त-विभवौ च सु-भट-मण्डल-मध्ये निष्कृष्ट-मण्डल्âग्रौ समर-मुखेषु प्रथमम् उपयुज्यमानौ कथ्âन्तरेषु च्âन्तर्â- [118] -न्तरा समादिष्टो विचित्राणि भैरवाचार्य-चरितानि शैशव-वृत्त्âन्तांश् च कथयन्तौ तेन्âइव स्âर्धं जराम् आजग्मतुर् इति.
इति महा-कवि-श्री-बाण-भट्ट-कृते हर्षचरिते राज-दर्शनं नाम तृतीय उच्छ्वासः
[119] चतुर्थ उच्छ्वासः
योगं स्वप्ने ऽपि न्êच्छन्ति कुर्वते न कर-ग्रहम् ।
महन्तो नाम-मात्रेण भवन्ति पतयो भुवः ॥ 4.1 ॥
सकल-मही-भृत्-कम्प-कृद् उत्पद्यत एव एव नृप-वंशे ।
विपुले ऽपि पृथु-प्रतिमो दन्त इव गण्âधिपस्य मुखे ॥ 4.2 ॥
अथ तस्मात् पुष्पभूतेर् द्विज-वर-स्व्êच्छा-गृहीत-कोषो नाभि-पद्म इव पुण्डरीक्êक्षणात्, लक्ष्मी-पुरः-सरो रत्न-संचय इव रत्न्âकरात्, गुरु-बुध-कवि-कलाभृत्-तेजस्वि-भू-नन्दन-प्रायो ग्रह-गण इव्ôदय-स्थानात् महा-भार-वाहन-योग्यः सागर इव सगर-प्रभावात्, दुर्-जय-बल-स-नाथो हरि-वंश इव शूरान् निर्जगाम राज-वंशः. यस्माद् अ-विनष्ट-धर्म-धवलाः प्रजा-सर्गा इव कृत-मुखात्, प्रताप्âक्रान्त-भुवनाः किरणा इव तेजो-निधेः, विग्रह-व्याप्ति-दिङ्-मुखा गिरय इव भूभृत्-प्रवरात्, धरणि-धारण- [120] -क्षमा दिग्-गजा इव ब्रह्म-करात्, उदधीन् पातुम् उद्यता जल-धरा इव घन्âगमात्, इच्छा-फल-दायिनः कल्प-तरव इव नन्दनात्, सर्व-भूत्âश्रया विश्व-रूप-प्रकारा इव श्रीधराद् अजायन्त राजानः.
तेषु च्âइवम् उत्पद्यमानेषु क्रमेण्ôदपादि हूण-हरिण-केसरी सिन्धु-राज-ज्वरो गूर्जर-प्रजा-गरो गान्धार्âदिप-गन्ध-द्विप-कूट-पाकलो लाट-पाटव-पाटच्चरो मालव-लक्ष्मी-लता-परशुः प्रताप-शील इति प्रथित्â-पर-नामा प्रभाकरवर्धनो नाम राज्âधिराजः. यो राज्य्âङ्ग-सङ्गीन्य् अभिषिच्यमान एव मलान्îव मुमोच धनानि. यः परकीयेन्âपि कातर-वल्लभेन रण-मुखे तृणेन्êव धृतेन्âलज्जत जीवितेन. यः कर-धृत-धौत्âसि-प्रतिबिम्बितेन्âत्मन्âप्य् अदूयत समितिषु सहायेन रिपूणां पुरः प्रधनेषु धनुष्âपि नमता यो मानी मानसेन्âखिद्यत. यश् च्âन्तर्-गत्â-परिमित-रिपु-शस्त्र-शल्य-शङ्कु-कीलताम् इव निश्-चलाम् उवाह राज-लक्ष्मीम्. यश् च सर्वासु दिक्षु समी-कृत-तट्âवट-विटप्âटवी-तरु-तृण-गुल्म-वल्मीक-गिरि-गहनैर् दण्ड-यात्रा-पथैः पृथुभिर् भृत्य्ôपयोगाय व्यभजत्êव वसुधां बहुधा. यं च्âलब्ध-युद्ध-दोहदम् आत्मीयो ऽपि सकल-रिपु-समुत्सारकः परकीय इव तताप प्रतापः. यस्य च वह्निमयो हृदयेषु, [121] जलमयो लोचन-पुटेषु, मारुतमयो निःश्वसितेषु, क्षमामयो ऽङ्गेषु, आकाशमयः शून्यतायां, पञ्च-महा-भूतमयो मूर्त इव्âदृश्यत निहत-प्रतिसामन्त्âन्तः-पुरेषु प्रतापः. यस्य च्âसन्नेषु भृत्य-रत्नेषु प्रतिबिम्बत्êव तुल्य-रूपा समलक्ष्यत लक्ष्मीः. तथा च यस्य प्रताप्âग्निना भूतिः, शौर्य्ôष्मणा सिद्धिः, असि-धारा-जलेन वंश-वृद्धिः, शस्त्र-व्रण-मुखैः पुरुष-कार्ôक्तिः, धनुर्-गुण-किणेन कर-गृहीतिर् अभवत्. यश् च वैरम् उपायनं विग्रहम् अनुग्रहं समर्âगमं मह्ôत्सवं शत्रुं निधि-दर्शनम् अरि-बाहुल्यम् अभ्युदयम् आहव्âह्वानं वर-प्रदानम् अवस्कन्द-पातं दिष्ट-वृद्धिं शस्त्र-प्रहार-पतनं वसु-धारा-रसम् अमन्यत. यस्मिंश् च राजनि निर्-अन्तरैर् यूप-निकरैर् अङ्कुरितम् इव कृत-युगेन, दिङ्-मुख-विसर्पिभिर् अध्वर-धूमैः पलायितम् इव कलिना, स-सुधैः सुर्âलयैर् अवतीर्णाम् इव स्वर्गेण, सुर्âलय-शिखर्ôद्धूयमानैर् धवल-ध्वजैः पल्लवितम् इव धर्मेण, बहिर्-उपरचित-विकट-सभा-सत्र-प्रपा-प्राग्-वंश-मण्डपैः प्रसूतम् इव ग्रामैः, काञ्चनमय-सर्व्ôपकरणैर् विभवैर् विशीर्णम् इव मेरुणा, द्विज-दीयमानैर् अर्थ-कलशैः फलितम् इव भाग्य-संपदा.
तस्य च जन्म्âन्तरे ऽपि सती पार्वत्îव शङ्करस्य, गृहीत-पर-हृदया लक्ष्मीर् इव लोक-गुरोः, स्फुरत्-तरल-तारका रोहिण्îव कलावतः, सर्व-जन-जननी बुद्धिर् इव प्रजापतेः, महा-भूभृत्-कुल्ôद्गता गङ्ग्êव [122] वाहिनी-नायकस्य, मानस्âनुवर्तन-चतुरा हंस्îव राज-हंसस्य, सकल-लोक्âर्चित-चरणा त्रय्îव धर्मस्य, दिवा-निशम् अ-मुक्त-पार्श्व-स्थितिर् अरुन्धत्îव महा-मुने हंसमय्îव गतिषु, पर-पुष्टमय्îव्âलापेषु, चक्र-वाकमय्îव पति-प्रेम्णि, प्रावृण्मय्îव पयो-धर्ôन्नतौ, मदिरामय्îव विलासेषु, निधिमय्îव्âर्थ-संचयेषु, वसु-धारामय्îव प्रसादेषु, कमलमय्îव कोश-संग्रहेषु, कुसुममय्îव फल-दानेषु, संध्यामय्îव वन्द्यत्वे, चन्द्रमय्îव निर्-ऊष्मत्वे, दर्पणमय्îव प्रतिप्राणि-ग्रहणेषु, सामुद्रमय्îव पर-चित्त-ज्ञानेषु, परम्âत्ममय्îव व्याप्तिषु, स्मृतिमय्îव पुण्य-वृत्तिषु, मधुमय्îव संभाषणेषु, अ-मृतमय्îव तृष्यत्सु, वृष्टिमय्îव भृत्येषु, निर्वृतिमय्îव सखीषु, वेतसमय्îव गुरुषु, गोत्र-वृद्धिर् इव विलासानाम्, प्रायश्-चित्त-शुद्धिर् इव स्त्रीत्वस्य, आज्ञा-सिद्धिर् इव मकर-ध्वजस्य, व्युत्थान-बुद्धिर् इव रूपस्य, दिष्ट-वृद्धिर् इव रतेः, मनो-रथ-सिद्धिर् इव रामणीयकस्य, दैव-संपत्तिर् इव लावण्यस्य, वंश्ôत्पत्तिर् इव्âनुरागस्य, वर-प्राप्तिर् इव सौभाग्यस्य, उत्पत्ति-भूमिर् इव कान्तेः, सर्ग-समाप्तिर् इव सौन्दर्यस्य, आयतिर् इव यौवनस्य, अन्-अभ्र-वृष्टिर् इव वैदग्ध्यस्य, अ-यशः-प्रमृष्टिर् इव लक्ष्म्याः, यशः-पुष्टिर् इव चारित्रस्य, हृदय-तुष्टिर् इव धर्मस्य, सौहार्दस्य भाग्य-रूप-परम्âणु-सृष्टिर् इव प्रजापतेः, शमस्यापि शान्तिर् इव, विनयस्य्âपि विनीतिर् इव, आभिजात्यस्य्âप्य् अभिजातिर् इव, संयमस्य्âपि संयतिर् इव, धैर्यस्य्âपि धृतिर् इव, विभ्रमस्य्âपि विभ्रान्तिर् इव, यशो- [123] -मती नाम महा-देवी प्राणानां प्रणयस्य विस्रम्भस्य ध्रमस्य सुखस्य च भूमिर् अभूत्. य्âस्य वक्षसि नरक-जितो लक्ष्मीर् इव ललास.
निसर्गत एव च स नृ-पतिर् आदित्य-भक्तो बभूव. प्रति-दिनम् उदये दिन-कृतः स्नातः सित-दुकूल-धारी धवल-कर्पट-प्रावृत-शिराः प्राङ्-मुखः क्षितौ जानुभ्यां स्थित्वा कुङ्कुम-पङ्क्âनुलिप्ते मण्डलके पवित्र-पद्म-राग-पात्री-निहितेन स्व-हृदयेन्êव सूर्य्âनुरक्तेन रक्त-कमल-षण्डेन्âर्घं ददौ. अजपच् च जप्यं सु-चरितः प्रत्य्-उषसि मध्यन्-दिने दिन्âन्ते च्âपत्य-हेतोः प्राध्वं प्रयतेन मनसा जञ्जपूको मन्त्रम् आदित्य-हृदयम्.
भक्त-जन्âनुरोध-विधेयानि तु भवन्ति देवतानां मनांसि. यतः स राजा कदा-चिद् ग्रीष्म-समये यद्-ऋच्छया सित-कर-कर-सित-सुधा-धवलस्य हर्म्यस्य पृष्ठे सुष्वाप. वाम-पार्श्वे च्âस्य द्वितीय-शयने देवी यशोमती शिश्ये. परिणत-प्रायायां तु श्यामायाम्, आसन्न-प्रभात-वेला-विलुप्यमान-लावण्ये लिलम्बिषमाणे सीदत्-तेजसि तारक्êश्वरे, कर्âग्र-स्पृष्ट-कुमुदिनी-प्रमोद-जन्मनि शश-धर-स्वेद इव गलत्य् अति-शीतले ऽवश्याय-पयसि, मधु-मद-मत्त-प्रसुप्त-सीमन्तिनी-निःश्वास्âहतेषु संक्रान्त-मदेष्व् इव घूर्णमानेष्व् अन्तः-पुर-प्रदीपेषु, राजनि च विमल-नख-प्रतिबिम्बिताभिः संवाह्यमान-चरण इव तारकाभिः विस्रब्ध-प्रसारितैर् दिग्-अङ्गनानाम् इव्âर्पितैर् अङ्गैर् मधु-सु-गन्धिभिः स्व-हस्त-कमल-तालवृन्त-वातैर् इव श्वसितैर् मुख-श्रिया वीज्यमाने विमल-कपोल-स्थल-स्थितेन सित-कुसुम-शेखरेण्êव रति-केलि-कच-ग्रह-लम्बितेन प्रतिमा-शशि-बिम्बेन विराजिते स्वपति देवी यशोमती सहस्âइव "आर्य-पुत्र! परित्रायस्व परित्रायस्व" इति भाषमाणा भूषण-रवेण व्याहरन्त्îव परिजनम् उत्कम्पमानाङ्ग-यष्टिर् उदतिष्ठत्.
[124] अथ तेन सर्वस्याम् अपि पृथिव्याम् अ-श्रुत-पूर्वेण किम् उत देवी-मुखे परित्रायस्व्êति ध्वनिना दग्ध इव श्रवणयोर् एक-पद एव निद्रां तत्याज राजा. शिरो-भागाच् च कोप-कम्पमान-दक्षिण-कर्âकृष्टेन कर्ण्ôत्पलेन्êव निर्गच्छत्âच्छ-धारेण धौत्âसिना सीमन्तयन्न् इव निशाम्, अन्तराल-व्यवधायकम् आकाशम् इव्ôत्तरीय्âंशुकं विक्षिपन् वाम-कर-पल्लवेन, कर-विक्षेप-वेग-गलितेन हृदयेन्êव भय-निमित्त्âन्वेषिणा भ्रमता दिक्षु कनक-वलयेन विराजमानः, स-त्वर्âवतारित-वाम-चरण्âक्रान्ति-कम्पित-प्रासादः, पुरः-पतितेन्âसि-धारा-गोचर-गतेन शशि-मयूख-खण्डेन्êव खण्डितेन हारेण राजमानः, लक्ष्मी-चुम्बन-लग्न-ताम्बूल-रस-रञ्जिताभ्याम् इव निद्रया कोपेन च्âति-लोहिताभ्यां लोचनाभ्यां पाटलयन् पर्यन्तान् आशानाम्, बद्ध्âन्ध-कारया त्रि-पताकया भ्रुकुट्या पुनर् इव त्रि-यामां परिवर्तयन् "देवि! न भेतव्यं न भेतव्यम्" इत्य् अभिदधानो वेगेन्ôत्पपात. सर्वासु च दिक्षु विक्षिप्त-चक्षुर् यदा न्âद्राक्षीत् किञ्-चिद् अपि तदा पप्रच्छ तां भय-कारणम्.
अथ गृह-देवतास्व् इव प्रधावितासु यामिकिनीषु, प्रबुद्धे च समीप-शायिनि परिजने, शान्ते च हृदय्ôत्कम्प-कारिणि साध्वसे सा समभाषत: "आर्य-पुत्र! जानामि स्वप्ने भगवतः सवितुर् मण्डलान् निर्गत्य द्वौ कुमारकौ, तेजोमयौ, बाल्âतपेन्êव्âपूरयन्तौ दिग्-भागान्, वैद्युतम् इव जीव-लोकं कुर्वाणौ, मुकुटिनौ, कुण्डलिनौ, अङ्गदिनौ, कवचिनौ, गृहीत-शस्त्रौ, इन्द्र-गोपक-रुचा रुधिरेण स्नातौ, उन्मुखेन्ôत्तम्âङ्ग-घटमान्âञ्जलिना जगता निखिलेन प्रणम्यमानौ, कन्यय्âइकया च चन्द्र-मूर्त्य्êव सुषुम्ण-रश्मि-निर्गतय्âनुगम्यमानौ, क्षिति-तलम् अवतीर्णौ. तौ च मे विलपन्त्याः शस्त्रेण्ôदरं विदार्य प्रवेष्टुम् आरब्धौ. प्रतिबुद्ध्âस्मि च्âर्य-पुत्र! विक्रोशयन्ती वेपमान-हृदया" इति.
एतस्मिन्न् एव च काल-क्रमे राज-लक्ष्म्याः प्रथम्âलापः प्रथयन्न् इव स्वप्न-फलम् उपतोरणं रराण प्रभात-शङ्खः. भाविनीं भूतिम् इव्âभि- [125] -दधाना दध्वनुर् अ-मन्दं दुन्दुभयः. चकाण कोण्âहत्âनन्दाद् इव प्रत्य्-ऊष-नान्दी. जयजय्êति प्रबोध-मङ्गल-परिपाठकानाम् उच्चैर् वाचो ऽश्रूयन्त. पुरुषश् च वल्लभ-तुरङ्ग-मन्दुरा-मन्दिरे मन्द-मन्दं सुप्त्ôत्थितः सप्तीनां कृत-मधुर-हेष्âरवाणां पुरश्-च्योतत्-तुषार-सलिल-शीकरं किरन्-मरकत-हरितं यवसं वक्त्र्âपरवक्त्रे पपाठ:
"निधिस् तरु-विकारेण सन्-मणिः स्फुरता धाम्ना ।
शुभ्âगमो निमित्तेन स्पष्टम् आख्यायते लोके ॥ 4.3 ॥
अरुण इव पुरः-सरो रविं पवन इव्âति-जवो जल्âगमम् ।
शुभम् अ-शुभम् अथ्âपि वा नृणां कथयति पूर्व-निदर्शन्ôदयः" ॥ 4.4 ॥
नर-पतिस् तु तच् छ्रुत्वा प्रीयमाणेन्âन्तः-करणेन ताम् अवादीत्: "देवि. मुदो ऽवसरे विषीदसि. समृद्धास् ते गुरु-जन्âशिषः. पूर्णा नो मनो-रथाः. परिगृहीत्âसि कुल-देवताभिः. प्रसन्नस् ते भगवान् अंशु-माली. न चिरेण्âइव्âति-गुणवद्-अपत्य-त्रय-लाभेन्âनन्दयिष्यति भवतीम्" इति. अवतीर्य च यथा-क्रियमाणाः क्रियाश् चकार. यशोमत्य् अपि तुतोष तेन पत्युर् भाषितेन.
ततः समतिक्रान्ते कस्मिंश्-चित् काल्âंशे देव्यां च यशोमत्यां देवो राज्यवर्धनः प्रथमम् एव संबभूव गर्भे. गर्भ-स्थितस्य्âइव च यस्य यशस्êव पाण्डुताम् आदत्त जननी. गुण-गौरव-क्लान्त्êव गात्रम् उद्वोढुं न शशाक. कान्ति-विसर्â-मृत-रस-तृप्त्êव्âहारं प्रति पराङ्-मुखी बभूव. शनैः शनैर् उपचीयमान-गर्भ-भर्âलसा च गुरुभिर् वारित्âपि वन्दनाय कथम् अपि सखीभिर् हस्त्âवलम्बेन्âनीयत. विश्राम्यन्ती साल-भञ्जिक्êव समीप-गत-स्तम्भ-भित्तिष्व् अलक्ष्यत. कमल-लोभ-निलीनैर् अलिभिर् इव वृताव् उद्धर्तुं न्âशकच् चरणौ. मृणाल-लोभेन च चरण-नख-मयूख-लग्नैर् भवन-हंसैर् इव संचार्यमाणा मन्द-मन्द बभ्राम. मणि-भित्ति-पातिनीषु निज-प्रतिमास्व् अपि हस्त्âवलम्बन-लोभेन प्रसारयाम्-आस कर-कमलम्, किम् उत सखीषु. माणिक्य-स्तम्भ-दीधितीर् अप्य् आलम्बितुम् आचकाङ्क्ष, किं पुनर् भवन-लताः. समादेष्टुम् अप्य् अ-समर्थ्âसीद् गृह-कार्याणि, क्âइव कथा [126] कर्तुम्. आस्तां नूपुर-भार-खेदितं चरण-युगलं मनस्âपि न्ôदसहत सौधम् आरोढुम्. अङ्गान्य् अपि न्âशक्नोद् धारयितुं दूरे भूषणानि. चिन्तयित्व्âपि क्रीडा-पर्वत्âधिरोहणम् उत्कम्पित-स्तनी तस्तान. प्रत्युत्थानेष्ûभय-जानु-शिखर-विनिहत-कर-किसलय्âपि गर्वाद् इव गर्भेण्âधार्यत. दिवसं च्âधो-मुखी स्तन-पृष्ठ-संक्रान्तेन्âपत्य-दर्शन्âउत्सुक्याद् अन्तः-प्रविष्टेन्êव मुख-कमलेन्âइवं प्रीयमाणा ददर्श गर्भम्. उदरे तनयेन हृदये च भर्त्रा तिष्ठता द्वि-गुणिताम् इव लक्ष्मीम् उवाह. सख्य्-उत्सङ्ग-मुक्त-शरीरा च शरीर-परिचारिकाणाम् अङ्केषु स-पत्नीनां तु शिरःसु पादौ चकार. अवतीर्णे च दशमे मासि सर्व्ôर्वि भृत्-पक्ष-पाताय वज्र-परम्âणुबिर् इव निर्मितम्, त्रि-भुवन-भार-धारण-समर्थं शेष-फणा-मण्डल्ôपकरणैर् इव कल्पितम्, सकल-भूभृत्-कम्प-कारिणं दिग्-गज्âवयवैर् इव विहितम् असूत देवं राज्य-वर्धनम्. यस्मिंश् च जाते जात-प्रमोदा नृत्यमय्य इव्âजायन्त प्रजाः. पूरित्âसंख्य-शङ्ख-शब्द-मुखरं प्रहत-पटह-शत-पटु-रवं गम्भीर-भेरी-निनाद-निर्भर-भरित-भुवनं प्रमोद्ôन्मत्त-मर्त्य-लोक-मनो-हरं मासम् एकं दिवसम् इव मह्ôत्सवम् अकरोन् नर-पतिः.
अथ्âन्यस्मिन्न् अतिक्रान्ते कस्मिंश्-चित् काले कन्दलिनि कुड्मलित-कदम्बतरौ रूढ-तोक्म-तृण-स्तम्बे स्तम्भित-तामरसे विकसित-चातक-चेतसि मूक-मानस्âउकसि नभसि मासि देव्या देवक्या इव चक्र-पाणिर् यशोमत्या हृदये गर्भे च समम् एव संबभूव हर्षः. शनैः शनैश् च्âस्याः सर्व-प्रजा-पुण्यैर् इव परिगृहीता भूयो ऽप्य् आपाण्डुताम् अङ्ग-यष्टिर् जगाम. गर्भ्âरम्भेण श्यामायमान-चारु-चूचुक-चूलिको चक्र-वर्तिनः पातुं मुद्रिताव् इव पयो-धर-कलशौ बभार्ôरः-स्थल्êव. स्तन्य्âर्थ-मानन-निहिता दुग्ध-नद्îव दीर्घ-स्निग्ध-धवला माधुर्यम् अधत्त दृष्टिः. सकल-मङ्गल-गण्âधिष्ठित- [127] -गात्र-गरिम्ण्êव गतिर् अमन्दायत. मन्दं-मन्दं संचरन्त्या निर्मल-मणि-कुट्टिम-निमग्न-प्रतिबिम्ब-निभेन गृहीत-पाद-पल्लवा पूर्व-सेवाम् इव्âरेभे पृतिव्यस्याः. दिवसम् अधिशयानायाः शयनीयम् अपाश्रय-पत्र-भङ्ग-पुत्रिका-प्रतिमा विमल-कपोल्ôदर-गता प्रसव-समयं प्रतिपाल्यन्ती लक्ष्मीर् इव्âलक्ष्यत. क्षपासु सौध-शिखर्âग्र-गताया गर्भ्ôन्माथ-मुक्त्âंशुके स्तन-मण्डले संक्रान्तम् उडु-पति-मण्डलम् उपरि गर्भस्य श्वेत्âतपत्रम् इव केन्âपि धार्यमाणम् अदृश्यत. सुप्ताया वास-भवने चित्र-भित्ति-चामर-ग्राहिण्यो ऽपि चामराणि चालयां-चक्रुः. स्वप्नेषु कर-विधृत-कमलिनी-पलाश-पुट-सलिलैश् चतुर्भिर् अपि दिक्-करिभिर् अक्रियत्âभिषेकः. प्रतिबुध्यमानायाश् च चन्द्र-शालिका-साल-भञ्जिका-परिजनो ऽपि जय-शब्दम् अ-सकृद् अजनयत्. परिजन्âह्वानेष्व् आदिश्êत्य् अ-शरीरा वाचो निश्चेरुः. क्रीडायाम् अपि न्âसहत्âज्ञा-भङ्गम्. अपि च चतुर्णाम् अपि मह्âर्णवानाम् एकी-कृतेन्âम्भसा स्नातुं वाञ्छा बभूव. वेला-वन-लता-गृह्ôदर-पुलिन-परिसरेषु पर्यटितुं हृदयम् अभिललाष. आत्ययिकेष्व् अपि कार्येषु स-विभ्रमं भ्रू-लता चचाल. संनिहितेष्व् अपि मणि-दर्पणेषु मुखम् उत्खाते खड्ग-पट्टे वीक्षितुं व्यसनम् आसीत्. उत्सारित-वीणाः स्त्री-जन-विरुद्धा धनुर्-ध्वनयः श्रुताव् असुखायन्त. पञ्जर-केसरिषु चक्षुर् अरमत. गुरु-प्रणामेष्व् अपि स्तम्भितम् इव शिरः कथम् अपि ननाम. सख्यश् च्âस्याः प्रमोद-विस्फारितैर् लोचन-पुटैर् आसन्न-प्रसव-मह्ôत्सव-धिय्êव धवलयन्त्यो भवनं विकच-कुमुद-कमल-कुवलय-पलाश-वृष्टिमयं रक्षा-बलि-निधिम् इव्âन्-अवरतं विदधाना दिक्षु क्षणम् अपि न मुमुचुः पार्श्वम्. आत्म्ôचित-स्थान-निषण्णाश् च महान्तो विविध्âउषधि-धरा भिषजो भू-धरा इव भुवो धृतिं चक्रुः. पयो-निधीनां हृदयान्îव लक्ष्म्या सह्âगतानि ग्रीवा-सूत्र-ग्रन्थिषु प्रशस्त-रत्नान्य् अबध्यन्त.
[128] ततश् च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुल-पक्ष-द्वादस्यां व्यतीते प्रदोष-समये समारुरुक्षति क्षपा-यौवने सहस्âइव्âन्तः-पुरे समुदपादि कोलाहलः स्त्री-जनस्य. निर्गत्य च संभ्रमं यशोवत्याः स्वयम् एव हृदय-निर्-विशेषा धात्र्याः सुता सुपात्र्êति नाम्ना राज्ञः पादयोर् निपत्य "देव. दिष्ट्या वर्धसे द्वितीय-सुत-जन्मना" इति व्याहरन्ती पूर्ण-पात्रं जहार.
अस्मिन्न् एव च काले राज्ञः परम-संमतः शतशः संवादित्âत्îन्द्रिय्âदेशः, दर्शित-प्रभावः संकलिती, ज्योतिषि सर्वासां ग्रह-संहितानां पारदृश्वा, सकल-गणक-मध्ये महितो हितश् च त्रि-काल-ज्ञान-भाग्-भोजकस् तारको नाम गणकः समुपसृत्य विज्ञापितवान्: "देव! श्रूयते मांधाता किल्âइवं-विधे व्यतीपात्âदि-सर्व-दोष्âभिषङ्ग-रहिते ऽहनि सर्वेष्ûच्च-स्थान-स्थितेष्व् एवं ग्रहेष्व् ईदृशि लग्ने भेजे जन्म. अर्वाक् ततो ऽस्मिन्न् अन्तराले पुनर् एवं-विधे योगे चक्र-वर्ति-जनने न्âजनि जगति कश्-चिद् अ-परः. सप्तानां चक्र-वर्तिनाम् अग्रणीश् चक्र-वर्ति-चिह्नानां महा-रत्नानां च भाजनं सप्तानां सागराणां पालयिता सप्त-तन्तूनां सर्वेषां प्रवर्तयिता सप्त-सप्ति-समः सुतो ऽयं देवस्य जातः" इति.
अत्र्âन्तरे स्वयम् एव्âन्-आद्माता अपि तार-मधुरं शह्खा विरेसुः. [129] अ-ताडितो ऽपि क्षुभित-जल-निधि-जल-ध्वनि-धीरं जुगुञ्ज्âभिषेक-दुन्दुभिः. अन्-आहतान्य् अपि मङ्गल-तूर्याणि रेणुः. सर्व-भुवन्âभय-घोषणा-पटह इव दिग्-अन्तरेषु बभ्राम तूर्य-प्रतिशब्दः. विधुत-केसर-सटाश्-च स्âटोप-गृहीत-हरित-दूर्वा-पल्लव-कवल-प्रशस्तैर् मुख-पुटैः समहेषन्त हृष्टा वाजिनः. स-लीलम् उत्क्षिप्तैर् हस्त-पल्लवैर् नृत्यन्त इव श्रवण-सुभगं जगर्जुर् गजाः. ववौ च्âचिराच् चक्र्âयुधम् उत्सृजन्त्या लक्ष्म्या निःश्वास इव सु-राम्ôद-सुरभिर् दिव्य्âनिलः. यज्वनां मन्दिरेषु प्रदक्षिण-शिखा-कलाप-कथित-कल्याण्âगमाः. प्रजज्वलुर् अन्-इन्धना वैतान-वह्नयः. भुवस् तलात् तपनीय-शृङ्खला-बन्ध-बन्धुर-कलशी-कोशाः समुदगुर् महा-निधयः. प्रहत-मङ्गल-तूर्य-प्रतिशब्द-निभेन दिक्षु दिक्-पालैर् अपि प्रमोदाद् अक्रियत्êव दिष्ट-वृद्धि-कलकलः. तत्-क्षण एव च शुक्ल-वाससो ब्रह्म-मुखाः कृत-युग-प्रजा-पतय इव प्रजा-वृद्धये समुपतस्थिरे द्वि-जातयः. स्âक्षाद्-धर्म इव शान्त्य्-उदक-फल-हस्तस् तस्थौ पुरः पुरो-धाः. पुरातन्यः स्थितय इव्âदृश्यन्त्âगता बान्धव-वृद्धाः. प्रलम्ब-श्मश्रु-जाल-जटिल्âननानि बहल-मल-पङ्क-कलङ्क-काल-कायानि नश्यतः कलि-कालस्य बान्धव-कुलान्îव्âकुलान्य् अधावन्त मुक्तानि बन्धन-वृन्दानि. तत्-काल्âपक्रान्तस्य्âधर्मस्य शिबिर-श्रेणय इव्âलक्ष्यन्त लोक-विलुण्ठिता विपणि-वीथ्यः. विलसद्-उन्मुख-वामनक-बधिर-वृन्द-वेष्टिताः स्âक्षाज्-जात-मातृ-देवता इव बहु-बालक-व्याकुला ननृतुर् वृद्ध-धात्र्यः. प्रावर्तत च विगत-राज-कुल-स्थितिर् अधः-कृत-प्रतीहार्âकृतिर् अपनीत-वेत्रि-वेत्रो निर्-दोष्âन्तः-पुर-प्रवेशः सम-स्वामि-परिजनो निर्-विशेष-बाल-वृद्धः समान-शिष्ट्âशिष्ट-जनो दुर्-ज्ञेय-मत्त्âमत्त-प्रविभागस् तुल्य-कुल-युवति-वेश्य्âलाप-विलासः प्रनृत्त-सकल-कटक-लोकः पुत्र-जन्म्ôत्सवो महान्.
अपरेद्युर् आरभ्य सर्वाभ्यो दिग्भ्यः स्त्री-राज्यान्îव्âवर्जितानि, अ-सुर-विवराण्îव्âपावृतानि, नारायण्âवरोधान्îव प्रस्खलितानि, [130] अप्सरसाम् इव महीम् अवतीर्णानि कुलानि, परिजनेन पृथु-करण्ड-परिगृहीताः स्नानीय-चूर्ण्âवकीर्ण-कुसुमाः सु-मनः-स्रजः, स्फटिक-शिला-शकल-शुक्ल-कर्पूर-खण्ड-पूरिताः पात्रीः, कुङ्कुम्âधिवास-भाञ्जि भाजनानि च मणिमयानि, सह-कार-तैल-तिम्यत्-तनु-खदिर-केसर-जाल-जटिलानि चन्दन-धवल-पूग-फल-फाली-दन्तुर-दन्त-शफरुकाणि, गुञ्जन्-मधु-कर-कुल-पीयमान-पारिजात-परिमलानि पाटलानि पाटलकानि च, सिन्दूर-पात्राणि च पिष्टातक-पात्राणि च बाल-लता-लम्बमान-विटक-वीटकांश् च ताम्बूल-वृक्षकान् बिभ्राणेन्âनुगम्यमानानि चरण-निकुट्टन-रणित-मणि-नूपुर-मुखरित-दिङ्-मुखानि नृत्यन्ति राज-कुलम् आगच्छन्ति समन्तात् सामन्त्âन्तः-पुर-सहस्राण्य् अदृस्यन्त.
शनैः शनैर् व्यजृम्भत च क्व-चिन् नृत्त्âन्-उचित-चिरन्तन-शालीन-कुल-पुत्रक-लोक-लास्य-प्रथित-पार्थिव्âनुरागः, क्व-चिद् अन्तः-स्मित-क्षिति-पाल्âपेक्षित-क्षीब-क्षुद्र-दासी-समाकृष्यमाण-राज-वल्लभः, क्व-चिन्-मत्त-कटक-कुट्टनी-कण्ठ-लग्न-वृद्ध्âर्य-सामन्त-नृत्त-निर्भर-हसित-नर-पतिः, क्व-चित् क्षितिप्âक्षि-संज्ञा-दिष्ट-दुष्ट-दासेरक-गीत-सूच्यमान-सचिव-चौर्य-रत-प्रपञ्चः, क्व-चिन् मद्ôत्कट-कुट-हारिका-परिष्वज्यमान-जरत्-प्रव्रजित-जनित-जन-हासः, क्व-चिद् अन्योन्य-निर्भर-स्पर्ध्ôद्धुर-विटक-चेटक्âरब्ध्â-वाच्य-वचन-युद्धः, क्व-चिन् नृप्âबल्â-बलात्-कार-कृष्ट-नर्त्यमान-नृत्त्âन्-अभिज्ञ्âन्तः-पुर-पाल-भावित-भुजिष्यः, स-पर्वत इव कुसुम-राशिभिः, स-धारा-गृह इव सीधु-प्रपाभिः, स-नन्दन-वन इव पारिजातक्âमोदैः स-नीहार इव कर्पूर-रेणुभिः, स्âट्ट-हास इव पटह-रवैः, स्â-मृत-मथन इव महा-कलकलैः, स्âवर्त इव रासक-मण्डलैः, स-रोमाञ्च इव भूषण-मणि-किरणैः, स-पट्ट-बन्ध इव [131] चन्दन-ललाटिकाभिः, स-प्रसव इव प्रतिशब्दकैः, स-प्ररोह इव प्रसाद-दानैर् उत्सव्âमोदः.
स्कन्ध्âवलम्बमान-केसर-मालाः काम्बोज-वाजिन इव्âस्कन्दन्तः, तरल-तारका हरिणा इव्ôड्डीयमानाः, स-गर-सुता इव खनित्रैर् निर्-दयैश् चरण्âभिघातैर् दारयन्तो भुवम्, अन्-एक-सहस्र-संख्याश् चिक्रीडुर् युवानः. कथम् अपि ताल्âवचर-चारण-चरण-क्षोभं चक्षमे क्षमा. क्षिति-पाल-कुमारकाणां च खेलताम् अन्योन्य्âस्फालैर् आभरणेषु मुक्ता-फलानि फेलुः. सिन्दूर-रेणुना पुनर् उत्पन्न-हिरण्य-गर्भ-गर्भ-शोणित-शोण्âशम् इव ब्रह्म्âण्ड-कपालम् अभवत्. पट-वास-पांसु-पटलेन प्रकटित-मन्दाकिनी-सैकत-सहस्रम् इव शुशुभे नभस्-तलम्. विप्र-कीर्यमाण-पिष्टातक-पराग-पिञ्जरित्âतपा भुवन-क्षोभ-विशीर्ण-पिता-मह-कमल-किञ्जल्क-रजो-राजि-रञ्जित इव रेजुर् दिवसाः. संघट्ट-विघटित-हार-पतित-मुक्ता-फल-पटलेषु चस्खाल लोकः.
स्थान-स्थानेषु च मन्द-मन्दम् आस्फाल्यमान्âलिङ्ग्यकेन शिञ्जान-मञ्जु-वेणुना झणझणायमान-झल्लरीकेण ताड्यमान-तन्त्री-पटहिकेन वाद्यमान्âनुत्ताल्âलाबु-वीणेन कल-कांस्य-कोशी-क्वणित-काहलेन सम-काल-दीयमान्âनुत्ताल-तालिकेन्âतोद्य-वाद्येन्âनुगम्यमानाः, पदे पदे झणझणित-भूषण-रवैर् अपि स-हृदयैर् इव्âनुवर्तमान-ताल-लयाः, कोकिला इव मद-कल-काकली-कोमल्âलापिन्यः, विटानां कर्ण्â-मृतान्य् अ-श्लील- [132] -रासक-पदानि गायन्त्यः, स-मुण्ड-मालिकाः, स-कर्ण-पल्लवाः, स-चन्दन-तिलकाः, समुच्छ्रिताभिर् वलय्âवली-वाचालाभिर् बाहु-लतिकाभिः सवितारम् इव्âलिङ्गयन्त्यः, कुङ्कुम-प्रमृष्टि-रुचिर-कायाः काश्मीर-किशोर्य इव वल्गन्त्यः, नितम्ब-बिम्ब-लम्बि-विकट-कुरणटक-शेखराः प्रदीप्ता इव राग्âग्निना, सिन्दूर-च्छट्âच्छुरित-मुख-मुद्राः, शासन-पट्ट-पङ्क्तय इव्âप्रतिहत-शासनस्य कंदर्पस्य, मुष्टि-प्रकीर्यमाण-कर्पूर-पट-वास-पांसुला मनो-रथ-संचरण-रथ्या इव यौवनस्य, उद्दाम-कुसुम-दाम-ताडित-तरुण-जनाः प्रतीहार्य इव तरुण-मह्ôत्सवस्य, प्रचलत्-पत्र-कुण्डला लसन्त्यो लता इव मदन-चन्दन-द्रुमस्य, ललित-पद-हंसक-रव-मुखराः समुल्लसन्त्यो वीचय इव शृङ्गार-रस-सागरस्य, वाच्य्âवाच्य-विवेक-शून्या बाल-क्रीडा इव सौभाग्यस्य, घन-पटह-रव्ôत्कण्टकित-गात्र-यष्टयः केतक्य इव कुसुम-धूलिम् उद्गिरन्त्यः, कमलिन्य इव दिवसम् उत्फुल्ल्âननाः, कुमुदिन्य इव रात्राव् अन्-उपजात-निद्राः, आविष्टा इव नर्êन्द्र-वृन्द-परिवृताः, प्रीतय इव हृदयम् अपहरन्त्यः, गीतय इव रागम् उद्दीपयन्त्यः, पुष्टय इव्âनन्दम् उत्पादयन्त्यः, मदम् अपि मदयन्त्य इव, रागम् अपि रञ्जयन्त्य इव, आनन्दम् अपि आनन्दयन्त्य इव, नृत्यम् अपि नर्तयमाना इव, उत्सवम् अप्य् उत्सवयन्त्य इव, कट्âक्ष्êक्षितेषु पिबन्त्य इव्âपाङ्ग-शुक्तिभिः, तर्जनेषु संयमयन्त्य इव नख-मयूख-पाशैः, कोप्âभिनयेषु ताडयन्त्य इव भ्रू-लता-विभागैः, प्रणय-संभाषणेषु वर्षन्त्य इव [133] सर्व-रसान्, चतुर-चङ्क्रमणेषु विकिरन्त्य इव विकारान्, पण्य-विलासिन्यः प्रानृत्यन्.
अन्यत्र वेत्रि-वेत्र-वित्रासित-जन-दत्त्âन्तरालाः ध्रियमाण-धवल्âतपत्र-वना वन-देवता इव कल्प-तरु-तल-विचारिण्यः, काश्-चित् स्कन्ध्ôभय-पाली-लम्बमान-लम्ब्ôत्तरीय-लग्न-हस्ता लीला-दोल्âधिरूढा इव प्रेङ्खन्त्यः, काश्-चित् कनक-केयूर-कोटि-विपाट्यमान-पट्ट्âंशुक्ôत्तरङ्गास् तरङ्गिण्य इव तरच्-चक्र-वाक-सीमन्त्यमान-स्रोतसः, काश्-चिद् उद्धूयमान-धवल-चामर-सटा-लग्न-त्रि-कण्ट-कवलित-विकट-कट्âक्षाः, सरस्य इव हंस्âकृष्यमाण-नील्ôत्पल-वनाः, काश्-चिच् चलच्-चरण-च्युत्âलक्तक्âरुण-स्वेद-शीकर-सिच्यमान-भवन-हंसाः, संध्या-राग-रज्यमान्êन्दु-बिम्बा इव कौमुदी-रजन्यः, काश्-चित् कण्ठ-निहित-काञ्चन-काञ्ची-गुण्âञ्चित-कञ्चुकि-विकार्âकुञ्चित-ब्रुवः काम-वागुरा इव प्रसारित-बाहु-पाशा राज-महिष्यः प्रारब्ध-नृत्ता विलेसुः.
सर्वतश् च नृत्यतः स्त्रैणस्य गलद्भिः पाद्âलक्तकैर् अरुणिता रागमय्îव शुशोण क्षोणी. समुल्लसद्भिः स्तन-मण्डलैर् मङ्गल-कलशमय इव बभूव मह्ôत्सवः. भुज-लता-विक्षेपैर् मृणाल-वलयमय इव रराज जीव-लोकः. समुल्लसद्भिर् विलास-स्मितैस् तडिन्मय इव्âक्रियत कालः. चञ्चलानां चक्षुषाम् अंशुभिः कृष्ण-सारमया इव्âसन् वासराः. समुल्लसद्भिः शिरीष-कुसुम-स्तबक-कर्ण-पूरैः शुक-पिच्छमय इव हरित-च्छायो ऽभूद् आतपः. विस्रंसमानैर् धम्मिल्ल-तमाल-पल्लवैः कज्जलमयम् इव्âलक्ष्यत्âन्तरिक्षम्. उत्क्षिप्तैर् हस्त-किसलयैः कमलिनीमय्य इव बभासिरे [134] सृष्टयः माणिक्य्êन्द्र्âयुधानाम् अर्चिषा चाष-पत्रमया इव चकाशिरे रवि-मरीचयः. रणताम् आभरण-गणानां प्रतिशब्दकैः किङ्किणीमय्य इव शिशिञ्जिरे दिशः. जरत्यो ऽप्य् उन्मादिन्य इव रमण्यो रेणुः. वर्षीयांसो ऽपि ग्रह-गृहीता इव न्âपत्रेपिरे. विद्वांसो ऽपि मत्ता इव्âत्मानं विसस्मरुः. निनर्तिषया मुनीनाम् अपि मनांसि विपुस्पुलुः. सर्वस्वं च ददौ नर-पतिः. दिशि दिशि कुबेर-कोषा इव्âलुप्यन्त लोकेन द्रविण-राशयः.
एवं च वृत्ते तस्मिन् मह्ôत्सवे, शनैः शनैः पुनर् अप्य् अतिक्रामति काले, देवे च्ôत्तम्âङ्ग-निहित-रक्षा-सर्षपे, समुन्मिषत्-प्रताप्âग्नि-स्फुलिङ्ग इव गोरोचना-पिञ्जरित-वपुषि, समभिव्यज्यमान-सहज-क्षात्र-तेजस्îव हाटक-बद्ध-विकट-व्याघ्र-नख-पङ्क्ति-मण्डित-ग्रीवके हृदय्ôद्भिद्यमान-दर्प्âङ्कुर इव, प्रथम्âव्यक्त-जल्पितेन सस्यस्य शनैः-शनैर्-ओं-कारम् इव कुर्वाणे, मुग्ध-स्मितैः कुसुमैर् इव मधुकर-कुलानि बन्धु-हृदयान्य् आकर्षति, जननी-पयो-धर-कलश-पयः- सीकर -सेकाद् इव जायमानैर् विलास-हसित्âङ्कुरैर् दशनकैर् अलं-क्रियमाण-मुख-कमलके, चारित्र इव्âन्तः-पुर-स्त्री-कदम्बकेन पाल्यमाने, मन्त्र इव सचिव-मण्डलेन रक्ष्यमाणे, वृत्त इव कुल-पुत्रक-लोकेन्âमुच्यमाने, यशस्îव्âत्म-वशेन संवर्ध्यमाने, मृग-पति-पोत इव रक्षि-पुरुष-शस्त्र-पञ्जर-मध्य-गते, धात्री-कर्âङ्गुलि-लग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं वर्षम् अवतरति च राज्यवर्धने देवी यशोमती गर्भेण्âधत्त नारायण-मूर्तिर् इव वसुधां देवीं राज्यश्रियम्.
पूर्णेषु च प्रसव-दिवसेषु दीर्घ-रक्तनाल-नेत्राम् उत्पलिनीम् इव सरसी, हंस-मधुर-स्वरां शरदम् इव प्रावृट्, कुसुम-सु-कुमार्âवयवां वन-राजिम् इव मधु-श्रीः, महा-कनक्âवदात वसु-धाराम् इव द्यौः, प्रभा- [135] -वर्षिणीं रत्न-जातिम् इव वेला, सकल-जन-नयन्âनन्द-कारिणीं चन्द्र-लेखाम् इव प्रतिपत्, सहस्र-नेत्र-दर्शन-योग्यां जयन्तीम् इव शची, सर्व-भूभृद्-अभ्यर्थितां गौरीम् इव मेना प्रसूतवती दुहितरम्. यया द्वयोः सुतयोर् उपरि स्तनयोर् इव्âइक्âवली-लतया नितराम् अराजत जननी.
अस्मिन्न् एव तु काले देव्या यशोमत्या भ्राता सुतम् अष्ट-वर्ष-देशीयम् उद्धूयमान-कुटिल-काक-पक्षक-शिखण्डं खण्ड-परशु-हुंकार्âग्नि-धूम-लेख्âनुबद्ध-मूर्धानं मकर-ध्वजम् इव पुनर् जातम्, एकेन्êन्द्र-नील-कुण्डल्âंशु-श्यामलितेन शरीर्âर्धेन्êतरेण च त्रि-कण्टक-मुक्ता-फल्âलोक-धवलितेन संपृक्त्âवतारम् इव हरि-हरयोर् दर्शयन्तम्, पीन-प्रकोष्ठ-प्रतिष्ठित-पुष्प-लोह-वलयं परशुरामम् इव क्षत्र-क्षपण-क्षीण-परसु-पाश-चिह्नितं बालताङ्-गतम्, कण्ठ-सूत्र-ग्रथित-भङ्गुर-प्रवाल्âङ्कुरं हिरण्य-कशिपुम् इव्ôरः-काठिन्य-खण्डित-नर-सिंह-नखर-खण्डं, गृहीत-जन्म्âन्तरम्, शैशवे ऽपि स्âवष्टम्भं बीजम् इव वीर्य-द्रुमस्य भण्डि-नामानम् अनुचरं कुमारयोर् अर्पितवान्.
अवनि-पतेस् तु तस्य्ôपरि पुत्रयोस् तृतीयस्य नेत्रयोर् इव्êश्वरस्य तुल्यं दर्शनम् आसीत्. राज-पुत्राव् अपि सकल-जीव-लोक-हृदय्âनन्द-दायिनौ तेन प्रकृति-दक्षिणेन मधु-माधवाव् इव मलय-मारुतेन्ôपेतौ नितरां रेजतुः. क्रमेण च्â-परेण्êव भ्रात्रा प्रज्âनन्देन सह वर्धमानौ यौवनम् अवतेरतुः. स्थिर्ôरु-स्तम्भौ च पृथु-प्रकोष्ठौ दीर्घ-भुज्âर्गलौ [136] विकट्ôरः-कवाटौ प्रांशु-साल्âभिरामौ महा-नगर-संनिवेशाव् इव सर्व-लोक्âश्रय-क्षमौ बभूवतुः.
अथ चन्द्र-सूर्याव् इव स्फुरज्-ज्योत्स्ना-यशः-प्रताप्âक्रान्त-भुवनाव् अभिराम-दुर्-निरीक्ष्यौ, अग्नि-मारुताव् इव समभिव्यक्त-तेजो-बलाव् एकी-भूतौ, शिला-कठिन-काय-बन्धौ हिमवद्-विन्ध्याव् इव्âचलौ, महा-वृषाव् इव कृत-युग-योग्यौ, अरुण-गरुडाव् इव हरि-वाहन-विभक्त-शरीरौ, इन्द्र्ôपेन्द्राव् इव नाग्êन्द्र-गतौ, कर्ण्âर्जुनाव् इव कुण्डल-किरीट-धरौ, पूर्व्â-पर-दिग्-भागाव् इव सर्व-तेजस्विनाम् उदय्âस्तमय-संपादन-समर्थौ, अमान्ताव् इव्âति-मानेन्âसन्न-वेल्âर्गल-निरोध-संकटे कु-कुटीरके, तेजः-पराङ्-मुखीं छायाम् अपि जुगुप्समानौ, स्व्âत्म-प्रतिबिम्बेन्âपि पाद-नख-लग्नेन लज्जमानौ, शिरो-रुहाणाम् अपि भङ्गेन दुःखम् अवतिष्टमानौ, चूडा-मणि-संक्रान्तेन्êपि द्वितीयेन्âतपत्रेण्âपत्रपमाणौ, भगवति षण्-मुखे ऽपि स्वामि-शब्देन्âसुखायमान-श्रवणौ, दर्पण-दृष्टेन्âपि प्रतिपुरुषेण दूयमान-नयनौ, संध्य्âञ्जलि-घटनेष्व् अपि शूलायमान्ôत्तम्âङ्गौ, जल-धर-धृतेन्âपि धनुषा दोधूयमान-हृदयौ, आलेख्य-क्षिति-पतिभिर् अप्य् अ-प्रणमद्भिः संतप्यमान-चरणौ, परिमित-मण्डल-संतुष्टं तेजः सवितुर् अप्य् अ-बहु-मन्य- [137] -मानौ, भूभृद्-अपहृत-लक्ष्मीकं सागरम् अप्य् उपहसन्तौ, बलवन्तम् अ-कृत-विग्रहं मारुतम् अपि निन्दन्तौ, हिमवतो ऽपि चमरी-बाल-व्यजन-वीजितेन दह्यमानौ, जलधीनाम् अपि शङ्खैः खिद्यमानौ, चतुः-समुद्र्âधिपतिम् अ-परं प्रचेतसम् अप्य् अ-सहमानौ, अन्-अपहृत-च्छत्रान् अपि वि-च्छायान् अवनि-पालान् कुर्वाणौ, साधुष्व् अप्य् अ-सेवित-प्रसन्नौ, मुखेन मधु क्षरन्तौ, दुष्ट-राज-वंशान् ऊष्मणा दूर स्थितान् अपि म्लानिम् आनयन्तौ, अनु-दिवसं शस्त्र्âभ्यास-श्यामिका-कलङ्कितम् अ-शेष-राजक-प्रताप्âग्नि-निर्वपण-मलिनम् इव कर-तलम् उद्वहन्तौ, योग्या-कालेषु धीरैर् धनुर्-ध्वनिभिर् अभ्यर्ण्ôपभोगाद् दिग्-वधूभिर् इव्âलपन्तौ राज्यवर्धन इति हर्ष इति सर्वस्याम् एव पृथिव्याम् आविर्-भूत-शब्द-प्रादुर्-भावौ, स्वल्पीयस्âइव कालेन द्वीप्âन्तरेष्व् अपि प्रकाशतां जग्मतुः.
एकदा च ताव् आहूय भुक्तवान् अभ्यन्तर-गतः पिता स-स्नेहम् अवादीत्: "वत्सौ! प्रथमं राज्य्âङ्गं, दुर्-लभाः सद्-भृत्याः. प्रायेण परम्âणव इव समवायेष्व् अनुगुणी-भूय द्रव्यं कुर्वन्ति पार्थिवं क्षुद्राः. क्रीडा-रसेन नर्तयन्तौ मयूरतां नयन्ति बालिशाः. दर्पणम् इव्âनुप्रविश्य्âत्मीयां प्रकृतिं संक्रामयन्ति पल्लविकाः. स्वप्ना इव मिथ्या- [138] -दर्शनैर् अ-सद्-बुद्धिं जनयन्ति विप्रलम्भकाः. गीत-नृत्य-हसितैर् उन्मत्तताम् आवहन्त्य् अपेक्षिता विकारा इव वातिकाः. चातका इव तृष्णावन्तो न शक्यन्ते ग्रहीतुम् अ-कुलीनाः. मानसे मीनम् इव स्फुरन्तम् एव्âभिप्रायं गृह्णन्ति जालिकाः. यम-पट्टिका इव्âम्बरे चित्रम् आलिखन्त्य् उद्गीतकाः. शल्यं हृदये निक्षिपन्त्य् अति-मार्गणाः. यतः सर्वैर् एभिर् दोष्âभिषङ्गैर् अ-संगतौ बहुध्ôपधाभिः परीक्षितौ शुची विनीतौ विक्रान्ताव् अभिरूपौ मालव-राज-पुत्रौ भ्रातरौ बुजाव् इव मे शरीराद् अ-व्यतिरिक्तौ कुमारगुप्त-माधवगुप्त-नामानाव् अस्माभिर् भवतोर् अनुचरत्व्âर्यम् इमौ निर्दिष्टौ. अनयोर् उपरि भवद्भ्याम् अपि न्âन्य-परिजन-सम-वृत्तिभ्यां भवितव्यम्", इत्य् उक्त्वा तयोर् आह्वानाय प्रतीहारम् आदिदेश.
न चिराद् द्वाराद् द्वार-देश-निहित-लोचनौ राज्यवर्धन-हर्षौ प्रतीहारेण सह प्रविशन्तम्, अग्रतो ज्येष्ठम् अष्टा-दश-वर्ष-वयसं न्âत्य्-उच्चं न्âति-खर्वम् अति-गुरुभिः पद-न्यासैर् अन्-एक-नर-पति-संचरण-चलां निश्-चली-कुर्वाणम् इव्ôर्वीम्, अन्-अवरत्âभ्यस्त-लङ्घन-घन्ôपचय-कठिन-मांस-मेदुराद् ऊरु-द्वयान् निष्पतत्êव्âन्-उल्बण-जानु-ग्रन्थि-प्रसूतेन तनुतर-जङ्घा-काण्ड-युगलेन भासमानम्, उल्लिखित-पार्श्व-प्रकाशित-क्रशिम्ना मन्दरम् इव सुर्âसुर-रभस-भ्रमित- [139] -वासुकि-कषण-क्षीणेन मध्येन लक्ष्यमाणम्, अति-विस्तीर्णेन्ôरसा स्वामि-संभावनानाम् अ-परिमितानाम् अवकाशम् इव प्रयच्छन्तम्, प्रलम्बमानस्य भुज-युगलस्य निभृत-ललितैर् विक्षेपैर् अति-दुस्तरं तरन्तम् इव यौवन्ôदधिम्, वाम-कर-कटक-माणिक्य-मरीचि-मञ्जरी-जालिन्या समुद्भिद्यमान-प्रताप्âनल-शिखा-पल्लवय्êव चाप-गुण-किण-लेखय्âङ्कित-पीवर-प्रकोष्ठम्, आलोहिनीम् उच्च्âंस-तट्âवलम्बिनीम् अस्त्र-ग्रहण-व्रत-विधृतां रौरवीम् इव त्वचं कर्ण्âभरण-मणेः प्रभां बिभ्राणम्, उत्कोटि-केयूर-पत्र-भङ्ग-पुत्रिका-प्रतिबिम्ब-गर्भ-कपोलं मुखं चन्द्रमसम् इव हृदय-स्थित-रोहिणीकम् उद्वहन्तम्, अ-चपल्âस्तम्-इत-तारकेण्âधो-मुखेन चक्षुषा शिक्षयन्तम् इव लक्ष्मी-लाभ्ôत्तानित-मुखानि पङ्कज-वनानि विनयम्, स्वाम्य्-अनुरागम् इव्âम्लातकम् उत्तंसी-कृतं शिरसा धारयन्तम्, निर्दयया कङ्कण-भङ्ग-भीत-सकल-कार्मुक्âर्पिताम् इव नम्रतां प्रकाशयन्ततम्, शैशव एव निर्जितैर् इन्द्रियैर् अरिभिर् इव संयतैः शोभमानम्, प्रणयिनीम् इव विश्वास-भूमिं कुल-पुत्रताम् अनुवर्तमानम्, तेजस्विनम् अपि शीलेन्âह्लादकेन सवितारम् इव शशिन्âन्तर्-गतेन विराजमानम्, अ-चलानाम् अपि काय-कार्कश्येन गन्धनम् इव्âचरन्तम्, दर्शन-क्रीतम् आनन्द-हस्ते विक्रीणानम् इव जनं सौभाग्येन कुमारगुप्तम्, पृष्ठतस् तस्य कनीयांसम् अति-प्रांशुतया गौरतया च मनः-शिला-शैलम् इव संचरन्तम्, अन्-उल्बण-मालती-कुसुम-शेखर-निभेन निर्जिगमिषता गुरुणा शिरसि चुम्बितम् इव यशसा, परस्पर-विरुद्धयोर् विनय-यौवनयोश् चिरात् प्रथम-संगम-चिह्नम् इव भ्रू-संगतकेन कथयन्तम्, अति-धीरतया हृदय-निहिता स्वामि-भक्तिम् इव निश्-चलां दृष्टिं धारयन्तम्, अच्छ्âच्छ-चन्दन-रस्âनुलेपन-शीतलं संनिहित-हार्ôपधानं वक्षः-स्थल- [140] -म् अन्-अन्त-सामन्त-संक्रान्तिश्रान्तायाः श्रियो विशालं शशि-मणि-शिला-पट्ट-शयनम् इव बिब्राणम्, चक्षुः कुरङ्गकैर् घोणा-वंशं वराहैः स्कन्ध-पीठं महिषैः प्रकोष्ठ-बन्धं व्याघ्रैः पराक्रमं केसरिभिर् गमनं मतङ्गजैर् मृगया-क्षपित-शेषैर् भीतैर् उत्कोचम् इव दत्तं दर्शयन्तं माधवगुप्तं ददृशतुः.
प्रविश्य च तौ दूराद् एव चतुर्भिर् अङ्गैर् उत्तम्âङ्गेन च गां स्पृशन्तौ नमश् चक्रतुः. स्निग्ध-नर्êन्द्र-दृष्टि-निर्दिष्टाम् उचितां भूमिं भेजाते. मुहूर्तं च स्थित्वा भू-पतिर् आदिदेश तौ: "अद्य-प्रभृति भवद्भ्यां कुमाराव् अनुवर्तनीयौ" इति. "यथ्âज्ञापयति देवः" इति मेदिनी-दोलायमान-मौलिभ्याम् उत्थाय राज्यवर्धन-हर्षौ प्रणेमतुः. तौ च पितरम्. ततश् च्âरभ्य क्षणम् अपि निमेषोôमेषाव् इव चक्षुर्-गोचराद् अन्-अपयान्ताव् उच्छ्वास-निःश्वासाव् इव नक्तं-दिवम् अभिमुख-स्थितौ भुजाव् इव सतत-पार्श्व-वर्तिनौ कुमारयोस् तौ बभूवतुः.
अथ राज्यश्रीर् अपि नृत्त-गीत्âदिषु विदग्धासु सखीषु सकलासु कलासु च प्रति-दिवसम् उपचीयमान-परिचया शनैः शनैर् अवर्धत. परिमितैर् एव दिवसैर् यौवनम् आरुरोह. निपेतुर् एकस्यां तस्यां शरा इव लक्ष्य-भुवि भू-भुजां सर्वेषां दृष्टयः. दूत-संप्रेषण्âदिभिश् च तां ययाचिरे राजानः.
कदा-चित् तु राज्âन्तः-पुर-प्रसाद-स्थितो बाह्य-कक्ष्य्âवस्थितेन पुरुषेण स्व-प्रस्ताव्âगतां गीयमानाम् आर्याम् अशृणोत्:
"उद्वेग-मह्âवर्ते पातयति पयो-धर्ôन्नमन-काले ।
सरिद् इव तटम् अनु-वर्षं विवर्धमाना सुता पितरम्" ॥ 4.5 ॥
तां च श्रुत्वा पार्श्व-स्थितां महा-देवीम् उत्सारित-परिजनो जगाद: "देवि,! तरुणी-भूता वत्सा राज्यश्रीः. एतदीया गुणवत्त्êव क्षणम् अपि हृदयान् न्âपयाति मे चिन्ता. यौवन्âरम्भ एव च कन्यकानाम् इन्धनी-भवन्ति पितरः संताप्âनलस्य. हृदयम् अन्ध-कारयति मे दिवसम् इव पयो-धर्ôन्नतिर् अस्याः. केन्âपि कृता धर्म्या न्âभि- [141] -मता मे स्थितिर् इयं यद् अङ्ग-संभूतान्य् अङ्क-लालितान्य् अ-परित्याज्यान्य् अपत्यकान्य् अ-काण्ड एव्âगत्य्â-संस्तुतैर् नीयन्ते. एतानि तानि खल्व् अङ्कन-स्थानानि संसारस्य. स्êयं सर्व्âभिभाविनी शोक्âग्नेर् दाह-शक्तिर् यद् अपत्यत्वे समाने ऽपि जातायां दुहितरि दूयन्ते सन्तः. एतद्-अर्थं जन्म-काल एव कन्यकाभ्यः प्रयच्छन्ति सलिलम् अश्रुबिः साधवः. एतद्-भयाद् अ-कृत-दार-परिग्रहाः परिहृत-गृह-वसतयः शून्यान्य् अरण्यान्य् अधिशेरते मुनयः. को हि नाम सहेत स-चेतनो विरहम् अपत्यानाम्. यथा यथा समापतन्ति दूता वराणां वराकी लज्जमान्êव चिन्ता तथा तथा नितरां प्रविशति मे हृदयम्. किं क्रियते. तथ्âपि गृह-गतैर् अनुगन्तव्या एव लोक-वृत्तयः. प्रायेण च सत्स्व् अप्य् अन्येषु वर-गुणेष्व् अभिजनम् एव्âनुरुध्यन्ते धीमन्तः. धरणी-धराणां च मूर्ध्नि स्थितो माह्êश्वरा पाद-न्यास इव सकल-भुवन-नमस्-कृतो मौखरो वंशः. तत्र्âपि तिलक-भूतस्य्âवन्तिवर्मणः सूनुर् अग्रजो ग्रहवर्मा नाम ग्रह-पतिर् इव गां गतः पितुर् अन्यूनो गुणैर् एनां प्रार्थयते. यदि भवत्या अपि मतिर् अनुमन्यते ततस् तस्मै दातुम् इच्छामि" इत्य् उक्तवति भर्तरि दुहितृ-स्नेह-कातरतर-हृदया स्âश्रु-लोचना महा-देवी प्रत्युवाच: "आर्य-पुत्र! संवर्धन-मात्र्ôपयोगिन्यो धात्री-निर्-विशेषा भवन्ति खलु मातरः कन्यकानाम्. दाने तु प्रमाणम् आसां पितरः. केवलं कृपा-कृत-विशेषः सु-दूरेण तनय-स्नेहाद् अतिरिच्यते दुहितृ-स्नेहः. यथा न्êयं यावज्-जीवम् आवयोर् आर्तितां प्रतिपद्यते तथ्âर्य-पुत्र एव जानाति" इति. राजा तु जात-निश्चयो दुहितृ-दानं प्रति समाहूय सुताव् अपि विदित्âर्थाव् अकार्षीत्. शोभने च दिवसे ग्रहवर्मणा कन्यां प्रार्थयितुं प्रेषितस्य पूर्व्âगतस्य्âइव प्रधान-दूत-पुरुषस्य करे सर्व-राज-कुल-समक्षं दुहितृ-दान-जलम् अपातयत्.
[142] जात-मुदि कृत्âर्थे गते च तस्मिन्न् आसन्नेषु च विवाह-दिवसेष्ûद्दाम-दीयमान-ताम्बूल-पटवास-कुसुम-प्रसाधित-सर्व-लोकम्, सकल-देश्âदिश्यमान-शिल्पि-स्âर्थ्âगमनम्, अवनि-पाल-पुरुष-गृहीत-समग्र-ग्रामीण्âनीयमान्ôपकरण-संभारम्, राज-दौवारिक्ôपनीयमान्âन्-एक-नृप्ôपायनम्, उपनिमन्त्रित्âगत-बन्धु-वर्ग-संवर्गण-वयग्र-राज-वल्लभम्, लब्ध-मधु-मद-प्रचण्ड-चर्म-कार-कर-पुट्ôल्लालित-कोण-पटु-विघट्टन-रणन्-मङ्गल-पटहम्, पिष्ट-पञ्च्âङ्गुल-मण्ड्यमान्ôलूखल-मुसल-शिल्âद्य्-उपकरणम्, अ-शेष्âशा-मुख्âविर्-भूत-चारण-परम्पर्âपूर्यमाण-प्रकोष्ठ-प्रतिष्ठाप्यमान्êन्द्राणी-दैवतम्, सित-कुसुम-विलेपन-वसन-सत्-कृतैः सूत्र-धारैर् आदीयमान-विवाह-वेदी-सूत्र-पातम्, उत्कूर्चक-करैश् च सुधा-कर्पूर-स्कन्धैर् अधिरोहिणी-समारूढैर् धवैर् धवली-क्रियमाण-प्रासाद-प्रतोली-प्राकार-शिखरम्, क्षुण्ण-क्षाल्यमान-कुसुम्भ-संभार्âम्भः-प्लव-पूर-रज्यमान-जन-पाद-पल्लवम्, निरूप्यमाण-यौतक-योग्य-मातङ्ग-तुरङ्ग-तरङ्गित्âङ्गनम्, गणन्âभियुक्त-गणक-गण-गृह्यमाण-लग्न-गुणम्, गन्ध्ôदक-वाहि-मकर-मुख-प्रणाली-पूर्यमाण-क्रीडा-वापी-समूहम्, हेम-कार-चक्र-प्रक्रान्त-हाटक-घटन-टाङ्का-रव्âचालित्âलिन्दकम्, उत्थापित्âभिनव-भित्ति-पात्यमान-बहल-वालुका-कण्ठक्âलेप्âकुल्âलेपक-लोकम्, चतुर-चित्र-कर-चक्र-वाल-लिख्यमान-माङ्गल्य्âलेख्यम्, लेप्य-कार-कदम्बक-क्रियमाण-मृन्मय-मीन-कूर्म-मकर-नारिकेल-कदली-पूग-वृक्षकम्, क्षिति-पालैश् च स्वयम् आबद्ध-कक्ष्यैः स्वाम्य्-अर्पित-कर्म-शोभा-संपादन्âकुलैः सिन्दूर-कुट्टिम् अ-भूमीश् च मसृणयद्भिर् विनिहित-सरस्âतर्पण-हस्तान् विन्यस्त्âलक्तक-पाटलांश् च चूत्âशोक-पल्लव-लाञ्छित-शिखरान् उद्वाह-वितर्दिका-स्तम्भान् उत्तम्भयद्भिः प्रारब्ध-विविध-व्यापारम्, आ-सूर्य्ôदयाच् च प्रविष्टाभिः सतीभिः सु-भगाभिः सु-रूपाभिः सु-वेशा- [143] -भिर् अ-विधवाभिः सिन्दूर-रजो-राजि-राजित-ललाटाभिर् वधू-वर-गोत्र-ग्रहण-गर्भाणि श्रुति-सु-भगानि मङ्गलानि गायन्तीभिर् बहु-विध-वर्णका-दिग्ध्âङ्गुलीभिर् ग्रीवा-सूत्राणि च चित्रयन्तीभिश् चित्र-लत्âलेख्य-कुशलाभिः कलशांश् च धवलिताञ् शीतल-शाराजिर-श्रेणीश् च मण्डयन्तीभिर् अ-भिन्न-पुट-कर्पास-तूल-पल्लवांश् च वैवाहिक-कङ्कण्ôर्णा-सूत्र-संनाहांश् च रञ्जयन्तीभिर् बल्âशना-घृत-घनी-कृत-कुङ्कुम-कल्क-मिश्रितांश् च्âङ्ग-रागांल् लावण्य-विशेषकृन्ति च मुख्âलेपनानि कल्पयन्तीभिः कक्कोल-मिश्राः स-जाती-फलाः स्फुरत्-स्फीत-स्फाटिक-कर्पूर-शकल-खचित्âन्तराला लवङ्ग-माला रचयन्तीभिः समन्तात् सामन्त-सीमन्तिनीभिर् व्याप्तम्, बहु-विध-भक्ति-निर्माण-निपुण-पुराण-पौर-पुरंध्रि-बध्यमानैर् बद्धैश् च्âचार-चतुर्âन्तः-पुर-जरती-जनित-पूजा-राजमान-रजक-रज्यमानै रक्तैश् च्ôभय-पट्âन्त-लग्न-परिजन-प्रेङ्खोलितैश् छायासु शोष्यमाणैः शुष्कैश् च कुटिल-क्रम-रूप-क्रियमाण-पल्लव-पर-भागैर् अ-परैर् आरब्ध-कुङ्कुम-पङ्क-स्थासक-च्छुरणैर् अ-परैर् उद्भुज-भुजिष्य-भज्यमान-भङ्गुर्ôत्तरीयैः क्षौमैश् च बादरैश् च दुकूलैश् च लाला-तन्तुजैश् च्âंशुकैश् च नेत्रैश् च निर्मोक-निभैर् अ-कठोर-रम्भा-गर्भ-कोमलैर् निःश्वास-हार्यैः स्पर्श्âनुमेयैर् वासोभिः सर्वतः स्फुरद्भिर् इन्द्र्âयुध-सहस्रैर् इव संछादितम्, उज्ज्वल-निचोलक्âवगुण्ठ्यमान-हंस-कुलैश् च शयनीयैस् तारा-मुक्ता-फल्ôपचीयमानैश् च कञ्चुकैर् अन्-एक्ôपयोग-पाट्यमानैश् च्â-परिमितैः पट्ट-पटी-सहस्रैर् अभिनव-राग-कोमल-दुकूल-राजमानैश् च पट-वितानैः स्तवरक-निवह-निर्-अन्तर-च्छाद्यमान-समस्त-पटलैश् च मण्डपैर् उच्चित्र-नेत्र-पट-वेष्ट्यमानैश् च स्तम्भैर् उज्ज्वलं रमणीयं च्âउत्सुक्यदं च मङ्गल्यं च्âसीद्-राज-कुलम्.
देवी तु यशोमती विवाह्ôत्सव-पर्याकुल-हृदया हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निमन्त्रित-स्त्रीषु, आदेशेन परिजने, शरीरेण संचरणे, चक्षुषा कृत्âकृत-प्रत्यवेक्षणेषु, [144] आनन्देन मह्ôत्सवे, एक्âपि बहुधा विभक्त्êव्âभवत्. भू-पतिर् अप्य् उपर्य् उपरि विसर्जित्ôष्ट्र-वामी-जनित-जामातृ-जोषः सत्य् अप्य्âज्ञा-संपादन-दक्षे मुख्êक्षण-परे परिजने समं पुत्राभ्यां दुहितृ-स्नेह-विक्लवः सर्वं स्वयम् अकरोत्.
एवं च तस्मिन्न् अ-विधवामय इव भवति राज-कुले, मङ्गलमय इव जायमाने जीव-लोके, चारणमयेष्व् इव लक्ष्यमाणेषु दिङ्-मुखेषु, पटह-रवमय इव कृते ऽन्तरिक्षे, भूषणमय इव भ्रमति परिजने, बान्धवमय इव दृश्यमाने सर्गे, निर्वृतिमय इव्ôपलक्ष्यमाणे काले, लक्ष्मीमय इव विजृम्भमाणे मह्ôत्सवे, निधान इव सुखस्य, फल इव जन्मनः, परिणाम इव पुण्यस्य, यौवन इव विभूतेः, यौव-राज्य इव प्रीतेः, सिद्धि-काल इव मनो-रथस्य वर्तमाने, गण्यमान इव जन्âङ्गुलीभिः, आलोक्यमान इव मार्ग-ध्वजैः, प्रत्युद्गम्यमान इव मङ्गल्य-वाद्य-प्रतिशब्दकैः, आहूयमान इव मौहूर्तिकैः, आकृष्यमाण इव मनो-रथैः, परिष्वज्यमान इव वधू-सखी-हृदयैर् आजगाम विवाह-दिवसः. प्रातर् एव प्रतीहारैः समुत्सारित-निखिल्â-निबद्ध-लोकं विविक्तम् अक्रियत राज-कुलम्.
अथ महा-प्रतीहारः प्रविश्य नृप-समीपम् "देव! जामातुर् अन्तिकात् ताम्बूल-दायकः पारिजातक-नामा संप्राप्तः" इत्य् अभिधाय स्व्-आकारं युवानम् अदर्शयत्. राजा तु तं दूराद् एव जामातृ-बहु-मानाद् दर्शित्âदरः "बालक! कच्-चित् कुशली ग्रहवर्मा?" इति पप्रच्छ. असौ तु समाकर्णित-नर्âधिप-ध्वनिर् धावमानः कति-चित् पदान्य् उपसृत्य प्रसार्य च बाहू सेवा-चतुरश् चिरं वसुं-धरायां निधाय मूर्धानम् उत्थाय "देव! कुशली यथ्âज्ञापयस्य् अर्चयति च देवं नमस्-कारेण" इति व्यज्ञापयत्. आगत-जामातृ-निवेदन्âगतं च तं ज्ञात्वा कृत-सत्-कारं राजा "यामिन्याः प्रथमे यामे विवाह-काल्âत्यय-कृतो यथा न भवति दोषः" इति संदिश्य प्रतीपं प्राहिणोत्.
[145] अथ सकल-कमल-वन-लक्ष्मीं वधू-मुख इव संचार्य समवसिते वासरे, विवाह-दिवस-श्रियः पाद-पल्लव इव रज्यमाने सवितरि, वधू-वर्âनुराग-लघू-कृत-प्रेम-लज्जितेष्व् इव विघटमानेषु चक्र-वाक-मिथुनेषु, सौभाग्य-ध्वज इव रक्त्âंशुक-सु-कुमार-वपुषि नभसि स्फुरति संध्या-रागे, कपोत-कण्ठ-कर्बुरे वर-यात्र्âगमन-रजस्îव कलुषयति दिङ्-मुखानि तिमिरे, लग्न-संपादन-सज्ज इव्ôज्जिहाने ज्योतिर्-गणे विवाह-मङ्गल-कलश इव्ôदय-शिखरिणा समुत्क्षिप्यमाणे वर्धमान-धवल-च्छाये तार्âधिप-मण्डले, वधू-वदन-लावण्य-ज्योत्स्ना-परिपीत-तमसि प्रदोषे, वृथ्ôदितम् उपहसत्स्व् इव रजनि-करम् उत्तानित-मुखेसु कुमुद-वनेष्व् आजगाम मुहुर् मुहुर् उल्लासित-स्फार-स्फुरित्âरुण-चामरैर् मनो-रथैर् इव्ôत्थित-राग्âग्र-पल्लवैः पुरो-धावमानैः पादातैर् उत्कर्ण-कटक-हय-प्रतिहेषित-दीयमान-स्व्-आगतैर् इव वाजिनां वृन्दैर् आपूरित-दिग्-विभागः, चल-कर्ण-चामराणां चामीकरमय सर्व्ôपकरणानां वर्णक-लम्बिनां बलिनां घण्टा-टाङ्कारिणां करिणां घटाभिः, घटयन्न् इव पुनर् इन्द्ûदय-विलीनम् अन्धकारम्, नक्षत्र-माला-मण्डित-मुखीं करिणीं निशा-कर इव पौरंदरीं दिशम् आरूढः, प्रकटित-विविध-विहग-विरुतैस् ताल्âवचर-चारणैः पुरः-सरैर् बालो वसन्त इव्ôपवनैः क्रियमाग-कोलाहलो गन्ध-तैल्âवसेक-सुगन्धिना दीपिका-चक्र-वाल्âलोकेन कुङ्कुम-पट-वास-धूलि-पटलेन्êव पिञ्जरी-कुर्वन् सकलं लोकम्, उत्फुल्ल-मल्लिका-मुण्ड-माला-मध्य्âध्यासित-कुसुम-शेखरेण शिरसा हसन्न् इव स-परिवेष-क्षपा-करं कौमुदी-प्रदोषम्, आत्म-रूप-निर्जित-मकर-केतु-कर्âपहृतेन कार्मुकेण्êव कौसुमेन दाम्ना विरचित-वैकक्षक-विलासः, कुसुम-सौरभ-गर्व-भ्रान्त-भ्रमर-कुल-कलकल-प्रलाप-सु-भगः पारिजात इव जातः श्रिया सह पुनर् अवतारितो मेदिनीम्, नव-वधू-वदन्âवलोकन-कुतूहलेन्êव कृष्यमाण-हृदयः पतन्न् इव मुखेन प्रत्यासन्न-लग्नो ग्रहवर्मा त्वरितम् आजगाम.
[146] राजा तु तम् उप-द्वारम् आगतं चरणाभ्याम् एव राज-चक्र्âनुगम्यमानः स-सुतः प्रत्युज्जगाम. अवतीर्णं च तं कृत-नमस्-कारं मन्मथम् इव माधवः प्रसारित-भुजो गाढम् आलिलिङ्ग. यथा-क्रमं परिष्वक्त-राज्यवर्धन-हर्षं च हस्ते गृहीत्व्âभ्यन्तरं निन्ये. स्व-निर्विशेष्âसन-दान्âदिना च्âइनम् उपचारेण्ôपचचार.
न चिराच् च गम्भीर-नामा नृपतेः प्रणयी विद्वान् द्वि-जनमा ग्रहवर्माणम् उवाच: "तात! त्वां प्राप्य चिरात् खलु राज्यश्रिया घटितौ तेजोमयौ सकल-जगद्-गीयमान-बुध-कर्ण्âनन्द-कारि-गुण-गणौ सोम-सूर्य-वंशाव् इव पुष्पभूति-मुकर-वंशौ. प्रथमम् एव कौस्तुभ-मणिर् इव गुणैः स्थितो ऽसि हृदये देवस्य. इदानीं तु शश्îव सिरसा परम्êश्वरेण्âसि वोढव्यो जातः" इति.
एवं वदत्य् एव तस्मिन् नृपम् उपसृत्य मौहूर्तिकाः "देव! समासीदति लग्न-वेला. व्रजतु जामाता कौतुक-गृहम्" इत्य् ऊचुः. अथ नर्êन्द्रेण "उत्तिष्ठ, गच्छ" इति गदितो ग्रहवर्मा प्रविश्य्âन्तः-पुरं जामातृ-दर्शन-कुतूहलिनीनां स्त्रीणां पतितानि लोचन-सहस्राणि विकच-नील-कुवलय-वनान्îव लङ्घयन्न् आससाद कौतुक-गृह-द्वारम्. निवारित-परिजनश् च प्रविवेश.
अथ तत्र कतिपय्âप्त-प्रिय-सखी-स्व-जन-प्रमदा-प्राय-परिवाराम्, अरुण्âंशुक्âवगुण्ठित-मुखीं प्रबात-संध्याम् इव स्व-प्रभया निष्-प्रभान् प्रदीपकान् कुर्वाणाम्, अति-सौकुमार्य-शङ्कितेन्êव यौवनेन न्âति-निर्भरम् उपगूढाम्, साध्वस-निरुध्यमान-हृदय-देश-दुःख-मुक्तैर् निभृत्âयतैः श्वसितैर् अपयान्तं कुमार-भावम् इव्âनुशोचन्तीम्, अत्य्-उत्कम्पिनीं पतनभिय्êव त्रपया निष्पन्दं धार्यमाणाम्, हस्तं तामरस-प्रतिपक्षम् आसन्न-ग्रहणं शशिनम् इव रोहिणीं भय-वेपमान-मानसाम् अवलोकयन्तीम्, [147] चन्दन-धवल-तनु-लताम्, ज्योत्स्ना-दान-संचित-लावण्यात् कुमुदिनी-गर्भाद् इव प्रसूताम्, कुसुम्âमोद-निर्हारिणीं वसन्त-हृद्याद् इव निर्गताम्, निःश्वास-परिमल्âकृष्ट-मधु-कर-कुलां मलय-मारुताद् इव्ôत्पन्नाम्, कृत-कंदर्प्âनुसरणां रतिम् इव पुनर्-जाताम्, प्रभा-लावण्य-मद-सौरभ-माधुर्यैः कौस्तुभ-शशि-मदिरा-पारिजात्âमृत-प्रभवैः सर्व-रत्न-गुणैर् अ-पराम् इव सुर्âसुर-रुषा रत्न्âकरेण कल्पितां श्रियम्, स्निग्धेन बालिक्âलोकेन सित-सिन्धुवार-कुसुम-मञ्जरीभिर् इव मुक्ता-दीधितिभिः कल्पित-कर्ण्âवतंसाम्, कर्ण्âभरण-मरकत-प्रभा-हरित-शाद्वलेन कपोल-स्थली-तलेन विनोदयन्तीम् इव हारिणीं लोचन-च्छायाम्, अधो-मुखं वर-कौतुक्âलोकन्âकुलं मुहुर्-मुहुः कृत-मुख्ôन्नमन-प्रयत्नं सखी-जनं हृदयं च निर्भर्त्सयन्तीं वधूम् अपश्यत्.
प्रविशन्तम् एव तं हृदय-चौरं वध्वा समर्पितं जग्राह कंदर्पः. परिहास-स्मेर-मुखीबिश् च नारीभिः कौतुक-गृहे यद् यत् कार्यते जामाता तत् तत् सर्वम् अति-पेशलं चकार. कृत-परिणय्âनुरूप-वेश-परिग्रहां गृहीत्वा करे वधूं निर्जगाम. जगाम च नव-सुधा-धवलां निमन्त्रित्âगतैस् तुषार-शैल्ôपत्यकाम् इव त्र्य्-अम्बक्âम्बिका-विवाह्âहूतैर् भूभृद्भिः परिवृताम्, सेक-सु-कुमार-यव्âङ्कुर-दन्तुरैः पञ्च्âस्यैः कलशैः कोमल-वर्णिका-विचित्रैर् अ-मित्र-मुखैश् च मङ्गल्य-फल-हस्ताभिर् अञ्जलि-कारिकाभिर् उद्भासित-पर्यन्ताम्, उपाध्याय्ôपधीयमान्îन्धन-धूमायमान्âग्नि-संधुक्षण्âक्षणिक्ôपद्रष्टृ-द्विजाम्, उपकृशानु-निहित्âन्-उपहत-हरित-कुशाम् संनिहित-दृषद्-अजिन्âज्य-स्रुक्-समित्-पूली-निवहाम्, नूतन-शूर्प्âर्पित-श्यामल-शमी-पलाश-मिश्र-लाज-हासिनीं वेदीम्. आरुरोह च तां दिवम् इव स-ज्योत्स्नः शशी. समुत्ससर्प च वेल्लित्âरुण-शिखा-पल्लवस्य [148] शिखिनः कुसुम्âयुध इव रति-द्वितीयो रक्त्âशोकस्य समीपम्. हुते च हुत-भुजि प्रदक्षिण्âवर्त-प्रवृत्ताभिर् वधू-वदन-विलोकन-कुतूहलिनीभिर् इव ज्वालाभिर् एव सह प्रदक्षिणं बभ्राम. पात्यमाने च लाज्âञ्जलौ नख-मयूख-धवलित-तनुर् अ-दृष्ट-पूर्व-वधू-वर-रूप-विस्मय-स्मेर इव्âदृस्यत विभावसुः.
अत्र्âन्तरे स्व्-अच्छ-कपोल्ôदर-संक्रान्तम् अनल-प्रतिबिम्बम् इव निर्वापयन्ती स्थूल-मुक्ता-फल-विमल-बाष्प-बिन्दु-संदोह-दर्शित-दुर्-दिना निर्वदन-विकारं रुरोद वधूः. उदश्रु-विलोचनानां च बान्धव-वधूनाम् उदपादि महान् आक्रन्दः. परिसमापित-वैवाहिक-क्रिया-कलापस् तु जामाता वध्वा समं प्रणनाम श्वशुरौ. प्रविवेश च द्वार-पक्ष-लिखित-रति-प्रीति-दैवतं, प्रणयिभिर् इव प्रथम-प्रविष्टैर् अलि-कुलैः कृत-कोलाहलम्, अलि-कुल-पक्ष-पवन-प्रेङ्खोलितैः कर्ण्ôत्पल-प्रहार-भय-प्रकम्पितैर् इव मङ्गल-प्रदीपैः प्रकाशितम्, एक-देश-लिखित-स्तबकित-रक्त्âशोक-तरु-तल-भाज्âधिज्य-चापेन तिर्यक्-कूणित-नेत्र-त्रि-भागेण शरम् ऋजू-कुर्वता काम-देवेन्âधिष्ठितम्, एक-पार्श्व-न्यस्तेन काञ्चन्âचाम-रुकेण्êतर-पार्श्व-वर्तिन्या च दान्त-शफरुक-धारिण्या कनक-पुत्रिकया साक्षाल् लक्ष्म्य्êव्ôद्दण्ड-पुण्डरीक-हस्तया स-नाथेन स्ôपधानेन स्व्-आस्तीर्णेन शयनेन शोभमानम्, शयन-शिरो-भाग-स्थितेन च कृत-कुमुद-शोभेन कुसुम्âयुध-साहायकाय्âगतेन शशिन्êव निद्रा-कलशेन राजतेन विराजमानं वास-गृहम्.
तत्र च ह्रीताया नव-वधूकायाः पराङ्-मुख-प्रसुप्ताया मणि-भित्ति-दर्पणेषु मुख-प्रतिबिम्बानि प्रथम्âलाप्âकर्णन-कौतुक्âगत-गृह-देवत्âननान्îव मणि-गवाक्षकेषु वीक्षमाणः क्षणदां निन्ये. स्थित्वा च श्वशुर-कुले शीलेन्â-मृतम् इव श्वश्रू-हृदये वर्षन्न् अभिनव्âभिनव्ôपचारैर् अ-पुनर्-उक्तान्य् आनन्दमयानि दश दिनानि, दत्त्वा च राज-दौवारिकम् इव राज-कुले रणरणकं यौतक-निवेदितान्îव शम्बलान्य् आ- [149] -दाय हृदयानि सर्व-लोकस्य कथं कथम् अपि विसर्जितो नृपेण वध्वा सह स्व-देशम् अगमद् इति.
इति श्री-महा-कवि-बाण-भट्ट-कृतौ हर्षचरिते चक्र-वर्ति-जन्म-वर्णनं नाम चतुर्थ उच्छ्वासः.
[150] पञ्चम उच्छ्वासः
नियतिर् विधाय पुंसां प्रथमं सुखम् उपरि दारुणं दुःखम् ।
कृत्वा लोकं तरला तडिद् इव वज्रं निपातयति ॥ 5.1 ॥
पातयति महा-पुरुषान् समम् एव बहून् अन्-आदरेण्âइव ।
परिवर्तमान एकः कालः शैलान् इव्âन्-अन्तः ॥ 5.2 ॥
अथ कदा-चिद् राजा राज्य-वर्धनं कवच-हरम् आहूय हूणान् हन्तुं हरिणान् इव हरिर् हरिण्êश-किशोरम् अ-परिमित-बल्âनुयातं चिरं-तनैर् अमात्यैर् अनुरक्तैश् च महा-सामन्तैः कृत्वा स्âभिसरम् उत्तरा-पथं प्राहिणोत्.
प्रयान्तं च तं देवो हर्षः कति-चित् प्रयाणकानि तुरङ्गमैर् अनुवव्राज. प्रविष्टे च कैलास-प्रभा-भासिनीं ककुभं भ्रातरि वर्तमानो नवे वयसि विक्रम-रस्âनुरोधिनि केसरि-शरभ-शार्दूल-वराह-बहुलेषु तुषार-शैल्ôपकण्ठेष्ûत्कण्ठमान-वन-देवता-कट्âक्ष्âंशु-शारित-शरीर-कान्तिः क्रीडन् मृगयां मृग-लोचनः कतिपयान्य् अहानि बहिर् एव व्यलम्बत. चकार च्âकर्ण्âन्त्âकृष्ट-कार्मुक-निर्गत-भासुर-भल्ल-वर्षी स्वल्पीयोभिर् एव दिवसैर् निः-श्वापदान्य् अरण्यानि.
एकदा तु वासतेय्यास् तुरीये यामे प्रत्युषस्य्êव स्वप्ने चटुल-ज्वाला-पुञ्ज-पिञ्जरी-कृत-सकल-कुकुभा दुर्-निवारेण दव-हुत-भुजा दह्यमानं केसरिणम् अद्राक्षीत्. तस्मिन्न् एव च दाव-दहने समुत्सृज्य शावकान् उत्प्लुत्य च्âत्मानं पातयन्तीं सिंहीम् अपश्यत्. आसीच् च्âस्य चेतसि: "लोके हि लोहेभ्यः कठिनतराः खलु स्नेह-मया बन्धन-पाशाः यद् आकृष्टास् तिर्यञ्चो ऽप्य् एवम् आचारन्ति" इति. प्रबुद्धस्य च्âस्य मुहुर्-मुहु- [151] -र् दक्षिण्êतरम् अक्षि पस्पन्दे. गात्रेषु च्âकस्माद् एव वेपथुर् विपप्रथे. निर्-निमित्तम् एव्âन्तर्-बन्धन-स्थानाच् चचाल्êव हृदयम्. अ-कारणाद् एव च्âजायत गरीयसी दुःख्âसिका. किम् इदम् इति च समुत्पन्न-विविध-विकल्प-विमथित-मतिर् अपगत-धृतिष् चिन्ता-वन-मित-वदनः स्तिमित-तारकेण चक्षुषा समुद्भिद्यमान-स्थलकमलिनी-वनाम् इव चकार चकोर्êक्षणः क्षनं क्षोणीम्. अह्नि च तस्मिञ् शून्येन्âइव च चेतसा चिक्रीड मृगयाम्. आरोहति च हरित-हये मध्यम् अह्नो भवनम् आगत्य्ôभयतो मन्द-मन्दं संवाह्यमान-तनु-ताल-वृन्तः क्षिति-तल-वितताम् अति-शिशिर-मलयज-रस-लव-लुलित-वपुषम् इन्दु-धवल्ôपधान-धारिणीं वेत्र-पट्टिकाम् अधिशयानः स्âशङ्क एव तस्थौ.
अथ दूराद् एव लेख-गर्भया नीली-राग-मेचक-रुचा चीर-चीरिकया रचित-मुण्ड-मालकम्, श्रम्âतपाभ्याम् आरोप्यमाण-काय-कालिमानम्, अन्तर्-गतेन शोक-शिखिना ऽङ्गारताम् इव नीयमानम्, अति-त्वरा-गमन-द्रुततर-पद्ôद्धूयमान-धूलि-राजि-व्याजेन राज-वार्ता-श्रवण-कुतूहलिन्या मेदिन्य्êव्âनुगम्यमानम्, अभिमुख-पवन-प्रेङ्खत्-प्रवितत्ôत्तरीय-पट-प्रान्त-वीज्यमान्ôभय-पार्श्वम् अतित्वरया कृत-पक्षम् इव्âशु परापतन्तम्, प्रेर्यमाणम् इव पृष्ठतः स्वाम्य्-आदेशेन्âकृष्यमाणम् इव पुरस्ताद् आयतैः श्रम-श्वास-मोक्षैः स्विद्यल्-ललाट-तट-घटमान-प्रतिबिम्बकेन कार्य-कौतुकाद् अपह्रियमाण-लेखम् इव भास्वता संभ्रम-भ्रष्टैर् इव्êन्द्रियैः शून्यी-कृत-शरीरम्, लेख्âर्पित-प्रयोजन-गौरवाद् इव समे ऽपि वर्त्मनि शून्य-हृदयतया स्खलन्तम्, काल-मेघ-शकलम् इव पतिष्यतो दुर्-वार्ता-वज्रस्य, धूम-पल्लवम् इव ज्वलिष्यतः शोक-ज्वलनस्य, बीजम् इव फलिष्यतो दुष्-कृत-शालेर् अ-निमित्त-भूत-दीर्घ्âध्वगम् कुरङ्गक-नामानम् आयन्तम् अद्राक्षीत्.
दृष्ट्वा च पूर्व-निमित्त-परम्पर्âविर्-भावित-भीतिर् अभिद्यत हृदयेन. कुरङ्गकस् तु कृत-प्रणामः समुपसृत्य प्रथमम् आनन-लग्नं विषादम् उपनिन्ये पश्चाल् लेखम्. तं च देवो हर्षः स्वयम् एव्âदाय्âवाचयत्. लेख्âर्थेन्âइव च समं गृहीत्वा हृदयेन संतापम् अवग्रह-रूपो ऽभ्यधात्: [152] "कुरङ्गक! किं मान्द्यं तातस्य?" इति. स चक्षुषा बाष्प-जल-बिन्दुभिर् मुखेन च खञ्ज्âक्षरैः क्षरद्भिर् युगपद् आचचक्षे: "देव! दाह-ज्वरो महान्" इति. तच् च्âकर्ण्य सहसा सहस्रध्êव्âस्य हृदयं पफाल. कृत्âचमनश् च जनयितुर् आयुष्-कामो ऽपरिमित-मणि-कनक-रजत-जातम् आत्म-परिबर्हम् अशेषं ब्राह्मणसाद् अकरोत्. अभुक्त एव्ôच्चचाल. "दापय वाजिनः पर्याणम्" इति च पुरः-स्थितं शिरः-कृपाणं बिभ्राणं बभाण युवानम्. वेपमान-हृदयश् च स-संभ्रम-प्रधावित-परिवर्धक्ôपनीतम् आरुह्य तुरङ्गम् एकाक्य् एव प्रावर्तत.
अ-काण्ड-प्रयाण-संज्ञा-शङ्ख-क्षुभितं तु संभ्रमात् सज्जी-भूतम् उद्भूत-मुखर-खुर-रव-भरित-सकल-भुवन-विवरम् आगत्य्âगत्य सर्वाभ्यो दिग्भ्यो धावमानम् अश्वो ऽयम् अढौकत. प्रस्थितस्य च्âस्य प्रदक्षिण्êतरं प्रयान्तो विनाशम् उपस्थितं राज-सिंहस्य हरिणाः प्रकटयां-बभूवुः. अ-शिशिर-रश्मि-मण्डल्âभिमुखश् च हृदयम् अवदारयन्न् इव दाव-शुष्के दारुणि दारुणं रराण वायसः. कज्जल-मय इव बहु-दिवसम् उपचित-बहल-मल-पटल-मलिनित-तनुर् अभिमुखम् आजगाम शिखि-पिच्छाल्âञ्छनो नग्न्âटकः. दुर्-निमित्तैर् अन्-अभिनन्द्यमान-गमनश् च नितराम् अशङ्कत. हृदयेन पितृ-स्नेह्âहित-म्रदिम्ना च तत् तद् उपेक्षमाणस् तुरङ्गम-स्कन्ध-बद्ध-लक्ष्यं चक्षुर् अ-विचलं दधानो दुःखम् अवसित-हसित-संकथस् तूष्णीं-भूतेन भूपाल-लोकेन्âनुगम्यमानो बहु-योजन-संपिण्डितम् अध्वानम् एकेन्âइव्âह्ना समलङ्घयत्.
उपलब्ध-नर्êन्द्र-मान्द्य-वार्ता-विषण्ण इव नष्ट-तेजस्य् अधोमुखी-भवति भगवति भानुमति भण्डि-प्रमुखेन प्रणयिना राज-पुत्र-लोकेन बहुशो विज्ञाप्यमानो ऽपि न्âहारम् अकरोत्. पुरः-प्रवृत्त-प्रतीहार-गृह्यमाण-ग्रामीण-परम्परा-प्रकटित-प्रगुण-वर्त्मा च वहन्न् एव निन्ये निशाम्.
[153] अन्यस्मिन्न् अहनि मध्यंदिने विगत-जय-शब्दम्, अस्तम्-इत-तूर्य-नादम् उपसंहृत-गीतम्, उत्सारित्ôत्सवम्, अ-प्रगीत-चारणम्, अ-प्रसारित्âपण-पण्यम्, स्थान-स्थानेषु पवन-बल-कुटिलाभिः कोटि-होम-धूम-लेखाभिर् उल्लसन्तीभिर् यम-महिष-विषाण-कोटिभिर् इव्ôल्लिख्यमानम्, कृत्âन्त-पाश-वागुराभिर् इव वेष्ट्यमानम्, उपरि काल-महिष्âलंकार-कालायस-किङ्किणीभिर् इव कटु क्वणन्तीभिर् दिवसम्, वायस-मण्डलीभिर् भ्रमन्तीभिर् आवेद्यमान-प्रत्यासन्न्âशुभम्, क्व-चित् प्रतिशायित-स्निग्ध-बान्धव्âराध्यमान्âहिर्बुध्नम्, क्व-चिद् दीपिका-दह्यमान-कुल-पुत्रक-प्रसाद्यमान-मातृ-मण्डलम्, क्व-चिन् मुण्ड्ôपहार-हरण्ôद्यत-द्रविड-प्रार्थ्यमान्âमर्दकम्, क्व-चिद् आन्ध्र्ôद्ध्रियमान-बाहु-वप्र्ôपयाच्यमान-चण्डिकम्, अन्यत्र शिरो-विधृत-विलीयमान-गलद्-गुग्गुलु-विकल-नव-सेवक्âनुनीयमान-महा-कालम्, अ-परत्र निशित-शस्त्री-निकृत्त्âत्म- मांस-होम-प्रसक्त्âप्त-वर्गम्, अ-परत्र प्रकाश-नर-पति-कुमारक-क्रियमाण-महा-मांस-विक्रय-प्रक्रमम्, उपहतम् इव श्मशान-पांशुभिर् अ-मङ्गलैर् इव परिगृहीतम्, यातु-धानैर् इव विध्वस्तम्, कलि-कालेन्êव कवलितम्, पाप-पटलैर् इव संछादितम्, अ-धर्म-विक्षेपैर् इव लुण्ठितम्, अ-नित्यत्âधिकारैर् इव्âक्रान्तम्, नियति-विलासैर् इव्âत्मी-कृतम्, शून्यम् इव सुप्तम् इव मुषितम् इव विलक्षितम् इव छलितम् इव मूर्च्छितम् इव स्कन्ध्âवारं समाससाद.
प्रविशन्न् एव च विपणि-वर्त्मनि कुतूहल्âकुल-बहल-बालक-परिवृतम् ऊर्ध्व-यष्टि-विष्कम्भ-वितते वाम-हस्त-वर्तिनि भीषण-महिष्âधिरूढ-प्रेत-नाथ-सनाथे चित्रवति पटे पर-लोक-व्यतिकरम् इतर-कर-कलितेन शरकाण्डेन कथयन्तं यम-पट्टिकं ददर्श. तेन्âइव च गीयमानं श्लोकम् अशृणोत्:
"मातापितृ-सहस्राणि पुत्र-दार-शतानि च ।
युगे युगे व्यतीतानि कस्य ते कस्य वा भवान्" ॥ 5.3 ॥
इति.
[154] तेन च्âधिकतरम् अवदीर्यमाण-हृदयः क्रमेण राज-द्वारं प्रतिषिद्ध-सकल-लोक-प्रवेशं ययौ. तुरगाद् अवतीर्णश् च्âभ्यन्तरान् निष्क्रामन्तम् अ-प्रसन्न-मुख-रागम् उन्मुक्तम् इव्êन्द्रियैः सुषेण-नामानं वैद्य-कुमारकम् अद्राक्षीत्. कृत-नमस्कारं च तम् अप्राक्षीत्: "सुषेण! अस्ति तातस्य विशेषो न वा?" इति. सो ऽब्रवीत्: "न्âस्त्îदानीं यदि भवेत् कुमारं दृष्ट्वा" इति. मन्दं मन्दं द्वार-पालैः प्रणम्यमानश् च दीयमान-सर्वस्वम्, पूज्यमान-कुल-देवतम्, प्रारब्ध्âमृत-चरु-पचन-क्रियम्, क्रियमाण-षड्-आहुति-होमम्, हूयमान-पृषदाज्य-लव-लिप्त-प्रचल-दूर्वा-पल्लवम्, पठ्यमान-महा-मायूरी-प्रवर्त्यमान-गृह-शान्ति-निर्वर्त्यमान-भूत-रक्षा-बलि-विधानम्, प्रयत-विप्र-प्रस्तुत-संहिता-जपम् जप्यमान-रुद्र्âइकादशी-शब्दायमान-शिव-गृहम्, अति-शुचि-शैव-संपाद्यमान-वि-रूप्âक्ष-क्षीर-कलश-सहस्र-स्नपनम्, अ-जिर्ôपविष्टैश् च्âनासादित-स्वामि-दर्शन-दूयमान-मानसैर् अभ्यन्तर-निष्पतित-निकट-वर्ति-परिजन-निवेद्यमान-वार्तैर् वार्ती-भूत-स्नान-भोजन-शयनैर् उज्झित्âत्म-संस्कार-मलिन-वेशैर् लिखितैर् इव निश्-चलैर् नर-पतिभिर् नीयमान-नक्तं-दिवं दुःख-दीन-वदनेन च प्रघणेषु बद्ध-मण्डलेन्ôपांशु-व्याहृतैः केन-चिच् चिकित्सक-दोषान् उद्भावयता, केन-चिद् अ-साध्य-व्याधि-लक्षण-पदानि पठता, केन-चिद् दुः-स्वप्नान् आवेदयता, केन-चित् पशाच-वार्तां विवृण्वता, केन-चित् कार्तान्तिक्âदेशान् प्रकाशयता, केन-चिद् उपलिङ्गानि गायता, अन्येन्âनित्यतां भावयता, संसारं च्âपवदता, कलि-काल-विलसितानि च निन्दता, दैवं च्ôपालभमानेन्âपरेण धर्माय कुप्यता, राज-कुल-देवताश् च्âधिक्षिपता, अ-परेण क्लिष्ट-कुल-पुत्रक-भाग्यानि गर्हयता, बाह्य-परिजनेन कथ्यमान-कष्ट-पार्थिव्âवस्थं राज-कुलं विवेश.
अ-विरल-बाष्प-पयः-परिप्लुत-लोचनेन पितृ-परिजनेन वीक्ष्यमाणो विविध्âउषधि-द्रव्य-द्रव-गन्ध-गर्भम् उत्क्वथतां क्वाथानां सर्पिषां तैलानां च प्रपच्यमानानां गन्धम् आजिघ्रन्न् अवाप तृतीयं कक्ष्य्âन्तरम्.
[155] तत्र च्âति-निः-शब्दे गृह्âवग्रहणी-ग्राहि-बहु-वेत्रिणि, त्रि-गुण-तिरस्-करिणी-तिरो-हित-सुवीथी-पथे, पिहित-पक्ष-द्वारके, परिहृत-कवाट-रटिते, घटित-गव्âक्ष-रक्षित-मरुति, दूयमान-परिचारके, चरण-ताडन-स्वनत्-सोपान-प्रकुपित-प्रतीहारे, निभृत-संज्ञा-निर्दिश्यमान-सकल-कर्मणि, न्âति-निकट्ôपविष्ट-कङ्कटिनि, कोण-स्थित्âह्वान-चकित्âचमनक-वाहिनि, चंद्र-शालि-कालीन-मूक-मौल-लोके, मह्âधि-वि-धुर-बान्धव्âङ्गना-वर्ग-गृहीत-प्रच्छन्न-प्रग्रीवके, संज-वन-पुञ्जित्ôद्विग्न-परिजने, प्रविष्ट-कतिपय-प्रणयिनि, गम्भीर-ज्वर्âरम्भ-भीत-भिषजि, दुर्मनायमान-मन्त्त्रिणि, मन्द्âयमान-पुरोधसि, सीदत्-सुहृदि, विद्राण-विपश्चिति, संतप्त्âप्त-सामन्ते, विचित्त-चामर-ग्राहिणि, दुःख-क्षाम-शिरो-रक्षिणि, क्षीयमाण-प्रसाद-वित्तक-मनोरथ-संपदि, स्वामि-भक्ति-परित्यक्त्âहार-हीयमान-बल-विकल-वल्लभ-भू-भृति, क्षिति-तल-पतित-सकल-रजनी-जागरूक-राज-पुत्र-कुमारके, कुल-क्रम्âगत-कुल-पुत्र-निवह्ôह्यमान-शुचि, शोक-संकुचित-कञ्चुकिनि, निर्-आनन्द-नन्दिनि, निःश्वसन्-निर्-आश्âसन्न-सेवके, निःसृत-ताम्बूल-धूसर्âधर-वार-योषिति, विलक्ष-वैद्य्ôपदिश्यमान-पथ्य्âहरण्âवहित-पौरोगवे, अनुजीवि-पीयमान्ôच्च-चषक-धारा-वारि-विनोद्यमान्âस्य-शोष-रुजि, राज्âभिलाष-भोज्यमान-बहु-भुजि, भेषज-सामग्री-संपादन-व्यग्र-समग्र-व्यवहारिणि, मुहुर्-मुहुर्-आहूयमान-तोय-कर्म्âन्तिक्âनुमित-घोर्âतुर-तृषि, तुषार-परिकरित-करक-शिशिरी-क्रियमाण्ôदश्विति, श्वेत्âर्द्र-कर्पट्âर्पित-कर्पूर-पराग-शीतली-कृत-शलाके, न्âश्यान-पङ्कि-लिप्यमान-नव-भाण्ड-गत-गण्डूष-ग्रहण-मस्तुनि, तिम्यत्-कोमल-कमलिनी-पलाश-प्रावृत-मृदु-मृणालके, सनाल-नील्ôत्पल-पूली-सनाथ-सलिल-पान-भाजन-भुवि, धारा-निपात- [156] -निर्वार्प्यमाण-क्वथित्âम्भसि, पटु-पाटल-शर्करा-मोद-मुचि, मञ्चक्âश्रित-सिकतिल-कर्करी-विश्रान्त्âन्तर-चक्षुषि, सरल-शेवाल-वलयित-गलद्-गोल-यन्त्रके, गल्वर्क-शाल्âजिर्ôल्लासित-लाज-सक्तु-निपीत-मसार-पारी-परिगृहीत-कर्क-शर्करे, शिशिर्âउषध-रस-चूर्ण्âवकीर्ण-स्फटिक-शुक्ति-शङ्ख-संचये, संचित-प्रचुर-प्राचीन्âमलक-मातुलुङ्ग-द्राक्षा-दाडिम्âदि-फले, प्रतिग्राहित-विप्र-विप्रकीर्यमाण-शान्त्य्-उदक-विप्रुषि, प्रेष्य्âप्रेष्यमाण-ललाट-लेप्ôपदिग्ध-दृषदि धवल-गृहे स्थितम्, पर-लोक-विजयाय नीराज्यमाणम् इव ज्वर-ज्वलनेन्âनवरत-परिवर्तनैस्-तरङ्गिणि शयनीये शेषम् इव विष्ôष्मणा क्षीर्ôदन्वति विचेष्टमानम्, मुक्ताफल-वालुका-धूलि-धवलितं जलधिम् इव क्षय-काले शुष्यन्तम्, कालेन कैलासम् इव दश्âननेन्ôद्ध्रियमाणम्, अ-विरत-चन्दन-चर्चा-पराणां परिचारिकाणां अत्य्-उष्ण्âवयव-स्पर्श-भस्मी-भूत्ôदरैर् इव धवलैः करैः स्पृश्यमानं लोक्âन्तर-प्रस्थितम्, स्थास्नुना स्व-यशस्êव चन्दन्âनुलेपन-च्छलेन्âपृच्छ्यमानम्, अ-विच्छिन्न-दीयमान-कमल-कुमुद्êन्दीवर-दलम्, काल-कट्âक्ष-पतन-शबलम् इव शरीरम् उद्वहन्तम्, निबिड-दुकूल-पट्ट-निपीडित-केश्âन्त-कथ्यमान-कष्ट-वेदन्âनुबन्धं मूर्धानं धारयन्तम्, दुर्धर-वेदन्ôन्नमन्-नील-शिरा-जालक-करालेन च काल्âङ्गुलि-लिख्यमान-लेख्âख्यात-मरण्âवधि-दिवस-संख्यानेन्êव ललाट-फलकेन भयम् उपजनयन्तम्, आसन्न-यम-दर्शन्ôद्वेगाद् इव च किं-चिद्-अन्तः-प्रविष्ट-तारकं चक्षुर् दधानम्, शुष्यद्-दशन-पङ्क्ति-प्रसृत-धूसर-दीधिति-तरङ्गिणीं मृग-तृष्णिकाम् इव्ôष्णां निःश्वास-परम्पराम् उद्वहन्तम्, अत्य्-उष्ण-निःश्वास-दग्धय्êव श्यामायमानया रसनया निवेद्यमान-दारुण-संनिपात्âरम्भम्, उरः-स्थल-स्थापित-मणि-मौक्तिक-हार-चन्दन-चन्द्र-कान्तम्, कृत्âन्त-दूत-दर्शन-योग्यम् इव्âत्मानं कुर्वाणम्, अङ्ग-भङ्ग-वलन्ôत्क्षिप्त-भुज-युगलम्, पर्यस्त-हस्त-नख-मयूखैर् धारा-गृहम् इव ताप-शान्तये रचयन्तम्, नेदिष्ठ-सलिल-मणि-कुट्टिम्âदर्श्ôदरेषु निपतद्भिः प्रतिबिम्बैर् अपि संताप्âतिशयम् इव कथयन्तम्, स्पृषन्तीं प्रणयिनीम् इव विश्वास-भूमिं मूर्च्छाम् अपि बहु मन्यमानम्, अन्तक्âह्वा- [157] -न्âक्षरैर् इव स-भय-भिषग्-दृष्टैर् अरिष्टैर् आविष्टम्, महा-प्रस्थान-काले स्व-संताप-संतानम् आप्त-हृदयेषु संचारयन्तम्, अरति-परिगृहीतम् ईर्ष्यय्êव छायया विमुच्यमानम्, उद्योगम् इव्ôपद्रवाणम्, सर्व्âस्त्र-मोक्षम् इव क्षामतायाः, हस्ती-कृतं विहस्ततया, विषयी-कृतं वैषम्येण, क्षेत्री-कृतं क्षयेण, गोचरी-कृतं ग्लान्या, दष्टं दुःख्âसिकया, आत्मी-कृतं अ-स्वास्थ्येन, विधेयी-कृतं व्याधिना, क्रोडी-कृतं कालेन, लक्ष्यी-कृतं दक्षिण्âशया, पीतम् इव पीडाभिः, जग्धम् इव जागरेण, निगीर्णम् इव वैवर्ण्येन, ग्रासी-कृतं इव गात्र-भङ्गेन, ह्रियमाणम् इव विपद्भिः, वण्ट्यमानम् इव वेदनाभिः, लुण्ठ्यमानम् इव दुःखैः, आदित्सितं दैवेन, निरूपितं नियत्या, समाघ्रातम् अ-नित्यत्वेन, अभिभूयमानम् अ-भावेन, परिकलितं परासुतया, दत्त्âवकाशं क्लेशस्य, निवासं वैमनस्यस्य, समीपे कालस्य, अन्तिके ऽन्त्य्ôच्छ्वासस्य, मुखे महा-प्रवासस्य, द्वारि दीर्घ-निद्रायाः, जिह्व्âग्रे जीवित्êशस्य वर्तमानम्, विरलं वाचि, चलितं चेतसि, विह्वलं वपुषि, क्षीणम् आयुषि, प्रचुरं प्रलापे, संततं श्वसिते, जितं जृम्भिकाभिः, पराधीनम् आधिभिः, अनुबद्धम् अनुबन्धिकाभिः, पार्श्व्âपविष्टया, च्âनवरत-रोदन्ôच्छून-नयनया गृहीत-चामरिकय्âपि निःश्वसितैर् एव वीजयन्त्या विविध्âउषधि-धूलि-धूसरित-शरीरया मुहुर् मुहुः "आर्य-पुत्र! स्वपिषि" इति व्याहरन्त्या देव्या यशोमत्या शिरसि वक्षसि च स्पृश्यमानं पितरम् अद्राक्षीत्.
दृष्ट्वा च प्रथम-दुःख-संपात-मथ्यमान-मतिर् आशङ्कित इव भाग-धेयेभ्यः समभवत्. अन्तक-पुर-वर्तिनम् एव च पितरम् अमन्यत. निराकृत इव च्âन्तःकरणेन क्षणम् आसीत्. अवधूतश् च धैर्येण, क्षेत्री-कृतः क्षोभेण, रिक्ती-कृतः रत्या, विषयी-कृतो विषादेन, पावक-मयम् इव हृदयम् उद्वहन्, विषम-विदूषितान्îव मुह्यन्त्îन्द्रियाणि बिभ्राणः, तमसा रसा-तलम् अपि विशेषयन्, शून्यत्वेन्âकाशम् अप्य् अतिशयानो न्âविन्दत कर्तव्यम्. पस्पर्श च हृदयेन भियम् उत्तम्âङ्गेन च गाम्.
अवनि-पतिस् तु दूराद् एव दृष्ट्व्âतिदयितं तनयं तद्-अवस्थो ऽपि निर्भर- [158] -स्नेह्âवर्जितः प्रधावमानो मनसा प्रसार्य भुजौ "एह्य् एहि" इत्य् आह्वयन् शरीर्âर्धेन शयनाद् उदगात्. स-संभ्रमम् उपसृतं च्âइनं विनय्âवनम्रम् उन्नमय्य बलाद् उरसि निवेश्य, विशन्न् इव प्रेम्णा निशा-कर-मण्डल-मध्यम्, मज्जन्न् इव्âमृत-मये महा-सरसि, स्नापयन्न् इव महति हरि-चन्दन-रस-प्रस्रवणे, अभिषिच्यमान इव तुषार्âद्रि-द्रवेण, पीडयन्न् अङ्गैर् अङ्गानि, कपोलेन कपोलम् अवघट्टयन्, निमीलयन् पक्ष्म्âग्र-ग्रथित्âजस्र्âस्र-विस्राविणी विलोचने विस्मृत-ज्वर-संज्वरः सु-चिरम् आलिलिङ्ग. कथं कथम् अपि चिराद् विमुक्तम् अपसृत्य कृत-नमस्कारं प्रणत-जननीकम् उपागतम् आसीनं च शयन्âन्तिके पिबन्न् इव विगत-निमेष-निश्चलेन चक्षुषा व्यलोकयत्. पस्पर्श च पुनः पुनर् वेपथुमता पाणि-तलेन क्षय-क्षाम-कण्ठश् च कृच्छ्राद् इव्âवदीत्: "वत्स! कृशो ऽसि" इति. भण्डिस् त्व् अकथयत्: "देव! तृतीयम् अहः कृत्âहारस्य्âस्य्âद्य" इति.
तच् छ्रुत्वा बाष्प-वेग-गृह्यमाण्âक्षरं कथं कथम् अप्य् आयतं निःश्वस्य्ôवाच: "वत्स! जानामि त्वां पितृ-प्रियम् अति-मृदु-हृदयम्. ईदृशेषु विधुरयति धीमतो ऽपि धियम्. अति-दुर्धरो बान्धव-स्नेहः सर्व-प्रमाथी. यतो न्âर्हस्य् आत्मानं शुचे दातुम्. उद्दाम-महा-दाह-ज्वर-दग्धो ऽपि दह्ये खल्व् अहम् अधिकतरम् अनेन्âयुष्मद्-आधिना. निशितम् इव शस्त्रं तक्ष्णोति मां त्वदीयस् तनिमा. सुखं च राज्यं च वंशश् च प्राणाश् च परलोकश् च त्वयि मे स्थिताः. यथा मम तथा सर्वासां प्रजानाम्. त्वद्-विधानां पीडाः पीडयन्ति सकलम् एव भुवन-तलम्. न न्य् अल्प-पुण्य-भाजां वंशम् अलं-कुर्वन्ति भवादृशाः फलम् अस्य्âनेक-जन्म्âन्तर्ôपार्जितस्य्âकलुषस्य कर्मणः. कर-तल-गतम् इव कथयन्ति चतुर्णाम् अप्य् अर्णवानाम् आधिपत्यं ते लक्षणानि. त्वज्-जन्मन्âइव कृत्âर्थो ऽस्मि. निर्-अभिलाषो ऽस्मि जीवितव्ये. भिषग्-अनुरोधः पाययति माम् औषधम्. अपि च वत्स! सर्व-प्रजा-पुण्यैः सकल-भुवन-तल-परिपालन्âर्थम् उत्पत्स्यमानानां भवादृशां जन्म-ग्रहण्ôपायः पितरौ. प्रजाभिस् तु बन्धुमन्तो राजानः, न ज्ञातिभिः. तद् उत्तिष्ठ. कुरु पुनर् एव सर्वाः क्रियाः. कृत्âहारे च त्वय्य् अहम् अपि स्वयम् उपयोक्ष्ये पथ्यम्" इत्य् एवम् अभिहितस्य च्âस्य धक्ष्यन्न् इव हृदयम् अतितरां शोक्âनलः संदुधुक्षे. क्षण-मात्रं च स्थित्वा पित्रा [159] पुनर् आहार्âर्थम् आदिश्यमानो धवल-गृहाद् अवततार. चकार च चेतसि: "अ-काण्डे खल्व् अयं समुपस्थितो महा-प्रलयो व्यभ्र इव वज्र-पातः. सामान्यो ऽपि तावच् छोकः, स्ôच्छ्वासं मरणम्, अन्-उपदिष्ट्âउषधो महा-व्याधिः, अ-भस्मी-करणो ऽग्नि-प्रवेशः, अन्-उपरतस्य्âइव नरक-वासः निर्-ज्योतिर्-अङ्गार-वर्षम् अ-शकली-करणं क्रकच-दारणम् अ-व्रणो वज्र-सूची-पातः. किम् उत विशेष-श्रितः. किम् अत्र करवाणि" इति.
राज-पुरुषेण्âधिष्ठितश् च गत्वा स्व-धाम धूम-मयान् इव कृत्âश्रु-पातान्, अग्नि-मयान् इव जनित-हृदय-दाहान्, विष-मयान् इव दत्त-मूर्च्छा-वेगान्. महा-पातक-मयान् इव्ôत्पादित-घृणान्, क्षार-मयान् इव्âनीत-वेदनान्, कति-चित् कवलान् अगृह्णात्. आचामंश् च चामर-ग्राहिणम् आदिदेश: "विज्ञाय्âगच्छ कथम् आस्ते तातः" इति. गत्वा च प्रतिनिवृत्त्य च "देव! तथ्âइव" इति विज्ञापितस् तेन्âगृहीत-ताम्बूल एव्ôत्ताम्यता मनस्âस्त्âभिलाषिणि सवितरि सर्वान् आहूय्ôपह्वरे वैद्यान्, "किम् अस्मिन्न् एवंविधे विधेयम् अधुना?" इति विषण्ण-हृदयः पप्रच्छ. ते तु व्यज्ञापयन्: "देव! धैर्यम् अवलम्बस्व. कतिपयैर् एव वासरैः पुनः स्वां प्रकृतिम् आपन्नं स्वस्थं श्रोष्यसि पितरम्" इति.
तेषां तु भिषजां मध्ये पौनर्वसवो युव्âष्टादश-वर्ष-देशीयस् तस्मिन्न् एव राज-कुले कुल-क्रम्âगतो गतः परम्पारम् अष्ट्âङ्गस्य्âयुर्-वेदस्य भूभुजा सुत-निर्-विशेषं लालितः प्रकृत्य्âइव्âति-पटीयस्या प्रज्ञया यथावद्-विज्ञाता व्याधि-स्वरूपाणां रसायनो नाम वैद्य-कुमारकः स्âस्रस् तुष्णीम् अधो-मुखो ऽभूत्. पृष्टश् च राज-सूनुना: "सखे रसायन! कथय तथ्यं यद् अ-साध्व् इव पश्यसि" इति. सो ऽब्रवीत्: "देव! श्वः प्रभाते यथ्âवस्थितम् आवेदयित्âस्मि" इति.
अत्र्âइव च्âन्तरे भवन-कमलिनी-पालः कोकम् आश्वासयन्न् अपर-वक्त्रम् उच्चैर् अपठत्:
"विहग! कुरु दृढं मनः स्वयं त्यज शुचम् आस्स्व विवेक-वर्त्मनि ।
सह कमल-सरोजिनी-श्रिया श्रयति सुमेरु-शिरो विरोचनः" ॥ 5.4 ॥
[160] तच् च्âकर्ण्य वाण्-निमित्त-ज्ञः पितरि सुतरां जीवित्âशां शिथिली-चकार. गतेषु च भिषक्षु क्षत-धृतिः क्षप्âमुखे क्षिति-पाल-समीपम् एव पुनर् आरुरोह. तत्र च: "दाहो महान्. आहर हारान् हरिणि! मणि-दर्पणान् मे देहे देहि वैदेहि! हिम-लवैर् लिम्प ललाटं लीलावति! घन-सार-क्षोद-धूलीर् निधेहि धवल्âक्षि! निक्षिप चक्षुषि चन्द्र-कान्तं कान्तिमति! कपोले कलय कुवलयं कलावति! चन्दन-चर्चां रचय चारुमति! पाटय पट-मारुतं पाटलिके! मन्दय दाहम् इन्दुमति! अरविन्दैर् जनय जल्âर्द्रया मुदं मदिरावति! समुपनय मृणालानि मालति! तरलय ताल-वृन्तम् आवन्तिके! मूर्धानं धावमानं बधान बन्धुमति! कन्धरां धारय धारणिके! उरसि स-शीकरं करं कुरु कुरङ्गवति! संवाहय बाहू बलाहिके! पीडय पादौ पद्मावति! गृहाण गाढम् अङ्गम् अनङ्गसेने! का वेला वर्तते विलासवति! न्âइति निद्रा, कथा कथय कुमुद्वति!" इत्य् एवं प्रायान् पितुर् आलापान् अनवरतम् आकर्णयन् दूयमान-हृदयो दुःख-दीर्घां जाग्रद् एव निशाम् अनैषीत्.
उषसि च्âवतीर्य राज-द्वार-देश्ôपसर्पिणा परिवर्धकेन्ôपस्थापिते ऽपि तुरङ्गे चरणाभ्याम् एव्âजगाम स्व-मन्दिरम्. तत्र च त्वरमाणो भ्रातुर् आगमन्âर्थम् उपर्य् उपरि क्षिप्र-पातिनो दीर्घ्âध्व-गान् अति-जविनश् च्ôष्ट्र-पालान् प्राहिणोत्. प्रक्षालित-वदनश् च परिजनेन्ôपनितम् अपि प्रति-कर्म न्âग्रहीत्. अग्रतः स्थितानां राज-पुत्र-यूनां वि-मनसां "रस्âयनो रस्âयनः" इति जल्पितम् अव्यक्तम् अश्रौषीत्. पर्यपृच्छच् च तान्: "भद्राः! किं रस्âयन!" इति. पृष्टाश् च ते सर्वे समम् एव तूष्णीं-बभूवुः. भूयो भूयश् च्âनुबध्यमाना दुःखेन कथं कथम् अप्य् आचचक्षिरे: "देव! पावकं प्रविष्टः" इति. तच् च श्रुत्वा प्लुष्ट इव्âन्तस्-तापेन सद्यो विव- [161] -र्णताम् अगात्. उत्पाट्यमानम् इव च न शशाक शोक्âन्धं धारयितुं हृदयम्. आसीच् च्âस्य चेतसि कामं स्वयं न भवति न तु श्रावयत्य् अ-प्रियं वचनम् अ-रति-करम् इतर इव्âभिजातो जनः. कृच्छ्रे च यथ्âनेन्âनुष्ठितम् उज्ज्वली-कृतम् अधिकतरं ज्वलन-प्रवेशेन कल्याण-प्रकृति-कार्तस्वरम् इव कौल-पुत्रम् अस्य्êति. पुनश् च्âचिन्तयत्: "समुचितम् एव्âथवा स्नेहस्य्êदम्. किम् अस्य तातो न तातः, किं व्âम्बा न जननी वयं न भ्रातरः. अन्यस्मिन्न् अपि तावत् स्वामिनि दुर्लभी-भवति भवन्त्य् असवो ध्रियमाणा ह्री-हेतवो लोके किम् उत्âमृत-मये ऽनुजीविनां निर्व्याज-बान्धवे ऽवन्ध्य-प्रसादे सु-गृहीत-नाम्नि ताते. संप्रति सांप्रतम् आचरितम् अनेन्âत्मानं दहता. किं व्âस्य्âकल्पम् अवस्थितस्य स्थेयसो यशो-मयस्य दह्यते. पतितः स केवलं दहने. दग्धास् तु वयम्. धन्यः खल्व् असाव् अग्रणीः पुण्य-भाजाम्. अ-पुण्य-भाक् त्व् इदम् एव राज-कुलं कुल-पुत्रेण यत् तादृशा वियुक्तम्. अपि च मम्âपि कः खल्व् एतेषां प्राणानां कार्य्âतिभारः कृत्य-शेषो वा, का वा व्यापृतता येन न्âद्य्âपि निष्ठुराः प्राणाः प्रतिष्ठन्ते. को व्âन्तरायो हृदयस्य येन सहस्रधा न दलत्îति." दुःख्âर्तश् च न जगाम राज-सद्म. समुत्ससर्ज च सर्व-कार्याणि. शयनीये निपत्य्ôत्तरीय-वाससा स्ôत्तम्âङ्गं आत्मान् अवगुण्ठ्य्âतिष्ठत्.
इत्थं-भूते च देवे हर्षे राजनि च तद्-अवस्थे सर्वस्य्âइव लोकस्य कपोलेषु कीलिता इव कराः, लोचनेषु लेप्य-मय्य इव्âश्रु-स्रुतयः, नास्âग्रेषु ग्रथिता इव दृष्टयः, कर्णेष्ûत्कीर्णा इव रुदित-ध्वनयः, जिह्वासु सह-जान्îव हा कष्टानि, लपनेषु पल्लवितान्îव श्वसितानि, अधरेषु लिखितान्îव परिदेवित-पदानि, हृदयेषु निधानी-कृतान्îव दुःखान्य् अभवन्. उष्ण्âश्रु-दाह-भीत्êव न्âभजत नेत्र्ôदराणि निद्रा. निःश्वास-वात-विधूता इव व्यलीयन्त हासाः. निर्-अवशेष-दग्ध्êव च संतापेन न प्रवर्तत वाणी. कथास्व् अपि न्âश्रूयन्त परिहासाः. क्व्âप्य् अगमन्न् इति न्âज्ञायन्त गीत-गोष्ठ्यः. जन्म्âन्तर्âतीतान्îव न्âस्मर्यन्त लास्यानि. स्वप्ने ऽपि न्âगृह्यन्त प्रसाधनानि. वार्त्âपि न्âल- [162] -भ्यत्ôपभोगानाम्. नाम्âपि न्âकीर्त्यत्âहारस्य. ख-पुष्प-प्रतिमान्य् आसन्न् आपान-मण्डलानि. लोक्âन्तरम् इव्âनीयन्त बन्दि-वाचः. युग्âन्तर इव्âवर्तन्त निवृत्तयः. पुनर् इव्âदह्यत शोक्âग्निना मकर-केतुः. दिवापि न्âमुच्यन्त शयनानि. शनैः शनैश् च महा-पुरुष-विनिपात-पिशुनाः समं समन्तात् समुदभवन् भुवने भूयांसो भू-पतेर् अभावाय भयम् उत्पादयन्तो भूतानां मह्ôत्पाताः.
तथा हि दोलायमान-सकल-कुल्âचल-चक्रवाला पत्या सार्धं गन्तु-काम्êव प्रथमम् अचलद् धरित्री. धान्वन्तरेर् इव्âन्तरे तस्मिन् स्मरन्तः परस्पर्âस्फालन-वाचाल-वीचयो विजुघूर्णिरे ऽर्णवाः. भूभृद्-अभाव-भीतानां वितत-शिखि-कलाप-विकट-कुटिलाः केश-पाशा इव्ôर्ध्वी-बभूवुर् धूम-केतवः ककुभाम्. धूम-केतु-करालित-दिङ्-मुखं दिक्-पाल्âरब्ध्âयुष्-काम-होम-धूम-धूम्रम् इव्âभवद् भुवनम्. भ्रष्ट-भासि तप्त-कालायस-कुम्भ-बभ्रुणि भानु-मण्डले भयंकर-कबन्ध-काय-व्याजेन को ऽपि पार्थिव-प्राणित्âर्थी पुरुष्ôपहारम् इव्ôपजहार. ज्वलित-परिवेष-मण्डल्âभोग-भास्वरो जिघृक्षा-जृम्भमाण-स्वर्-भानु-भयाद् उपरचित्âग्नि-प्राकार इव प्रत्यदृश्यत श्वेत-भानुः. अवनि-पति-प्रताप-प्रसाधिताः प्रथमतर-कृत-पावक-प्रवेशा इव्âदह्यन्त्âनुरक्ता दिशः. स्रुत-शोणित-शीकर्âसार्âरुणित-तनुर् अनुमरणाय प्रावृत-पाटल्âंशु-कपट्êव्âदृश्यत वसुधा-वधूः. नर्âधिप-विनाश-संभ्रम-भीतैर् लोक-पालैर् इव कालायस-कवाट-पुटैर् अकाल-काल-मेघ-पटलैर् अरुध्यन्त दिग्-द्वाराणि. प्रेत-पति-प्रयाण-प्रहताः पटवः पटहा इव्âरटन्तो हृदय-स्फोटनाः पस्फायिरे निपततां निर्घातानां घोरा घन-निर्-घोषाः. निकटी-भवद्-यम-महिष-खुर-पुट्ôद्भूता इव द्युमणि-धाम धूसरी-चक्रुः क्रमेलक-कच-कपिलाः पांशु-वृष्टयः. वि-रस-विराविणीनाम् उन्मुखीनां शिखिनो ज्वालाः प्रतीच्छन्त्य इव पतन्तीर् उल्का नभसो ववाशिरे शिवानां राजयः. राज-धामनि धूमायमान-कबरी-विभाग-विभावित-विकाराः प्रकीर्ण-केश-पाश-प्रकाशित-शोका इव प्राकाशन्त प्रतिमाः कुल-देवतानाम्. उपसिंह्âसनम् आकुलं काल-रात्रि-विधूयमान-वृजिन- [163] - चेणी -बन्ध-विभ्रमं बिभ्राणं बभ्राम भ्रामरं पटलम्. अटताम् अन्तःपुरस्य्ôपरि क्षणम् अपि न शशाम व्याक्रोशी वायसानाम्. श्वेत्âतपत्र-मण्डल-मध्याज् जीवितम् इव राज्यस्य सरस-पिशित-पिण्ड-लोहितं चञ्चच्-चञ्चुर् उच्चैर् उच्चखान खण्डं मणिक्यस्य कूजज्-जरद्-गृध्रो मह्ôत्पात-दूयमानश् च कथम् अपि निनाय निशाम्.
अन्यस्मिन्न् अहनि समीपम् अस्य राज-कुलाद् द्रुत-गति-विश-विशीर्यमाण्âलंकार-झांकारिणी विजय-घोषेण्êव विषादस्य्âकुल-चरण-चलत्-तुला-कोटि-क्वणित-वाच्âलिताभिर् उद्ग्रीवाभिः, किं किम् एतद् इति पृच्छ्यमान्êव दूराद् एव भवन-हंसीभिः, स्खलित-विशाल-श्रोणि-शिञ्जान-रशन्âनुराविणीभिश् च बाष्प्âन्धा समुपदिश्यमान-मार्ग्êव गृह-सारसीभिः अ-दृष्ट-कवाट-पट्ट-संघट्ट-स्फुटित-ललाट-पट्ट-रुधिर-पटलेन पट्âन्तेन्êव रक्त्âंशुकस्य मुखम् आच्छाद्य प्ररुदती, संताप-बल-विलीन-कनक-वलय-रस-धाराम् इव वेत्र-लताम् उत्सृजन्ती, मुख-मरुत्-तरङ्गिताम् उत्तरीय्âंशुक-पटीं स्फुरन्ती फणिन्îव निर्मोक-मञ्जरीम् आकर्षन्ती, नम्र्âंस-स्रंसिन्âनिल-विलोलेन नीलतमेन तमाल-पल्लव-चीर-चीवरेण्êव शोक्ôचितेन धम्मिल्ल-रचना-रहितेन शिरो-रुह-संचयेन चञ्चता प्रावृत-कुचा, कुच-ताडन-पीडया समुच्छून्âताम्र-श्याम-तलं मुहुर् मुहुर् अत्य्-उष्ण्âश्रु-प्रमार्जन-प्रदग्धम् इव कर-किसलयं धुनाना, चक्षुर्-निर्झरे शीर्यति स्नपयन्त्îव शोक्âग्नि-प्रवेशाय स्व-कपोल-तल-प्रतिबिम्बितम् आसन्न-लोकं लोल-लोचन-प्रवृत्तैस् तरलैस् तारक्âंशुभिः श्यामायमानम् आत्म-दुःखेन दिवसम् अपि दहन्त्îव "क्व कुमारः क्व कुमारः?" इति प्रति-पुरुषं पृच्छन्ती वेल्êति नाम्ना यशोमत्याः प्रतीहार्य्âजगाम. विषण्ण-लोक-लोचन-प्रत्युद्गता च्ôपसृत्य कुट्टिम-न्यस्त-हस्त-युगला गलन्तीभिः सिञ्चन्त्îव शुष्यन्तं दशन-दीधिति-धाराभिर् आधूसरम् अधरम् अधो-मुखी विज्ञापितवती: "देव! परित्रायस्व परित्रायस्व. जीवत्य् एव भर्तरि किम् अप्य् अध्यवसितं देव्या" इति.
ततस् तद् अपरम् आकर्ण्य च्युत इव सत्त्वेन, द्रुत इव दुःखेन, आचान्त इव चिन्तया, तुलित इव तापेन, अङ्गी-कृत इव्âङ्गेन्âप्रतिपत्तिर् आसीत्. आसीच् च्âस्य चेतसि: "प्रतिपन्न-संज्ञस्य बहुशो ऽपि [164] हृदये दुःख्âभिषङ्गो निपतन्न् अश्मन्îव लोह-प्रहारः कठिने हुत-भुजम् उत्थापयति न तु भस्मसात्-करोति मे निर्-अनुक्रोशस्य कायम्" इति. उत्थाय च त्वरमाणो ऽन्तःपुरम् अगात्. तत्र च मर्तुम् उद्यतानां राज-महिषीणां अशृणोद् दुराद् एव "तात चूत! चिन्तय्âत्मानं प्रवसति ते जननी. वत्स जाती-गुच्छ! गच्छाम्य् आपृच्छस्व माम्. मया विन्âद्य्âनाथा भवसि भगिनि भवन-दाडिम-लते! रक्त्âशोक! मर्षणीयाः पाद-प्रहाराः कर्ण-पूर-पल्लव-भङ्ग्âपराधाश् च. पुत्रक! अन्तःपुर-बाल-बकुलक वारुणी-गण्डूष-ग्रहण-दुर्-ललित! दृष्टो ऽसि. वत्से प्रियङ्गु-लतिके! गाढम् आलिङ्ग मां दुर्लभा भवामि ते. भद्र भवन-द्वार-सहकारक! दातव्यो निवाप-तोय्âञ्जलिर् अपत्यम् असि. भ्रातः पञ्जर-शुक! यथा न विस्मरसि माम्, किं व्याहरसि दूरी-भूत्âस्मि ते? शारिके! स्वप्ने नः समागमः पुनर् भूयात्. मातः! मार्ग-लग्नं कस्य समर्पयामि गृह-मयूरकम्? अम्ब! सुतवल् लालनीयम् इदं हंस-मिथुनं मन्द-पुण्यया मया न संभावितो ऽस्य चक्रवाक-युगलस्य विबाह्ôत्सवः. मातृ-वत्सले! निवर्तस्व. गृह-हरिणिके! समुपनय सौविदल्ल-वल्लभ-वल्लकीं परिष्वजे तावद् एनाम्. चन्द्रसेने! सुदृष्टः क्रियताम् अयं जनः. बिन्दुमति! इयं ते ऽन्त्या वन्दना. चेटि! मुञ्च चरणौ. आर्ये! कात्यायनिके किं रोदिषि नीत्âस्मि दैवेन. तात कञ्चुकिन्! किं माम् अ-लक्षणां प्रदक्षिणी-करोषि. धात्रेयि! धारय्âत्मानं किं पादयोः पतसि. भगिनि! गृहाण माम् अ-पश्चिमां कण्ठे कष्टं न दृष्टा प्रिय-सखी मलयवती. कुरङ्गवति! अयम् आमन्त्रण्âञ्जलिः. सानुमति! अयम् अन्त्यः प्रणामः. कुवलयवति! एष ते ऽवसान-परिष्वङ्गः. सख्यः! क्षन्तव्याः प्रणय-कलहाः इत्य् एवं-प्रायान् आलापान्.
दह्यमान-श्रवणश् च तैः प्रविशन्न् एव निर्यान्तीं दत्त-सर्व-स्वापतेयां गृहीत-मरण-प्रसाधनाम्, जानकीम् इव जात-वेदसं पत्युः पुरः प्रवेक्ष्यन्तीं, प्रत्यग्र-स्नान्âर्द्र-देहतया श्रियम् इव भगवतीं सद्यः समुद्राद् उत्थिताम्, कुसुम्भ-बभ्रुणी वाससी दिवम् इव तेजसी सांध्ये दधानाम्, ताम्बूल-दिग्ध-राग्âन्धकार्âधर-प्रभा-पट-पाटलं पट्ट्âंशुकम् इव विधवा-मरण-चिह्नम् अङ्ग-लग्नम् उद्वहन्तीम्, रक्त-कण्ठ-सूत्रेण कुच्âन्तर्âवल- [165] -म्बिना स्फुटित-हृदय-विगलित-रुधिर-धार्âशङ्कां कुर्वन्तीं, तिर्यक्-कुटिल-कुण्डल-कोटि-कण्टक्âकृष्ट-तन्तुना हारेण वलितेन सित्âंशुक-पाशेन्êव कण्ठम् उत्पीडयन्तीम्, सरस-कुङ्कुम्âङ्ग-रागतया कवलिताम् इव दिधक्षता चित्âर्चिष्मता चित्âनल्âर्चन-कुसुमैर् इव धवल-धवलैर् अश्रु-बिन्दुभिर् अंशुक्ôत्सङ्गम् आपूरयन्तीम्, गृह-देवत्âमन्त्रण-बलिम् इव वलयैर् विगलद्भिः पदे पदे विकिरन्तीम् आप्रपदीनाम्, कण्ठे गुण-कुसुम-मालां यम-दोलाम् इव्âरूढाम्, अन्तर्-गुञ्जन्-मधुकर-मुखरेण्âमन्त्र्यमाण-लोचन्ôत्पलाम् इव कर्ण्ôत्पलेन प्रदक्षिणी-क्रियमाणम् इव मणि-नूपुर-बन्धुभिर् बद्ध-मण्डलं भ्रमद्भिर् भवन-हंसैः संनिहित-प्राण-समं मरणाय चित्तम् इव चित्र-फलकम् अ-विचलं धारयन्तीम्, अर्च्âबद्ध्ôद्धूयमान-धवल-पुष्प-दामकाम्, पति-व्रता-पताकाम् इव पति-प्रास-यष्टिम् इष्टाम् उपगूहमानाम्, बन्धोर् इव निज-चारित्रस्य धवलस्य नृ-पात-पत्रस्य पुरो नेत्र्ôदकम् उत्सृजन्तीम्, पत्युः पाद-पतन-समुद्वमद्-अभ्यधिक-बाष्प्âम्भः-प्रवाह-प्रतिरुद्ध-दृशः कथम् अपि प्रतिपन्न्âदेशान् सचिवान् संदिशन्तीम्, अनुनय-निवर्तित-विधुर-वृद्ध-बन्धु-वर्ग-वर्धमान-ध्वनिभिर् गृह्âक्रन्दैर् आकृष्यमाण-श्रवणाम्, भर्तृ-भाषित-निभैः पञ्जर-सिंह-बृंहितैर् ह्रियमाण-हृदयाम्, धात्र्या भर्तृ-भक्त्या च निजया प्रसाधिताम्, मूर्च्छया जरत्या च संस्तुतया धार्यमाणाम्, सख्या पीडया च व्यसन-संगतया समालिङ्गिताम्, परिजनेन संतापेन च गृहीत-सर्व्âवयवेन परीताम्, कुल-पुत्र्ôच्छ्वसितैश् च महत्तरैर् अधिष्ठिताम्, कञ्चुकिभिर् दुःखैश् च्âतिवृद्धैर् अनुगताम्, भू-पाल-वल्लभान् कौलेयकान् अपि सास्रम् आलोकयन्तीम्, स-पत्नीनाम् अपि पादयोः पतन्तीम्, चित्र-पुत्रिकाम् अप्य् आमन्त्रयमाणाम्, गृह-पतत्रिणाम् अप्य् अञ्जलिं पुरस्ताद् उपरचयन्तीम्, पशून् अप्य् आपृच्छ्यमानाम्, भवन-पादपान् अपि परिष्वज्यमानां मातरं ददर्श.
दूराद् एव च बाष्पायमाण-दृष्टिर् अभ्यधात्: अम्ब! त्वम् अओउ मां मन्द-पुण्यं त्यजसि? प्रसीद निवर्तस्व" इत्य् अभिदधान एव च स-स्नेहम् इव नूपुर-मणि-मरीचिभिश् चुम्ब्यमान-चूडश् चरणयोर् न्यपतत्. देवी तु यशोमती तथा तिष्ठति पाप-निहित-शिरसि वि-मनसि [166] कनीयसि प्रेयसि तनये गुरुणा गिरिण्êव्ôद्वेग्âवेगेन्âवष्टभ्यमाना, मूर्च्छ्âन्ध-तमसं रसा-तलम् इव प्रविशन्ती, बाष्प-प्रवाहेण्êव चिर-निरोध-संपिण्डितेन स्नेह-संभारेण निर्भर्âविर्-भूतेन्âभिभूयमाना, कृत-प्रयत्न्âपि निवारयितुं न शशाक बाष्प्ôत्पतनम्. उत्कट-कुच्ôत्कम्प-प्रकटित्âसह्य-शोक्âकूता च गद्गदिका-गृह्यमाण-गल-विकला निः-सामान्य-मन्यु-तरली-क्रियमाण्âधर्ôद्देशा पुनर्-उक्त-स्फुरण-निबिडित-नासा-पुटा निमील्य नयने नयन्âम्भः-सेक-प्लवेन प्लावयन्ती विमलौ कपोलौ संच्छाद्य कर-नख-मयूख-माला-खचित-तनुना तन्व्-अन्तर-निर्गच्छद्-अच्छ्âस्र-स्रोत-सेव्âंशुक-पट्âन्तेन किं-चिद् उत्तानितम् वदन्êन्दुं दूयमान-मानसा स्मरन्ती प्रस्नुत-स्तनी प्रसव-दिवसाद् आरभ्य सकलम् अङ्क-शायिनः शैशवम् अस्य ज्ञाति-गृह-गत-हृदया "अम्ब, तात! न पश्यतं पापां पर-लोक-प्रस्थितां माम् एवम् अति-दुःखिताम्" इति मुहुर् मुहुर् आक्रन्दती पितरौ "हा वत्स! विश्रान्त-भाग-धेयया न दृष्टो ऽसि" इति प्रेष्ठं ज्येष्ठं तनयम् अ-संनिहितं क्रोशन्ती "अ-नाथा जाता" इति श्वशुर-कुल-वर्तिनीं दुहितरम् अनुशोचन्ती "निष्-करुण! किम् अपराद्धं तव्âमुना जनेन?" इति दैवम् उपालभमाना, "न्âस्ति मत्-समा सीमन्तिनी दुःख-भागिनी" इति निन्दन्ती बहु-विधम् आत्मानम्, "मुषित्âस्मि कृत्âन्त नृ-शंस! त्वया" इत्य् अकाण्डे कृत्âन्तं गर्हमाणा मुक्त-कण्ठम् अति-चिरं प्राकृत-प्रमद्êव प्रारोदीत्.
प्रशान्ते च मन्यु-वेगे स-स्नेहम् उत्थापयाम् आस सुतम्. हस्तेन च्âस्य प्ररुदितस्य पक्ष्म-पाली-पुञ्ज्यमान्âश्रु-कण-निवहां द्रुताम् इव्âधिकतरं क्षरन्तीं दृष्टिम् उन्ममार्ज. स्वयम् अपि कठोर-राग-परिपीयमानेन धवलिम्ना मुच्यमान्ôदरे क्वथद्-अश्रु-स्रवत्-पर्यन्ते शुक्ल-शीकर-तार-तारकित-पक्ष्मणी सूक्ष्मतर्âश्रु-बिन्दु-परिपाटी-पतन्âनुबन्ध-विधुरे लोचने पुनः पुनर् आपूर्यमाणे प्रमृज्य बाष्प्âर्द्र-गण्ड-गृहीतां च श्रवण-शिखरम् आरोप्य शोक-लम्बाम् अलक-लताम् अधः-स्रस्त-विलोल-बालिका-व्याकुलितां च समुत्सार्य तिरश्चीं चिकुर-सटाम् अश्रु-प्रवाह-पूरितम् आर्द्रं च किं-चिच् च्युतम् उत्क्षिप्य हस्तेन स्तन्ôत्तरीयं तरङ्गितम् इव नख्âंशु-पटलेन मग्न्âंशुक-पट्âन्त-तनु-ताम्र-लेखा-लाञ्छित-लावण्य-कुञ्जिका-वर्जित-राजत-राज-हंस्âस्य-समुद्गीर्णेन पयसा प्रक्षाल्य मुख-कमलं कल-मूक-लोक-विधृते वासः-शकले शुचिनि समुन्मृज्ज्य पाणी सुत-वदन-विनिहित-निभृत-नयन-युगला चिरं [167] स्थित्वा पुनः पुनर् आयतं निःश्वस्य्âवादीत्: "वत्स! न्âस्ति न प्रियो निर्-गुणो वा परित्याग्âर्हो वा. स्तन्येन्âइव सह त्वया पीतं मे हृदयम्. अस्मिंश् च समये प्रभूत-प्रभु-प्रसाद्âन्तरिता त्वां न पश्यति दृष्टिः. अपि च पुत्रक! पुरुष्âन्तर-विलोक-नव्य-सनिनी राज्य्ôपकरणम् अ-करुणा वा न्âस्मि लक्ष्मीः क्षमा वा. कुल-कलत्रम् अस्मि चारित्र-मात्र-धना धर्म-धवले कुले जाता. किं विस्मृतो ऽसि मां समर-शत-शौण्डस्य पुरुष-प्रकाण्डस्य केसरिण इव केसरिणीं गृहिणीम्? वीर-जा वीर-जाया वीर-जननी च मा-दृशी पराक्रम-क्रय-क्रीता कथम् अन्यथा कुर्यात्. एवं-विधेन पित्रा ते भरत-भगीरथ-नाभाग-निभेन नर्êन्द्र-वृन्दारकेण गृहीतः पाणिः. आसेवितः सेवा-संभ्रान्त्âनन्त-सामन्त-सीमन्तिनी-समावर्जित-जाम्बू-नद-घट्âभिषेकः शिरसा. लब्धो मनोरथ-दुर्लभो महा-देवी-पट्ट-बन्ध-सत्कार-लाभो ललाटेन. आपीतौ युष्मद्-विधैः पुत्रैर् अ-मित्र-कलत्र-बन्दि-वृन्द-विधूयमान-चामर-मरुच्-चल-चीन्âंशुक-धरौ पयोधरौ. स-पत्नीनां शिरःसु निहितं नमन्-निखिल-कटक-कुटुम्बिनी-किरीट-माणिक्य-माल्âर्चितं चरण-युगलकम्. एवं कृत्âर्थ-सर्व्âवयवा किम् अपरम् अपेक्षे क्षीण-पुण्या? मर्तुम् अ-विधव्âइव वाञ्छामि. न च शक्नोमि दग्धस्य स्व-भर्तुर् आर्य-पुत्र-विरहिता रतिर् इव निर्-अर्थकान् प्रलापान् कर्तुम्. पितुश् च ते पाद-धूलिर् इव प्रथमं गगन-गमनम् आवेदयन्ती बहु-मता भविष्यामि शूर्âनुरागिणीनां सुर्âङ्गनानाम्. प्रत्यग्र-दृष्ट-दारुण-दुःख-दग्धायाश् च मे किं धक्ष्यति धूम-ध्वजः. मरणाच् च मे जीवितम् एव्âस्मिन् समये साहसम्. अति-शीलः पति-शोक्âनलाद् अ-क्षय-स्नेह्êन्धनाद् अस्माद् अनलः. कैलास-कल्पे प्रवसति जीव्êश्वरे जरत्-तृण-कणिका-लघीयसि जीविते लोभ इति क्व घटते? अपि च जीवन्तीम् अपि मां नर-पति-मरण्âवधीरण-महा-पातकिनीं न स्प्रक्ष्यन्ति पुत्र! पुत्र-राज्य-सुखानि. दुःख-दग्धानां च भूतिर् अ-मङ्गला च्â-प्रशस्ता च निर्-उपयोगा च भवति. वत्स! विश्वस्तानां यशसा स्थातुम् इच्छामि लोके न वपुषा. तद् अहम् एव त्वां तावत् तात! प्रसादयामि न पुनर् मनोरथ-प्रातिकूल्येन कद्-अर्थनीय्âस्मि." इत्य् उक्त्वा पादयोर् अपतत्.
[168] स तु स-संभ्रमम् अपनीय चरण-युगलम् अवनमित-तनुर् उभय-कर-विधृत-वपुषम् अवनि-तल-गत-शिरसम् उदनमयन् मातरम्. दुर्-निवारतां च शुचः समवधार्य कुल-योषिद्-उचितां च ताम् एव श्रेयसीं मन्यमानः क्रियां कृत-निश्चयां च तां ज्ञात्वा तूष्णीम् अधो-मुखो ऽभवत्.
अभिनन्दन्ति हि स्नेह-कातर्âपि कुलीनता देश-काल्âनुरूपम्. देव्य् अपि यशोमती परिष्वज्य समाघ्राय च शिरसि निर्गत्य चरणाभ्याम् एव च्âन्तःपुरात् पौर्âक्रन्द-प्रतिशब्द-निर्भराभिर् उपरुध्यमान्êव दिग्भिः सरस्वती-तीरं ययौ. तत्र च स्त्री-स्व-भाव-कातरैर् दृष्टि-पातैः प्रविकसित-रक्त-पङ्कज-पुञ्जैर् इव्âर्चयित्वा भगवन्तं भानुमन्तम् इव मूर्तिर् ऐन्दवी चित्र-भानुं प्राविशत्. इतरो ऽपि मातृ-मरण-विह्वलो बन्धु-वर्ग-परिवृतः पितुः पार्श्वं प्रायात्. अपश्यच् च स्वल्प्âवशेष-प्राण-वृत्तिं परिवर्त्यमान-तारकं तारक-राजम् इव्âस्तम् अभिलषन्तं जनयितारम्. अ-सह्य-शोक्ôद्रेक्âभिद्रुतश् च त्याजितः स्नेहेन धैर्यम्. आश्लिष्य्âस्य सकल-दुर्मद-मही-पाल-मौलि-माला-लालितौ पाद-पद्माव् अन्तस्-तापान् मुख-चन्द्रम् इव द्रवी-भवन्तं दशन-ज्योत्स्ना-जालम् इव जलताम् आपद्यमानं लोचन-लावण्यम् इव विलीयमानं मुख-सुधा-रसम् इव स्यन्दमानम् अच्छ्âच्छम् अश्रु-स्रोतसां संतानं महा-मेघ-मय-विलोचन इव वर्षन् नितरवद्-विमुक्त्âरावश् चिरं रुरोद.
राजा तु तम् उपरुध्यमान-दृष्टिर् अ-विरत-रुदित-शब्द्âश्रित-श्रवणः प्रत्यभिज्ञाय शनैः शनैर् अवादीत्: "पुत्र! न्âर्हस्य् एवं भवितुम्. भवद्-विधा न ह्य् अ-महा-सत्त्वाः. महा-सत्त्वता हि प्रथमम् अवलम्बनं लोकस्य पश्चाद् राज-वीजिता. सत्त्ववतां च्âग्रणीः सर्व्âतिशय्âश्रितः क्व भवान्, क्व वैक्लव्यम्?" "कुल-प्रदीपो ऽसि" इति दिवस-कर-सदृश-तेजसस् ते लघू-करणम् इव. "पुरुष-सिंहो ऽसि" इति शौर्य-पटु-प्रज्ञ्ôपबृंहित-पराक्रमस्य निन्द्êव. "क्षितिर् इयं तव" इति लक्षण्âख्यात-चक्रवर्ति-पदस्य पुनर्-उक्तम् इव. "गृह्यतां श्रीः" इति स्वयम् एव श्रिया परिगृहीतस्य विपरीतम् इव. "अध्यास्यताम् अयं लोकः" इत्य् उभय-लोक-विजिगीषोर् अ-पुष्कलम् इव. "स्वी-क्रियतां कोश" इति शशि-कर-निकर-निर्-मल-यशः-संचय्âइ- [169] -क्âभिनिवेशिनो निर्-उपयोगम् इव. "आत्मी-क्रियतां राजकम्" इति गुण-गण्âत्मी-कृत-जगतो गत्âर्थम् इव. "उह्यतां राज्य-भारः" इति भुवन-त्रय-भार-वहन्ôचितस्य्âनुचित-वियोग इव. "प्रजाः परिरक्ष्यन्ताम्" इति दीर्घ-दोर्-दण्ड्âर्गलित-दिङ्-मुखस्य्âनुवाद इव. "परिजनः परिपाल्यताम्" इति लोक-पाल्ôपमस्य्âनुषङ्गिकम् इव. "सातत्येन शस्त्र्âभ्यासः कार्यः" इति धनुर्-गुण-किण-कलङ्क-काली-कृत-प्रकोष्ठस्य किम् आदिश्यते. "निग्राह्यतां चापल-जातम्" इति नूतनतर-वयसि निगृहीत्êन्द्रियस्य निर्-अवकाश्êव मे वाणी. "निर्-अवशेषतां शत्रवो नेयाः" इति सहजस्य तेजस एव्êयं चिन्ता." इत्य् एवं वदन्न् एव्â-पुनर्-उन्मीलनाय निमिमील राज-सिंहो लोचने प्रत्यपद्यत च पूष्âत्मजः.
अस्मिन्न् एव्âन्तरे पूष्âप्य् आयुष्êव तेजसा व्ययुज्यत ततश् च लज्जमान इव नर-पति-जीवित्âपहरण-जनिताद् आत्मज्âपराधाद् अधो-मुखः समभवत्. भू-पाल्âभाव-शोक-शिखिन्êव्âन्तस्-ताप्यमानस् ताम्रतां प्रपेदे. मन्दं मन्दम् अ-प्रिय-प्रश्न्âर्थम् इव लौकिकीं स्थितिम् अनुवर्तमानो ऽवातरद् दिवः. दित्सुर् इव जन्êशाय जन्âञ्जलिम् अपर-जल-निधि-समीपम् उपससर्प. सद्यो-दत्त-जल्âञ्जलिर् दुःख-दहन-दग्धम् इव कर-सहस्रम् आलोहितम् आधत्त.
एवं च महा-नर्âधिप-निधन-निधीयमान-विपुल-वैरग्य इव शान्त-वपुषि, विशति गिरि-गुहा-गह्वरं गभस्ति-मालिनि, समुप्ôह्यमान-महा-जन्âश्रु-दुर्दिन्âर्द्री-कृत इव निर्वार्त्य्âतपे, रोदन-ताम्र-सकल-लोक-लोचन-रुच्êव लोहितायति जगति, उष्णायमान्âनेक-नर-निःश्वास-संताप-प्लुष्ट इव च नीलायमाने दिवसे, नृप्âनुगमन-प्रचलितय्êव लक्ष्म्या मुच्यमानासु कमलिनीषु, पति-शुच्êव परिवृतच्-छायायां श्यामायमानायां भुवि कुल-पत्रेष्व् इव परित्यक्त-कलत्रेषु, कृत-करुण-प्रलापेषु वन्âन्तान् आश्रयत्सु दुःखितेषु चक्र-वाकेषु, छत्र-भङ्ग-भीतेष्व् इव निगूढ- [170] -कोशेषु कुशेशयेषु स्फुटित-दिग्-वधू-हृदय-रुधिर-पटल-प्लव इव गलिते रक्त्âतपे, क्रमेण च लोक्âन्तरम् उपगतवत्य् अनुराग-शेषे जाते तेजसाम् अधीशे, गगन-तल-वितन्यमान-बहल-राग-पाटलायां प्रेत-पताकायाम् इव प्रवृत्तायां संध्यायां, शव-शिबिक्âलंकार-कृष्ण-चामर-मालास्व् इव स्फुरन्तीषु दर्शन-प्रतिकूलासु तिमिर-लेखासु, असित्âगुरु-काल-काष्ठायां केन्âपि चितायाम् इव रचितायां रजन्यां, दन्त्âमल-पत्र-प्रसाधित-कर्णिकासु केसर-माला-कल्पित-मुण्ड-मालिकासु, अनुमर्तुम् इव्ôद्यतासु प्रहसित-मुखीषु कुमुद-लक्ष्मीषु, अवतरत्-त्रिदश-विमान-किङ्किणी-क्वणित इव श्रूयमाणे, शाखि-शिखर-कुलाय-लीयमान-शकुनि-कुल-कूजिते, नाक-पथ-प्रस्थित-पार्थिव-प्रत्युद्गत-पुरु-हूत्âतपत्र इव पूर्वस्यां दिशि दृश्यमाने चन्द्रमसि, नर्êन्द्रः स्वयं समर्पित-स्कन्धैर् गृहीत्वा शव-शिबिकां शिबि-समः सामन्तैः पौरैश् च पुरोहित-पुरःसरैः सरितं सरस्वतीं नीत्वा नर-पति-समुचितायां चितायां हुत्âश-सत्क्रियया यशः-शेषताम् अनीयत.
देवो ऽपि हर्षः पुञ्जी-भूतेन सकलेन्êव जीव-लोकेन लोकेन राज-कुल-संबद्धेन्â-शेषेण शोक-मूकेन परिवृतो ऽन्तर्-वर्तिन्âपि शोक्âनल-तप्तेन स्नेह-द्रवेण बहिर् इव सिच्यमानो निर्व्यवधानायां धरण्याम् उपविष्ट एव तां निशीथिनीं भीमरथी-भीमाम् अखिलां स-राजको जजागार. अजनि च्âस्य चेतसि ताते दूरी-भूते संप्रत्य् एतावान् खलु जीव-लोकः, लोकस्य भग्नाः पन्थानः, मनोरथानां खिली-भूतानि भूति-स्थानानि, स्थगितान्य् आनन्दस्य द्वाराणि, सुप्ता सत्य-वादिता, लुप्ता लोक-यात्रा, विलीना बाहु-शालिता, प्रलीना प्रिय्âलापिता, प्रोषिताः पुरुष-कार-विहार-विकाराः, समाप्ता समर-शौण्डता, ध्वस्ता पर-गुण-प्रीतिः, विश्रान्ता विश्वास-भूमयः, अपदान्य् अपदानानि, निर्-उपयोगानि शास्त्राणि, निर्-अवलम्बना विक्रम्âइक-रसता, कथ्âवशेषा विशेष-ज्ञता, ददातु जनो जल्âञ्जलिम् और्जित्याय, प्रतिपद्यतां प्रव्रज्यां प्रजा-पाल- [171] -ता बध्नातु वैधव्य-वेणीं वर-मनुष्यता, समाश्रयतु राज-श्रीर् आश्रम-पदम्, परिधत्तां धवले वाससी वसुमती, वहतु वल्कले विलासिता, तपस्यतु तपो-वनेषु तेजस्विता, प्रावृणोतु चीवरे वीरता, क्व गम्यतां पुनस् तस्य कृते कृत-ज्ञतया, क्व पुनः प्राप्स्यति तादृशान् महा-पुरुष-निर्माण-परम्âणून् परम्êष्ठी, शून्याः संवृत्ता दश दिशो गुणानाम्, जगज् जातम् अन्धकारं धर्मस्य, निष्-फलम् अधुना जन्म शस्त्र्ôपजीविनाम्. तातेन विना कुतस् त्यास् तादृश्यो दिवसम् असम-समर-रस-समारब्ध-कलह-कथा-कण्टकित-सुभट-कपोल-भित्तयो वीर-गोष्ठ्यः. अपि नाम स्वप्ने ऽपि दृश्येत दीर्घ-रक्त-नयनं पुनस् तन्-मुख-सरोजम्, जन्म्âन्तरे ऽपि पुनः परिष्वज्येत तल्-लोह-स्तम्भ्âभ्यधिक-गरिम-गर्भं भुज-युगलम्. लोक्âन्तरे ऽपि पुत्र्êत्य् आलपतः पुनः पुनः श्रूयेत सा सुधा-रसम् उद्गिरन्ती मथ्यमान-क्षीर-सागर्ôद्गार-गम्भीरा भारत्îति. एतानि च्âन्यानि च चिन्तयत एव्âस्य कथम् अपि सा क्षयम् इयाय यामिनी.
ततः शुच्êव मुक्त-कण्ठम् आरटत्सु कृकवाक-कुलेषु, गृह-गिरि-तरु- शिखरेभ्यः पातयत्स्व् आत्मानं मन्दिर-मयूरेषु, परित्यक्त-निज-निवासेषु च वनाय प्रस्थितेषु पत्र-रथेषु, सद्यस्-तनू-भूते ताम्यति तमसि, मन्दी-भूत्âत्म-स्नेहेष्व् अ-भावम् अभिलषत्सु प्रदीपेषु, स्फुरद्-अरुण-किरण-वल्कल-प्रावृत-वपुषि प्रव्रज्याम् इव प्रतिपन्ने नभसि, प्रभात-समयेन समुत्तीर्यमाणासु पार्थिव्âस्थि-शकल-कलास्व् इव कलविङ्क-कंधरा-धूसरासु तारकासु, भू-भृद्-धातु-गर्भ-कुम्भ-धारिषु विविध-सरः-सरित्-तीर्थ्âभिमुखेषु प्रस्थितेषु वन-करि-कुलेषु, शाव-शुचि-सिक्थ-पटल-पाण्डुरे, पिण्ड इव्âपर-पयो-निधि-पुलिन-परिसरे, पात्यमाने शशिनि, क्रमेण च नृप-चित्âनल-धूम-विसर-धूसरी-कृत-तेजस्îव, नर-पति-शोक-पावक-दाह-किरण-कलङ्क-काली-कृत-चेतस्îव, प्रोषित-समस्त्âन्तःपुर-पुरंध्रि-मुख-चन्द्र-वृन्द्ôद्वेग-विद्राण-वपुष्îव, प्रथम्âस्तम्-इत-रोहिणी-रणरणक-विमनस्îव, च्âस्तम्-उपगते राज-निकरे, राजत्îव देवे दिवम् आरूढे सवितरि, परिवृत्ते राज्य इव रजनी-प्रबन्धे, [172] प्रबुद्ध-राज-हंस-मण्डल-प्रबोध्यमानः पङ्कज्âकर इव चचाल स्नानाय देवो हर्षः. ततश् च नूपुर-रव-विराम-मूक-मन्द-मन्दिर-हंसेषु, शोक्âकुल-कतिपय-कञ्चुकि-मात्र्âवशेषेषु शुद्ध्âन्तेषु, पतित-यूथप इव वन-गज-यूथे, कक्ष्य्âन्तर-वर्तिनि पितृ-परिजने, विषादिन्य् उपरि-रुदन्-निषादिनि च स्तम्भ-निषण्णे, निष्पन्द-मन्दे राज-कुञ्जरे, मन्दुरा-पालक्âक्रन्द-कथिते च्âजिर-भाजि, राज-वाजिनि विश्रान्त-जय-शब्द-कलकले च शून्ये च महा-स्थान-मण्डपे दह्यमान-दृष्टिर् निर्जगाम राज-कुलात्. अगाच् च सरस्वती-तीरम्. तस्यां स्नात्वा पित्रे ददाव् उदकम्. अपस्नातश् च्â-निष्पीडित-मौलिर् एव परिधाय्ôद्गमनीय-दुकूल-वाससी निःश्वास-परो निर्-आतपत्रो निर्-उत्सारणः समुपनीते ऽपि सप्तौ चरणाभ्याम् एव नास्âग्र्âसक्तेन रक्त-तामरस-ताम्रेण चक्षुषा हृदय्âवशेषस्य्âपि पितुर् दाह-शङ्कया शोक्âग्निम् इव उद्गिरन्न् अ-ताम्बूलस्य्âपि सुचिर-प्रक्षालितस्य कल्प-तरु-किसलय-कोमलस्य्êव स्व-भाव-पाटलस्य्âधरस्य्âधर-पल्लवस्य प्रभया मांस-रुधिर-कवलान् इव हृदय्âभिघाताद् उद्वमन्न् उष्ण-निःश्वास-मोक्षैर् भवनम् आजगाम.
राज-वल्लभास् तु भृत्याः सुहृदः सचिवाश् च तस्मिन्न् एव्âहनि निर्गत्य प्रियं पुत्र-दारम् उत्सृज्य्ôद्बाष्पैर् बन्धुभिर् वार्यमाणा अपि बहु-नृप-गुण-गण-हृत-हृदयाः के-चिद् आत्मानं भृगुषु बबन्धुः, के-चित् तत्र्âइव तीर्थेषु तस्थुः, के-चिद् अनशनैर् आस्तीर्ण-तृण-कुशा व्यथमान-मानसाः शुचम् असमाम् अशमयन्, के-चिच् छलभा इव वैश्वानरं शोक्âवेग-विवशा विविशुः, के-चिद् दारुण-दुःख-दहन-दह्यमान-हृदया गृहीत-वाचस् तुषार-शिखरिणं शरणम् उपाययुः, के-चिद् विन्ध्य्ôपत्यकासु वन-करि-कुल-कर-शीकर्âसार-सिच्यमान-तनवः पल्लव-शयन-शायिनः संतापम् अशमयन्, के-चित् संनिहितान् अपि विषयान् उत्सृज्य सेवा-विमुखाः परिच्छिन्नैः पिण्डकैर् अटवी-भुवः शून्या जगृहुः, के-चित् पवन्âशना धर्म-धना धमद्-धमनयो मुनयो बभूवुः, [173] के-चिद् गृहीत-काषायाः कापिलं मतम् अधिजगिरे गिरिषु, के-चिद् आचोटित-चूडा-मणिषु शिरःसु शरणी-कृत-धूर्जटयो जटा जघटिरे. अपरे परि-पाटल-प्रलम्ब-चीवर्âम्बर-संवीताः स्वाम्य्-अनुरागम् उज्ज्वलं चक्रुः. अन्ये तपो-वन-हरिण-जिह्व्âञ्चल्ôल्लिह्यमान-मूर्तयो जरां ययुः. अ-परे पुनः पाणि-पल्लव-प्रमृष्टैर् आताम्र-रागैर् नयन-पुटैः कमण्डलुभिश् च वारि वहन्तो गृहीत-व्रता मुण्डा विचेरुः.
देवम् अपि हर्षं तद्-अवस्थं पितृ-शोक-विह्वली-कृतम्, श्रियं शाप इति, महीं महा-पातकम् इति, राज्यं रोग इति, भोगान् भुज्-अङ्गा इति, निलयं निरय इति, बन्धुं बन्धनम् इति, जीवितम् अ-यश इति, देहं द्रोह इति, कल्यतां कलङ्क इति, आयुर् अ-पुण्य-फलम् इति, आहारं विषम् इति, विषम् अ-मृतम् इति, चन्दनं दहन इति, कामं क्रकच इति, हृदय-स्फोटनम् अभ्युदय इति च मन्यमानम्, सर्वासु क्रियासु विमुखम्, पितृ-पितामह-परिग्रह्âगताश् चिरं-तनाः कुल-पुत्राः, वंश-क्रम्âहित-गौरवाश् च ग्राह्य-गिरो गुरवः, श्रुति-स्मृत्îतिहास-विशारदाश् च जरद्-द्वि-जातयः, श्रुत्âभिजन-शील-शालिनो मूर्ध्âभिषिक्ताश् च्âमात्या राजानो, यथावद्-अधिगत्âत्म-तत्त्वाश् च संस्तुता मस्करिणः, सम-दुःख-सुखाश् च मुनयः, संसार्âसारत्व-कथन-कुशला ब्रह्म-वादिनः, शोक्âपनयन-निपुणाश् च पौराणिकाः पर्यवारयन्.
अ-स्वतन्त्री-कृतश् च तैर् मनस्âपि न्âलभत शोक्âनुप्रवणम् आचरितुम्. प्रचुर-मित्र्âनुनीयमानश् च सनाभिभिः कथं कथम् अप्य् आहार्âदिकासु क्रियास्व् आभिमुख्यम् अभजत. भ्रातृ-गत-हृदयश् च्âचिन्तयत्: "अपि नाम तातस्य मरणं महा-प्रलय-सदृशम् इदम् उपश्रुत्य आर्यो बाष्प-जल-स्नातो न गृह्णीयाद् वल्कले. न्âश्रयेद् वा राज-र्षिर् आश्रम-पदम्. न विशेद् वा पुरुष-सिंहो गिरि-गुहाम्. अश्रु-सलिल-निर्भर-भरित-नयन-नलिन-युगलो वा पश्येद् अ-नाथां पृथिवीम्. प्रथम-व्यसन-विषम-विह्वलः स्मरेद् आत्मानं वा पुरुष्ôत्तमः. अ-नित्यतया जनित-वैराग्यो वा न [174] निराकुर्याद् उपसर्पन्तीं राज्य-लक्ष्मीम्. दारुण-दुःख-दहन-प्रज्वलित-देहो वा प्रतिपद्येत्âभिषेकम्. इह्âगतो वा राजभिर् अभिधीयमानो न पराचीनताम् आचरेद् इति. अति-पितृ-पक्ष-पाती खल्व् आर्यः. सर्वदा तात-श्लाघया माम् अभिधत्ते: "तात हर्ष! कस्य-चिद् अभूद् भविष्यति वा पुनः काञ्चन-ताल-तरु-प्रांशु काय-प्रमाणम् इदम्? ईदृक् च दिवस-कर-प्रीत्या दिवसम्-उन्मुख-विकसितं मुख-महा-कमलम्. एतौ च वज्र-स्तम्भ-भास्वरौ भुज-काण्डौ. एते च हसित-मद्âलस-हलधर-विभ्रमा विलासाः को ऽन्यो मानी विक्रान्तो वदान्यो वा?"" इति. एतानि च्âन्यानि च चिन्तयन् दर्शन्ôत्सुक-हृदयो भ्रातुर् आगमनम् उदीक्षमाणः कथं कथम् अप्य् अतिष्ठद् इति.
इति महा-कवि-श्री-बाण-भट्ट-कृतौ हर्ष-चरिते महा-राज-मरण-वर्णनं नाम पञ्चम उच्छ्वासः.
[175] षष्ठ उच्छ्वासः
उच्चित्य्ôच्चित्य भुवि प्रहित-निगूढ्âत्म-दूत-नीतानाम् ।
विजिगीषुर् इव कृत्âन्तः शूराणां संग्रहं कुरुते ॥ 6.1 ॥
विस्रब्ध-घात-दोषः स्व्-अवधाय खलस्य वीर-कोप-करः ।
नव-तरु-भङ्ग-ध्वनिर् इव हरि-निद्रा-तस्करः करिणः ॥ 6.2 ॥
अथ प्रथम-प्रेत-पिण्ड-भुजि भुक्ते द्वि-जन्मनि, गतेष्ûद्वेजनीयेष्व् अ-शौच-दिवसेषु, चक्षुर्-दाह-दायिनि दीयमाने द्विजेभ्यः शयन्âसन-चामर्âतपत्त्र्âमत्र-पत्त्र-शस्त्र्âदिके नृप-निकट्ôपकरण-कलापे, नीतेषु तीर्थ-स्थानानि सह जन-हृदयैः कीकसेषु, कल्पित-शोक-शल्ये सुधा-निचय-चिते चिता-चैत्य-चिह्ने, वनाय विसर्जिते मह्âजि-जिति राज-गज्êन्द्रे, क्रमेण च मन्दष्व् आक्रन्देषु, विरली-भवत्सु च विलापेषु, विश्राम्यत्य् अश्रुणि, शिथिली-भवत्सु श्वसितेषु, अ-विस्पष्टेषु, हा-कष्ट्âक्षरेषु, उत्सार्यमाणासु च व्यसन-शय्यासु, उपदेश-श्रवण-क्षमेषु श्रोत्रेषु, अनुरोध्âवधान-योग्येषु हृदयेषु, गणनीयेषु नृप-गुणेषु, प्रदेश-वृत्तिताम् आश्रयति शोके, कृतेषु कवि-रुदितकेषु, जाते च स्वप्न्âवशेष-दर्शने हृदय्âवशेष्âवस्थाने चित्र्âवशेष्âकृतौ काव्य्âवशेष-नाम्नि नर-नाथे देवो हर्षः कदा-चिद् उत्सृष्ट-व्यापारः पुञ्जी-भूत-वृद्ध-बन्धु-वर्ग्âग्रे-सरेण्âवनत-मूक-मुखेन महा-जनेन [176] मौलेन्â-काल आत्मानं वेष्ट्यमानम् अद्राक्षीत्. दृष्ट्वा च्âकरोन् मनसि: "किम् अन्यद् आर्यम् आगतम् आवेदयत्य् अयं शोक-परा-भूतो लोक्âकरः" इति. वेपमान-हृदयश् च पप्रच्छ प्रविशन्तम् अधिकतर-प्रचारम् अन्यतमं पुरुषम् "अङ्ग! कथय. किम् आर्यः प्राप्तः" इति. स मन्दम् अब्रवीत्: "देव! यथ्âदिशसि द्वारि" इति श्रुत्वा च स्ôदर्य-स्नेह-निहित-निर्-अतिशय-मन्यु-मृदू-कृत-मनाः कथम् अपि न ववाम बाष्प-वारि-प्रवाह्ôत्पीडेन सह जीवितम्.
अन्-अन्तरं च द्वार-पाल-प्रमुक्तेन प्रथम-प्रविष्टेन परिजनेन्êव्âक्रन्देन कथ्यमानम्, दूर-द्रुत्âगमन-मुषित-बाहुल्येन विच्छिन्न-च्छत्र-धारेण लम्बित्âम्बर-वाहिना भ्रष्ट-भृङ्गार-ग्राहिणा च्युत्âचमन-धारिणा ताम्यत्-ताम्बूलिकेन खञ्जत्-खड्ग-ग्राहिणा कतिपय-प्रकाश-दासेरक-प्रायेण बहु-वासर्âन्तरित-स्नान-भोजन-शयन-श्याम-क्षाम-वपुषा परिजनेन परिवृतम्, अ-विरल-मार्ग-धूलि-धूसरित-शरीरतया शरणी-कृतम् इव्âशरणया क्रम्âगतया वसुं-धरया, हूण-निर्जय-समर-शर-व्रण-बद्ध-पट्टकैर् दीर्घ-धवलैः समासन्न-राज्य-लक्ष्मी-कटाक्ष-पातैर् इव शबली-कृत-कायम्, अवनि-पति-प्राण-परित्राण्âर्थम् इव च शोक-हुत-भुजि हुत-मांसैर् अति-कृशैर् अवयवैर् आवेद्यमान-दुःख-भारम्, अपगत-चूडा-मणिनि मलिना-कुल-कुन्तले शेखर-शून्ये शिरसि शुचम् आरूढां मूर्तिमतीम् इव दधानम्, आतप-गलित-स्वेद-राजिना रुदत्êव पितृ-पाद-पतन्ôत्कण्ठितेन ललाट-पट्टेन लक्ष्यमाणम्, प्रथीयसा बाष्प-पयः-प्रवाहेण्âभिमत-पति-मरण-मूर्च्छिताम् इव महीम् अन्-अवरतं सिञ्चन्तम्, अन्-अन्त-संतत्âश्रु-प्रवाह-निपतन-निम्नी-कृताव् इव दुःख-क्षाणौ कपोलाव् उद्वहन्तम्, अत्य्-उष्ण-मुख-मारुत-मार्ग-गतेन द्रवत्êव गलित-ताम्बूल-रागेण्âधर-बिम्बेन्ôपलक्षितम्, पवित्रिका-मात्र्âवशेष्êन्दरनीलिक्âंशु-श्यामायमानम् अ-चिर-श्रुत-पितृ-मरण-जन्य-महा-शोक्âग्नि-दग्धम् इव श्रवण-प्रदेशम् उद्वहन्तम्, अ-स्फुट्âभिव्यक्त-व्यञ्जनेन्âप्य् अधो-मुख-स्तिमित-नयन-नील-तारक-मयूख-माला-खचितेन शोक-प्ररूढ-श्मश्रु-श्यामलेन्êव मुख-शशिना लक्ष्यमाणम्, केसरिणम् इव महा-भूभृद्-विनिपात-विह्वल-निर्-अवलंबनम्, दिवसम् इव तेजः-पति-पतन-परिम्लान-श्रियं श्यामी-भूतम्, नन्दनम् इव भग्न-कल्प-पादपं [177] वि-च्छायम्, दिग्-भागम् इव प्रोषित-दिक्-कुञ्जर-शून्यम्, गिरिम् इव गुरु-वज्र-पात-दारितं प्रकम्पमानम्, क्रीतम् इव क्रशिम्ना, किंकरी-कृतम् इव कारुण्येन, दासी-कृतम् इव दौर्मनस्येन, शिष्यी-कृतम् इव शोचितव्येन, अन्धी-कृतम् इव्âधिना, मूकी-कृतम् इव मौनेन, पिष्टम् इव पिडया, स्विन्नम् इव संतापेन, उच्चितम् इव चिन्तया, विलुप्तम् इव विलापेन, धृतम् इव वैराग्येण, प्रत्याख्यातम् इव प्रतिसंख्यानेन, अवज्ञातम् इव प्रज्ञया, दूरी-कृतम् इव दुर्-अभिभवत्वेन, अ-बोध्येन वृद्ध-बुद्धीनाम्, अ-साध्येन साधु-भाषितानाम्, अ-गम्येन गुरु-गिराम्, अ-शक्येन शास्त्र-शक्तीनाम्, अ-पथेन प्रज्ञा-प्रयत्नानाम्, अ-गोचरेण सुहृद्-अनुरोधानाम्, अ-विषयेण विषय्ôपभोगानाम्, अ-भूमि-भूतेन काल-क्रम्ôपचयानां शोकेन कवली-कृतं ज्येष्ठं भ्रातरम् अपश्यत्. आवेग्ôद्गत-कृत्स्न-स्नेह्ôत्कलिका-कलाप्ôत्क्षिप्यमाण-काय इव च पर-वशः समुदगात्.
अथ तं दूराद् एव दृष्ट्वा देवो राज्यवर्धनश् चिर-काल-कलितं बाष्प्âवेगं मुमुक्षुः सु-दूर-प्रसारितेन संकल्पयन्न् इव सर्व-दुःखानि दीर्घेण दोर्-दण्ड-द्वयेन गृहीत्वा कण्ठे मुक्त-कण्ठं पुनः पतित-क्षौमे क्षामे वक्षसि पुनः कण्ठे पुनः स्कन्ध-भागे पुनः कपोल्ôदरे निधाय तथा तथा रुरोद यथा संबन्धनान्îव्ôदपाट्यन्त हृदयानि. अश्रु-स्रोतः-शिरा इव्âमुच्यत लोचनेषु लोकेन स्मृत-नृपतिना राज-वल्लभेन्âपि प्रतिशब्दक-निभेन निर्भरम् इव्âरुद्यत. सु-चिराच् च कथं कथम् अपि निर्वृष्ट-नयन-जलः पर्जन्य इव शरदि स्वयम् एव्ôपशशाम. उपविष्टश् च परिजन्ôपनीतेन तोयेन तरत्-कर-नख-मयूख-पुञ्जतया महा-जल-प्लव-जायमान-फेन-लेखम् इव पुनः पुनः प्रमृष्टम् अपि पक्ष्म्âग्र-संगलद्-बाष्प-बिन्दु-वृन्द-मन्द्ôन्मेष-मुषित-दर्शनं कथं कथम् अपि चक्षुर् अक्षालयत्. ताम्बूलिक्ôपस्थापितेन च वाससा चन्द्र्âतप-शकलेन्êव्ôष्ण्ôष्ण-बाष्प-दग्धं वदनम् उन्ममार्ज. तूष्णीम् एव च चिरं स्थित्व्ôत्थाय स्नान-भूमिम् अगात्. तस्यां च स्थित्वा विभूषं वित्रस्त-व्यस्त-कुन्तलं मौलिम् अन्-आ- [178] -दरान् निष्पीड्य स्âवशेष-मन्यु-स्फुरितेन जिजीविषत्êव जल-धौत-सु-भगम् आत्मानम् अपि चुचुम्बिषत्êव्âधरेण क्षालितस्य चक्षुषः श्वेतिम्ना च शारद-शशि-कर-विकसित-विशद-कुमुद-वन-दल्âवलि-बलि-विक्षेपैर् इव दिग्-देवत्âर्चन-कर्म कुर्वाणश् चतुः-शाल-वितर्दिका-विनिवेशितायाम् अ-प्रतिपादिकायां च्âपाश्रय-विनिहित्âइक्ôपबर्हणायां पर्यङ्किकायां निपत्य जोषम् अस्थात्.
देवो ऽपि हर्षस् तथ्âइव स्नात्वा धरणि-तल-निहित-कुथ्âप्रसारित-मूर्तिर् अ-दूर एव्âस्य तूष्णीम् एव समवातिष्ठत. दृष्ट्वा दृष्ट्वा दूयमान-मानसम् अग्र-जन्मानं समस्फुटद् इव्âस्य सहस्रधा हृदयम्. औरस-दर्शनं हि यौवनं शोकस्य. लोकस्य तु नर-पति-मरण-दिवसाद् अपि दारुणतरः स बभूव दिवसः. सर्वस्मिन्न् एव च नगरे न केन-चिद् अपाचि न केन-चिद्-अस्नायि न्âभोजि. सर्वत्र सर्वेण्âरोदि. केवलम् अनेन च क्रमेण्âतिचक्राम दिवसः. स च प्रत्यग्र-त्वष्टृ-टङ्क-तष्ट-तनुर् इव वमद्-बहल-रुधिर-रस-मांस-च्छेद-लोहित-च्छविर् अ-पर-पार्âवार-पयसि ममज्ज मञ्जिष्ठ्âरुणो ऽरुण-सारथिः. मुकुलायमान-कमलिनी-कोश-विकलं चकाण चञ्चरीक-कुलं कमल-सरसि. सविध-विरह-व्याधि-विधुर-वधू-बाध्यमानं बबन्ध बन्धाव् इव विबुद्ध-बन्धूक-भासि भास्वति स्âस्रां दृशं चक्र-वाक-चक्र-वालम्. संचरन्त्याः स-मधु-कर-रवं कैरव्âकरं कलहंस-रमणी-रमणीयं माणिक्य-काञ्ची-किङ्किणी-जालम् इव्âचकाण श्रियः. प्रकट-कलङ्कम् उदयमानं विशङ्कट-विषाण्ôत्कीर्ण-पङ्क-संकर-शङ्कर-बर्कुर-शक्वर-ककुद्-अ-कूट-संकाशम् अकाशत्âकाशे शश्âङ्क-मण्डलम्.
अस्यां च वेलायाम् अन्-अतिक्रमणीय-वचनैर् उपसृत्य प्रधान-सामन्तैर् विज्ञाप्यमानः कथं कथम् अप्य् अभुक्त. प्रभातायां च शर्वर्यां सर्वेषु प्रविष्टेषु राजसु समीप-स्थितं हर्ष-देवम् उवाच: "तात! भूमिर् असि गुरु-नियो- [179] -गानाम्. शैशव एव्âग्राहि गुणवत्-पताक्êव भवता तातस्य चित्त-वृत्तिः. यतो भवन्तम् एवं-विधं विधेयं विधि-विधान्ôपनत-नैर्घृण्यम् इदं किम् अपि बिभणिषति मे हृदयम्. न्âवलम्बनीया बाल-भाव-सुलभा प्रेम-विलोमा वामता. वैधेय इव मा कृथाः प्रत्यूहम् ईहिते ऽस्मिन्. शृणु न खलु न जानासि लोक-वृत्तम्. लोक-त्रय-त्रातरि मान्धातरि मृते किं न कृतं पुरुकुत्सेन? भ्रू-लत्âदिष्ट्âष्टा-दश-द्वीपे दिलीपे वा रघुणा. मह्âसुर-समर-मध्य्âध्यासित-त्रि-दश-रथे दशरथे वा रामेण? गोष्पदी-कृत-चतुर्-उदन्वद्-अन्ते दुष्यन्ते वा भरतेन? तिष्ठन्तु तावत् ते तातेन्âइव शत-समधिक्âधिगत्âध्वर-धूम-विसर-धूसरित-वासव-वयसि सुगृहीत-नाम्नि तत्र-भवति परासुतां गते पितरि किं न्âकारि राज्यम्? यं च किल शोकः समभिभवति तं का-पुरुषम् आचक्षते शास्त्र-विदः. स्त्रियो हि विषयः शुचाम्. तथ्âपि किं करोमि. स्व-भावस्य स्êयं का-पुरुषता वा स्त्रैणं वा यद् एवम् आस्पदं पितृ-शोक-हुत-भुजो जातो ऽस्मि. मम हि भूभृति पर्यस्ते निर्-अवशेषतः प्रस्रवणान्îव स्रुतान्य् अश्रूण्य् अस्तम्-इते महति तेजस्य् अन्धकारी-भूत-दश्âशस्य प्रनष्टः प्रज्ञ्âलोकः, प्रज्वलितं हृदयम्, आत्म-दाह-भीत इव स्वप्ने ऽपि न्ôपसर्पति विवेकः, बलीयसा संतापेन जातुषम् इव विलीनम् अखिलं धैर्यम्, पदे पदे दिग्ध-रोप्âहत्êव हरिणी मुह्यति मतिः, पुरुष-द्वेषिण्îव दूरत एव भ्रमति परिहरन्ती स्मृतिः, अम्ब्êव तातेन्âइव सह गता धृतिः, वार्धुषिक-प्रयुक्तान्îव धनान्îव प्रति-दिवसं वर्धन्ते दुःखानि, शोक्âनल-धूम-संभार-संभूत्âम्भो-धर-भरितम् इव वर्षति नयन-वारि-धारा-विसरं शरीरम्. सर्वः पञ्च-जनः पञ्चत्वम् उपगतः प्रयाति. वितथम् एतद् वदति बालो लोकः. तातो हुत्âशनताम् एव केवलाम् आपन्नो ऽपि न्âइवं दहति माम्. अन्तस् तद् एवम् इदम् अ-सांपरा- [180] -यिकम् इव हृदयम् अवष्टभ्य व्युत्थितः शोको दुर्-निवारो वाडव इव वारि-राशिम्, पविर् इव पर्वतम्, क्षय इव क्षप्âकरम्, राहुर् इव रविम्, दहति दारयति तनू-करोति कवलयति च माम्. कामं न शक्नोति मे हृदयं तादृशस्य सुमेरु-कल्पस्य कल्प-महा-पुरुषस्य विनिपातम् अश्रु-बिन्दुभिर् एव केवलैर् अति-वाहयितुम्. राज्ये विष इव चकोरस्य मे विरक्तं चक्षुः. बहु-मृत-पट्âवगुण्ठनां रञ्जित-रङ्गां जनङ्गमानाम् इव वंश-बाह्याम् अन्-आर्यां श्रियं त्यक्तुम् अभिलषति मे मनः. क्षणम् अपि दग्ध-गृहे शकुनिर् इव न पारयामि स्थातुम्. सो ऽहम् इच्छामि मनसि वासस्îव सु-लग्नं स्नेह-मलम् इदम् अ-मलैः शिखरि-शिखर-प्रस्रवणैः स्व्-अच्छ-स्रोतो-म्बुभिः प्रक्षालयितुम् आश्रम-पदे. यतस् त्वम् अन्तरित-यौवन-सुखाम् अन्-अभिमताम् अपि जराम् इव पुरु-राज्ञया गुरोर् गृहाण मे राज्य-चिन्ताम्. त्यक्त-सकल-बाल-क्रीडेन हरिण्êव दीयताम् उरो लक्ष्म्यै. परित्यक्तं मया शस्त्रम्." इत्य् अभिधाय च खड्ग-ग्राहिणो हस्ताद् आदाय निजं निस्त्रिंशम् उत्ससर्ज धरण्याम्.
अथ तच् छ्रुत्वा निशित-शिखेन शूलेन्êव्âहतः प्रविदीर्ण-हृदयो देवो हर्षः समचिन्तयत्: "किं नु खलु माम् अन्तरेण्âर्यः केन-चिद् अ-सहिष्णुना किञ्-चिद् ग्राहितः कुपितः स्यात्. उत्âनया दिशा परीक्षितु-कामो माम्. उत तात-शोक-जन्मा चेतसः समाक्षेपो ऽयम् अस्य. आहो-स्विद् आर्य एव्âयं न भवति, किं वार्येण्âन्यद् एव्âभिहितम् अन्यद् एव्âश्रावि [181] मया शोक-शून्येन श्रवण्êन्द्रियेण. आर्यस्य च्âन्यद् विवक्षितम् अन्यद् एव्âपतितं मुखेन. अथवा सकल-वंश-विनाशाय निपातन्ôपायो ऽयं विधेः. मम वा निखिल-पुण्य-परिक्षय्ôपक्षेपः. कर्मणाम् अन्-अनुकूल-समग्र-ग्रह-चक्र-वाल-विलसितं वा. अथवा तात-विनाश-निः-शङ्क-कलि-काल-क्रीडितं येन्âयं यः कश्-चिद् इव यत्-किञ्-चन-कारिणं माम् अ-पुष्पभूति-वंश-संभूतम् इव, अ-तात-तनयम् इव, अन्-आत्म्âनुजम् इव, अ-भक्तम् इव, अ-दृष्ट-दोषम् अपि श्रोत्रियम् इव सुर्âपाने, सद्-भृत्यम् इव स्वामि-द्रोहे सज्-जनम् इव नीच्ôपसर्पणे, सु-कलत्रम् इव व्यभिचारे, अति-दुष्करे कर्मणि समादिष्टवान्. तद् एतत् तावद् अनुरूपं यच् छौर्य्ôन्माद-मदिर्ôन्मत्त-समस्त-सामन्त-मण्डल-समुद्र-मथन-मन्दरे तादृशि पितरि मृते तपो-वनं वा गम्यते वल्कलानि वा गृह्यन्ते तपांसि वा सेव्यन्ते. या तु मयि राज्âज्ञा सा दग्धे ऽपि दाह-कारिणी मय्य् अवग्रह-ग्लपिते धन्वन्îव्âङ्गार-वृष्टिः. तद् अ-सदृशम् इदम् आर्यस्य. यद्य् अपि च विभुर् अन्-अभिमानः. द्वि-जातिर् अन्-एषणः, मुनिर् अ-रोषणः, कपिर् अ-चपलः कविर् अ-मत्सरः, वणिग् अ-तस्करः प्रिय-जानिर् अ-कुहनः, साधुर् अ-दरिद्रः, द्रविणवान् अ-खलः, कीनाशो ऽन्-अक्षि-गतः, मृगयुर् अ-हिंस्रः, पाराशरी ब्राह्मण्यः, सेवकः सुखी, कितवः कृत-ज्ञः, परिव्राड् अ-बुभुक्षुः, नृ-शंसः प्रिय-वाक्, अमात्यः सत्य-वादी, राज-सूनुर् अ-दुर्-विनीतश् च जगति दुर्-लभः, तथ्âपि मम्âर्य एव्âचार्यः. को हि नाम तद्-विधे निपतिते राज-गन्ध-कुञ्जरे जनयितरि च्êदृशे वि-फली-कृत-विशाल-शिला-स्तम्भ्ôरु-भुजे भू-भुजि भ्रातरि त्यक्त-राज्ये ज्यायसि नव-वयसि तपो-वनं गच्छति सकल-लोक-लोचन-जल-पात्â-पवित्रं मृद्-गोलकं वसुध्âभिधानं धन-मद-खेल-निखिल-खल-मुख-विकार-लक्षण्âख्यायमान-नीच्âचरणां श्री-संज्ञिकां सुभट-कुटुम्ब-कर्म-कुम्भ-दासीं चण्डालो ऽपि कामयेत. कथम् इव संभावितम् अत्य्-अन्तम् अन्-उचितम् इदम् आर्येण. किम् उपलक्षितम् अन्-अवदातम् इदं मयि. किं व्âस्य चेतसश् च्युतः सौमित्रिर् विस्मृता वा वृकोदर-प्रभृतयः. अन्-अपे- [182] -क्षित-भक्त-जना स्व्âर्थ्âइक-निष्पादन-निष्ठुरा न्âसीद् इयम् आर्यस्य्êदृशी प्रभविष्णुता. अपि च्âर्ये तपो-वनं गते जिजीविषुः को मनस्âपि महीं ध्यायेत्. कुलिश-शिखर-खर-नखर-प्रचय-प्रचण्ड-चपेट्âपाटित-मत्त-मातङ्ग्ôत्तम्âङ्ग-मद-च्छट्âच्छुरित-चारु-केसर-भार-भास्वर-मुखे केसरिणि वन-विहाराय विनिर्गते निवासं गिरि-गुहां कः पाति पृष्ठतः. प्रताप-सहाया हि सत्त्ववन्तः. कश् चपलां राज-लक्ष्मीं प्रत्य् अनुरोधो ऽयम् आर्यस्य यद्îयम् अपि न चीवर्âन्तरित-कुचा कुश-कुसुम-समित्-पलाश-पूलिकां वहन्ती तत्र्âइव तपो-वने वन-मृग्îव नीयते जरा-जालिनी. किं वा मम्âनेन वृथा बहुधा विकल्पितेन तूष्णीम् एव्âर्यम् अनुगमिष्यामि. गुरु-वचन्âतिक्रम-कृतं च किल्बिषम् एतत् तपो-वने तप एव्âपास्यति". इत्य् अवधार्य मनसा प्रथमतरं गतस् तपो-वनम् अधो-मुखस् तूष्णीम् अवातिष्ठत्.
अत्र्âन्तरे पूर्व्âदिष्टेन्âइव रुदता वस्त्र-कर्म्âन्तिकेन समुपस्थापितेषु वल्कलेषु, निर्-दय-कर-तल-ताडन-भिय्êव क्व्âपि गते हृदये, रटति राज-स्त्रैणे तारम् अ-ब्रह्मण्यम् ऊर्ध्व-दोष्णि विरुदति, विप्र-जने, पाद-प्रणति-परे, फूत्-कुर्वति पौर-वृन्दे, विद्राति विद्रुत-चेतसि चिरंतने परिजने, परिजन्âवलम्बिते, गते वर्षीयसि, वेपमान-वपुषि, पर्याकुल-वाससि, शोक-गद्गद-वचसि, विगलित-नयन-पयसि, निवारण्ôद्यत-मनसि, विशति बन्धु-वर्गे, निर्-आशेषु नख-लिखित-मणि-कुट्टिमेष्व् अवाङ्-मुखेषु, निःश्वसत्सु सामन्तेषु, स-बाल-वृद्धासु तपो-वनाय प्रस्थितासु सर्वासु प्रजासु सहस्âइव प्रविश्य शोक-विक्लवः प्रक्षरित-नयन-सलिलो राज्य-श्रियः परिचारकः संवादको नाम प्रज्ञाततमो विमुक्त्âक्रन्दः सदस्य् आत्मानम् अपातयत्.
अथ संभ्रान्तो भ्रात्रा सह स्वयं देवो राज्यवर्धनस् तं पर्यपृच्छत्: "भद्र! भण भण किम् अस्मद्-व्यसन-व्यवसाय-वर्धन-बद्ध-धृतिः, अवनि-पति-मरण-मुदित-मतिः, अ-धृति-करम् अ-परम् अधिकतरम् इतो दुःख्âतिशयं समुप- [183] -नयति विधिः" इति. स कथं कथम् अप्य् अकथयत्: "देव! पिशाचानाम् इव नीच्âत्मनां चरितानि छिद्र-प्रहारीणि प्रायशो भवन्ति. यतो यस्मिन्न् अहन्य् अवनि-पतिर् उपरत इत्य् अभूद् वार्ता तस्मिन्न् एव देवो ग्रहवर्मा दुर्-आत्मना मालव-राजेन जीव-लोकम् आत्मनः सु-कृतेन सह त्याजितः. भर्तृ-दारिक्âपि राज्यश्रीः कालायस-निगड-युगल-चुम्बित-चरणा चौर्âङ्गन्êव संयता कान्यकुब्जे कारायां निक्षिप्ता. किं-वदन्ती च यथा किल्âनायकं साधनं मत्वा जिघृक्षुः सु-दुर्-मतिर् एताम् अपि भुवम् आजिगमिषति." इति विञ्ज्ञापिते. प्रभुः प्रभवत्îति.
ततश् च तादृशम् अन्-उपेक्षणीयम् अ-संभावितम् आकस्मिकम् उपरि व्यतिकरम् आकर्ण्य्â-श्रुत-पूर्वत्वात् परिभवस्य, पर-परिभव्â-सहिष्णुतया च स्व-भावस्य, दर्प-बहुलतया च नव-यौवनस्य, वीर-क्षेत्र-संभवत्वाच् च जन्मनः, कृपा-भूमि-भूतायाश् च स्वसुः स्नेहात् स तादृशो ऽपि बद्ध-मूलो ऽप्य् अत्य्-अन्त-गुरुर् एक-पद एव्âस्य ननास्य ननाश शोक्âवेगः. विवेश च सहसा केसर्îव गिरि-गुहा-गृहं गभीर-हृदयं भयङ्-करः कोप्âवेगः. केशिनिषूदन-शङ्क्âकुल-कालिय-भङ्गुर-भ्रू-भङ्ग-तरङ्गिणी श्यामायमाना यमस्वस्êव प्रथीयसी ललाट-पट्टे भीषणा भ्रुकुटिर् उदभिद्यत. दर्पात् परामृशन्-नख-किरण-सलिल-निर्झरैः समर-भार-संभावन्âभिषेकम् इव चकार दिङ्-नाग-कुम्भ-कूट-विकटस्य बाहु-शिखर-कोशस्य वामः पाणि-पल्लवः. संगलत्-स्वेद-सलिल-पूरित्ôदरो निर्-मूलं मालव्ôन्मूलनाय गृहीत-केश इव दुर्-मद-श्री-कच-ग्रह्ôत्कण्ठय्êव च कम्पमानः पुनर् अपि समुत्ससर्प भीषणं कृपाणं पाणिर् अ-परः. शस्त्र-ग्रहण-मुदित-राज-लक्ष्मी-क्रियमाण-दिष्ट-वृद्धि-विधुत-सिन्दूर-धूलिर् इव कपिलः कपोलयोर् अदृस्यत रोष-रागः. समासन्न-सकल-मही-पाल-चूडा-मणि-चक्र्âक्रमण-जात्âहंकार इव च समारुरोह वामम् ऊरु-दण्डम् उत्तानितश् चरणो दक्षिणः. निष्ठुर्âङ्गुष्ट-कषण-निष्ठ्यूत-धूम-लेखो निर्-वीर्ôर्वी-करणाय विमुक्त-शिख इव लिलेख मणि-कुट्टिमम् इतरः पाद-पद्मः. दर्प-स्फुटित-सरस-व्रण्ôच्छलित-रुधिर- [184] -च्छट्âवसेकैः शोक-विष-प्रसुप्तं प्रबोधयन्न् इव पराक्रमम् अनुजम् अवादीत्: "आयुष्मन्! इदं राज-कुलम्, अमी बान्धवाः, परिजनो ऽयम्, इयं भूमिः, भू-पति-भुज-परिघ-पालिताश् च्âइताः प्रजाः, गतो ऽहम् अद्य्âइव मालव-राज-कुल-प्रलयाय. इदम् एव तावद् वल्कल-ग्रहणम् इदम् एव तपः शोक्âपगम्ôपायश् च्âयम् एव यद् अत्य्-अन्त्â-विनीत्âरि-निग्रहः. सो ऽयं कुरङ्गकैः कच-ग्रहः केसरिणः, भेकैः कर-पातः काल-सर्पस्य, वत्सकैर् बन्दि-ग्रहो व्याघ्रस्य, अलगर्दैर् गल-ग्रहो गरुडस्य, दारुभिर् दाह्âदेशो दहनस्य, तिमिरैस् तिरस्-कारो रवेः, यो मालवैः परिभवः पुष्पभूति-वंशस्य. अन्तरितस् तापो मे महीयसा मन्युना. तिष्ठन्तु सर्व एव राजानः करिणश् च त्वय्âइव सार्धम्. अयम् एको भण्डिर् अयुत-मात्रेण तुरङ्गमाणाम् अनुयातु माम्." इत्य् अभिधाय च्âन्-अन्तरम् एव प्रयाण-पटहम् आदिदेश.
तं च तथा समादिशन्तम् आकर्ण्य जामि-जामातृ-वृत्त्âन्त-विज्ञान-प्रकोप्âधान-दूयमाने मनसि निर्वर्तन्âदेशेन दूर-प्ररूढ-प्रणय-पीड इव प्रोवाच देवो हर्षः: "किम् इव हि दोषं पश्यत्य् आर्यो मम्âनुगमनेन? यदि बाल इति नितरां तर्हि न परित्याज्यो ऽस्मि. रक्षणीय इति भवद्-भुज-पञ्जरो रक्षा-स्थानम्, अ-शक्त इति क्व परीक्षितो ऽस्मि, संवर्धनीय इति वियोगस् तनू-करोति, अ-क्लेश-सह इति स्त्री-पक्षे निक्षिप्तो ऽस्मि, सुखम् अनुभवत्व् इति त्वय्âइव सह तत् प्रयाति महान् अध्वनः क्लेश इति विरह्âग्निर् अ-विषह्यतरः, कलत्रं रक्षत्व् इति श्रीस् ते निस्त्रिंशे ऽधिवसति, पृष्ठतः शून्यम् इति तिष्ठत्य् एव प्रतापः, राजकम् अन्-अधिष्ठितम् इति तत्-सु-बद्धम् आर्य-गुणैः, न बाह्यः सहायो महत इति व्यतिरिक्तम् एव मां गणयति प्रलघु-परिकरः, प्रयाम्îति पाद-रजसि को ऽति-भारः द्वयोर् गमनम् अ-सांप्रतम् इति माम् अनुगृहाण गमन्âज्ञया, कातरो भ्रातृ-स्नेह इति सदृशो दोषः. का च्êयम् आत्मं-भरिता भुजस्य ते यद् एकाकी क्षीर्ôद-फेन-पटल-पाण्डुरम् अ-मृतम् इव यशः पिपासति. अवञ्चित-पूर्वो [185] ऽस्मि विप्र-प्रसादेषु. तत् प्रसीदत्व् आर्यो नयतु माम् अपि" इत्य् अभिधाय क्षिति-तल-विनिहित-मौलिः पादयोर् अपतत्.
तम् उत्थाप्य पुनर् अग्रजो जगाद: "तात! किम् एवम् अति-मह्âरम्भ-परिग्रहणेन गरिमाणम् आरोप्यते बलाद् अति-लघीयान् अप्य् अ-हितः. हरिण्âर्थम् अति-ह्रेपणः सिंह-संभारः. तृणानाम् उपरि कति कवचयन्त्य् आशुशुक्षणयः. अपि च तव्âष्टा-दश-द्वीप्âष्ट-मङ्गल-कमालिनी मेदिन्य् अस्त्य् एव विक्रमस्य विषयः. न हि कुल-शैल-निवह-वाहिनो वायवः संनह्यन्त्य् अति-तरले तूल-राशौ. न सुमेरु-वप्र-प्रणय-प्रगल्भा वा दिक्-करिणः परिणमन्त्य् अणीयसि वल्मीके. ग्रहीष्यसि सकल-पृथ्वी-पति-प्रलय्ôत्पात-महा-धूम-केतुं मान्धात्êव चारु-चामीकर-पङ्क-पत्र-लत्âलंकार्âंक-कायं कार्मुकं ककुभां विजये. मम तु दुर्-निवारायाम् अस्यां विपक्ष-क्षपण-क्षुधि क्षुभितायां क्षम्यताम् अयम् एकाकिनः कोप-कवल एकः. तिष्ठतु भवान्." इत्य् अभिधाय च तस्मिन्न् एव वासरे निर्जगाम्âभ्य्-अ-मित्रम्.
अथ तथा-गते भ्रातरि, उपरते च पितरि, प्रोषित-जीविते च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्व-यूथ-भ्रष्ट इव वन्यः करी देवो हर्षः कथं कथम् अप्य् एकाकी कालं तम् अनैषीत्. अतिक्रान्तेषु बहुषु वासरेषु कदा-चित् तय्âइव भ्रातृ-गमन-दुःख्âसिकया दत्त-प्रजागरस् त्रि-भाग-शेषायां त्रि-यामायां यामिकेन गीयमानाम् इमाम् आर्यां शुश्राव:
"द्वीप्ôपगीत-गुणम् अपि समुपार्जित-रत्न-राशि-सारम् अपि. ।
पोतं पवन इव विधिः पुरुषम् अकाण्डे निपातयति" ॥ 6.3 ॥
तां च श्रुत्वा सुतराम् अ-नित्यता-भावनया दूयमान-हृदयः प्रक्षीण-भूयिष्ठायां क्षपायां क्षणम् इव निद्राम् अलभत. स्वप्ने च्âब्रंलिहं लोह-स्तम्भं भज्यमानम् अपश्यत्. उत्कम्पमान-हृदयश् च पुनः प्रत्यबुध्यत. अचिन्तयच् च: "किं नु खलु माम् एवम् अमी सततम् अनुबध्नन्ति [186] दुः-स्वप्नाः. स्फुरति च दिवा-निशम् अ-कल्याण्âख्यान-विचक्षण-मद-क्षिणम् अक्षि. सु-दारुणाश् च्â-क्षुद्र-क्षितिप-क्षयम् आचक्षाणाः क्षणम् अपि न शाम्यन्ति पुनर्-उत्पाताः. प्रत्य्-अहं राहुर् अ-विकल-काय-बन्ध इव कबन्धवति ब्रध्न-बिम्बे घटमानो विभाव्यते. तपः-करण-काल-कवलितान् इव धूसरित-समग्र-ग्रहान् उद्गिरन्ति धूम्ôद्गारान् सप्त-र्षयः. दिने दिने दारुणा दिशां दाहा दृश्यन्ते. दिग्-दाह-भस्म-कण-निकर इव निपतति नभस्-तलात् तारा-गणः. तारा-पात-शुच्âव निष्-प्रभः शसी. निशि निशि इतस् ततः प्रज्वलिताभिर् उल्काभिर् उग्रं ग्रह-युद्धम् इव वियति विलोकयन्ति विलोल-तारकाः ककुभः. राज्य-संचार-सूचकः संचारयत्îव क्ष्मां क्व्âपि वहद्-बहल-रजः-पटल-कलिल-शर्करा-शकल-सूत्-कारी मारुतः. न कुशलम् इव पश्यामि लग्नस्य. अस्मिन्न् अस्मद्-वंशे करिण इव करीरं कोमलम् अपि कलयतः कृत्âन्तस्य कः परिपन्थी? सर्वथा स्वस्ति भवत्व् आर्याय." इति चिन्तयित्वा च अन्तर्-भिन्नं भ्रातृ-स्नेह-कातरं द्रवद् इव हृदयं कथं कथम् अपि संस्तभ्य्ôत्थाय यथा-क्रियमाणं क्रिया-कलापम् अकरोत्.
आस्थान-गतश् च सहस्âइव प्रविशन्तम्, अनुप्रविशता विषण्ण-वदनेन लोकेन्âनुगम्यमानम्, अ-सह्य-दुःख्ôष्ण-निःश्वास-धूम-रक्त-तन्तुन्êव मलिनेन पटेन प्रावृत-वपुषम्, जीवित-धारण-लज्जय्êव्âवनत-मुखम्, नासा-वंशस्य्âग्रे ग्रथित-दृष्टिम्, दुःख-दूर-प्ररूढ-रोम्णा मूकेन्âपि मुखेन स्वामि-व्यसनम् अ-विच्छिन्नैर् अश्रु-बिन्दुभिर् विज्ञापयन्तं कुन्तलं नाम बृहद्-अश्ववारम्, राज्यवर्धनस्य प्रसाद-भूमिम् अभिज्ञाततमं ददर्श. दृष्ट्वा च जात्âशङ्कश् चक्षुषि सलिलेन, मुख-शशिनि श्वसितेन, हृदये हुत्âशनेन उत्सङ्गे भुवा, दारुण्â-प्रिय-श्रवण-समये समम् इव सर्वेष्व् अङ्गेष्व् अगृह्यत लोक-पालैः. तस्माच् च हेला-निर्जित-मालव्âनीकम् अपि गौड्âधिपेन मिथ्य्ôपचार्ôपचित-विश्वासं मुक्त-शस्त्रम् एकाकिनं विश्रब्धं स्व-भवन एव भ्रातरं व्यापादितम् अश्रौषीत्.
[187] श्रुत्वा च महा-तेजस्वी प्रचण्ड-कोप-पावक-प्रसर-परिचीयमान-शोक्âवेगः सहस्âइव प्रजज्वाल. ततश् च्âमर्ष-विधुत-शिरः शीर्यमाण-शिखा-मणि-शकल्âङ्गारकित्âङ्गम् इव रोष्âग्निम् उद्वमन्न् अन्-अवरत-स्फुरितेन पिबन्न् इव सर्व-तेजस्विनाम् आयूंषि रोष-निर्भुग्नेन दशन-च्छदेन, लोहितायमान-लोचन्âलोक-विक्षेपैर् दिग्-दाहान् इव दर्शयन्, रोष्âनलेन्âप्य् अ-सह्य-सहज-शौर्य्ôष्म-दहन-दह्यमानेन्êव वितन्यमान-स्वेद-सलिल-शीकर्âसार-दुर्-दिनः, स्व्âवयवैर् अप्य् अ-दृष्ट-पूर्व-प्रकोप-भीतैर् इव कम्पमानैर् उपेतः, हर इव कृत-भैरव्âकारः, हरिर् इव प्रकटित-नरसिंह-रूपः, सूर्य-कान्त-शैल इव्â-पर-तेजः-प्रसर-दर्शन-प्रज्वलितः, क्षय-दिवस इव्ôदित-द्वा-दश-दिन-कर-दुर्-निरीक्ष्य-मूर्तिः, मह्ôत्पात-मारुत इव सकल-भूभृत्-प्रकम्प-कारी, विन्ध्य इव वर्धमान-विग्रह्ôत्सेधः, मह्âशीविष इव दुर्-नर्âन्द्र्âभिभव-रोषितः, परीक्षित इव सर्व-भोगि-दहन्ôद्यतः, वृकोदर इव रिपु-रुधिर-तृषितः, सुर-गज इव प्रतिपक्ष-वारण-प्रधावितः, पूर्व्âगम इव पौरुषस्य, उन्माद इव मदस्य, आवेग इव्âवलेपस्य, तारुण्य्âवतार इव तेजसः, सर्व्ôद्योग इव दर्पस्य, युग्âगम इव यौवन्ôष्मणः, राज्य्âभिषेक इव रण-रसस्य, नीराजन-दिवस इव्â-सहिष्णुतायाः परां भीषणताम् अयासीत्.
अवादीच् च "गौड्âधिप्âधमम् अपहाय कस् तादृशं महा-पुरुषं तत्-क्षण वे निर्व्याज-भुज-वीर्य-निर्जित-समस्त-राजकं मुक्त-शस्त्रं कलश-योनिम् इव कृष्ण-वर्त्म-प्रसूतिर् ईदृशेन सर्व-वीर-लोक-विगर्हितेन मृत्युना शमयेद् एवम् आर्यम्. अन्-आर्यं च तं मुक्त्वा भागीरथी-फेन-पटल-पाण्डुराः केषां मनः-सु [188] सरःसु राज-हंसा इव परशुराम-पराक्रम-स्मृति-कृतो न कुर्युर् आर्य-शौर्य-गुणाः पक्ष-पातम्. कथम् इव्âत्य्-उग्रस्य्âस्य्âर्य-जीवित-हरणे निदाघ-रवेर् इव कमल्âकर-सलिल-शोषणे ऽन्-अपेक्षित-प्रीतयः प्रसृताः कराः. कां नु गतिं गमिष्यति, कां वा योनिं प्रवेक्ष्यति, कस्मिन् वा नरके निपतिष्यति. श्वपाको ऽपि क इदम् आचरेत्. नाम्âपि च गृह्णतो ऽस्य पाप-कारिणः पाप-मलेन लिप्यत इव मे जिह्वा. किं व्âङ्गी-कृत्य कार्यम् आर्यस् तेन क्षुद्रेण्âनुप्रविश्य विगत-घृणेन घुणेन्êव सकल-भुवन्âह्लादन-चतुरश् चन्दन-स्तम्भः क्षयम् उपनीतः. नूनं न्âनेन मूढेन मधु-रस्âस्वाद-लुब्धेन मध्व् इव्âर्य-जीवितम् आकर्षता भावी दृष्टः शिली-मुख-संपात्ôपद्रवः. निज-गृह-दूषणं जाल-मार्ग-प्रदीपकेन कज्जलम् इव्âति-मलिनं केवलम् अ-यशः संचितं गौड्âधमेन. नत्व्âश्व् एव्âस्तम्-उपगतवत्य् अपि त्रि-भुवन-चूडा-मणौ सवितरि वेधस्âदिष्टः सत्-पथ-शत्रोर् अन्धकारस्य निग्रहाय ग्रह-षण्ड-विहार्âइक-हरिण्âधिपः शशी. विनय-विधायिनि भग्ने ऽपि च्âङ्कुशे विद्यत एव व्याल-वारणस्य विनयाय सकल-मत्त-मातङ्ग-कुम्भ-स्थल-स्थिर-शिरो-भाग-भिदुरः खरतरः केसरि-नखरः. तादृशाः कु-वैकटिका इव तेजस्वि-रत्न-विनाशकाः कस्य न वध्याः. क्व्êदानीं यास्यति दुर्-बुद्धिः?" इत्य् एवम् अभिदधत एव्âस्य पितुर् अपि मित्रं सेना-पतिः समग्र-विग्रह-प्र्âग्र-हरो हरिताल-शैल्âवदात-देहः परिणत-प्रगुण-साल-प्रकाण्ड-प्रकाशः, प्रांशुः, अति-शौर्य्ôष्मण्êव परिपाकम् आगतो गत-भूयिष्ठे वयसि वर्तमानः, बहु-शर-शयन-सुप्त्ôत्थितो ऽपि हसन्न् इव शान्त-नव-मति-दीर्घेण्âयुषा दुर्-अभिभव-शरीरतया जरय्âपि भीत-भीतय्êव प्रकटित-प्रकम्पया परा- [189] -मृष्टः कथम् अपि सारमयेषु शिरो-रुहेषु शशि-कर-निकर-सित-सरल-शिरो-रुह-सटालां सैंहीम् इव निष्-कपट-पराक्रम-रस-रचितां संक्रान्तो जीवन्न् एव जातिम्, अपराम-पर-स्वामि-मुख-दर्शन-महा-पातक-परिजिहीर्षय्êव भ्रू-युगलेन वलिन-शिथिल-प्रलम्ब-चर्मणा स्थगित-दृष्टिः, धवल-स्थूल-गुञ्जा-पिच्छ-प्रच्छादित-कपोल-भाग-भास्वरेण वमन्न् इव विक्रम-कालम् अ-काले ऽपि विकाशि-काश-कानन-विशदं शरद्âरम्भं भीमेन मुखेन, मृतम् अपि हृदय-स्थितं स्वामिनम् इव सित-चामरेण वीजयन् नाभिल्-अम्बेन कूर्च-कलापेन, परिणामे ऽपि धौत्âसि-धारा-जल-पान-तृषितैर् इव विवृत-वदनैर् बृहद्भिर् व्रण-विदारैर् विषमित-विशाल-वक्षाः, निशित-शस्त्र-टङ्क-कोटि-कुट्टित-बहु-बृहद्-वर्ण्âक्षर-पङ्क्ति-निर्-अन्तरतया च सकल-समर-विजय-पर्व-गणनाम् इव कुर्वन् पूर्व-पर्वत इव पाद-चारी, विविध-वीर-रस-वृत्त्âन्त-रामणीयकेन महा-भारतम् अपि लघयन्न् इव, प्रतिपक्ष-क्षपण्âति-निर्-बन्धेन परशुरामम् अपि शिक्षयन्न् इव, अब्-भ्रमणेन्âन्-आदर-श्री-समाकर्षण-विभ्रमेण मन्दरम् अपि मन्दयन्न् इव, वाहिनी-नायक-मर्याद्âनुवर्तनेन्âम्भोधिम् अप्य् अभिभवन्न् इव, स्थैर्य-कार्कस्य्ôन्नतिभिर् अ-चलानपि ह्रेपयन्न् इव, सहज-प्रचण्ड-तेजः-प्रसर-परिस्फुरणेन सवितारम् अपि तृणी-कुर्वन्न् इव, इश्वर-भार्ôद्वहन-घृष्ट-पृष्ठतया हर-वृषभम् अपि हसन्न् इव, अरणिर् अ-मर्ष्âग्नेः, ऐश्वर्यं शौर्यस्य, विसर्पो दर्पस्य, हृदयं हठस्य, जीवितं जिगीषुतायाः, समुच्छ्वसितम् उत्साहस्य, अङ्कुशो दुर्-मदानाम्, नाग-दमनो दुष्ट-भोगिनाम्, विरामो वर-मनुष्यतायाः, कुल-गुरुर् वीर-गोष्ठीनाम्, तुला शौर्य-शालिनाम्, सीम्âन्त-दृश्वा शस्त्र-ग्रामस्य, निर्वोढा प्रौढ-वादानाम्, [190] संस्तम्भयिता भग्नानाम्, पारगः प्रतिज्ञायाः, मर्मज्ञो महा-विग्रहाणाम्, आघोषणा-पटहः समर्âर्थिनाम्, संनिधाव् एव समुपविष्टः सिंहनाद-नामा स्वरेण्âइव दुन्दुभि-घोष-गम्भीरेण सु-भटानां समर-रसम् आनयन् विज्ञापितवान्:
"देव! न क्व-चित् कृत्âश्रयया मलिनया मलिनतराः कोकिलया काका इव का-पुरुषा हत-लक्ष्म्या विप्रलभ्यमानम् आत्मानं न चेतयन्ते. श्रियो हि दोषा अन्धत्âदयः कामला विकाराः. छत्र-च्छाय्âन्तरित-रवयो विस्मरन्त्य् अन्यं तेजस्विनं जड-धियः. किं वा करोतु वराकः येन्âति-भीरुतया नित्य-पराङ्-मुखेन न तु दृष्टान्य् एव सर्व्âतिशायि-शौर्य्âतिशय-श्वयथु-कपिल-कपोल-पुलक-पल्लवित-कोप्âनलानि कुपितानां तेजस्विनां मुखानि. न्âसौ तपस्वी जानात्य् एवं यथ्âभिचारा इव विप्रकृताः सद्यः सकल-कुल-प्रलयम् उपाहरन्ति मनस्विन इति. जले ऽपि ज्वलन्ति ताडितास् तेजस्विनः. सकल-वीर-गोष्ठी-बाह्यस्य तस्य्âइव्êदम् उचितम् अन्-उत्तार-निरय-निपात-निपुणं कर्म. मनस्विनां हि प्रधन-प्रधान-धने धनुषि ध्रियमाणे सति च कमला-कलहंसी-केलि-कुवलय-कानने कृपाणे कृपण्ôपायाः पयोधि-मथन-प्रभृतयो ऽपि श्री-समुत्थानस्य किं पुनर् ईदृशाः. येषां च धात्रा धरित्रीं त्रातुं नियुक्ताः स्वयम् अ-समर्था इव कुलिश-कर्कश-भुज-परिघ-प्रहरण-हेतोर् उद्गिरन्ति गिरयो ऽपि लोहानि ते कथम् इव बाहु-शालिनो मनस्âपि विमल-यशो-भान्धवा ध्यायेयुर् अ-कार्यम्. सर्व-ग्रह्âभिभव-भास्वराणां हि सु-भट-कराणाम् अग्रतो दिग्-ग्रहणे पङ्गवः पतङ्ग-कराः. महा- [191] -महिष-शृङ्ग-तरङ्ग-भङ्ग-भङ्गुर-भीषण्âन्तराला लोक-प्रवाद-मात्रेण च दक्षिण्âशा परम्âर्थतो भट-भ्रुकुटिर् अधिवासो यमस्य. चित्रं च यद् उन्मुक्त-सिंह-नादानां सहसा साहस-रभस-रस-रोमाञ्च-कण्टक-निकरेण सह न निर्यान्ति सटाः शूराणां रणेषु. द्वयम् एव च चतुः-सागर-संभृतस्य भूति-संभारस्य भाजनं प्रतिपक्ष-दाहि दारुणं वडवा-मुखं वा महा-पुरुष-हृदयं वा. तेजस्विनः सकलान् अन्-अवाप्य पयो-राशीन् सहजस्य कुतो निवृत्तिर् ऊष्मणः. वृथा-वितत-विपुल-फण्âभारो भुजङ्गानां भर्ता बिभर्ति यो भोगेन मृत्-पिण्डम् एव केवलम्. अ-प्रतिहत-शासन्âक्रान्त्य्-उपभोग-सुख-रसं तु रसायां दिक्-कुञ्जर-कर-भार-भास्वर-प्रकोष्ठा वीर-बाहव एव जानन्ति. रविर् इव्ôन्मुख-पद्म्âकर-गृहीत-पाद-पल्लवः सुखेन्âखण्डित-तेजा दिवसान् नयति शूरः. कातरस्य तु शशिन इव हरिण-हृदयस्य पाण्डुर-पृष्ठस्य कुतो द्वि-रात्रम् अपि निश्-चला लक्ष्मीः. अ-परिमित-यशः-प्रकर-वर्षी विकासी वीर-रसः. पुरः-प्रवृत्त-प्रताप-प्रहताः पन्थानः पौरुषस्य. शब्द-विद्रुत-विद्विषन्ति भवन्ति द्वाराणि दर्पस्य. शस्त्र्âलोक-प्रकाशिताः शून्या दिशः शौर्यस्य. रिपु-रुधिर-शीकर्âसारेण भूर् इव श्रीर् अप्य् अनुरज्यते. बहु-नर-पति-मुकुट-मणि-शिला-शाण-कोण-कषणेन चरण-नख-राजिर् इव राजत्âप्य् उज्ज्वली-भवति. अन्-अवरत-शस्त्र्âभ्यासेन कर-तलान्îव रिपु-मुखान्य् अपि श्यामी-भवन्ति. विविध-व्रण-बद्ध-पट्टक-शतैः शरीरम् इव यशो ऽपि धवली-भवति. कवचिषु रिप्ûरः-कवाटेषु पात्यमानाः, पावक-शिखाम् इव श्रियम् अपि वमन्ति निष्ठुरा निस्त्रिंश-प्रहाराः. यश् च्âहित-हत-स्व-जनो मनस्वि-जनो द्विषद्-योषिद्-उरस्-ताडनेन कथयति हृदय-दुःखम्. परुष्âसि-लता-निपात-पवनेन्ôच्छ्वसिति निरुच्छ्वसित-शत्रु-धारा-पातेन रोदिति [192] विपक्ष-वनिता-चक्षुषा ददाति जलं स श्रेयान् न्êतरः. न च स्वप्न-दृष्ट-नष्टेष्व् इव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धु-बुद्धिं प्रबुद्धाः. स्थायिनि यशस्îव शरीर-धीर् वीराणाम्. अन्-अवरत-प्रज्वलित-तेजः-प्रसर-भास्वर-स्व-भावं च मणि-प्रदीपम् इव कलुषः कज्जल-मलो न स्पृशत्य् एव्âति-तेजस्विनं शोकः. स त्वं सत्त्ववताम् अग्रणीः प्राग्र-हरः प्राज्ञानां प्रथमः समर्थानां प्रष्ठो ऽभिजातानाम् अग्रे-सरस् तेजस्विनाम् आदिर् अ-सहिष्णूनाम्. एताश् च सतत-संनिहित-धूमायमान-कोप्âग्नयः सुलभ्âसि-धारा-तोय-तृप्तयो विकट-बाहु-वन-च्छाय्ôपगूढा धीरताया निवास-शिशिर-भूमयः स्व्-आयत्ताः सु-भटानाम् उरः-कवाट-भित्तयः. यतः किं गौड्âधिपाधम्âइकेन. तथा कुरु यथा न्âन्यो ऽपि कश्-चिद् आचरत्ये वं भूयः. सर्व्ôर्वी-श्रद्धा-कामुकानाम् अलीक-विजिगीषूणां संचारय चामराण्य् अन्तः-पुर-पुरन्ध्रि-निःश्वसितैः. उच्छिन्धि रुधिर-गन्ध्âन्ध-गृध्र-मण्डल-च्छादनैश् च्छत्त्र-च्छाया-व्यसनानि. अपाकुरु कदुष्ण-शोणित्ôदक-स्वेदैः कु-लक्ष्मी-कुलटा-कट्âक्ष-चक्षू-राग-रोगान्. उपशमय निशित-शर-शिर्âवेधैर् अ-कार्य-शौर्य-श्वयथून्. उन्मूलय लोह-निगड्âपीड-माला-मल-मह्âउषधैः पाद-पीठ-दोहद-दुर्-ललित-पाद-पटु-मान्द्यानि. क्षपय तीक्ष्ण्âज्ञ्âक्षर-क्षार-पातैर् जय-शब्द-श्रवण-कर्ण-कण्डूः. अपनय चरण-नख-मरीचि-चन्दन-चर्चा-ललाट-लेपैर् अ-नमित-स्तिमित-मस्तक-स्तम्भ-विकारान्. उद्धर कर-दान-संदेश-संदंशैर् द्रविण-दर्प्ôष्मायमाण-दुः-शील-लीला-शल्यानि. भिन्धि मणि-पाद-पीठ-दीधिति-दीप्र-प्रदीपिकाभिः शुष्क-सु-भट्âटोप-भ्रुकुटि-बन्ध्âन्ध-कारान्. जय चरण-लङ्घन-लाघव-गलित-शिरो-गौरव्âरोग्यैर् मिथ्य्âभिमान-महा-संनिपातान्. म्रदय सतत-सेव्âञ्जलि-मुकुलित-कर-संपुट्ôष्मभिर् इष्व्-असन-गुण-किण-कार्कश्यानि. येन्âइव च ते गतः पिता पिता-महः प्र-पिता-महो वा तम् एव मा हासीस् त्रि-भुवन- स्पृहणीर्यं पन्थानम्. अपहाय कु-पुरुष्ôचितां शुचं प्रतिपद्यस्व कुल-क्रम्âगता केसर्îव कुरङ्गीं राज-लक्ष्मीम्. देव! देव-भूयं गते नर्êन्द्रे दुष्ट-गौड-भुजङ्ग-जग्ध-जीविते च राज्यवर्धने वृत्ते ऽस्मिन् महा-प्रलये धरणी- [193] -धारणाय्âधुना त्वं शेषः. समाश्वासय अ-शरणाः प्रजाः. क्ष्मा-पतीनां शिरःसु शरत्-सवित्êव ललाटं-तपान् प्रयच्छ पाद-न्यासान्. अ-हितानाम् अभिनव-सेवा-दीक्षा-दुःख-संतप्त-श्वास-धूम-मण्डलैर् नखं-पचैः प्रचलित-चूडा-मणि-चक्र-वाल-बाल्âतपैश् च्âयाहि कल्माष-पादताम्. अपि च हते पितर्य् एकाकी तपस्वी मृगैः सह संवर्धितः सहज-ब्राह्मण्य-मार्दव-सु-कुमार-मनाः कृत-निश्चयश् चण्ड-चाप-वन्âटनि-टाङ्कार-नाद-निर्मदी-कृत-दिग्-गजं गुञ्जज्-ज्या-जाल-जनित-जगज्-ज्वरं समग्रम् उद्यतम् एक-विंशति-कृत्वः कृत-वंशम् उत्खातवान् राजन्यकं परशुरामः, किं पुनर् नैसर्गिक-काय-कार्कश्य-कुलिशायमान-मानसो मानिनां मूर्धन्यो देवः. तद् अद्य्âइव कृत-प्रतिज्ञो गृहाण गौड्âधिप्âधम-जीवित-ध्वस्तये जीवित-संकलन्âकुल-काल्âकाण्ड-दण्ड-यात्रा-चिह्न-ध्वजं धनुः. न ह्य् अयम् अ-राति-रक्त-चन्दन-चर्चा-शिशिर्ôपचारम् अन्तरेण साम्यति परिभव्âनल-पच्यमान-देहस्य देवस्य दुःख-दाह-ज्वर सु-दारुणः. निकार-संताप-शान्त्य्-उपाय-परिक्षये हि हिडिम्बा-चुम्बन्âस्वादितम् इव रिपु-रुधिर्â-मृतम् अ-मन्दर्ôपायम् अपायि पवन्âत्म-जेन. जामदग्न्येन च शाम्यन् मन्यु-शिखि-शिखा-संज्वर-सुखायमान-स्पर्श-शीतलेषु क्षत्रिय-क्षतज-ह्रदेष्व् अस्नायि." इत्य् उक्त्वा व्यरंसीत्.
देवस् तु हर्षस् तं प्रत्यवादीत्: "करणीयम् एव्êदम् अभिहितं मान्येन. इतरथा हि मे गृहीत-भुवि भोगि-नाथे ऽपि दायाद-दृष्टिर् ईर्ष्यालोर् भुजस्य. उपरि गच्छत्îच्छति निग्रहाय ग्रह-गणे ऽपि भ्रू-लता चलितुम्. अ-नमत्सु शैलेष्व् अपि कच-ग्रहम् अभिलषति दातुं करः. तेजो-दुर्-विदग्धान् अर्क-करान् अपि चामराणि ग्राहयितुम् ईहते हृदयम्. राज-शब्द-रुषा मृग-राजानाम् अपि शिरांशि वाञ्छति पादः पाद-पीठी-कर्तुम्. स्वच्छन्द-लोक-पाल-स्व्êच्छा-गृहीतानाम् आक्षेप्âदेशाय दिशाम् अपि स्फुरत्य् अधरः. किं पुनर् ईदृशे दुर्-जाते जाते जात्âमर्ष-निर्भरे च मनसि न्âस्त्य् एव्âवकाशः शोक-क्रिया-करणस्य? अपि च हृदय-विषम-शल्ये [194] मुसल्ये जीवति जाल्मे जगद्-विगहिते गौड्âधिप्âधम-चण्डाले जिह्रेमि शुष्क्âधर-पुटः पोट्êव प्रतिकार-शून्यं शुचा शूत्-कर्तुम्. अ-कृत-रिपु-बल्âबल्â-विलोल-लोचन्ôदक-दुर्-दिनस्य मे कुतः कर-युगलस्य जल्âञ्जलि-दानम्. अ-दृष्ट-गौड्âधम-चिता-धूम-मण्डलस्य वा चक्षुषः स्व्-अल्पम् अप्य् अश्रु-सलिलम्. श्रूयतां मे प्रतिज्ञा: "शपाम्य् आर्यस्य्âइव पाद-पांसु-स्पर्शेन, यदि परिगणितैर् एव वासरैः सकल-चाप-चापल-दुर्-ललित-नर-पति-चरण-रणरणायमान-निगडां निर्-गौडां गां न करोमि ततस् तनूनपाति पीत-सर्पिषि पतङ्ग इव पातकी पातयाम्य् आत्मानम्"" इत्य् उक्त्वा च महा-संधि-विग्रह्âधिकृतम् अवन्तिकम् अन्तिक-स्थम् आदिदेश: "लिख्यताम्. आ रवि-रथ-चक्र-चीत्-कार-चकित-चारण-मिथुन-मुक्तसान्ôर् उदय्âचलात्, आ त्रिकूट-कटक-कुट्टाक-टङ्क-लिखित-काकुत्स्थ-लङ्का-लुण्ठन-व्यतिकरात् सुवेलात्, आ वारुणी-मद-स्खलित-वरुण-वर-नारी-नूपुर-रव-मुखर-कुहर-कुक्षेर् अस्त-गिरेः, आ गुह्यक-गेहिनी-परिमल-सुगन्धि-गन्ध-पाषाण-वासित-गुहा-गृहाच् च गन्धमादनात्, सर्वेषां राज्ञां सज्जी-क्रियन्तां कराः कर-दानाय शस्त्र-ग्रहणाय वा, गृह्यन्तां दिशश् चामराणि वा, नमन्तु शिरांसि धनूंषि वा, कर्ण-पूरी-क्रियन्ताम् आज्ञा मौर्व्यो वा, शेखरी-भवन्तु पाद-रजांसि शिरस्त्राणि वा, घटन्ताम् अञ्जलयः करि-घटा-बन्धा वा, मुच्यन्तां भूमय इषवो वा, समालम्ब्यन्तां वेत्र-यष्टयः कुन्त-यष्टयो वा, सु-दृष्टः क्रियताम् आत्मा मच्-चरण-नखेषु कृपाण-दर्पणेषु वा. परागतो ऽहम्. पङ्गोर् इव मे कुतो निवृत्तिस् तावद् यावन् न कृतः सर्व-द्वीप्âन्तर-संचारी सकल-नर-पति-मुकुट-मणि-शिल्âलोकमयः पाद-लेपः." इति कृत-निश्चयश् च मुक्त्âस्थानो विसर्जित-राज-लोकः स्नान्âरम्भ्âकाङ्क्षी सभाम् अत्याक्षीत्. उत्थाय च स्वस्थवन् निः-शेषम् आह्निकम् अकार्षीत्. अगलच् च दर्प-प्रसर इव श्रुत-प्रतिज्ञस्य शाम्यद्-ऊष्मा दिवसस् त्रि-भुवनस्य.
ततश् च निज्âधिकार्âपहार-भीत इव भगवत्य् अपि क्व्âपि गते गत- [195] -तेजस्य् अ-हिम-भासि, तामरस-वनेष्व् अपि निगूढ-शिली-मुख्âलापेषु त्रासाद् इव संकुचत्सु, विहग-गणेष्व् अपि समुपसंहृत-निज-पक्ष-विक्षेप-निश्-चलेषु भिय्êव्â-प्रकटी-भवत्सु, भुवन-व्यापिनीं संध्यां प्रतिज्ञाम् इव मानयति नत-शिरसि घटित्âञ्जलि-वने जने सकले, स्व-पद-च्युति-चकित-दिक्-पाल-दीयमान्âभ्रंलिह-लोह-प्राकार-वलय-कलितास्व् इव बहल-तिमिर-माला-तिरो-धीयमानासु दिक्षु प्रदोष्âस्थाने न्âति-चिरं तस्थौ. नमन्-नृप-लोक-लोल्âंशुक-पवन-कम्पित-शिखैर् दीपिका-चक्र-वालैर् अपि प्रणम्यमान इव प्राहिण्ôल्लोकं प्रतिषिद्ध-परिजन-प्रवेशश् च शयन-गृहं प्राविशत्. उत्तानश् च मुमोच्âङ्गानि शयन-तले. दीप-द्वितीयं च तम् अभिसर इव लब्ध्âवसरस् तरसा भ्रातृ-शोको जग्राह. जीवन्तम् इव हृदये निमीलित-लोचनो ददर्श्âग्रजम्. उपर्य् उपरि भ्रातृ-जीवित्âन्वेषिण इव प्रसस्रुः श्वासाः. धवल्âंशुक-पट्âन्तेन्êव च्âश्रु-जल-प्लवेन मुखम् आच्छाद्य निः-शब्दम् अति-चिरं रुरोद. चकार चेतसि: कथं नाम्âकृतेस् तादृस्या युक्तः परिणामो ऽयम् ईदृशः. पृथु-शिला-संघात-कर्कश-काय-बन्धात् ताताद् अ-चलाद् इव लोह-धातुः कठिनतर आसीद् आर्यः. कथं च्âस्य मे हत-हृदयस्य्âर्य-विरहे सकृद् अपि युक्तं समुच्छ्वसितुम्. इयं सा प्रीतिर् भक्तिर् अनुवृत्तिर् वा. बालिशो ऽपि कः संभावयेद् आर्य-मरणे मज्-जीवितम्. तत् तादृशम् ऐक्यम् एक-पद एव क्व्âपि गतम्. अ-यत्नेन्âइव हत-विधिना पृथक्-कृतो ऽस्मि. दग्ध-रोष्âन्तरित-शुचा सु-चिरं रुदितम् अपि न मुक्त-कण्ठं गत-घृणेन मया. सर्वथा लूता-तन्तु-च्छटा-च्छिदुरास् तुच्छाः प्रीतयः प्राणिनाम्. लोक-यात्रा-मात्र-निबन्धना बान्धवता यत्र्âहम् अपि नाम पर इव्âर्ये स्वर्ग-स्थे स्वस्थ इव्âसे. किं च दैव-हतकेन फलम् आसादितम् ईदृशि परस्पर-प्रीति-बन्ध-निर्वृत-हृदये सुख-भाजि भ्रातृ-मिथुने विघटिते. तथा च चन्द्रमया इव जगद्-आह्लादिनो लोक्âन्तरी-भूतस्य लग्न-चित्âग्नय इव्âर्यस्य त एव दहन्ति गुणाः. इत्य् एतानि च्âन्यानि च हृदयेन पर्यदेवत. प्रभातायां च शर्वर्यां प्रतीहारम् आदि-देश्â-शेष-गज-साधन्âधिकृतं स्कन्दगुप्तं द्रष्टुम् इच्छाम्îति.
[196] अथ युगपत्-प्रधावित-बहु-पुरुष-परम्पर्âहूयमानः, स्व-मन्दिराद् अ-प्रतिपालित-करेणुश् चरणाभ्याम् एव संभ्रान्तः, स-संभ्रमैर् दण्डिभिर् उत्सार्यमाण-जन-पदः, पदे पदे प्रणमतः प्रतिदिशम् इभ-भिषग्-वर्âन्वर-वारणानां विभावरी-वार्ताः पृच्छन्न् उच्छ्रित-शिखि-पिच्छ-लाञ्छित-वंश-लता-वन-गहन-गृहीत-दिग्-आयामैर् विन्ध्य-वनैर् इव वारण-बन्ध-विमर्द्ôद्योग्âगतैः, पुरः-प्रधावद्भिर् अन्-आयत्त-मण्डलैर् आधोरण-गणैश् च मरकत-हरित-घास-मुष्टीश् च दर्शयद्भिर् नव-ग्रह-गज-पतींश् च प्रार्थयमानैश् च लब्ध्âभिमत-मत्त-मातङ्ग-मुदित-मानसैश् च सु-दूरम् उपसृत्य नमस्यद्भिर् आत्मीय-मातङ्ग-मद्âगमांश् च निवेदयद्भिः, डिण्डिम्âधिरोहणाय च विज्ञापयद्भिः, प्रमाद-पतित्âपराध्âपहृत-द्वि-रद-दुःख-धृत-दीर्घ-श्मश्रुभिर् अग्रतो गच्छद्भिः, अभिनव्ôपसृतैश् च कर्पटिभिर् वारण्âप्ति-सुख-प्रत्याशया धावमानैः, गणिक्âधिकारि-गणैश् चिर-लब्ध्âन्तरैर् उच्छ्रित-करैः, कर्मण्य् अ-करेणुका-संकथन्âकुलैर् उल्लासित-पल्लव-चिह्नाभिर् अरण्य-पाल-पङ्क्तिभिश् च, निष्पादित-नव-ग्रह-नाग-निवह-निवेदन्ôद्यताभिर् उत्तम्भित-तुङ्ग-तोत्र-वनाभिर् महा-मात्र-पेटकैश् च प्रकटित-करि-कर्म-चर्म-पुटैः, अभिनव-गज-साधन-संचरण-वार्ता-निवेदन-विसर्जितैश् च नाग-वन-वीथी-पाल-दूत-वृन्दैः, प्रतिक्षण-प्रत्यवेक्षित-करि-कवल-कूटैश् च, कट-भङ्ग-संग्रहं ग्राम-नगर-निगमेषु निवेदयमानैः, कटक-कदम्बकैः क्रियमाण-कोलाहलः, स्वामि-प्रसाद-संभृतेन मह्âधिकार्âविष्-कारेण स्वाभाविकेन च्âवष्टम्भ्âभोगेन्ôदासीनो ऽप्य् आदिशन्न् इव, अ-संख्य-करि-कर्ण-शङ्ख-सम्पत्-सम्पादनाय समुद्रान् आज्ञापयन्न् इव, शृङ्गार-गैरिक-पङ्क्âङ्ग-राग-संग्रहाय गिरीन् मुष्णन्न् इव, दिग्-गज्âधिकारं ककुभाम् ऐरावतम् इव्âपहरन् हरेर् हर-पद-भर-नमित-कैलास-गिरि-गुरुबिः पाद-न्यासैर् गुरु-भार-ग्रहण-गर्वम् उर्व्याः संहरन्न् इव, गत-वश-विलोलस्य च्â-जानु-लम्बस्य बाहु-दण्ड-द्वयस्य विक्षेपैर् आलान-शिला-स्तम्भ-मालाम् इव्ôभयतो निखनन्न् ईषद्-उत्तङ्ग-लम्बेन्âधर-बिम्बेन्â-मृत-रस-स्वादुना नव-पल्लव-कोमलेन कवलेन्êव श्री-करेणुकां विलोभयन् निज- [197] -नृप-वंश-दीर्घं नासा-वंशं दधानः, अति-स्निग्ध-मधुर-धवल-विशालतया पीत-क्षीर्ôदेन्êव पिबन्न् ईक्षण-युग्म्âयामेन दिशाम् आयामं मेरु-तटाद् अपि विकट-विपुल्âलिकः, सततम् अ-विच्छिन्न-च्छत्र-च्छाया-प्ररूढि-वशाद् इव नितान्त्âयत-नील-कोमल-च्छवि-सु-भगेन स्व-भाव-भङ्गुरेण कुन्तल-बाल-वल्लरी-वेल्लित-विलासिना लुनन्न् इव लुप्त्âलोकान् अर्क-करान् बर्बरकेण्âरि-पक्ष-परिक्षय-परित्यक्त-कार्मुक-कर्म्âपि सकल-दिग्-अन्त-श्रूयमाण-गुरु-गुण-ध्वनिः, आत्म-स्थ-समस्त-मत्त-मातङ्ग-साधनो ऽप्य् अ-स्पृष्टो मदेन भूतिमान् अपि स्नेहमयः पार्थिवो ऽपि गुणमयः करिणाम् इव दानवताम् उपरि स्थितः, स्वामिताम् इव स्पृहणीयां भृत्यताम् अप्य् अ-परिभूताम् उद्वहन्न् एक-भर्तृ-भक्ति-निश्-चलां कुल्âङ्गनाम् इव्âन्-अन्य-गम्यां प्रभु-प्रसाद-भूमिम् आरूढः, निष्कारण-बान्दवो विदग्धानाम्, अ-भृत-भृत्यो भजताम्, अ-क्रीत-दासो विदुषाम्, स्कन्दगुप्तो विवेश राज-कुलम्. दूराद् एव च्ôभय-कर-कमल्âवलम्बितं स्पृशन् मौलिना मही-तलं नमस्-कारम् अकरोत्.
उपविष्टं च न्âति-निकटे तं तदा जगाद देवो हर्षः: "श्रुतो विस्तर एव्âस्य्âर्य-व्यतिकरस्य्âस्मच्-चिकीर्षितस्य च. अतः शीघ्रं प्रवेश्यन्तां प्रचार-निर्गतानि गज-साधनानि. न क्षाम्यत्य् अति-स्वल्पम् अप्य् आर्य-परिभव-पीडा-पावकः प्रयाण-विलम्बम्." इत्य् एवम् अभिहितश् च प्रणम्य व्यज्ञापयत्: "कृतम् अवधारयतु स्वामी समादिष्टं किं तु स्व्-अल्पं विज्ञप्यम् अस्ति भर्तृ-भक्तेः. तद्âकर्णयतु देवः. देवेन हि पुष्पभूति-वंश-संभूतस्य्âभिजनस्य्âभिजात्यस्य सहजस्य तेजसो दिक्-करि-कर-प्रलम्बस्य बाहु-युगलस्य्âसाधारणस्य च स्ôदर-स्नेहस्य सर्वं सदृशम् उपक्रान्तम्. काक्ôदर्âभिधानाः कृपणाः कृमयो ऽपि न मृष्यन्ति निकारं [198] किम् उत भवादृशास् तेजसां राशयः. केवलं देव-राज्यवर्धन्ôदन्तेन कियद् अपि दृष्टम् एव देवेन दुर्-जन-दौरात्म्यम्. ईदृशाः खलु लोक-स्वभावाः प्रति-ग्रामं प्रति-नगरं प्रति-देशं प्रति-द्वीपं प्रति-दिशं च भिन्ना वेशाश् च्âकाराश् च्âहाराश् च व्याहाराश् च व्यवहाराश् च जन-पदानाम्. तद् इयम् आत्म-देश्âचार्ôचिता स्व-भाव-सरल-हृदय-जा त्यज्यतां सर्व-विश्वासिता. प्रमाद-दोष्âभिषङ्गेषु श्रुत-बहु-वार्त एव प्रति-दिनं देवः. यथा नाग-कुल-जन्मनः सारिक्âश्रावित-मन्त्रस्य्âसीन् नाशो नागसेनस्य पद्मावत्याम्. शुक-श्रुत-रहस्यस्य च श्रीर् अशीर्यत श्रुतवर्मणः श्रावस्त्याम्. स्वप्नायमानस्य च मन्त्र-भेदो ऽभून् मृत्यवे मृत्तिकावत्यां सुवर्णचूडस्य. चूडा-मणि-लग्न-लेख-प्रतिबिम्ब-वाचित्âक्षरा च चारु-चामीकर-चामर-ग्राहिणी यमतां ययौ यवन्êश्वरस्य. लोभ-बहुलं च बहुल-निशि निधानम् उत्खनन्तम् उत्खात-खड्ग-प्रमाथिनी ममन्थ माथुरं बृहद्रथं विदूरथ-वरूथिनी. नाग-वन-विहार-शीलं च माया-मातङ्ग्âङ्गान् निर्गता महासेन-सैनिका वत्सपतिं न्ययंसिषुः. अति-दयित-लास्यस्य च शैलूष-मध्यम् अध्यास्य मूर्धानम् असि-लतया मृणालम् इव्âलुनाद् अग्निमित्र्âत्मजस्य सुमित्रस्य मित्रदेवः. प्रिय-तन्त्री-वाद्यस्य्âलाबु-वीण्âभ्यन्तर-शुषिर-निहित-निशिततर-वारयो गान्धर्व-च्छात्र-च्छद्मानः चिच्छिदुर् अश्मक्êश्वरस्य शरभस्य शिरो रिपु-पुरुषाः. प्रज्ञा-दुर्-बलं च [199] बल-दर्शन-व्यपदेश-दर्शित्â-शेष-सैन्यः, सेनानीर् अन्-आर्यो मौर्यं बृहद्रथं पिपेष पुष्पमित्रः स्वामिनम्. कार्य-कुतूहली च चण्डी-पतिर् दण्ड्ôपनत-यवन-निर्मितेन नभस्-तल-यायिना यन्त्र-यानेन्âनीयत क्व्âपि. काकवर्णः शैशुनारिश् च नगर्ôपकण्ठे कण्ठे निचकृते निस्त्रिंशेन. अति-स्त्री-सङ्ग-रतम् अन्-अङ्ग-पर-वशं शुङ्गम् अमात्यो वसुदेवो देव-भूति-दासी-दुहित्रा देवी-व्यञ्जनया वीत-जीवितम् अकारयत्. अ-सुर-विवर-व्यसनिनं, च्âपजह्रुर् अ-परिमित-रमणी-मणि-नूपुर-झणझण्âह्लाद-रम्यया मागधं गोवर्धन-गिरि-सुरुङ्गया स्व-विषयं मेकल्âधिप-मन्त्रिणः. महाकाल-महे च महा-मांस-विक्रय-वाद-वातूलं वेतालस् तालजङ्घो जघान जघन्यजं प्रद्योतस्य पौणकिं कुमारं कुमारसेनम्. रसायन-रस्âभिनिवेशिनश् च वैद्य-व्यञ्जनाः सु-बहु-पुरुष्âनतर-प्रकाशित्âउषधि-गुणा गणपतेर् विदेह-राज-सुतस्य राज-यक्ष्माणम् अजनयन्. स्त्री-विश्वासिनस् च महा-देवी-गृह-गूढ-भित्ति-भाग्-भूत्वा भ्राता भद्रसेनस्य्âभवन् मृत्यवे कालिङ्गस्य वीरसेनः. मातृ-शयनीय-तूलिका-तल-निषण्णश् च तनयो ऽन्यं तनयम् अभिषेक्तु-कामस्य दध्रस्य करूष्âधिपतेर् अभवन् मृत्यवे. उत्सारक-रुचिं च रहसि स-सचिवम् एव दूरी-चकार चकोर-नाथं शूद्रक-दूतश् चन्द्रकेतुं जीवितात्. मृगय्âसक्तस्य च मथ्नतो गण्डकान् उद्दण्ड-नड्वल-नल-वन-निलीनाश् च चम्प्âधिप-चमू-चर-भटाश् चामुण्डी-पतेर् आचेमुः प्राणान् पुष्करस्य. बन्दि-राग-परं च पर-प्रयुक्ता जय-शब्द-मुखर-मुखा मङ्खा मौखरिं मूर्खं क्षत्रवर्माणम् उदखनन्. अरि-पुरे च पर-कलत्र-कामुकं [200] कामिनी-वेश-गुप्तश् च चन्द्रगुप्तः शक-पतिम् अशातयद् इति. प्रमत्तानां च प्रमदा-कृता अपि प्रमादाः श्रुति-विषयम् आगता एव देवस्य. यथा मधु-मोचित-मधुरक-संलिप्तैर् लाजैः सुप्रभा पुत्र-राज्य्âर्थं महासेनं काशि-राजं जघान. व्याज-जनित-कन्दर्प-दर्पा च दर्पणेन क्षुर-धारा-पर्यन्तेन्âयोध्य्âधिपतिं परन्-तपं रत्नवती जारूथ्यम्, विष-चूर्ण-चुम्बित-मकरन्देन च कर्ण्êन्दीवरेण देवकी देवर्âनुरुक्ता देवसेनं सौह्म्यम्, योग-पराग-विरस-वर्षिणा च मणि-नूपुरेण वल्लभा स-पत्नीर् उषा वैरन्त्या रन्तिदेवम्, वेणी-विनिगूढेन च शस्त्रेण बिन्दुमती वृष्णिं विदूरथम्, रस-दिग्ध-मद्येन च मेखला-मणिना हंसवती सौवीरं वीरसेनम्, अ-दृश्य्âगद-विलिप्त-वदना च विष-वारुणी-गण्डूष-पायनेन पौरवी पौरव्êश्वरं सोमकम्." इत्य् उक्त्वा विरराम स्वाम्य्-आदेश-संपादनाय च निर्जगाम.
देवो ऽपि हषः सकल-राज्य-स्थितीश् चकार. ततश् च तथा कृत-प्रतिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे गत्âयुषां प्रतिसामन्तानाम् उदवसितेषु बहु-रूपाण्य् उपलिङ्गानि वितेनिरे. तथा ह्य् अ-विप्रकृष्टाः काल-दूत-दृष्टय इव्êतस्-ततश् चटुलाः कृष्ण-शार-श्रेणयः. प्रचलित-लक्ष्मी-नूपुर-प्रणाद-प्रतिमा मधु-सरघा-संघात-झंकारा जह्रादिरे. चिरं विवृत-विकृत-वदन-विवर-निःसृत-वह्नि-विसरा वासरे ऽपि वि-रसं विरेसुश् चिरम् अ-शिव्âर्थम् अ-शिवाः शिवाः. शव-पिशित-प्ररूढ-प्रसरा इव कपि-पोत-कपोल-कपिल-पक्षतयः कानन-कपोताः पेतुः. आमन्त्रयमाणा इव दधुर् अ-काल-कुसुमानि समम् उपवन-तरवः. तरल- [201] -कर-तल-प्रहार-प्रहत-पयो-धरा रुरुदुः प्रसभं सभा-शाल-भञ्जिकाः. ददृशुर् आसन्न-कच-ग्रह-भय्ôद्भ्रान्त्ôत्तम्âङ्गम् इव्âत्मानं कबन्धम् आदर्श्ôदरेषु योधाः. चूडा-मणिषु चक्र-शङ्ख-कमल-लक्ष्माणः प्रादुर्-अभवन् पाद-न्यासा राज-महिषीणाम्. चेटी-चामर्âण्य् अ-कस्माद् अधावन्त पाणि-पल्लवात्. प्रणय-कलहे ऽपि दत्त-पृष्ठाश् चिरम् अभवन् भटाः पराङ्-मुखा मानिनीनाम्. करिणी-कपोलेषु व्यघटन्त मधुलिहां मधु-मदिरा-पान-गोष्ठ्यः. समाघ्रात-यम-महिष-गन्धा इव ताम्यन्तः स्तम्ब-करिम् अपि हरयो हरितं नव-यवसं न चेरुः. चल-वलय्âवली-वाचाल-बालिका-तालिका-तोद्य-लालिता अपि न ननृतुर् मन्दा मन्दिर-मयूराः. निशि निशि रज-निकर-हरिण-निहित-नयन इव्ôन्मुखस् तारम् उपतोरणम् अ-कारणम् अकाणीत् कौलेयक-गणः. गणयन्त्îव गत्âयुषस् तर्जन-तरलया तर्जन्या दिवसम् आट वाटकेषु कोटवी. कुट्टिमेषु कुटिल-हरिण-खुर-वेणी-तरङ्गिण्यश् च शष्प-राजयो ऽजायन्त. जनित-वेणी-बन्धानि निर्-अञ्जन-रोचना-रोचींषि चषक-मधुनि मुख-कमल-प्रतिबिम्बान्य् अदृश्यन्त भटीनाम्. समासन्न्âत्म्âपहार-चकिता इव चकम्पिरे भूमयः. वध्य्âलंकार-रक्त-चन्दन-रस-च्छटा इव्âलक्ष्यन्त शूराणां पतिताः शरीरेषु विकसित-बन्धूक-कुसुम-शोणित-शोचिषः शोणित-वृष्टयः. पर्यग्नी-कुर्वाणा इव विनश्वरीं श्रियम् अ-विरल-स्फुरत्-स्फुलिङ्ग्âङ्गार्ôद्गार-दग्ध-तारा-गणा गणशः पतन्तः प्रज्वलन्तो न व्यरंसिषुर् उल्का-दण्डाः. प्रथमम् एव प्रतीहार्îव्âपहरन्ती प्रति-भवनं चामर्âतपत्र-व्यजनानि परुषा बभ्राम वात्य्êति.
इति श्री-बाण-भट्ट-कृतौ हर्षचरिते राज-प्रतिज्ञा-वर्णनं नाम षष्ठ उच्छ्वासः.
[202] सप्तम उच्छ्वासः
अङ्गन-वेदी वसुधा कुल्या जलधिः स्थली च पातालम् ।
वल्मीकश् च सुमेरुः कृत-प्रतिज्ञस्य वीरस्य ॥ 7.1 ॥
धृत-धनुषि बाहु-शालिनि शैला न नमन्ति यत् तद् आश्चर्यम् ।
रिपु-संज्ञकेषु गणना क्âइव वराकेषु काकेषु ॥ 7.2 ॥
अथ व्यतीतेषु च केषु-चिद् दिवसेषु मौहूर्तिक-मण्डलेन शतशः सु-गणिते सु-प्रशस्ते ऽहनि दत्ते चतसृणाम् अपि दिशां विजय-योग्ये दण्ड-यात्रा-लग्ने सलिल-मोक्ष-विशारदैः शारदैर् इव्âम्भो-धरैः काल-धौतैः शातकौम्भैश् च कुम्भैः स्नात्वा विरचय्य परमया भक्त्या भगवतो नील-लोहितस्य्âर्चाम्-उदर्चिषं हुत्वा प्रदक्षिण्âवर्त-शिखा-कलापम् आशुशुक्षणिं, दत्त्वा द्विजेभ्यो रत्नवन्ति राजतानि जात-रूपमयानि च सहस्रशस् तिल-पात्राणि कनक-पत्र-लत्âलं-कृत-शफ-शृङ्ग-शिखरा गाश् च्âर्बुदशः, समुपविश्य वितत-व्याघ्र-चर्मणि भद्र्âसने विलिप्य प्रथम-विलिप्त्âयुधो निज-यशो-धवलेन्âचरणतश् चन्दनेन शरीरं, परिधाय राज-हंस-मिथुन-लक्ष्मणी सदृशे दुकूले, परम्êश्वर-चिह्न-भूतां शशि-कलाम् इव कल्पयित्वा सित-कुसुम-मुण्ड-मालिकां शिरसि नीत्वा, कर्ण्âभरण-मरकत-मयूखम् इव कर्ण-गोचरतां गोरोचना-च्छुरितम् अभिनवं दूर्वा-पल्लवं विन्यस्य सह शासन-वलयेन गमन-मङ्गल-प्रतिसरं प्रकोष्ठे परिपूजित-प्रहृष्ट-पुरो-हित-कर-प्रकीर्यमाण-शान्ति-सलिल-सीकर-निकर्âभ्युक्षित-शिराः संप्रेष्य मह्âर्हाणि वाहनानि बहल-रत्न्âलोक-लिप्त-ककुम्भि च भूषणानि भू-भुजां सविभज्य क्लिष्ट-कार्पटिक-कुल-पुत्रक- [203] -लोक-मोचितैः प्रसाद-दानैश् च विमुच्य बन्धनानि सकलानि नियुज्य तत्-काल-स्मरण-स्फुरणेन कथित्âत्मानम् इव च्âष्टा-दश-द्वीप-जेतव्य्âधिकारे दक्षिणं भुज-स्तम्भम् अहमहमिकया सेवकैर् इव स-निमित्तैर् अपि समग्रैर् अग्रतो भवद्भिः प्रमुदित-प्रजा-जन्यमान-जय-शब्द-कोलाहलो हिरण्य-गर्भ इव ब्रह्म्âण्डात् कृत-युग-करणाय भवनान् निर्जगाम.
न्âति-दूरे च नगराद् उप-सरस्वति निर्मिते महति तृणमये, समुत्तम्भित-तुङ्ग-तोरणे, वेदी-विनिहित-पल्लव-ललाम-हेम-कलशे, बद्ध-वन-माला-दाम्नि, धवल-ध्वज-मालिनि, भ्रमच्-छुक्ल-वाससि, पठद्-द्वि-जन्मनि मन्दिरे प्रस्थानम् अकरोत्. तत्र-स्थस्य च्âस्य ग्राम्âक्षपटलिकः सकल-करणि-परिकरः "करोतु देवो दिवस-ग्रहणम् अद्य्âइव्â-वन्ध्य-शासनः शासनानाम्" इत्य् अभिधाय वृष्âङ्काम् अभिनव-घटितां हाटकमयीं मुद्रां समुपनिन्ये. जग्राह च तां राजा. समुपस्थापिते च प्रथमत एव मृत्-पिण्डे परिभ्रश्य कर-कमलाद् अधो-मुखी मही-तले पपात मुद्रा. मन्द्âश्यान-पङ्क-पटले मृदु-मृदि सरस्वती-तीरे परिस्फुटं व्यराजन्त राजयो वर्णानाम्. अ-मङ्गल्âशङ्किनि च विषीदति परिजने नर-पतिर् अकरोन् मनस्य् एतत्: "अ-तत्त्व-दर्शिन्यो हि भवन्त्य् अ-विदग्धानां धियः. तथा हि: एक-शासन-मुद्र्âङ्का भूर् भवतो भविष्यत्îति निवेदितम् अपि निमित्तेन्âन्यथा गृह्णन्ति ग्राम्याः." इत्य् अभिनन्द्य मनसा महा-निमित्तं तत् सीर-सहस्र-संमित-सीम्नां ग्रामाणां शतम् अदाद् द्विजेभ्यः. निनाय च तत्र तं दिवसम्. प्रतिपन्नायां शर्वर्यां संमानित-सर्व-राज-लोकः सुष्वाप.
अथ गलति तृतीये यामे सुप्त-समस्त-सत्त्व-निः-शब्दे दिक्-कुञ्जर-जृम्भमाण-गम्भीर-ध्वनिर् अताढ्यत प्रयाण-पटहः. अग्रतः स्थित्वा च मुहूर्तम् इव पुनः प्रयाण-क्रोश-संख्यापकाः स्पष्टम् अष्टाव् अदीयन्त प्रहाराः पटहे पटीयांसः.
[204] ततो रटत्-पटहे, नन्दन्-नान्दीके, गुञ्जद्-कुञ्जे, कूजत्-काहले, शब्दायमान-शङ्खे, क्रम्ôपचीयमान-कटक-कलकले, परिजन्ôत्थापन-व्यापृत-व्यवहारिणि, द्रुत-द्रुघण-घात-घट्यमान-कोणिका-कील-कोलाहल-कलित-ककुभि, बल्âधिकृत-बध्यमान-पाटी-पति-पेटके, जन-ज्वलित्ôल्का-सहस्र्âलोक-लुप्यमान-त्रि-यामा-तमसि, याम-चेटी-चरण-चलन्ôत्थाप्यमान-कामि-मिथुने, कटुक-कटुक-निर्देश-नश्यन्-निद्र्ôन्मिषन्-निषादिनि, प्रबुद्ध-हास्तिक-शून्यी-क्रियमाण-शय्या-गृहे, सुप्त्ôत्थित्âश्वीय-विधूयमान-सटे, रटत्-कटक-मुखर-खनित्र-खन्यमान-क्षोणी-पाशे, समुत्कील्यमान-कील-शिञ्जान-हिञ्जीरे, उपनीयमान-निगड-ताल-कलरव्ôत्ताल-तुरङ्ग-तरङ्ग्यमाण-खुर-पुटे, लेशिक-मुच्यमान-मद-स्यन्दि-दन्ति-संदान-शृङ्खला-खनखन-निनाद-निर्भर-भरित-दश-दिशि, घास-पूलक-प्रहार-प्रमृष्ट-पांसुल-करि-पृष्ठ-प्रसार्यमाण-प्रस्फोटित-प्रमृष्ट-चर्मणि, गृह-चिन्तकचेटक-संवेष्ट्यमान-पट-पुटी-काण्डपड-मण्डप-परिवस्त्रा-वितानके, कील-कलाप्âपूर्यमाण-चिपिट-चर्म-पुटे, संभाण्डायमान-भाण्ड्âगारिणि, भाण्ड्âगार-वहन-संवाह्यमान-बहु-नाली-वाहिके, निषादि-निश्-चल्âन्-एक्âनीकप्âरोप्यमाण-कोश-कलश- [205] -पीडा-पीड-संकटायमान-सामन्त्âउकसि, दूर-गत-दक्ष-दासेरक-क्षिप्र-प्रक्षिप्यमाण्ôपकरण-संभार-भ्रियमाण-दुष्ट-दन्तिनि, तिर्यग्-आनमज्-जाघनिक-कर-कृच्छ्र्âकृष्ट-लम्बमान-पर-तन्त्र-तुन्दिल-चुन्दी-जन-जनित-जन-हासे, पीड्यमान-शार-शारि-वरत्रा-गुण-ग्राहित-गात्र-विहार-बृंहद्-बहु-बृहद्-उन्मद-करिणि, करि-घटा-घटमान-घण्टा-टाङ्कार-क्रियमाण-कर्ण-ज्वरे, पृष्ठ-प्रतिष्ठाप्यमान-कण्ठ्âलक-कद्-अर्थित-कूजत्-करभे, अभिजात-राज-पुत्र-प्रेष्यमाण-कु-प्रयुक्त्âकुल-कुलीन-कुल-पुत्र-कलत्र-वाहने, गमन-वेला-विप्रलब्ध-वारण्âधोरण्âन्विष्यमाण-नव-सेवके, प्रसाद-वित्त-पत्ति-नीयमान-नर-पति-वल्लभ-वार-वाजिनि, चारु-चार-भट-सैन्य-न्यस्यमान-नासीर-मण्डल्âडम्बर-स्थूल-स्थासके, स्थान-पाल-पर्याण-लम्बमान-लवणक-लायी-किङ्किणी-नाली-सनाथ-संकलित-तल-सारके, कुण्डली-कृत्âवरक्षणी-जाल-जटिल-वल्लभ-पाल्âश्व-घटा-निवेश्यमान-साखा-मृगे, परिवर्धक्âकृष्यमाण्âर्ध-जग्ध-प्राभातिक-योग्य्âशन-प्रारोहके, व्यक्रोशी-विजृम्भमाण-घासिक्âघोषे, गमन-संभ्रम-भ्रष्ट-भ्रमद्-उत्तुण्ड-तरुण-तुरङ्गम-तन्यमान्âनेक-मन्दुरा-विमर्दे, सज्जी-कृत-करेणुक्âरोह्âह्वान-स-त्वर-सुन्दरी-दीयमान-मुख्âलेपने, चलित-मातङ्ग-तुरङ्ग-प्रधावित-प्राकृत-प्रातिवेशिक-लोक-लुण्ठ्यमान-निर्घास-सस्य-संचये, संचर- [206] -च्-चेल-चक्र्âकान्त-चक्रीवति, चक्र-चीत्कारि-गन्त्री-गण-गृह्यमाण-प्रहत-वर्त्मनि, अ-काण्डक्ôड्डीयमान-भाण्ड-भरित्âनडुहि, निकट-घास-लाभ-लुभ्यल्-लम्बमान-प्रथम-प्रसार्यमाण-सार-सौरभेये, प्रमुख-प्रवर्त्यमान-महा-समामन्त-मह्âनसे, पुरः-प्रधावद्-ध्वज-वाहिनि, प्रिय-शत्ôप-लभ्यमान-संकट-कुटीरक्âन्तराल-निःसरणे, करि-चरण-दलित-मठिक्ôत्थित-लोक-लोष्ट-हन्यमान-मेण्ठ-क्रियमाण्âसन्न-स्âक्षिंणि, संघट्ट-विघट्टमान-व्याघ्र-पल्ली-पलायमान-क्षुद्र-कुटुम्बके, कलकल्ôपद्रव-द्रवद्-द्रविण-बलीवर्द-विद्राण-वणिजि, पुरः-सर-दीपिक्âलोक-विरलायमान-लोक्ôत्पीडा-प्रस्थित्âन्तः-पुर-करिणी-कदम्बके, हय्âरोह्âहूयमान-लम्बित-शुनि, स-रभस-चरण-निपतन-निश्-चल-गमन-सुखायमान-खक्खट-स्तूयमान-तुङ्ग-तङ्गण-गुणे, स्रस्त-वेसर-विसंवादि-सीदद्-दाक्षिणात्य-सादिनि, रजो-जग्ध-जगति प्रयाण-समये, प्रति-दिशम् आगच्छद्भिर् गज-वधू-समारूढैर् आधोरणैर् ऊर्ध्व-ध्रियमाण-हेम-पत्र-भङ्ग-शार-शार्ङ्गैः, अन्तर्âसन्âसीन्âन्तरङ्ग-गृहीत्âसिभिः, ताम्बूलिक-विधूयमान-चामर-पल्लवैः, पश्चिम्âसनिक्âर्पित-भस्त्रा-भरण-भिन्दिपाल-पूलिङ्कैः, पत्र-लता-कुटिल-कल-धौत-नलक-पल्लवित-पर्याणैः, पर्याण-पक्षक-परिक्षेप-पट्टिका-बन्ध-निश्-चल-पट्ट्ôपधान-स्थिर्âवधानैः, प्रचल-पाद-फलिक्âस्फालन-स्फायमान-पद-बन्ध-मणि-शिला-शब्दैः, उच्चित्र-नेत्र-सु-कुमार-स्वस्थान-स्थगित-जङ्घा-काण्डैश् च कार्दमिक-पट-कल्माषित-पिशङ्ग-पिङ्गैः, अलि-नील-मसृण-सतुला-समुत्पादित-सिता-समायोग-पर-भागैश् च्âवदात-देह- [207] -वर्ण-विराजमान-राज्âवर्त-मेचकैः, कञ्चुकैश् च्âपचित-चीन-चोलकैश् च तार-मुक्ता-स्तबकित-स्तवरक-वारबाणैश् च नाना-कषाय-कर्बुर-कूर्पसकैश् च शुक-पिच्छ-च्छायाच्छादनकैश् च व्यायाम्ôल्लुप्त-पार्श्व-प्रविष्ट-चारु-शस्त्रश् च गति-वश-वेल्लित-हार-लता-गलल्-लोल-कुण्डल्ôन्मोचन-प्रधावित-परिजनैः, चामीकर-पत्र्âङ्कुर-कर्ण-पूर-कवि-घट्टमान-वाचाल-वाल-पाशैश् च्ôष्णीष-पट्ट्âवष्टब्ध-कर्णोत्पल-नालैश् च कुङ्कुम-राग-कोमल्ôत्तरीय्âन्तरित्ôत्तम्âङ्गैश् च चूडा-मणि-खण्ड-खचित-क्षौम-खोलैश् च मायूर्âतपत्रायमाण-शेखर-षट्-पद-पटलैश् च मार्ग्âगत-शारीरिक-शारि-वाह-वेग-दण्डैः, पुनश्-चञ्चच्-चामर-किर्मीर-कार्दरङ्ग-चर्म-मण्डल-मण्डन्ôड्डीयमान-चटुल-डामर-चारभट-भरित-भुवन्âन्तरैः, आस्कन्दत्-काम्बोज-वाजि-शत-शिञ्जान-जात-रूप्âयान-रव-मुखरित-दिङ्-मुखैश् च निर्दय-प्रहत-लम्बा-पटह-शत-पटु-रव-बधिरी-कृत-श्रवण-विवरैः, उद्घोष्यमाण-नामभिः, उन्मुख-पादात-प्रतिपाल्यमान्âज्ञ्âपातै राजभिर् आपुपूरे राज-द्वारम्.
उदिते च भगवति दिन-कृति राज्ञः समायोग-ग्रहण-समय-शंसी सस्वान संज्ञा-शङ्खो मुहुर् मुहुः. अथ न चिराद् इव प्रथम-प्रयाण एव दिग्-विजयाय दिग्-गज-समागमम् इव गमन-विलोल-कर्ण-ताल-दोला-विलासैः कुर्वाणया करेणुकया सिद्ध-यात्रय्ôह्यमानः, वैदूर्य-दण्ड-विकटेन्ôपरि प्रत्युप्त-पद्म-राग-खण्ड-मयूख-खचिततया सूर्य्ôदय-दर्शन-कोपाद् इव [208] लोहितायतया ध्रियमाणेन मङ्गल्âतपत्रेण कदली-गर्भ्âभ्यधिक-म्रदिम्ना नव-नेत्र-निर्मितेन द्वितीय इव भोगिनाम् अधिपतिर् अङ्ग-लग्नेन कञ्चुकेन्â-मृत-मथन-दिवस इव क्षीर्ôद-फेन-पटल-धवल्âम्बर-वाही, बाल एव पारिजात-पादप इव्â-खण्डल-भूमिम् आरूढः, विधूयमान-चामर-मरुद्-विधूत-कर्ण-पूर-कुसुम-मञ्जरी-रजसा सकल-भुवन-वशी-करण-चूर्णेन्êव दिशश् छुरयन्न् अभिमुख-चूडा-मणि-घटमान-पाटल-प्रतिबिम्बम् उदयमानं सवितारम् अपि पिबन्न् इव तेजसा बहल-ताम्बूल-सिन्दूर-च्छुरितया विलभमान इव द्वीप्âन्तराण्य् ओष्ठ-मुद्रय्âनुरागस्य स्फुरन् महा-हार-मरीचि-चक्र-वालानि चामराण्îव दिशो ऽपि ग्राहयन्, राजक्êक्षण्ôत्क्षिप्त-त्रि-भागया त्रीन् अपि लोकान् कर-दानाय्âज्ञापयन्न् इव स-विभ्रमं भ्रू-लतया द्राघीयसा बाहु-प्राकारेण परिक्षिपन्न् इव रिरक्षया सप्त्âपि सागर-महा-खातान् अखिलम् इव क्षीर्ôद-माधुर्यम् आदाय्ôद्गतया लक्ष्म्या समुपगूढः, गाढम् अ-मृतमय इव पीयमानः कुतूहल्ôत्तान-कटक-लोक-लोचन-सहस्रैः स्नेह्âर्द्रेषु राज्ञां हृदयेषु गुण-गौरवेण मज्जन्न् इव, लिम्पन्न् इव, सौभाग्य-द्रवेण द्रष्टॄणाम् अ-मर-पतिर् इव्âग्रज-वध-कलङ्क-प्रक्षालन्âकुलः, पृथुर् इव पृथिवी-परिशोधन्âवधान-संकलित-सकल-महीभृत्-समुत्सारणः, पुरः-सरैर् आलोक-कारकैः सहस्र-संख्यैर् अर्क इव किरणैर् अधिकार-चातुर्य-चञ्चल-चरणैर् व्यवस्थ्âस्थापन-निष्ठुरैः भय-पलायमान-लोक्ôत्पीड्âन्तरिता दश्âपि दिशो ग्राहयद्भिर् इव, चलित-कदलिका-संपात-पीत-प्रचारं पवनम् अपि विनये स्थापयद्भिर् इव, द्रुत-चरण्ôद्धूत-धूलि-पटल्âवधूतान् दिन-कर-किरणान् अप्य् उत्सारयद्भिर् इव, कनक-वेत्र-लत्âलोक-विक्षिप्यमाणं दिनम् अपि दूरी-कुर्वद्भिर् इव, दण्डिभिर् इतस्-ततः समुत्सार्यमाण-जन-समूहो निर्जगाम नर-पतिः.
अवनमति च विनय-नमित-वपुषि, भय-चकित-मनसि, चलन-शिथिल-मणि-कनक-मुकुट-किरण-निकर-परिकर-रुचिर-शिरसि, विलुलित-कुसुम- [209] -शेखर-रजसि रज-चक्रे, प्रभा-मुचां चूडा-मणीनाम् अवाञ्चस् तिर्यञ्च उदञ्चश् च चञ्चन्तो मरीचयश् चाप-राशय इव सु-शकुन-संपादनाय चेलुः. मेघायमान-रेणु-मेदुरं मन्दिर-शिखण्डिन इव खम् उड्डीयमानाः कोमल-कल्प-पादप-पल्लव-वन्दन-माला-कलापा इव्âबध्यन्त दिग्-द्वारेषु दिक्-पालैः प्रणम्यमानश् च नेत्र-विभागैश् च कटाक्षैश् च समग्र्êक्षितैर् भ्रू-वञ्चितैश् च्âर्ध-स्मितैश् च परिहासैश् च छेक्âलापैश् च कुशल-प्रश्नैश् च प्रतिप्रणामैश् च्ôन्मत्त-भ्रू-वीक्षितैश् च्âज्ञा-दानैश् च्âक्रीणन्न् इव मानमयान् प्राणान् प्रणय-दानैः प्रवीराणां वीरो यथ्âनुरूपं विबभाज राजकम्.
अथ प्रस्थिते राजनि बहल-कलकल-त्रस्त-दिङ्-नाग-शूत्-कार-रव इव्êतस्-ततस् तस्तार तारतरस् तूर्याणां प्रतिध्वनिर् आशा-तटेषु. दिग्-गजेभ्यः प्रकुपितानां त्रि-प्रस्रुतानां करिणां मद-प्रस्रवण-वीथीभिर् अलि-कुल-कालीभिः कालिन्दी-वेणिका-सहस्राण्îव सस्यन्दिरे. सिन्दूर-रेणु-राशिभिर् अरुणायमान-बिम्बे रवाव् अस्तम्-अय-समयं शशङ्किरे शकुनयः. करिणां षट्-पद-कोलाहल-मांसलैः कर्ण-ताल-निः-स्वनैस् तिरो-दधिरे दुन्दुभि-ध्वनयः. दोधूयमानश् च स-चर्âचरम् आचचाम चामर-संघातो विश्वम्. अश्वीय-श्वास-निक्षिप्तैः शिश्विन्दे सित-सिन्धु-वार-दाम-शुचिभिर् निर्-अन्तरम् अन्तरिक्षं फेन-पिण्डैः. पिण्डी-भूत-तगर-स्तबक-पाण्डुराणि पपुर् इव परस्पर-संघट्ट-नष्ट्âष्ट-दिशं दिवसम् उच्च-चामीकर-दण्डान्य् आतपत्र-वनानि. रजो-रजनी-निमीलितो मुकुट-मणि-शिल्âवली-बाल्âतपेन विचकास वासरः. राजतैर् हिरण्यैश् च मण्डनक-भाण्ड-मण्डलैर् ह्रादमानैर् हरिती-कृताः परिह्रादा हरितो बधिरतां दधुः. अरि-प्रताप्âनल-निर्मूलनाय्êव मद्ôष्म-शीकरैः शिशेकिरे करिणः ककुभां चक्रम्. चक्षुषाम् उन्मेषं मुमुषुस् तडिच्-चञ्चलानि चूडा-मणीनाम् अर्चीषि . स्वयम् अपि विसिष्मिये बलानां भूपालः सर्वतो-विक्षिप्त-चक्षुश् च्âद्राक्षीद् आवास-स्थान-सकाशात् प्रतिष्ठमानं स्कन्ध्âवारम्, अधोक्षज-कुक्षेर् इव युग्âदौ निष्पतन्तं जीव-लोकम्, [210] अम्भो-निधिम् इव कुम्भ-भुवो वदनात् प्लावित-भुवनम् उद्भवन्तम्, अर्जुन-बाहु-दण्ड-सहस्र-संपिण्डित्ôन्मुक्तम् इव सहस्रधा प्रवर्तमानं प्रवाहं नर्मदायाः. "प्रसर तात. भाव, किं विलम्बसे? लङ्घति तुरङ्गमः. भद्र, भग्न-चरण इव संचरसि यावद् अमी पुरः-सराः स-रभसम् उपरि पतन्ति. वाहयसि किम् उष्ट्रम्? न पश्यसि निर्दय, निः-शूक-शिशुकं शयानम्? वत्स रामिल, रजसि यथा न नश्यसि तथा समीपे भव, किं न पश्यसि गलति शक्तु-प्रसेवकः? किम् एवम् इत्वर, त्वरसे. सौरभेय, सरणिम् अपहाय हय-मध्यं धावसि? धीवरि, विशसि. गन्तु-कामा मातङ्गि, मातङ्ग-मार्गम्. अङ्ग, गलति तिरश्चीना चणक-गोणी. गणयसि न माम् आरटन्तम्? अवटम् अवटेन्âवतरसि. सुखम् आस्स्व स्वैरिणि. सौवीरक, कुम्भो भग्नः. मन्थरक, खादिष्यसि गतः सन्न् इक्षुम्. उक्षाणं प्रसादय. कियच्-चिरम् उच्चिनोषि चेट, बदराणि? दूरं गन्तव्यम्. किम् अद्य्âइव विद्रासि द्रोणक, द्राघीयसि दण्ड-यात्रा विन्âइकेन निष्ठुरकेण निष्-क्रेयम् अस्माकम्. अग्रतः पन्थाः स्थपुटक, स्थावरक, यथा न भनक्षि फाणित-स्थालीं, गरीयान् गण्डक-तण्डुल-भारको न निर्वहति दम्यः. दासक, माषीणाद् अमुतो द्राग् दात्रेण मुख-घास-पूलकं नुनीहि . को जानाति यवस-गतं गतानाम्. धव, वारय बलीवर्दान्, वाहीक-रक्षितं क्षेत्रम् इदम्. लम्बिता शकटी. शाक्करं धुरं-धरं धुरि धवलं नियुङ्क्ष्व. यक्ष-पालित, प्रमदाः पिनक्षि. अक्षिणी किं ते स्फुटिते. हत हस्ति-पक, नेदीयसि करि-कर-दण्डे समदः संमर्द-कर्दमे स्खलसि. भ्रातर् भाव-विधुर-बन्धो, उद्धर पङ्काद् अनड्वाहम्. इत एहि माणवक, घन्êभ-घटा-संघट्ट-संकटे न्âस्ति निस्तरण-सरणिः." इत्य् एवम्-आदि-प्रवर्तमान्âनेक-संलापं क्व-चित् स्व्êच्छा- [211] -मृदित्ôद्दाम-सस्य-घास-विघस-सुख-संपन्न्âन्न-पुष्टैः केलिकलैः किलकिलायमानैर् मेण्ठ-वण्ठ-वठर-लम्बन-लेशिक-लुण्ठक-चेट-शाट-चण्डाल-मण्डलैर् आण्डीरैः स्तूयमानम्, क्व-चिद् अ-सहायैः क्लेश्âर्जित-कु-ग्राम-कुटुम्बि-संपादित-सीदत्-सौरभेय-शम्बल-संवाहन्âयास्âवेग्âगत-संयोगैः स्वयं-गृहीत-गृह्ôपस्करणैः "इयम् एका कथं-चिद् दण्ड-यात्रा यातु. यातु पाताल-तलं तृष्णा-भूतेर् अभवनिः. भवतु शिवम्. सेवां करोतु. स्वस्ति सर्व-दुःख-कूटाय कटकाय" इति दुर्विध-वृद्ध-कुल-पुत्रकैर् निन्द्यमानम्, क्व-चिद् अति-तीक्ष्ण-सलिल-स्रोतः-पाति-नौ-गतैर् इव ग्रथितैर् इव पङ्क्ति-भूतैर् जनैर् अति-द्रुतम्, द्रवद्भिः कृष्ण-कठिन-स्कन्ध-गुरु-लगुडैर् गृहीत-सौवर्ण-पाद-पीठी-करङ्क-कलश-पतद्-ग्रह्âवग्राहैः प्रत्यासन्न-पार्थिव्ôपकरण-ग्रहण-गर्व-दुर्वारैः सर्वम् एव बहिः कारयद्भिर् भू-पति-भृतक-भारिकैर् मह्âनस्ôपकरण-वाहिभिश् च बद्ध-वराह-वर्ध्र-वार्धीणसैर् लम्बमान-हरिण-चटुक-चटक-जूट-जटिलैः शिशु-शशक-शाक-पत्र-वेत्र्âग्र-संग्रह-संग्राहिभिः शुक्ल-कर्पट-प्रावृत-मुख्âइक-देश-दत्त्âर्द्र-मुद्रा-गुप्त-गोरस-भण्डैस् तलक-तापक-तापिका-हस्तक-ताम्र-चरुक-कटाह-संकट-पिटक- [212] -भारिकैः समुत्सार्यमाण-पुरो-वर्ति-जनम्, क्व-चित् "क्लोशो ऽस्माकम्. फल-काले ऽन्य एव विटाः समुपस्थास्यन्ते" इति मुखरैः पदे पदे पततां दुर्-बल-बलीवर्दानां नियुक्तैः स्खलने खल-चेटकैः खेद्यमान्â-संविभक्त-कुल-पुत्र-लोकम्, क्व-चिन् नर-पति-दर्शन-कुतूहलाद् उभयतः प्रजवि-प्रधावित-ग्रामेयक-जन-पदम्, मार्ग-ग्राम-निर्गतैर् आग्रहारिक-जाल्मैश् च पुरः-सर-जरन्-महत्तर्ôत्तम्भित्âम्भः-कुम्भैर् उपायनी-कृत-दधि-गुड-खण्ड-कुसुम-करण्डकैर् घटित-पेटकैः स-रभसं समुत्सर्पद्भिः प्रकुपित-प्रचण्ड-दण्डि-वित्रासन-विद्रुतैर् दूर-गतैर् अपि स्खलद्भिर् अपि पतद्भिर् अपि नर्êन्द्र-निहित-दृष्टिभिर् अ-सतो ऽपि पूर्व-भोग-पति-दोषान् उद्भावयद्भिर् अधिक्रान्त्âयुक्तक-शतानि च शंसद्भिश् चिरंतन-चाट्âपराधांश् च्âभिदधानैर् उद्धूयमान-धूलि-पटलम्, क्व-चिद् एक्âन्त-प्रवृत्त्âश्व-वार-चक्र-चर्च्यमाण्âगामि-गौड-विमृग्यमाण-सस्य-संरक्षणम्, अ-परैर् आदिष्ट-परिपालक-पुरुष-परितुष्टैः "धर्मः प्रत्यक्षो देवः" इति स्तुतीर् आतन्वद्बिः, अ-परैर् लूयमान-निष्पन्न-सस्य-प्रकटित-विषादैः क्षेत्र-शुचा स-कुटुम्बकैर् एव निर्गतैः प्ररूढ-प्राण-च्छेदैः परिताप-त्याजित-भयैः "क्व राजा, कुतो राजा. कीदृशो वा राजा?" इति प्रारब्ध-नर-नाथ-निन्दम्, शशकैश् च कैश्-चित् पदे पदे प्रजवि-प्रचण्ड-दण्ड-पाणि-पेटक्âनुबद्धैर् गिरि-गुडकैर् इव हन्यमानैर् इतस्-ततः संचरद्भिः, अ-परैर् युगपत्-परापतित-महा-जन-ग्रस्तैस् तिलशो विलुप्यमानैर् अन्-एक-जन्तु-जङ्घ्âन्तराल-निःसरण-कुशलिभिः कुटिलिका-व्यंसित-सादि-बहु-श्वभिः पतल्-लोष्ट-लगुड-कोण-कुठार-कील-कुद्दाल-खनित्र-दात्र-यष्टि-वृष्टिभिर् अपि निःसरद्भिर् आयुषो बलात् कृत-कलकलम्, अन्यत्र संघशो घासिकैर् बुस-धूलि-धूसरित-घास-जाल-जालकित-जघनैश् च पुराण-पर्याण्âइक-देश-दोलायमान-दात्रैश् च सीर्ण्ôर्णा-शकल-शि- [213] -थिल-मलिन-मल-कुथैश् च प्रभु-प्रसादी-कृत-पाटित-पटच्-चर-चलच्-चोलक-धारिभिश् च धावमानैर् उद्धूयमान-धूलि-पटलम्, क्व-चिद् एक्âन्त-प्रवृत्त्âश्व-वार-चक्र-चर्च्यमान्âगामि-गौड-विग्रहम्, क्व-चित्
पङ्किल-प्रदेश-पूरण्âदेश्âकुल-सकल-लोक-लूयमान-तृण-पूलकम्, क्व-चित् तल-वर्ति-वेत्रि-वेत्र-वित्रास्यमान-शाखि-शिखर-गत-विक्रोशद्-विवादि-ब्राह्मणम्, क्व-चित् कुलुण्ठक-पाश-विवेष्ट्यमान-ग्रामीण-ग्राम्âकृष्ट-कौलेयकम्, क्व-चिद् अन्योन्य-विभव-स्पर्ध्ôद्धुर-राज-पुत्र-वाह्यमान-वाजि-संघट्ट-मण्डितम्, अन्-एक-वृत्त्âन्ततया कौतुक-जननम्, प्रलय-जलधिम् इव जगद्-ग्रास-ग्रहणाय प्रवृत्तम्, पातालम् इव महा-भोगिनां गुप्तये समुत्पादितम्, कैलासम् इव परम्êश्वर-वसतये सृष्टम्, दृस्यमान-सकल-प्राणि-पर्यायं चतुर्-युग-सर्ग-कोशम् इव प्रजा-पतीनां क्लेश-बहुलम् अपि तपः-करणम् इव क्रम-कारिणं कल्याणानाम्, एवं च वीक्ष्यमाणः कटकं जगाम.
आसन्न-वर्तिनां च "तत्र-भवता मांधात्रा प्रवर्तिताः पन्थानो दिग्-विजयाय अ-प्रतिहत-रथ-रंहसा रघुणा लघुन्âइव कालेन्âकारि ककुभां प्रसादनम्. शर्âसन-द्वितीयः करदी-चकार चक्रं क्रम्âगत-भुज-बल्âभिजन-धन-मद्âवलिप्तानां भूभुजां पाण्डुः. पाण्डवः सव्यसाची चीन-विषयम् अतिक्रम्य राज-सूय-संपदे क्रुध्यद्-गन्धर्व-धनुष्-कोटि-टाङ्कार-कूजित-कुञ्जं हेमकूट-पर्वतं पराजैष्ट. संकल्प्âन्तरितो विजयस् तरस्विनाम्. स-हिम-हिमवद्-व्यवहितो ऽप्य् उवाह बाहु-बल-व्यतिकर-कातरः करं कौरव्êश्वरस्य किङ्कर इव्âकृती द्रुमः. न्âति-जिगीषवः खलु पूर्वे येन्âल्प एव भू-भागे भूयांसो भगदत्त-दन्तवक्र-क्राथ-कर्ण-कौरव-शिशुपाल-साल्व-जरासंध-सिन्धुराज-प्रभृतयो ऽभवन् भू-पतयः. संतुष्टो राजा [214] युधिष्ठिरो यो ह्य् असहत समीप एव धनञ्जय-जय-जनित-जगत्-कम्पः किं-पुरुषाणां राज्यम्. अलसश् चण्डकोशो यो न प्राविक्षत् क्ष्मां जित्वा स्त्री-राज्यम्. ह्रसीय एव्âन्तरं तुषार-गिरि-गन्ध-मादनयोः उत्साहिनः. किष्कुः तुरुष्क-विषयः. प्रादेशः पारसीक-देशः. शश-पदं शक-स्थानम्. अ-दृश्यमान-प्रतिप्रहारे परियात्रे यात्र्âइव शिथिला. शौर्य-शुल्कः सु-लभो दक्षिणा-पथः. दक्षिण्âर्णव-कल्लोल्âनिल-चलित-चन्दन-लता-सौरभ-सुन्दरी-कृत-दरी-मन्दिराद् दर्दुराद् अद्रेर् नेदीयसि मलयो मलय-लग्न एव च मह्êन्द्रः." इत्य् एवं-प्रायान् उद्योग-द्योतकानाम् आलापान् पार्थिव-कुमाराणां बाहु-शालिनां शृण्वन्न् एव्âससाद्âवासम्. मन्दिर-द्वारि च्ôभयतः स-बहु-मानं भ्रू-लताभ्यां विसर्जित-राज-लोकः प्रविश्य च्âवततार बाह्य्âस्थान-मण्डप-स्थापितम् आसनम् आचक्राम. अपास्त-समायोगश् च क्षणम् आसिष्ट.
अथ तत्र प्रतीहारः पृथिवी-पृष्ठ-प्रतिष्ठापित-पाणि-पल्लवो विज्ञापितवान्: "देव! प्राग्-ज्योतिष्êश्वरेण कुमारेण प्रहितो हंसवेग-नामा दूतो ऽन्तर्-अङ्गस् तोरणम् अध्यास्ते" इति. राजा तु "तम् आशु प्रवेशय" इति स्âदरम् आदिदेश. अथ दक्षतया क्षिति-पाल्âदराच् च प्रतीहारः स्वयम् एव निरगात्. अन्-अन्तरं च हंसवेगः स-विनयम् आकृत्य्âइव नयन्âनन्द-संपादन-सुभग्âभोग-भद्रतया समुल्लङ्घ्यमान-गुण-गरिमा प्रभूत-प्राभृत-भृतां पुरुषाणां समूहेन महत्âनुगम्यमानः प्रविवेश राज-मन्दिरम्. आराद् एव पञ्च्âङ्ग्âलिङ्गित्âङ्गनः प्रणामम् अकरोत्. "एह्य् एहि" इति स-बहु-मानम् आहूतश् च प्रधावितो ऽपसृतः पाद-पीठ-लुठित-ललाट-लेखो न्यस्त-हस्तः पृष्ठे पार्थिवेन्ôपसृत्य भूयो नमश् चक्रे. स्निग्ध-नर्êन्द्र-दृष्ट्या निर्दिष्टम् अ-विप्रकृष्टं स प्रदेशम् अध्यास्ते. ततो राजा तिरश्चीं तनुम् ईषद् इव दधानश् चामर-ग्राहिणीम् अन्तराल-वर्तिनीं समुत्सार्य संमुखीनस् तं स-प्रश्रयं पप्रच्छ: "हंसवेग! श्रीमान् कच्-चित् कुशली कुमारः?" [215] इति. स तम् अन्ववादीत्: "अद्य कुशली येन्âइवं स्नेह-स्नपितया सौहार्द-द्रव्âर्द्रया स-गौरवं गिरा पृच्छति देवः" इति.
स्थित्वा च मुहूर्तम् इव पुनः स चतुरम् उवाच: "चतुर्-अम्भोधि-भोग-भूति-भाजन-भूतस्य देवस्य सद्-भाव-गर्भम् अपहाय हृदयम् एकम् अन्यद् अनुरूपं प्राभृतम् एव दुर्-लभं लोके तथ्âप्य् अस्मत्-स्वामिना संदेशम् अ-शून्यतां नयता पूर्वज्ôपार्जितं वारुण्âतपत्रम् आभोग्âख्यम् अनुरूप-स्थान-न्यासेन कृत्âर्थी-कृतम् एतत्. अस्य च कुतूहल-कृन्ति बहून्य् आश्चर्याणि दृस्यन्ते. तथा हि: प्रति-दिवसं प्रविशति शैत्य-हेतोश् छायायाः किरण-सहस्राद् एक्âइकः सोमस्य रश्मिर् अस्मिन्. यस्मिन् प्रविष्टे प्रध्यान्âन्-अन्तरं स्वादव्ôदन्त-वीण्ôपदेश्âचार्याश् च्योतन्ति चन्द्र-भासाम् अम्भसां मणि-शलाकाभ्यो यावद्-इच्छम् अच्छा धाराः. प्रचेता इव यश् चतुर्णाम् अर्णवानाम् अधिपतिर् भूतो भावी वा तम् इदम् अनुगृह्णाति च्छायया न्êतरम्. इदं च न सप्त्âर्चिर् दहति, न पृषद्-अश्वो हरति, न्ôदकम् आर्द्रयति, न रजांसि मलिनयन्ति, न जरा जर्जरयत्îति. एतत् तावद् अनुगृह्णातु दृशा देवः संदेशम् अपि विस्रब्धं श्रोष्यति." इत्य् एवम् अभिधाय विवृत्य्âत्मीयं पुरुषम् अभ्यधात्: "उत्तिष्ठ! दर्शय देवस्य" इति.
स च वचन्âन्-अन्तरम् उत्थाय पुमान् ऊर्ध्वी-चकार तद् धौत-दुकूल-कल्पिताच् च निचोलकाद् अकोषीत्. आकृष्यमाण एव च यस्मिन्न् अति-सित-महसि स-रभसम् अहास्îव हरेण, रसा-तलाद् उदलास्îव शेष-फणि-फणा-फलक-मण्डलेन, अस्थाय्îव चक्री-भूय्âन्तरिक्षे क्षीर्ôदेन, अघट्îव गगन्âङ्गने गोष्ठी-बन्धः शारदेन बलाहक-व्यूहेन, विश्रान्तम् इव वितत-पक्षतिना वियति पिता-मह-विमान-हंस-यूथेन, अत्रि-नेत्र-निर्गतस्य धवल-धाम-मण्डल-मनोहरो दृष्ट इव जनेन जन्म-दिवसः कुमुद-बन्धोः, प्रत्यक्षी-कृत इव्ôद्गमन-क्षणो नारायणन्âभिपुण्डरीकस्य, आहित्êव कीमुदी-प्रदोष-दर्शन्âनन्द-तृप्तिर् अक्ष्णाम्, उदमाङ्क्षीद् इव मन्दाकिनी-पुलिन- [216] -मण्डलं महद्-अम्बर्ôदरे, परिवर्तित इव दिवसः पौर्णमासी-निशया, मन्दं-मन्दम् इन्द्ûदय-संदेह-हूयमान-मानसैर् विघटितं घटमान-चञ्चु-च्युत-मृणाल-कोटिभिर् आसन्न-कमलिनी-चक्र-वाक-मिथुनैः शरज्-जल-धर-पटल्âशङ्का-संकोचित-केका-रव-मूक-मुख-पुटैः पराङ्-मुखी-भूतं भवन-शिखण्डि-मण्डलैः, प्रबुद्धम् आबद्ध-चन्द्र्âनन्द्ôद्दाम्ôद्दलद्-दल-पुट्âट्टहास-विशदं कुमुद-षण्डैः.
चित्रीयमाण-चेताश् च स-राजको राजा दण्ड्âनुसार्âधिरोहिण्या दृष्ट्या स्âदरम् ऐक्षिष्ट तत् तिलकम् इव त्रि-भुवनस्य, शैशवम् इव श्वेत-द्वीपस्य, अंश्âवतारमिव शरद्-इन्दोः, हृदयम् इव धर्मस्य, निवेशम् इव शशि-लोकस्य, दन्त-मडलक-द्युति-धवलं मुखम् इव चक्र-वर्तित्वस्य, मौक्तिक-जाल-परिकर-सितं सीमन्त-चक्रम् इव दिवः, बहल-ज्योत्स्ना-शुक्ल्ôदरम् ऐन्दवम् इव परिवेष-वलयं शौक्ल्य्âपहसित-शङ्ख-श्रीकं श्रवण-मण्डलम् इव निश्-चलतां गतम् ऐरावतस्य, श्वेत-गङ्ग्âवर्त-पाण्डुरं पदम् इव त्रि-भुवन-वन्दनीयं त्रि-विक्रमस्य, प्रचेतसश् चूडा-मणि-मरीचि-शिखाभिर् इव श्लिष्ठाभिर् मानस-बिस-तन्तुमयीभिश् चामरिक्âवलीभिर् विरचित-परिवेषम्, उपरि चक्र-वर्ति-लक्ष्मी-नूपुर-स्वन-श्रवण-दोहद-निश्-चलेन्êव लक्ष्मणा वितत-पत्रेण हंसेन स-नाथी-कृत-शिखरम्, स्पर्शवता च प्रभाव-स्तम्भितेन मन्दाकिनी-मृणालेन मुकुलित-फणेन वासुकिन्êव नीतेन दण्डतां द्योतमानम्, धवलिम्ना क्षालयद् इव नक्षत्र-पथम्, प्रभा-प्रवाह-प्रथिम्ना प्रावृण्वद् इव दिवसम्, समुच्छ्रायेण्âधः-कुर्वद् इव दिवम्, उपरि-स्थितम् इव सर्व-मङ्गलानाम्, श्वेत-मण्डपम् इव श्रियः, स्तबकम् इव ब्रह्म-स्तम्बस्य, नाभि-मण्डलम् इव ज्योत्स्नायाः, विशद-हासम् इव कीर्तेः, फेन-राशिम् इव खड्ग-धारा-जलानाम्, यशः-पटलम् इव शौर्य-शालितायाः, त्रैलौक्य्âद्भुतं महच् छत्रम्.
दृष्टे तस्मिन् राज्ञा प्रथमे शेषम् अपि प्राभृतं प्रकाशयां-चक्रुः क्रमेण कार्माः. तद् यथा परार्ध्य-रत्न्âंशु-शोणी-कृत-दिग्-भागान्, भग- [217] -दत्त-प्रभृति-ख्यात-पार्थिव-परागतान् आहत-लक्षणान् अलं-कारान्, प्रभा-लेपिनां च चूडा-मणीनां समुत्कर्षान्, क्षीर्ôदधेर् धवलता-हेतून् इव हारान्, अन्-एक-राग-रुचिर-वेत्र-करण्ड-कुण्डली-कृतानि शरच्-चन्द्र-मरीचि-रुञ्चि शौच-क्षमाणि क्षौमाणि, कुशल-शिल्पि-लोक्ôल्लिखितानां च शुक्ति-शङ्ख-गल्वर्क-प्रमुखानां पान-भाजनानां निचयान्, निचोलक-रक्षित-रुचां च रुचिर-काञ्चन-पत्र-भङ्ग-भङ्गुराणाम् अति-बन्धुर-परिवेशानां कार्दरङ्ग-चर्मणां संभारान्, भूर्ज-त्वक्-कोमलाः स्पर्शवतीर् जाति-पट्टिकाः चित्र-पटानां च म्रदीयसां समूरुक्ôपधान्âदीन् विकारान्, प्रियङ्गु-प्रसव-पिङ्गल-त्वञ्चि च्âसनानि वेत्र-मयान्य् अ-गुरु-वल्कल-कल्पित-संचयानि च सुभाषित-भाञ्जि पुस्तकानि, परिणत-पाटल-पटोल-त्विंषि च तरुण-हारीत-हरिन्ति क्षीर-क्षारीणि च पूगानां पल्लव्âवलम्बीनि स-रसानि फलानि, सहकार-लता-रसानां च कृष्णागुरु-तैलस्य च कुपित-कपि-कपोल-कपिल-कापोतिका-पलाश-कोशी-कवचित्âङ्गीः स्थवीयसीर् वैणवीर् नाडीश् च पट्ट-सूत्र-प्रसेवक्âर्पितांश् च भिन्न्âञ्जन-वर्णस्य कृष्णागुरुणो गुरु-परिताप-मुषश् च गोशीर्ष-चन्दनस्य, तुषार-शिला-शकल-शिशिर-स्व्-अच्छ-सितस्य च कर्पूरस्य, कस्तूरिका-कोशकानां च पक्व-फल-जूट-जटिलानां च कक्कोल-पल्लवानाम्, लवङ्ग-पुष्प-मञ्जरीणां जाती-फल-स्तबकानां च राशीन्, अति-मधुर-मधुरस्âमोद-निर्हारिणीश् च्ôल्लक-कलशीः सित्âसितस्य च चामर-जातस्य निचयान्, अवलम्बमान-तूलिक्âलाबुकांश् च लिखित्âन्-एक-लेख्य-फलक-संपुटान्, कुतूहल-कृन्ति च कनक-शृङ्खला-नियमित-ग्रीवाणां किं-नराणां च वन-मानुषाणां च जीवञ्जीवकानां च जल-मानुषाणां च मिथुनानि, परिमल्âमोदित-ककुभश् च कस्तूरिका-कुरङ्गान्, गेह-परिसरण-परिचिताश् च चमरीः, चामीकर-रस-चित्र-वेत्र-पञ्जर्âन्तर्-गतांश् च [218] बहु-सुभाषित-जल्पाक-जिह्वांश् च शुक-शारिका-प्रभृतीन् पक्षिणः, प्रवाल-पञ्जर-गतांश् च चकोरान्, जल-हस्तिनाम् उदग्र-कुम्भ-मुक्ता-फल-दाम-दन्तुराणि च दन्त-काण्ड-कुण्डलानि.
राजा तु छत्र-दर्शनात् प्रहृष्ट-हृदयः प्रथम-प्रयाणे शोभन-निमित्तम् इति मनसा जग्राह. हंसवेगं च प्रीयमाणो बभाषे: "भद्र! सकल-रत्न-धाम्नः परम्êश्वर-शिरो-धारण्âर्हस्य्âस्य मह्âतपत्रस्य मह्âर्णवाद् इव कुमुद-बान्धवस्य कुमाराल् लाभो न विस्मयाय. बाल-विद्याः खलु महताम् उपकृतयः" इति. अपनीते च तस्मात् प्रदेशात् प्राभृत-संभारे क्षणम् इव स्थित्वा "हंसवेग! विश्रम्यताम्" इति प्रतीहार-भवनं विसर्जयां-बभूव. स्वयम् अप्य् उत्थाय स्नात्वा मङ्गल्âकाङ्क्षी प्राङ्-मुखः प्राविशद् आभोगस्य छायाम्.
अथ विशत एव्âस्य छाया-जन्मना जडिम्ना चूडा-मणिताम् अनीयत्êव शशि-बिम्बम् अम्बु-बिन्दु-मुचश् चुचुम्बुर् इव चन्द्र-कान्त-मणयो ललाट-तटं कर्पूर-रेणव इव व्यलीयन्त लोचन-यूगले गले गलत्-तुहिन-कण-निकर-कृत-नीहारा हारा इव्âवबध्यन्त हरि-चन्दन-रस्âसारेण्êव्âपाति संततम् उरसि कुमुदमयम् इव हृदयम् अभवद् अति-शिशिरम् अन्तर्-हित-हिमशिल्êव विलीयमाना व्यलिम्पद् अङ्गानि. जात-विस्मयश् च्âकरोन् मनसि "एकम् अ-जर्यं संगतम् अपहाय क्âऽस्त्य् आन्या प्रतिकौशलिक्êति." आहार-काले च हंसवेगाय धवल-कर्पट-प्रावृत-धौत-नालिकेर-परिगृहीतं विलिप्त-शेषं चन्दनम् अङ्ग-स्पृष्टे च वाससी शरत्-तारक्âकार-तार-मुक्ता-स्तबकित-पदं परिवेशं नाम कटि-सूत्रकम्. अति-मह्âर्ह-पद्म-राग्âलोक-लोहिती-कृत-दिवसं च तरङ्गकं नाम कर्ण्âभरणं प्रबूतं च भोज्य-जातं प्राहिणोत्. एवं-प्रायेण च क्रमेण जगाम दिवसः.
ततः कटक-स्थ-बल-बहल-धूलि-धूसरित-वपुर्-अंशु-माली मलीमसम् अङ्गम् इव क्षालयितुम् अ-पर-जल-निधिम् अवातरत्. आभोग्âतपत्र-प्रदान-वार्ता- [219] -म् इव निवेदयितुं वरुणाय वारुणीं दिशम् अयासीत्. मुकुलायमान-सकल-कमल-वना प्रमुख एव बद्ध-सेव्âञ्जलि-पुटेव स-द्वीपा भूर् अभूद् भू-पतेः. भू-पाल्âनुरागमय इव निखिल-जीव-लोक-लोक्âञ्जलि-बद्ध-बन्धुर् जगज् जग्राह संध्या-रागः. गौड्âपराध-शङ्किन्îव श्यामतां प्रपेदे दिक् प्राची. प्रचित-तिमिर-निर्वहा निर्वाण्âन्य-नृप-प्रताप्âनल-कलाप्êव कालिमानम् अतानीन् मेदिनी. मेदिन्îश-प्रदोषा-स्थान-पुष्प-निकरम् इव विकच-तवर-रुचिरम् अवचकरुर् उडु-निकरम् अ-विरलं ककुभः. स्कन्ध्âवार-गन्ध-गज-मद्âमोद-धावितस्य्êव मार्गो वियति विरराज रजः-पाण्डुरैर् आवतस्य. कुपित-नृप-व्याघ्र्âघ्राताम् उपसृष्टाम् इव पौरुष्टुतीं विहाय विहायस् तलम् आरुरोह रोहिणी-रमणः. प्रयाण-वार्ता इव मानिनीनां हृदय-भेदिन्यो ययुर् इन्दु-दीधितयो दश दिशः. नव-नृप-दण्ड-यात्रा-त्रास्âतुरा इव तरलित-सत्त्व-वृत्तयश् चुक्षुभुः पतयो वाहिनीनाम्. चिन्त्êव भूभृतां हृदयानि विवेश गुहा-विवराणि विमुक्त-सर्व्âशा-तिमिर-संततिः. प्रतिसामन्त-चक्षुषाम् इव ननाश निद्रा कुमुद-वनानाम्.
अस्यां च वेलायां वितत-वितान-तल-वर्ती नर्êन्द्रो "यात तावत्" इति विसर्ज्य्âनुजीविनो हंसवेगम् आदिष्टवान्: "कथय संदेशम्" इति. प्रणम्य स कथयितुं प्रास्तावीत्: "देव! पुरा महा-वराह-संपर्क-संभूत-गर्भया भगवत्या भुवा नरको नाम सूनुर् असावि रसा-तले. वीरस्य यस्य्âभवन् बाल्य एव पाद-प्रणाम-प्रणयिनश् चूडा-मणयो लोक-पालानाम् यस्य च त्रि-भुवन-भुजो भुज-शौण्डस्य भवन-कमलिनी-चक्र-वाकी-कोप-कुटिल-कट्âक्ष्êक्षितो ऽपि भय-चकित्âरुण-परिवर्तित-रथो न्âज्ञया विना रविर् अस्तम्-अव्राजीत्. यश् च वरुणस्य बहिर्-वृत्ति हृदय- [220] -म् इदम् आतपत्रम् अहार्षीत्. मह्âत्मनस् तस्य्âन्वये भगदत्त-पुष्पदत्त-वज्रदत्त-प्रभृतिषु व्यतीतेषु बहुषु मेर्ûपमेषु महत्सु मही-पालेषु प्रपौत्रो महा-राज-भूतिवर्मणः पौत्रश् चन्द्रमुखवर्मणः पुत्रो देवस्य कैलास-स्थिर-स्थितेः स्थितिवर्मणः सुस्थिरवर्मा नाम महा-राज्âधिराजो जज्ञे तेजसां राशिर् मृगाङ्क इति यं जना जगुः. यो ऽयम् अग्र-जेन्êव्âजायत सह्âइव्âहंकारेण. यश् च बाल एव प्रीत्या द्वि-जातीन् अ-प्रीत्या च्âरातीन् समग्रान् प्रतिग्रहान् अग्राहयत्. यत्र च्âति-दुर्-लभं लवण्âलय-संभूतायाः परं माधुर्यम् अभूल् लक्ष्म्याः. तथा च यो वाहिनी-नाथानां शङ्खाञ् जहार न रत्नानि, पृथिव्याः स्थैर्यं जग्राह न करम्, अवनि-भृतां गौरवम् आदत्त न नैष्ठुर्यम्. तस्य च सु-गृहीत-नाम्नो देवस्य देव्यां श्यामादेव्यां भास्करद्युतिर् भास्करवर्म्â-पर-नामा तनयः शंतनोर् भागीरथ्यां भीष्म इव कुमारः समभवत्. अयम् अस्य च शैशवाद् आरभ्य संकल्पः स्थेयान् स्थाणु-पाद्âरविन्द-द्वयाद् ऋते न्âहम् अन्यं नमस्-कुर्याम् इति ईदृशश् च्âयं मनो-रथस् त्रि-भुवन-दुर्-लभस् त्रयाणाम् अन्यतमेन संपद्यते सकल-बुवन-विजयेन वा मृत्युना वा यदि वा प्रचण्ड-प्रताप-ज्वलन-जनित-दिग्-दाहेन जगत्य् एक-वीरेण देव्ôपमेन मित्रेण. मैत्री च प्रायः कार्य-व्यपेक्षिणी क्षोणी-भृताम्. कार्यं च कीदृशं नाम तद् भवेद् यद् उपन्यस्यमानम् उपनयेन् मित्रतां देवम्. देवस्य हि यशांसि सञ्चिचीषतो बहिर्-अङ्ग-भूतानि धनानि. बाहाव् एव च केवले निषण्णस्य शेष्âवयवानाम् अपि साहायक-संपादन-मनो-रथो निर्-अवकाशः किम् उत बाह्य-जनस्य. चतुः-सागर-ग्राम-ग्रहण-घस्मरस्य पृथिव्य्-एक-देश-दान्ôपन्यासेन्âपि का तुष्टिः. अभिरूप-कन्या-विश्राणन-विलोभनम् अपि लक्ष्मी-मुख्âरविन्द-दर्शन-दुर्-ललित-दृष्टेर् अ-किञ्-चित् करम्. एवम् अ-घटमान-सकल्ôपाय-संपादित-पद्âर्थे ऽस्मिन् प्रार्थना-मात्रकम् एव केवलम् अनुरुध्यमानः शृणोतु देवः. प्राग्-ज्योतिष्êश्वरो हि देवेन सह्âइकपिङ्ग इव्âनङ्गद्विषा, दशरथ इव गोत्रभिदा, धनञ्जय इव पुष्कराक्षेण, वकर्तन इव दुर्योधनेन, मलय्âनिल इव माधवेन, अ-जर्यं संगतम् इच्छति. यदि च देवस्य्âपि मैत्री यति-हृदयम् अवगच्छति च पर्याय्âन्तरितं दास्यम् अनुतिष्ठन्ति सुहृद इति ततः किम् आस्यते समाज्ञाप्यताम् अनुभवतु विष्णोर् मन्दर-गिरिर् इव विकट-केयूर-कोटि-मणि-विघट्टन-कणित-कटक-मणि-शिला-श- [221] -कलानि गाढ्ôपगूढानि देवस्य काम-रूप्âधिपतिः. अस्मिन्न् आतृप्तेर् अन्-अवरत-विमल-लावण्य-सौभाग्य-सुधा-निर्झरिणि मुख-शशिनि चिराच् चक्षुषी लालयतु प्राग्-ज्योतिष्êश्वर-श्रीः. न्âभिनन्दति चेद् देवः प्रणयम् आज्ञापयतु किं कथनीयं मया स्वामिन" इति.
विरत-वचसि तस्मिन् भू-पालः पूर्व्ôपलब्धैर् एव गुरुभिर् गुणैर् आरोपित-बहु-मानः कुमारे सु-दूरम् आभोग्âतपत्र-व्यतिकरेण तु परां कोटिम् आरोपिते प्रेम्णि लज्जमान इव स्âदरं जगाद: "हंसवेग! कथम् इव तादृशि मह्âत्मनि मह्âभिजने पुण्य-राशौ गुणीनां प्राग्रहरे परो-क्ष-सुहृदि स्निह्यति मद्-विधस्य्âन्यथा स्वप्ने ऽपि प्रवर्तेत मनः. सकल-जगद्-उत्तापन-पटवो ऽपि शिशिरायन्ते त्रि-बुवन-नयन्âनन्द-करे कमल्âकरे करास् तिग्म-तेजसः. सु-बहु-गुण-क्रीताश् च के वयं सख्यस्य. सज्-जन-माधुर्याणाम् अ-भृत-दास्यो दश दिशः. एक्âन्त्âवदात्ôत्तान-स्वभाव-संभृत-सादृश्यस्य कुमुदस्य कृते केन्âभिहितः शिशिर-रश्मिः. श्रेयांश् च संकल्पः कुमारस्य. स्वयं बाहु-शाली मयि च समालम्बित-शर्âसने सुहृदि हराद् ऋते कम् अन्यं नमस्यति. संवर्धिता मे प्रीतिर् अमुना संकल्पेन. अवलेपिनि पशाव् अपि केसरिणि बहु-मानो हृदयस्य किं पुनः सुहृदि. तत् तथा यतेथाः यथा न चिरम् इयम् अस्मान् क्लेशयति कुमार-दर्शन्ôत्कण्ठा" इति.
हंसवेगस् तु विज्ञापयां-बभूव: "देव! किम् अ-परम् इदानीं क्लेशयत्य् अभिजातम् अभिहितं देवेन. सेवा-भीरवो हि सन्तः, तत्र्âपि विशेषेण्âयम् अहंकार-धनो वैष्णवो वंशः. आस्तां तावद् अस्मत्-स्वामि-वंशः. पश्यतु देवः पुरुषस्य हि सेवां प्रति दुर्-जनन्य्êव्âति-वृद्धया दुर्-गत्या व्âभिमुखी-क्रियमाणस्य, कुटुम्बिन्य्êव्â-संतुष्टया तृष्णया वा प्रेर्यमाणस्य, दुर्-अपत्यैर् इव यौवन-जनितैर्-नान्âभिलाषिभिर् अ-सत्-संकल्पैर् व्âकुली-क्रियमाणस्य, जरत्-कुमारीम् इव पर-मार्गण-योग्याम् अति-महतीं वा अवस्थां पश्यतः, स्व-गृहे दुर्-बन्धुभिर् इव दुः-स्थितैः समग्रैर् ग्रहैर् वा ग्राह्यमाणस्य्âभियोगं, पुरातनैर् अति-दुस्-त्यजैर् भृत्यैर् इव मलिनैः कर्मभिर् व्âनुवर्त्यमानस्य, सकल-शरीर-संताप-करं करीष्âग्निम् इव दुष्-कृतिनः [222] कृत-चित्तस्य संप्रवेष्टुं राज-कुलम् उपहत-सकल्êन्द्रिय-शक्तेर् इव मिथ्य्âइव हृदय-गत-विषय-ग्राम-ग्रहण्âभिलाषस्य, प्रथमम् एव तोरण-तले वन्दन-माला-किसलयस्य्êव शुष्यतो द्वार-रक्षिभिर् निरुद्धस्य, पीडितस्य प्रविशतो द्वारे हरिणस्य्êव्â-परैर् हन्यमानस्य, करि-कर्म-चर्म-पुटस्य्êव मुहुर्-मुहुः प्रतिहार-मण्डल-कर-प्रहारैर् निरस्यमानस्य, निधि-पादप-प्ररोहस्य्êव द्रविण्âभिलाषाद् अधो-मुखी-भवतः, दूरम् अ-मार्गणस्य्âप्य् अति-विप्रकृष्ट-विवृत्त-विसर्जितस्य्ôद्वेगं व्रजतः, अ-कण्टकस्य्âपि चरण-तल-लग्नस्य्âकृष्य क्षेपीयः क्षिप्यमाणस्य, अ-मकर-केतोर् अप्य् अ-काल्ôपसर्पण्â-प्रकुपित्êश्वर-दृष्टि-दग्धस्य, प्रलयम् उपगच्छतः कपेर् इव कोप-निर्भर्त्सितस्य्âप्य् अभिन्न-मुख-रागस्य, ब्रह्म-घ्न इव प्रति-दिवस-वन्दन्ôद्धृष्ट-शिरः-कपालस्य, स्पर्श-रहितस्य्â-शुभ-कर्माणि निर्वहतः, त्रि-शङ्कोर् इव्ôभय-लोक-भ्रष्टस्य नक्तं-दिनम् अवाक्-शिरसस् तिष्ठतः, वाजिन इव कवल-वशेन सुख-वाह्यम् आत्मानं विदधानस्य, अन्-अशन-शायिन इव हृदय-स्थापित-जीव-नाशस्य, शरीरं क्षपयतः शुन इव निज-दार-पराङ्-मुखस्य, जघन्य-कर्म-लग्नम् आत्मानं ताडयतः, प्रेतस्य्êव्âन्-उचित-भूमि-दीयमान्âन्न-पिण्डस्य, बलि-भुज इव जिह्वा-लौल्य्ôपयुक्त-पुरुष-वर्चसो वृथा विहित्âयुषो जीवितः, श्मशान-पादपान् इव पिशाचस्य दग्ध-भूत्या परुषी-कृतान् राज- [223] -वल्लभान् उपसर्पतः विपरीत-जिह्वा-जनित-माधुर्यैर् ओष्ठ-मात्र-प्रकटित-रागै राज-शुक्âलापैः शिशोर् इव मुग्ध-विलोभ्यमानस्य, वेतालस्य्êव नर्êन्द्र-प्रभाव्âविष्टस्य न किं-चिन् न्âचरतः, चित्र-धनुष इव्âलीक-गुण्âध्यारोपण्âइक-क्रिया-नित्य-नम्रस्य निर्वाण-तेजसः, संमार्जनी-समुपार्जित-रजसो ऽवकर-कूटस्य्êव निर्माल्य-वाहिनः, कफ-विकारिण इव दिने दिने कटुकैर् उद्वेज्यमानस्य, सौगतस्य्êव्âर्थ-शून्य-विज्ञप्ति-जनित-वैराग्यस्य काषायाण्य् अभिलषतः, निशास्व् अपि मातृ-बलि-पिण्डस्य्êव दिक्षु विक्षिप्यमाणस्य, अ-शौच-गतस्य्êव कुशयन-जनित-समधिकतर-दुःख-वृत्तेः, तुला-यन्त्रस्य्êव पश्चात्-कृत-गौरवस्य तोय्âर्थम् अपि नमतः, अति-कृपणस्य शिरसा केवलेन्â-संतुष्टस्य वचस्âपि पादौ स्पृशतः, निर्-दय-वेत्रि-वेत्र-ताडन-त्रस्तय्êव त्रपया त्यक्तस्य, दैन्य-संकोचित-हृदय-हृत्âवकाशय्êव्âहोपुरुषिकया परिवर्जितस्य, कुत्सित-कर्म्âङ्गी-करण-कुपितय्êव्ôन्नत्या वियुक्तस्य, धन-श्रद्धया क्लेशान् उपार्जयतः. स्व-वृद्धि-बुद्ध्य्âवमानं संवर्धयतो मूढस्य, सत्य् अपि विविध-कुसुम्âधिवास-सुरभिणि वने तृष्णय्âञ्जलिम् उपरचयतः, कुल-पुत्रस्य्âपि कृत्âगस इव भीत-भीतस्य समीपम् उपसर्पतः, दर्शनीयस्य्âप्य् आलेख्य-कुसुमस्य्êव निष्-फल-जन्मनः, विदुषो ऽपि वैधेयस्य्êव्âपशब्द-मुखस्य, शक्तिमतो ऽपि श्वित्रिण इव संको- [224] -चित-कर-युगलस्य, सम-समुत्कर्षेषु निर्-अग्नि-पच्यमानस्य, नीच-समी-करणेषु निर्-उच्छ्वासं म्रियमाणस्य, परिभवैस् तृणी-कृतस्य, दुःख्âनिलेन्â-निर्वृतेर् ज्वलतः, भक्तस्य्âप्य् अ-भक्तस्य, निर्-ऊष्मणः संतापयतो बन्धून्, विमानस्य्âप्य् अ-गतिकस्य, च्युत-गौरवस्य्âप्य् अधस्ताद् गच्छतः, निः-सत्त्वस्य्âपि महा-मांस-विक्रयं कुर्वतः, निर्-मदस्य्âप्य् अ-स्वतन्त्र-वृत्तेः, अ-योगिनो ऽपि ध्यान-वशी-कृत्âत्मनः, शय्य्ôत्थायं प्रणमतो दग्ध-मुण्डस्य, गोत्र-विदूषकस्य नक्तं-दिनं नृत्यतो मनस्वि-जनं हासयतः, कुल्âङ्गारस्य वंशं दहतः, नृ-पशोस् तृणे ऽपि लब्दे कन्धराम् अवनमयतः, जठर-परिपूरण-मात्र-प्रयोजन-जन्मनो मांस-पिण्डस्य गर्भ-रोगस्य मातुः, अ-पुण्यानां कर्मणाम् आचरणाद् भृतकस्य किं प्रायश्-चित्तम्, का प्रतिपत्ति-क्रिया, क्व गतस्य शान्तिः, कीदृशं जीवितम्, कः पुरुष्âभिमानः, किं-नामानो विलासाः, कीदृशी भोग-श्रद्धा, प्रबल-पङ्क इव सर्वम् अधस्तान् नयति दारुणो दास-शब्दः. धिक् तद् उच्छ्वसितम् उपयातु निधनं धनम्, अ-भव-निर्भूतेर् अस्तु तस्या नमो भगवद्भ्यस् तेभ्यः सुखेभ्यस् तस्य्âयम् अञ्जलिर् ऐश्वर्यस्य तिष्ठतु दूर एव सा श्रीः शिवं स परिच्छदः करोतु यद् अर्थम् उत्तम्âङ्गं गां गमिष्यत्य् अ-शाप्âनुग्रह-क्षमस् तपस्वी मुख-प्रिय-रतः क्लीबो पूति-मांसमयः कृमिर् अ-गण्यमानो नरकः, पाद-रजो-धूसर्ôत्तम्âङ्गो जङ्गमः पाद-पीठः पुंस्-कोकिलः काकु-क्वणितेषु, शिखी सुख-कर-केकासु, [225] स्थूल-कूर्मः क्रोड-कषणेषु, श्वा नीच-चाटु-करणेषु, कृकलासः शिरो-विडम्बनासु, जाहक आत्म-संकोचनेषु, वेणुर् मूर्च्छनासु, वेश्या-कायः करण-बन्ध-क्लेशेषु, पलालं सत्त्व-शालिषु, प्रतिपादकः पाद-संवाहनासु, कन्दुकः कर-तल-ताडनेषु, वीणा-दण्डः कोण्âबिघातेषु, वराकः सेवको ऽपि मर्त्य-मध्ये राजिलो ऽपि वा, भोगी पुलाको ऽपि वा, कलमो वरं क्षणम् अपि कृता मानवता मानवता न मतो नमतस् त्रैलोक्य्âधिराज्य्ôपभोगो ऽपि मनस्विनः. तद् एवम् अभिनन्दित्âस्मदीय-प्रणयो देवो ऽपि दिवसैः कतिपयैर् एव परागतः प्राग्-ज्योतिष्êश्वर इति करोतु चेतसि" इत्य् उक्त्वा तूष्णीम् अभूत्. अ-चिराच् च नमस्-कृत्य निर्जगाम.
राज्âपि रजनीं तां कुमार-दर्शन्âउत्सुक्य-स्वी-कृत-हृदयः समनैषीत्. आत्म्âर्पणं हि महताम् अ-मूल-मन्त्रमयं वशी-करणम्. प्रभाते च प्रभूतं प्रतिप्राभृतं प्रधान-प्रतिदूत्âधिष्ठितं दत्त्वा हंसवेगं प्राहिणोत्. आत्मन्âपि ततः प्रभृति प्रयाणकैर् अन्-अवरतैर् अभ्य्-अ-मित्रं प्रावर्तत. कदा-चित् तु राज्यवर्धन-भुज-बल्ôपार्जितम् अ-शेषं मालव-राज-साधनम् आदाय्âगतं समीप एव्âवासितं लेख-हारकाद् भण्डिम् अशृणोत्. श्रुत्वा च्âभिनवी-भूत-भ्रातृ-शोक-हुत्âशनस् तद्-दर्शन-कातर-हृदयो बभूव मूर्च्छ्âन्ध-कारम् इव विवेश्âतिष्ठच् च समुत्सृष्ट-सकल-व्यापारः प्रतीहार-निवारण-निभृत-निः-शब्द-परिजने निज-मन्दिरे स-राजक-परिवारस् तद्-आगमनम् उदीक्षमाणो मुहूर्तम्.
अथ भण्डिर् एकेन्âइव वाजिना कतिपय-कुल-पुत्र-परिवृतो मलिन-वासा रिपु-शर-शल्य-पूरितेन निखात-बहु-लोह-कीलक-परिकर-रक्षित- [226] -स्फुटनेन्êव हृदयेन, हृदय-लग्नैः स्वामि-सत्-कृतैर् इव श्मश्रुभिः, शुचं समुपदर्शयन् दूरी-कृत-व्यायाम-शिथिल-भुज-दण्ड-दोलायमान-मङ्गल-वलय्âइक-शेष्âलंकृतिर् अन्-आदर्ôपयुक्त-ताम्बूल-विरल-रागेण शोक-दहन-दह्यमानस्य हृदयस्य्âङ्गारेण्êव, दीर्घ-निःश्वास-वेग-निर्गतेन्âधरेण शुष्यता स्वामि-विरह-विधृत-जीवित्âपराध-वैलक्ष्याद् इव, बाष्प-वारि-पटलेन पटेन्êव प्रावृत-वदनः, विशन्न् इव दुर्-बली-भूतैः स्व्âङ्गम् अपत्रपय्âङ्गैर् वमन्न् इव च व्यर्थी-भूत-भुज्ôष्माणम् आयतैर् निःश्वसितैः, पातक्îव, अपराध्îव, द्रोह्îव, मुषित इव, छलित इव, यूथ-पति-पतन-विषण्ण इव वेग-दण्ड-वारणः, सूर्य्âस्तम्-अय-निः-श्रीक इव कमल्âकरः, दुर्योधन-निधन-दुर्-मना इव द्रौणिः, अपहृत-रत्न इव सागरो राज-द्वारम् आजगाम. अवतीर्य च तुरङ्गमाद् अवनत-मुखो विवेश राज-मन्दिरम्. दूराद् एव च विमुक्त्âक्रन्दः पपात पादयोः.
अवनि-पतिर् अपि दृष्ट्वा तम् उत्थाय प्रविरलैः पदैः प्रत्युद्गम्य्ôत्थाप्य च गाढम् उपगूह्य कण्ठे करुणम् अति-चिरं रुरोद. शिथिली-भूत-मन्यु-वेगश् च पुर्êव पुनर् आगत्य निज्âसने निषसाद. प्रथम-प्रक्षालित-मुखे च भण्डौ मुखम् प्रक्षालयत्69. समतिक्रान्ते च कियत्य् अपि काल-कला-कलापे भ्रातृ-मरण-वृत्त्âन्तम् अप्राक्षीत्. अथ्âकथयच् च यथा-वृत्तम् अखिलं भण्डिः. अथ नर-पतिस् तम् उवाच: "राज्यश्री-व्यतिकरः कः?" इति. स पुनर् अवादीत्: "देव! देव-भूयं गते देवे राज्यवर्धने गुप्त-नाम्ना च गृहीते कुश-स्थले देवी राज्यश्रीः परिभ्रश्य बन्धनाद् विन्ध्य्âटवीं स-परिवारा प्रविष्ट्êति लोकतो वार्ताम् अशृणवम्. अन्वेष्टारस् तु तां प्रति प्रभूताः प्रहिता जना न्âद्य्âपि निवर्तन्ते" इति. तच् च्âकर्ण्य भू-पतिर् अब्रवीत्: "किम् अन्यैर् अनुपदिबिः यत्र सा तत्र परित्यक्त्âन्य-कृत्यः स्वयम् एव्âहं यास्यामि. भवान् अपि कटकम् आदाय प्रवर्ततां गौड्âभिमुखम्." इत्य् उक्त्वा च्ôत्थाय स्नान-भुवम् अगात्. कारित-शोक-श्मश्रु-वपन-कर्मणा च महा-प्रतीहार-भवन-स्नातेन, शारीरिक-वसन-कुसुम्âङ्ग-राग्âलं-कार-प्रेषण-प्रकटित-प्रसादेन भण्डिना स्âर्धम् अभुक्त, निनाय च तेन्âइव सह वासरम्.
[227] अथ्âपरेद्युर् उषस्य् एव भण्डिर् भू-पालम् उपसृत्य व्यज्ञापयत्: "पश्यतु देवः श्री-राज्यवर्धन-भुज-बल्âर्जितं साधनं स-परिबर्हं मालव-राजस्य" इति. नर-पतिना स "एवं क्रियताम्" इत्य् अभ्यनुज्ञातो दर्शयां-बभूव. तद् याथा: अन्-अवरत-गलित-मद-मदिर्âमोद-मुखर-मधु-कर-जूट-जटिल-करट-पट्ट-पङ्किल-गण्डान्, गण्ड-शैलान् इव जङ्गमान्, गम्भीर-गर्जित-रव्âञ्जल-धरान् इव महीम् अवतीर्णान् उत्फुल्ल-सप्त-च्छद-वन्âमोद-मुचः, शरद्-दिवसान् इव पुञ्ज-भूतान्, अन्-एक-सहस्र-संख्यान् करिणः, चारु-चामीकर-चित्र-चामर-मण्डल-मनो-हरांश् च हरिण-रंहसो हरीन्, बाल्âतप-विसर-वर्षिणां च क्रिरणैर् अन्-एक्êन्द्र्âयुधी-कृत-दश-दिशाम् अलं-काराणां विशेषान्, विस्मय-कृतः स्मर्ôन्मादित-मालवी-कुच-परिमल-दुर्-ललितांश् च निज-ज्योत्स्न्âपूर-प्लावित-दिग्-अन्तान् अपि तारान् हारान्, उडु-पति-पाद-संचय-शूचीनि निज-यशांस्îव बाल-व्यजनानि, जात-रूपमय-नालं च निवास-पुण्डरीकम् इव श्रियः श्वेतम् आतपत्रम्, अप्सरस इव बहु-समर-रस-साहस्âनुराग्âवतीर्णा वार-विलासिनीः, सिंह्âसन-शयन्âसन्दी-प्रभृतीनि राज्य्ôपकरणानि, कालायस-निगड-निश्चली-कृत-चरण-युगलं च सकलं मालव-राज-लोकम्, अ-शेषांश् च स-संख्य्âलेख्य-पत्रान्, स्âलं-कार्âपीड-पीडान् कोश-कलशान्. अथ्âलोच्य तत् सर्वम् अवनि-पालः स्वी-कर्तुं यथ्âधिकारम् आदिशद् अध्यक्षान्. अन्यस्मिंश् च्âहनि हयैर् एव स्व-सारम् अन्वेष्टुम् उच्चचाल विन्ध्य्âटवीम् अवाप च परिमितैर् एव प्रयाणकैस् ताम्.
अथ प्रविशन् दूराद् एव दह्यमान-षष्टिक-बुस-विसर-विसारि-विभावसूनां वन्य-धान्य-बीज-धानीनां धूमेन धूसरिमाणम् आदधानैः शुष्क-शाखा-संचय-रचित-गोवाट-वेष्टित-विकट-वटैः, व्यापादित-वत्स-रूपक-रोष्âविष्ट-गोपाल-कल्पित-व्याघ्र-यन्त्रैः, अ-यन्त्रित-वन-पाल-हठ-ह्रियमाण-पर-ग्रामीण-काष्ठिक-कुठारैः, गहन-तरु-खण्ड-निर्मित-चामुण्डा-मण्डपैर् वन-प्रदेशैः, प्रकास्यमानम् अटवी-प्राय-प्रान्ततया कुटुम्ब-भरण्âकुलैः कुद्दाल-प्राय-कृषिभिः कृषीवलैर् अ-बलवद्भिर् उच्च-भाग-भाषितेन भज्यमान-भूरि-शालि-खल-क्षेत्र-खण्डलकम् अल्प्âवकाशैश् च कापिलैः, कालायसैर् इव कृष्ण-मृत्तिका-कठिनैः, स्थान-स्थान-स्थापित-स्थाण्ûत्थित-स्थूल-पल्लवैः दुर्-उपगम-श्यामाक-प्ररूढिभिर् अलम्बुस-बहुलैः, अ-विरहित-कोकिल्âक्ष-क्षुपैर् विरल-विरलैः केदारैः, कृच्छ्रात् कृष्यमाणैर् न्ति- [228] -प्रभूत-प्रवृत्त-गत्âगत्â-प्रहत-भुवम् उपक्षेत्रम् उपरचितैर् उच्चैर् मञ्चैश् च सूच्यमान-श्वापद्ôपद्रवं, दिशि दिशि च प्रति-मार्ग-द्रुम-कृतानां पथिक-पाद-प्रस्फोटन-धूलि-धूसरैर् नव-पल्लवैर् लाञ्छित-च्छायानाम्, अटवी-सु-लभ-साल-कुसुम-स्तबक्âञ्चित-नव-खात-कूपिक्ôपकण्ठ-प्रतिष्ठित-नाग-स्फुटानाम् अ-च्छिद्र-कट-कल्पित-कुटीरकाणाम्, कुटिल-कीट-वेणी-वेष्ट्यमान-शक्तु-शार-शराव-श्रेणी-श्रितानाम्, अध्वग-जन-जग्ध-जम्बू-फल्âस्थि-शबल-समीप-भुवाम्, उद्धूलित-धूली-कदम्ब-स्तबक-प्रकर-पुलकिनीनाम्, कण्टकित-कर्करी-चक्र्âक्रान्त-काष्ठ-मञ्चिका-मुषित-तृषाम्, तिम्यत्-तल-शीतल-सिकतिल-कलशी-शमित-श्रमाणाम्, आश्यान-शैवल-श्यामलित्âलिञ्जर-जायमान-जल-जडिम्नाम्, उद-कुम्भ्âकृष्ट-पाटल-शर्करा-शकल-शिशिरी-कृत-दिशाम्, घट-मुख-घटित-कट-हार-पाटल-पुष्प-पुटानाम्, शीकर-पुलकित-पल्लव-पूली-पाल्यमान-शोष्य-सरस-शिशु-सहकार-फल-जूटी-जटिल-स्थाणूनाम्, विश्राम्यत्-कार्पटिक-पेटक-परिपाटी-पीयमान-पयसाम् अटवी-प्रवेश-प्रपाणां शैत्येन त्याजयन्तम् इव ग्रैष्मम् ऊष्माणं क्व-चिद् अन्यत्र ग्राहयन्तम् इव्âङ्गारीय-दारु-संग्रह-दाहिभिः व्योकारैः, सर्वतश् च प्रातिवेश्य-विषय-वासिना समासन्न-ग्राम-गृह-स्थ-गृह-स्थापित-स्थविर-परिपाल्यमान-पाथेय-स्थगितेन कृत-दारुण-दारु-व्यायाम-योग्य्âङ्ग्âभ्यङ्गेन स्कन्ध्âद्यासित-कठोर-कुठार-कण्ठ-लम्बमान-प्रातर्âश-पुटेन पाटच्-चर-प्रत्यवाय-प्रतिपन्न-पटच्-चरेण काल-वेत्रक-त्रि-गुण-व्रतति-वलय-पाश-ग्रथित-ग्रीवा-ग्रथितैः पत्र-वीट्âवृत-मुखैः, पीत-कूटैर् ऊढ-वारिणा पुरः-सर-बलद्-बलीवर्द-युग-सरेण नैकटिक-कुटुम्बिक-लोकेन काष्ठ-संग्रह्âर्थम् अटवीं प्रविशता स्वापद-व्यधन-व्यवधान-बहली-समारोपित-कुटी-कृत-कूट-पाशैश् च गृहीत-मृग-तन्तु-तन्त्री-जाल-वलय-वागुरैः, बहिर्-व्याधैर् विचरद्भिर् अंस्âवसक्त-वीतंस-व्यालम्बमान-बाल-पाशिकैश् च संगृहीत-ग्राहक-क्रकरक-पिञ्जल्âदि-पञ्जरकैः शाकुनिकैः, संचरद्भिश् च्युत-लासक-लेश-लिप्त-लता-वधू-लट्वा-लम्पटानां चपेटकैः, पाशक-शिशूनाम् अटद्भिः तृण-स्तम्ब्âन्तरित-तित्तिरि-तरलायमान-कौलेयक-कुल-चाटु-कारैश् चलद्-विहग-मृगयां मृगयु-युवभिः क्रीडद्भिः, परिणत-चक्र-वाक-कण्ठ-कषाय-रुचां शीधव्यानां वल्कलानां कलापान्, न्âति-चिर्ôद्धृतानां च धातु-त्विषां धातकी-कुसुमानां गोणीर् अ-गणिताः पिचव्यानां च्âतसी-गण-पट्ट-मूलकानां पुष्कलान् संभा- [229] -रान्, भारांश् च मधुनो माक्षिकस्य मयूर्âङ्गजस्य्â-क्लिष्ट-मध्ûच्छिष्ट-चक्र-मालानां लम्बमान-लामज्जक-मुञ्ज-जूट-जटानाम् अप-त्वचां खदिर-काष्ठानां कुष्ठस्य कठोर-केसरि-सट्âभार-बभ्रुणश् च रोध्रस्य भूयसो भारकान्, लोकेन्âदाय व्रजता प्रविचित-विविध-वन-फल-पूरित-पिटक-मस्तकाभिश् च्âभ्यर्ण-ग्राम-गत्वरीभिस् त्वरमाणाभिर् विक्रय-चिन्ता-व्यग्राभिर् ग्रामेयकाभिर् व्याप्त-दिग्-अन्तरम् इतस् ततश् च युक्त-शूर-शकुर-शाक्वराणां पुराण-पांस्ûत्किर-करीष-कूट-वाहिनीनां धूर्गत-धूलि-धूसर-सैरिभ-स-रोष-स्वर-सार्यमाणानां संक्रीडच्-चटुल-चक्र-चीत्कारिणीनां शकट-श्रेणीनां संपातैः, संपाद्यमान-दुर्-बल्ôर्वी-विरूक्ष-क्षेत्र-संस्कारम् आरक्ष-क्षिप्त-दान्त-वाहक-दण्ड्ôड्डीयमान-हरिण-हेला-लङ्घित-तुङ्ग-वैणव-वृतिभिश् च निखात-गौर-करङ्क-शङ्कु-शङ्कित-शशक-शकलित-तुङ्ग-शुङ्गैः, प्रयत्न-प्रभृत-विशङ्कट-विटपैर् वाचैर् ऐक्षवैः, सु-बहुभिः श्यामायमान्ôपकण्ठम् अति-विप्रक्ष्ट्âन्तरैर् मरकत-स्निग्ध-स्नुहा-वाट-वेष्टितैः, कार्मुक-कर्मण्य-वंश-विटप-संकटैः, कण्टकित-करञ्ज-राजि-दुष्-प्रवेश्यैः, उरुबूक-वचा-वङ्गक-सुरस-सूरण-शिग्रु-ग्रन्थि-पर्ण-गवेधुका-गर्मुद्-गुल्म-गहन- [230] -गृह-वाटिकैः, निखात्ôच्च-काष्ठ्âरोपित-काष्ठ्âलुक-लता-प्रतान-विहित-च्छायैः, परिमण्डल-बदरी-मण्डपक-तल-निखात-खादिर-कील-बद्ध-वत्स-रूपैः, कथम् अपि कुक्कुट-रटित्âनुमीयमान-संनिवेशैर् अङ्गना-शस्ति-स्तम्भ-तल-विरचित-पक्षि-पूपिक्âवापिकैर् विकीर्ण-बदर-पाटल-पटलैः, वेणु-पोट-दल-नल-कलित-शरमय-वृति-विहित-भित्तिभिः, किंशुक-गोरोचना-रचित-मण्डल-मण्डप-बल्वज-बद्ध्âङ्गार-राशिभिः, शाल्मली-फल-तूल-संचय-बहुलैः, संनिहित-नल-शालि-शालूक-खण्ड-कुमुद-बीज-वेणु-तण्डुलैः, संगृहीत-तमाल-बीजैः, भस्म-मलिन-म्लान-काश्मर्य-कूट-व्याधृत-कटैर् आश्यान-राजादन-मदन-फल-स्फीतैर् मधूक्âसव-मद्य-प्रायैः, कुसुम्भ-कुम्भ-गण्ड-कुसूलैर् अ-विरहित-राज-माष-त्रपुष-कर्कटिका-कूष्माण्ड्âलाबु-बीजैः, पोष्यमाण-वन-बिडाल-मालुधान-नकुल-शालि-जात-जातक्âदिभिर् अटवी-कुटुम्बिनां गृहैर् उपेतं वन-ग्रामकं ददर्श. तत्र्âइव च तं दिवसम् अत्य्-अवाहयद् इति.
इति श्री-महा-कवि-बाण-भट्ट-कृतौ हर्षचरिते छत्र-लब्धिर् नाम सप्तम उच्छ्वास.
[231] अष्टम उच्छ्वासः.
सहसा संपादयता मनो-रथ-प्रार्थितानि वस्तूनि ।
दैवेन्âपि क्रियते भव्यानां पूर्व-सेव्êव ॥ 8.1 ॥
विद्वज्-जन-संपर्को नष्ट्êष्ट-ज्ञाति-दर्शन्âभ्युदयः ।
कस्य न सुखाय भवने भवति महा-रत्न-लाभश् च ॥ 8.2 ॥
अथ्âपरेद्युर् उत्थाय पार्थिवस् तस्माद् ग्रामकान् निर्गत्य विवेश विन्ध्य्âटवीम्. आट च तस्याम् इतश् च्êतश् च सु-बहून् दिवसान्. एकदा तु भू-पतेर् भ्रमत एव्âटविक-सामन्तस्य शरभकेतोः सूनुर् व्याघ्रकेतुर् नाम कुतो ऽपि कज्जल-श्यामल-श्याम-लता-वलयेन्âधिललाटम् उच्चैः कृत-मौलि-बन्धम्, अन्ध-कारिणीम् अ-कारण-भुवा भ्रुकुटि-भङ्गेन त्रि-शाखेन त्रि-यामाम् इव साहस-सह-चारिणीं ललाट-स्थलीं सदा समुद्वहन्तम्, अवतंसित्âइक-शुक-पक्षक-प्रभा-हरितायमानेन पिनद्ध-काचर-काच-मणि-कर्णिकेन श्रवणेन शोभमानम्, किं-चिच् चुल्लस्य प्रविरल-पक्ष्मणश् चक्षुषः सहजेन राग-रोचिषा रसायन-रस्ôपयुक्तं तार-क्षवं क्षतजम् इव क्षरन्तम्, अवनाट-नासिकम् चिपिट्âधरम्, चिकिन-चिबुकम्, अ-हीन-हन्ûत्कट-कपोल-कूट्âस्थि-पर्यन्तम् ईषद्-अवाग्र-ग्रीवा-बन्धम्, स्कन्न-स्कन्ध्âर्ध-भागम्, अन्-अवरत-कठिन-कोदण्ड-कुण्डली-करण-कर्कश-व्यायाम-विस्तारितेन्âंसलेन्ôरसा हसन्तम् इव तट-शिला-प्रथिमानं, विन्ध्य-गिरेर् अजगर-गरी- [232] -यसा च भुज-युगलेन लघयन्तं, तुहिन-शैल-शाल-द्रुमाणां द्राघिमाणम्, वराह-बाल-वलित-बन्धनाभिर् नाग-दमन-जूटिका-वाटिकाभिर् जटिली-कृत-पृष्ठे प्रकोष्ठे प्रतिष्ठां गतं गोदन्त-मणि-चित्रं त्रापुषं वलयं बिभ्राणम्, अतुन्दिलम् अपि तुण्डिभम्, अहीरमणी-चर्म-निर्मित-पट्टिकयोश् चित्र-चित्रक-त्वक्-तारकित-परिवारया संकुब्ज्âजिन-जालकितया शृङ्गमय-मसृण-मुष्टि-भाग-भास्वरया पारद-रस-लेश-लिप्त-समस्त-मस्तिकया कृपाण्या करालित-विशंकट-कटि-प्रदेशम्, प्रथम-यौवन्ôल्लिख्यमान-मध्य-भाग-भ्रष्ट-मांस-भरिताव् इव स्थवीयसाव् ऊरु-दण्डौ दधतम्, अच्छ-भल्ल-चर्ममयेन भल्ली-प्राय-प्रभूत-शरभृता शबल-शार्दूल-चर्म-पट-पीडितेन्âलि-कुल-काल-कम्बल-लोल-लोम्ना पृष्ठ-भाग-भाजा भस्त्र्âभरणेन पल्लवितम् इव कार्श्यम् उपदर्शयन्तम्, उत्तर-त्रि-भाग्ôत्तंसित-चाष-पिच्छ-चारु-शिखरे खदिर-जटा-निर्माणे खर-प्राणे प्रचुर-मयूर-पित्त-पत्र-लता-चित्रित-त्वचि त्वचि सार-गुणे गुरुणि वाम-स्कन्ध्âध्यासित-धनुषि दोषि लम्बमानेन्âवाक्-शिरसा शित-शर-कृत्त्âइक-नल-कवि-वर-प्रवेशित्êतर-जङ्घ-जनित-स्वस्तिक-बन्धेन बन्धूक-लोहित-रुधिर-राजि-रञ्जित-घ्राण-वर्त्मना वपुर्-वितति-व्यक्त-विभाव्यमान-कोमल-क्रोड-रोम-शुक्लिम्ना शशेन शित्âटनी-शिख्âग्र-ग्रथित-ग्रीवेण च्âपावृत-चञ्च्ûत्तान-ताम्र-तालुना तित्तिरिणा वर्णक-मुष्टिम् इव मृगयायाः दर्शयन्तम्, विषम-विष-दूषित-वदनेन च विवर्णेन कृष्ण्âहिन्êव मूल-गृहीतेन व्यग्र-दक्षिण-कर्âग्रम्, जङ्गमम् इव गिरि-तट-तमाल-पादपम्, यन्त्र्ôल्लिखितम् अश्म-सार-स्तम्भम् इव भ्रमन्तम, अञ्जन-शिला-च्छेदम् इव चलन्तम्, अयः-सारम् इव गिरेर् विन्ध्यस्य गलन्तम्, पाकलं करि-कुलानाम्, काल-पाशं कुरङ्ग-यूथानाम्, धूम-केतुं मृग-राज-चक्राणाम्, महानवमी-महं महीष-मण्डलानाम्, हृदयम् इव हिंसायाः, फलम् इव पापस्य, कारणम् इव कलि-कालस्य, कामुकम् इव काल-रात्रेः, शबर-युवानम् आदाय्âजगाम. दूरे च स्थापयित्वा विज्ञापयां-बभूव: "देव! सर्वस्य्âस्य विन्ध्यस्य स्वामी सर्व-पल्ली-पतीनां [233] प्राग्रहरः शबर-सेना-पतिर् भूकम्पो नाम. तस्य्âयं निर्घात-नामा स्वस्रीयः सकलस्य्âस्य विन्ध्य-कान्तार्âरण्यस्य पर्णानाम् अप्य् अभिज्ञः किम् उत प्रदेशानाम्. एनं पृच्छतु देवो योग्यो ऽयम् आज्ञां कर्तुम्." इति कथिते च निर्गातस् तु क्षिति-तल-निहित-मौलिः प्रणामम् अकरोत्. उपनिन्ये च तित्तिरिणा सह शश्ôपायनम्. अवनि-पतिस् तु संमानयन् स्वयम् एव तम् अप्राक्षीत्: "अङ्ग! अभिज्ञा यूयम् अस्य सर्वस्य्ôद्देशस्य? विहार-शीलाश् च दिवसेष्व् एतेषु भवन्तः? सेना-पतेर् व्âन्यस्य वा तद्-अनुजीविनः कस्य-चिद् उदार-रूप नारी न गता भवेद् दर्शन-गोचरम्?" इति.
निर्घातस् तु भू-पाल्âलापन-प्रसादेन्âत्मानं बहु-मन्यमानः प्रणनाम, दर्शित्âदरं च व्यज्ञापयत्: "देव! प्रायेण्âत्र हिरण्यो ऽपि न्â-परिगताः संचरन्ति, सेना-पतेः कुत एव नार्यः? न्âप्य् एवं-रूपा का-चिद् अ-बला. तथ्âपि देव्âदेशाद् इदानीम् अन्वेषणं प्रति प्रति-दिनम् अन्-अन्य-कृत्यैः क्रियते यत्नः. इतश् च्âर्ध-गव्यूति-मात्र एव मुनि-महिते महति मही-धर-माला-मूल-रुहि मही-रुहां षण्डे ऽपि पिण्ड-पाती प्रभूत्âन्ते-वासि-परिवृतः पाराशरी दिवाकरमित्र-नामा गिरि-नदीम् आश्रित्य प्रतिवसति, स यदि विन्देद् वार्ताम्" इति. तच् छ्रुत्वा नर-पतिर् अचिन्तयत्: "श्रूयते हि तत्र-भवतः सु-गृहीत-नाम्नः स्वर्गतस्य ग्रहवर्मणो बाल-मित्रं मैत्रायणीयस् त्रयीं विहाय ब्राह्मण्âयनो विद्वान् उत्पन्न-समाधिः सौगते मते युव्âइव काषायाणि गृहीतवान्" इति. प्रायशश् च जनस्य जनयति सुहृद् अपि दृष्टो भृशम् आश्वासम्. अभिगमनीयाश् च गुणाः सर्वस्य. कस्य न प्रतीक्ष्यो मुनि-भावः. भगवती च वैधेये ऽपि धर्म-गृहिणी गरिमाणम् आपादयति, प्रव्रज्या किं पुनः सकल-जन-मनो-मुषि विदुषि जने. यतो नः कुतूहलि हृदयम् अभूत् सततम् अस्य दर्शनं प्रति प्रासङ्गिकम् एव्êदम् आपतितम् अति-कल्याणं पश्यामः प्रयत्न-प्रार्थित-दर्शनं जनम् इति. प्रकाशं च्âब्रवीत्: "अङ्ग! समुपदिश तम् उद्देशं यत्र्âस्ते स पिण्ड-पाती" इति. एवम् उक्त्वा च तेन्âइव्ôपदिश्यमान-वर्त्मा प्रावर्तत गन्तुम्.
[234] अथ क्रमेण गच्छत एव तस्य अन्-अवकेशिनः कुड्मलित-कर्णि-काराः, प्रचुर-चम्पकाः स्फीत-फलेग्रहयः, फल-भर-भरित-नमेरवः नील-दल-नलद-नारिकेल-निकराः, हरि-केसर-सरल-परिकराः कोरक-निकुरम्ब-रोमाञ्चित-कुरबक-राजयः, रक्त्âशोक-पल्लव-लावण्य-लिप्यमान-दश-दिशः, प्रविकसित-केसर-रजो-विसर-बध्यमान-चारु-धूसरिमाणः स्व-रजः-सिकतिल-तिलक-तालाः, प्रविचलित-हिङ्गवः, प्रचुर-पूग-फलाः, प्रसव-पूग-पिङ्गल-प्रियङ्गवः, पराग-पिञ्जरित-मञ्जरी-पुञ्जायमान-मधुप-मञ्जु-शिञ्जा-जनित-जन-मुदः, मद-मल-मेचकित-मुचुकुन्द-स्कन्ध-काण्ड-कथ्यमान-निःशङ्क-करि-करट-कण्डूतयः, उड्डीयमान-निःशङ्क-चटुल-कृष्ण-शार-शाव-सकल-शाद्वल-सु-भग-भूमयः, तमः-कालतम-तमाल-माला-मीलित्âतपाः, स्तबक-दन्तुरित-देव-दारवः, तरल-ताम्बूली-स्तम्ब-जालकित-जम्बू-जम्भीर-वीथयः, कुसुम-रजो-धवल-धूलीकदम्ब-चक्र-चुम्बित-व्योमानः, बहल-मधु-मोक्ष्ôक्षित-क्षितयः, परिमल-घटित-घन-घ्राण-तृप्तयः; कतिपय-दिवस-सूत-कुक्कुटी-कुटी-कृत-कुटज-कोटराः, चटका-संचार्यमाण-वाचाट-चाट- [235] -कैर-क्रियमाण-चाटवः, सहचरी-चारण-चञ्चुर-चकोर-चञ्चवः, निर्-भय-भूरि-भुरुण्ड-भुज्यमान-पाक-कपिल-पीलवः, सदा-फल-कट्फल-विशसन-निः-शूक-शुक-शकुन्त-शातित-शलाटवः, शैलेय-सु-कुमार-शिला-तल-सुख-शयित-शश-शिशवः, शेफालिका-शिफा-विवर-विस्रब्ध-विवर्तमान-गौधेर-राशयः, निर्-आतङ्क-रङ्कवः, निर्-आकुल-नकुल-कुल-केलयः, कल-कोकिल-कुल-कवलित-कलिक्ôद्गमाः, सहकार्âराम-रोमन्थायमान-चमर-यूथाः, यथा-सुख-निषण्ण-नील्âण्डज-मण्डलाः, निर्विकार-वृक-विलोक्यमान-पोत-पीत-गवय-धेनवः, श्रवण-हारि-सनीड-गिरि-नितम्ब-निर्झर-निनाद-निद्र्âनन्द-मन्दायमान-करि-कुल-कर्ण-ताल-दुन्दुभ्यः, समासन्न-किन्नरी-गीत-रव-रसमान-रुरवः, प्रमुदिततर-तरक्षवः, क्षत-हरित-हरिद्रा-द्रव-रज्यमान-नव-वराह-पोत-पोत्र-वलयः, गुञ्जा-कुञ्ज-गुञ्जज्-जाहकाः, जाती-फलक-सुप्त-शालि-जातक-वलयः, दशन-कुपित-कपि-पोत-पेटक-पाटित-पाटल-मुख-कीट-पुटकाः, लकुच-लम्पट-गोलाङ्गूल-लङ्घ्यमान-लवलयः, बद्ध-वालुक्âलवाल-वलयाः, कुटिल-कुट्âवलि-वलित-वेग-गिरि-नदिका-स्रोतसः निबिड-शाखा-काण्ड-लम्बमान-कमण्डलवः, सूत्र-शिक्य्âसक्त-रिक्त-भिक्षा-कपाल-पल्लवित-लता-मण्डपाः, निकट-कुटी-कृत-पाटल-मुद्रा-चैत्यक-मूर्तयः, चीवर्âम्बर-राग-कषाय्ôदक-दूषित्ôद्देशाः, मेघमया इव कृत-शिखण्डि-कुल-कोलाहलाः, वेदमया इव्â-परिमित-शाखा-भेद-गहनाः, माणिक्यमया इव महानील-तनवः, तिमिरमया इव सकल-जन- [236] -नयन-मुषः, यामुना इव्ôर्ध्वी-कृत-महा-ह्रदाः, मरकत-मणि-श्यामलाः क्रीडा-पर्वतका इव वसन्तस्य, अञ्जन्â-चला इव पल्लविताः, तनया इव्âटवी-जाता विन्ध्यस्य्âद्रेः, पाताल्âन्ध-कार-राशय इव भित्त्वा भुवम् उत्थिताः, प्रतिप्रवेशिका इव वर्षा-वासराणाम्, अंश्âवतारा इव कृष्ण्âर्ध-रात्रीणाम्, इन्द्र-नीलमयाः प्रासादा इव वन-देवतानाम्, पुरस्ताद् दर्शन-पथम् अवतेरुस् तरवः.
ततो नर-पतेर् अभवन् मनस्य् अ-दूर-वर्तिना खलु भवितव्यं भदन्तेन्êति. अवतीर्य च गिरि-सरिति समुपस्पृश्य युगपद्-विश्राम-समय-समुन्मुक्त-हेषा-घोष-बधिरी-कृत्âटवी-गहनाम् अस्मिन्न् एव प्रदेशे स्थापयित्वा वाजि-सेनाम् अवलम्ब्य च तपस्वि-जन-दर्शन्ôचितं विनयं हृदयेन दक्षिणेन च हस्तेन माधवगुप्तम् अंसे विरलैर् एव राजभिर् अनुगम्यमानश् चरणाभ्याम् एव प्रावर्तत गन्तुम्.
अथ तेषां तरूणां मध्ये नाना-देशीयैः स्थान-स्थानेषु स्थाणून् आश्रितैः शिला-तलेष्ûपविष्टैर् लता-भवनान्य् अध्यावसद्भिर् अरण्यानी-निकुञ्जेषु निलीनैर् विटप-च्छायासु निषण्णैस् तरु-मूलानि निषेवमाणैर् वीत-रागैर् आर्हतैर् मस्करिभिः श्वेत-पटैः पाण्डुर-भिक्षुभिर् भागवतैर् वर्णिबिः केश-लुञ्चकैः कापिलैर् जैनैर् लोकायतिकैः काणादैर् औपनिषदैर् ऐश्वरकारणिकैः कारन्धमिभिर् धर्म-शास्त्रिभिः पौराणिकैः साप्ततन्तवैः शैवैः [237] शाब्दिकैः पाञ्चरात्रिकैर् अन्यैश् च स्वान् स्वान् सिद्ध्âन्ताञ् शृण्वद्भिर् अभियुक्तैश् चिन्तयद्भिश् च प्रत्युच्चरद्भिश् च संशयानैश् च निश्चिन्वद्भिश् च व्युत्पादयद्भिश् च विवदमानैश् च्âभ्यस्यद्भिश् च व्याचक्षाणैश् च शिष्यतां प्रतिपन्नैर् दूराद् एव्âवेद्यमानम्, अति-विनीतैः कपिभिर् अपि चैत्य-कर्म कुर्वाणैस् त्रि-सरण-परैः परम्ôपासकैः शुकैर् अपि शाक्य-शासन-कुशलैः कोशं समुपदिशद्भिः शिक्षा-पद्ôपदेश-दोष्ôपशम-शालिनीभिः शारिकाभिर् अपि धर्म-देशनां दर्शयन्तीभिर् अन्-अवरत-श्रवण-गृहीत्âलिकैः कौशिकैर् अपि बोधि-सत्त्व-जातकानि जपद्भिर् जात-सौगत-शील-शीतल-स्व-भावैः शार्दूलैर् अप्य् अ-मांस्âशिभिर् उपास्यमानम्, आसन्ôपान्त्ôपविष्ट-विस्रब्ध्âन्-एक-केसरि-शावकतया मुनि-परम्êश्वरम्, अ-कृत्रिम इव सिंह्âसने निषण्णम्, उपसमम् इव पिबद्भिर् वन-हरिणैर् जिह्वा-लताभिर् उपलिह्यमान-पाद-पल्लवम्, वाम-कर-तल-निविष्टेन नीवारम् अश्नता पारावत-पोतकेन कर्ण्ôत्पलेन्êव प्रियां मैत्रीं प्रसादयन्तम्, इतर-कर-किसलय-नख-मयूख-लेखाभिर् जनित-जन-व्यामोहम्, उद्ग्रीवं मयूरं मरकत-मणि-करकम् इव वारि-धाराभिः पूरयन्तम्, इतस्-ततः पिपीलक-श्रेणीनां श्यामाक-तण्डुल-कणान् स्वयम् एव किरन्तम्, अरुणेन चीवर-पटलेन म्रद्रीयसा संवीतम्, बहल-बालातप्âनुलिप्तम् इव पौरंदरं दिग्-भागम्, उल्लिखित-पद्म-राग-प्रभा-प्रतिमया रक्त्âवदातया देह-प्रभया पाटली-कृतानां काषाय-ग्रहणम् इव दिशाम् अप्य् उपदिशन्तम्, अन्-औद्धत्याद् अधो-मुखेन मन्द-मुकुलित-कुमुद्âकरेण स्निग्ध-धवल-प्रसन्नेन चक्षुषा जन-क्षुण्ण-क्षुद्र-जन्तु-जीवन्âर्थम् अ-मृतम् इव वर्षन्तम्, सर्व-शास्त्र्âक्षर-परम्âणुभिर् इव निर्मितम्, परम-सौगतम् अप्य् अवलोकित्êश्वरम्, अ-स्खलितम् अपि [238] तपसि लग्नम्, आलोकम् इव यथ्âवस्थित-सकल-पद्âर्थ-प्रकाशकं दर्शन्âर्थिनाम्, सुगतस्य्âप्य् अभिगमनीयम्, अवधर्मस्य्âप्य् आराधनीयम् इव, प्रसादस्य्âपि प्रसादनीयम् इव, मानस्य्âपि माननीयम् इव, वन्द्यत्वस्य्âपि वन्दनीयम् इव, आत्मनो ऽपि स्पृहणीयम् इव, ध्यानस्य्âपि ध्येयम् इव, ज्ञानस्य्âपि ज्ञेयम् इव, जन्म जपस्य, नेमिं नियमस्य, तत्त्वं तपसः, शरीरं शौचस्य, कोशं कुशलस्य, वेश्म विश्वासस्य, सद्-वृत्तं सद्-वृत्ततायाः, सर्वस्वं सर्व-ज्ञतायाः, दाक्ष्यं दाक्षिण्यस्य, पारं पर्âनुकम्पायाः, निर्वृतिं सुखस्य, मध्यमे वयसि वर्तमानं दिवाकरमित्रम् अद्राक्षीत्. अति-प्रशान्त-गम्भीर्âकार्âरोपित-बहु-मानश् व स्âदरं दूराद् एव शिरसा वचसा मनसा च ववन्दे.
दिवाकरमित्रस् तु मैत्रीमयः प्रकृत्या विशेषतस् तेन्â-परेण्â-दृष्ट-पूर्वेण्â-मानुष-लोक्ôचितेन सर्व्âभिभाविना मह्âनुभाव्âभोग-भाजा भ्राजिष्णुना भू-पतेर् अ-प्राकृतेन्âकार-विशेषेण तेन च्âभिजात्य-प्रकाशकेन गरीयसा प्रश्रयेण च्âह्लादितश् चक्षुषि च चेतसि च युगपद् अग्रहीत्. वीर-स्वभावो ऽपि च संपादित-स-संभ्रम्âभ्युत्थानः संकलय्य किं-चिद् उद्गमनकेन विलोलं विलम्बमानं वाम्âंसाच् चीवर-पट्âन्तम् उत्क्षिप्य च्âन्-एक्âभय-दान-दीक्षा-दक्षिणो दक्षिणं महा-पुरुष-लक्षण-लेखा-प्रशस्तं स्निग्ध-मधुरया वाचा स-गौरवम् आरोग्य-दानेन राजानम् अन्वग्रहीत्. अभ्यनन्दच् च स्व्-आगत-गिरा गुरुम् इव्âभ्यागतं बहु मन्यमानः स्वेन्âसनेन्âद्ध्वम् अत्र्êति निमन्त्रयां-चकार. पार्श्व-स्थितं च शिष्यम् अब्रवीत्: "आयुष्मन्! उपानय कमण्डलुना पाद्ôदकम्" इति. राजा त्व् अचिन्तयत्: "अ-लोहः खलु संयमन-पाशः शौजन्यम् अभिजातानाम्. स्थाने खलु तत्र-भवान् गुण्âनुरागी ग्रहवर्मा बहुशो वर्णितवान् अस्य गुणान्" इति. प्रकाशं च्âबभाषे: "भगवन्! भवद्-दर्शन-पुण्य्âनुगृहीतस्य मम पुनर् उक्त इव्âयम् आर्य-प्रयुक्तः प्रतिभात्य् अनुग्रहः. चक्षुः-प्रमाण-प्रसाद-स्वी-कृतस्य च पर-करणम् इव्âसन्âदि-दान्ôपचार-चेष्टितम्. अति-भूमिर् भूमिर् एव्âसनं भवादृशां पुरः संभाषण्â-मृत्âभिषेक-प्रक्षालित-सकल-वपुषश् च [239] मे प्रदेश-वृत्तिः. पाद्यम् अप्य् अपार्थकम्. आसतां भवन्तो यथा-सुखम्. आसीनो ऽहम्" इत्य् अभिधाय क्षिताव् एव्ôपाविशत्.
"अलं-कारो हि परम्âर्थतः प्रभवतां प्रश्रय्âतिशयः, रत्न्âदिकस् तु शिल्âभारः" इत्य् आकलय्य पुनः पुनर् अभ्यर्थ्यमानो ऽपि यदा न प्रत्यपद्यत पार्थिवो वचनं तदा स्वम् एव्âसनं पुनर् अपि भेजे भदन्तः. भू-पति-मुख-नलिन-निहित-निभृत-नयन-युगल-निगड-निश्-चली-कृत-हृदयश् च स्थित्वा कां-चित् काल-कलां कलि-काल-कल्मष-कालुष्यम् इव क्षालयन्न् अ-मलाभिर् दन्त-मयूख-मालाभिर् मूल-फल्âभ्यवहार-संभवम् उद्वमन्न् इव च परिमल-सुभगं विकच-कुसुम-पटल-पाण्डुरं लता-वनम् अवादीत्: "अद्य-प्रभृति न केवलम् अयम् अ-निन्द्यो वन्द्यो ऽपि प्रकाशित-सत्सारः संसारः. किं नाम न्âलोक्यते जीवद्भिर् अद्भुतं येन रूपम् अ-चिन्तत्ôपनतम् इदं दृक्-पथम् उपगतम्. एवं-विधैर् अनुमीयन्ते जन्म्âन्तर्âवस्थित-सुकृतानि हृदय्ôत्सवैः. इह्âपि जन्मनि दत्तम् एव्âस्माकम् अमुना तपः-क्लेशेन फलम् अ-सु-लभ-दर्शनं दर्शयता देवानां-प्रियम्. आ तृप्तेर् आपीतम् अ-मृतम् ईक्षणाभ्याम्. जातं निर्-उत्कण्ठं मानसं निवृत्ति-सुखस्य. महद्भिः पुण्यैर् विना न विश्राम्यन्ति सज्-जने त्वादृसि दृशः. सु-दिवसः स त्वं यस्मिञ् जातो ऽसि. सा सु-जाता जननी या सकल-जीव-लोक-जीवित-जनकम् अजनयद् आयुष्मन्तम्. पुण्यवन्ति पुण्यान्य् अपि तानि येषाम् असि परिणामः. सु-कृत-तपसस् ते परम्âणवो ये तव परिगृहीत-सर्व्âवयवाः. तत् सु-भगं सौभाग्यम् आश्रितो ऽसि येन. भव्यः स पुरुष-भावो भवत्य् अवस्थितो यः. यत् सत्यं मुमुक्षोर् अपि मे पुण्य-भाजम् आलोक्य पुनः श्रद्धा जाता मनुज-जन्मनि. न्êच्छद्भिर् अप्य् अस्माभिर् दृष्टः कुसुम्âयुधः. कृत्âर्थम् अद्य चक्षुर् वन-देवतानाम्. अद्य स-फलं जन्म पादपानां येषाम् असि गतो गोचरम्. अ-मृतमयस्य भवतो वचसां माधुर्यं कार्यम् एव. अस्य त्व् ईदृशे शैशवे विनयस्य्ôपाध्यायं ध्यायन्न् अपि न संभावयामि भुवि. सर्वथा शून्य असीद् अ-जाते दीर्घ्âयुषि गुण-ग्रामः. धन्यः स भूभृद् यस्य वंशे मणिर् इव मुक्तामयः संभूतो ऽसि. एवं-विधस्य च पुण्यवतः कथं-चित् प्राप्तस्य केन प्रियं समाच- [240] -राम इति पारिप्लवं चेतो नः. सकल-वन-चर-स्âर्थ-साधारणस्य कन्द-मूल-फलस्य गिरि-सरिद्-अम्भसो वा के वयम्. अ-पर्ôपकरणी-कृतस् तु काय-कलिर् अयम् अस्माकम्. सर्वस्वम् अवशिष्टम् इष्ट्âतिथ्याय. स्व्âयत्ताश् च विद्यन्ते विद्या-बिन्दवः कति-चित्. उपयोगं तु न प्रीतिर् विचारयति. यदि च न्ôपरुणद्धि कं-चित् कार्य-लवम् अ-रक्षणीय्âक्षरं वा कथनीयं तत् कथयतु भवान् स श्रोतुम् अभिलषति हृदयं सर्वम् इदं नः. केन कृत्य्âति-भारेण भव्यो भूषितवान् भूमिम् एताम् अ-भ्रमण-योग्याम्? कियद्-अवधिर् वा ऽयं शून्य्âटवी-पर्यटन-क्लेशः कल्याण-राशेः? कस्माच् च संतप्त-रूप्êव ते तनुर् इयम् अ-संताप्âर्हा विभाव्यते?" इति.
राजा तु स्âदरतरम् अब्रवीत्: "आर्य! दर्शित-संभ्रमेण्âनेन मधुर-स-विसरम् अ-मृतम् इव हृदय-धृति-करम् अन्-अवरतं वर्षता वचस्âइव ते सर्वम् अनुष्ठितम्. धन्यो ऽस्मि यद् एवम् अभ्यर्हितम् अन्-उपचरणीयम् अपि मान्यो मन्यते माम्. अस्य च महा-वन-भ्रमण-परिक्लेशस्य कारणम् अवधारयतु मतिमान्. मम हि विनष्ट-निखिल्êष्ट-बन्धोर् जीवित्âनुबन्धस्य निबन्धनम् एक्âइव यवीयसी स्वस्âवशेषा. स्âपि भर्तुर् वियोगाद् वैरि-परिभव-भयाद् भ्रमन्ती कथम् अपि विन्ध्य-वनम् इदम्, अ-शुभ-शबर-बल-बहुलम्, अ-गणित-गज-कुल-कलिलम्, अ-परिमित-मृग-पति-शरभ-भयम्, उरु-महिष-मुषित-पथिक-गमनम्, अति-निशित-शर-कुश-परुषम्, अवट-शत-विषमम् अविशत्. अतस् ताम् अन्वेष्टुं वयम् अनिशं निशि निशि च सततम् इमाम् अटवीम् अटामः. न च्âइनाम् आसादयामः. कथयतु च गुरुर् अपि यदि कदा-चित् कुतश्-चिद् वने चरतः श्रुति-पथम् उपगता तद्-वार्ता" इति.
अथ तच् छ्रुत्वा जात्ôद्वेग इव भदन्तः पुनर् अभ्यधात्: "धीमन्! न खलु कश्-चिद् एवं-रूपो वृत्त्âन्तो ऽस्मान् उपागतवान्. अ-भाजनं हि वयम् ईदृशानां प्रिय्âख्यान्ôपायनानां भवताम्." इत्य् एवं [241] भाष्माण इव तस्मिन्न् अ-कस्माद् आग्तय्â-परः शमिनि वयसि वर्तमानः संभ्रान्त-रूप इव पुरस्ताद् उपरचित्âञ्जलिर् जात-करुणः प्रक्षरित-चक्षुर् बिक्षुर् अभाषत: "भगवन् भदन्त! महत् करुणं वर्तते. बाल्âइव च बलवद्-व्यसन्âभिभूता भूत-पूर्व्âपि कल्याण-रूपा स्त्री शोक्âवेश-विवशा वैश्वानरं विशति. संभावयतु ताम् अ-प्रोषित-प्राणां भगवान्. अभ्युपपद्यतां समुचितैः समाश्वासनैः. अन्-उपरत-पूर्वं कृमि-कीट-प्रायम् अपि दुःखितं दया-राशेर् आर्यस्य गोचर-गतम्" इति.
राजा तु जात्âनुज्âशङ्कः स्ôदर्य-स्नेहाच् च्âन्तर्-द्रुत इव दुःखेन दोदूयमान-हृदयः कथम् अपि गद्गदिका-गृहीत-कण्ठो विकल-वाग्-बाष्पायमाण-दृष्टिः पप्रच्छ: "पाराशरिन्! कियद्-दूरे सा योषिद् एवं-जातीया जीवेद् वा कालम् एतावन्तम् इति. पृष्टा वा त्वया भद्रे! क्âसि, कस्य्âसि, कुतो ऽसि, किम्-अर्थं वनम् इदम् अभ्युपगत्âसि, विशसि च किं-निमित्तम् अनलम्? इत्य् आदितश् च प्रभृति कार्त्स्न्येन कथ्यमानम् इच्छामि श्रोतुं कथम् आर्यस्य गता दर्शन-गोचरम् आकारतो वा कीदृशो" इति.
तथ्âभिहितस् तु भूभुजा भिक्षुर् आचचक्षे: "महा-भाग! श्रूयताम्: अहं हि प्रत्युषस्य् एव्âद्य वन्दित्वा भगवन्तम् अनेन्âइव नदी-रोधसा स्âइकत-सु-कुमारेण यदृच्छया विहृतवान् अति-दूरम्. एकस्मिंश् च वन-लता-गहने गिरि-नदी-समीप-भाजि भ्रमरीणाम् इव हिम-हत-कमल्âकर-कातराणां रसितं सार्यमाणानाम् अति-तार-तान-वर्तिनीनां वीणा-तन्त्रीणाम् इव झाऋकारम् एक-तानं नारीणां रुदितम् अ-धृति.करम् अति-करुणम् आकर्णितवान् अस्मि. समुपजात-कृपश् च गतो ऽस्मि तं प्रदेशम्. दृष्टवान् अस्मि च दृषत्-खण्ड-खण्डित्âङ्गुलि-गलल्-लोहितेन च पार्ष्णि-प्रविष्ट-शर-शलाका-शल्य-शूल-संकोचित-चक्षुषा च्âध्वनीन-श्रम-श्वयथु-निश्-चल-चरणेन च स्थाणव-व्रण-व्यथित-गुल्फ-बद्ध-भूर्ज-त्वचा च वात-खुड-खेद-खञ्ज-जङ्घा-जात-ज्वरेण च पांसु-पाण्डुर-पिच्छकेन च खर्जूर-जूट-जटा-जर्जरित-जानुना च शताव- [242] -री-विदारित्ôरुणा च विदारी-दारित-तनु-दुकूल-पल्लवेन च्ôत्कट-वंश-विटप-कण्टक-कोटि-पाटित-कञ्चुक-कर्पटेन च फल-लोभ्âवलम्बित्âनम्र-बदरी-लता-जालकैर् उत्कण्टकैर् उल्लिखित-सु-कुमार-कर्ôदरेण च कुरङ्ग-शृङ्ग्ôत्खातैः कन्द-मूल-फलैः कद्-अर्थित-बाहुना ताम्बूल-विरह-विरस-मुख-खण्डित-कोमल्âमलकी-फलेन कुश-कुसुम्âहति-लोहितानां श्वयथुमताम् अक्ष्णां लेपी-कृत-मनः-शिलेन च कण्टकी-लता-लून्âलक-लेशेन च केन-चित् किसलय्ôपपादित्âतपत्र-कृत्येन केन-चित् कदली-दल-व्यजन-वाहिना केन-चित् कमलिनी-पलाश-पुट-गृहीत्âम्भसा केन-चित् पाथेयी-कृत-मृणाल-पूलिकेन केन-चिच् चीन्âंशुक-दशा-शिक्य-निहित-नालिकेर-कोश-कलशी-कलित-सरल-तैलेन, कतिपय्âवशेष-शोक-विकल-कला-मूक-कुब्ज-वामन-बधिर-बर्बरा-विरलेन्â-बलानां चक्र-वालेन परिवृताम्, आपत्-काले ऽपि कुल्ôद्गतेन्êव्âमुच्यमानां प्रभा-लेपिना लावण्येन, प्रतिबिम्बितैर् आसन्न-वन-लता-किसलयैः स-रसैर् दुःख-क्षतैर् इव्âन्तः-पटली-क्रियमाण-कायाम्, कठोर-दर्भ्âङ्कुर-क्षत-क्षारिणा क्षतजेन्âनुसरण्âलक्तकेन्êव रक्त-चरणाम्, उन्नालेन्âन्यतर-नारी-धृतेन्âरविन्दिनी-दलेन कृत-च्छायम् अपि विच्छायं मुखम् उद्वहन्तीम्, आकाशम् अपि शूनय्तय्âतिशयानाम्, मृन्मयीम् इव निश्-चेतनतया मरुन्मयीम् इव निः-श्वास-संपदा पावकमयीम् इव संताप-संतानेन सलिलमयीम् इव्âश्रु-प्रस्रवणेन वियन्मयीम् इव निर्-अवलम्बनतया तडिन्मयीम् इव पारिप्लवतया शब्दमयीम् इव परिदेवित-वाणी-बाहुल्येन मुक्त-मुक्त्âंशुक-रत्न-कुसुम-कनक-पत्र्âभरणां कल्प-लताम् इव महा-वने पतिताम्, परम्êश्वर्ôत्तम्âङ्ग-पात-दुर्-ललित्âङ्गां गङ्गाम् इव गां गातम्, वन-कुसुम-धूलि-धूसरित-पाद- [243] -पल्लवाम्, प्रभात-चन्द्र-मूर्तिम् इव लोक्âन्तरम् अभिलषन्तीम्, निज-जल-मोक्ष-कद्-अर्थित-दर्शित-धवल्âयत-नेत्र-शोभां मन्दाकिनी-मृणालिनीम् इव परिम्लायमानाम्, दुः-सह-रवि-किरण-संस्पर्श-खेद-निमीलितां कुमुदिनीम् इव दुःखेन दिवसं नयन्तीम्, दग्ध-दश्â-विसंवादितां प्रत्य्-ऊष-प्रदीप-शिखाम् इव क्षाम-क्षामां पाण्डु-वपुषम्, पार्श्व-वर्ति-वारण्âभियोग-रक्ष्यमाणां वन-करिणीम् इव महा-ह्रदे निमग्नाम्, प्रविष्टां वन-गहनं ध्यानं च, स्थिता तरु-तले मरणे च पतितां धात्र्य्-उत्सङ्गे मह्âन्-अर्थे च, दूरी-कृतां भर्त्रा सुखेन च, विरेचितां भ्रमणेन्âयुषा च, आकुलां केश-कलापेन मरण्ôपायेन च, विवर्णिताम् अध्व-धूलिभिर् अङ्ग-वेदनाभिश् च, दग्धां चण्ड्âतपेन वैधव्येन च, धृत-मुखीं पाणिना मौनेन च, गृहीतां प्रिय-सखी-जनेन मन्युना च, तथा च भ्रष्टैर् बन्धुभिर् विलासैश् च, मुक्तेन श्रवण-युगलेन्âत्मना च, परित्यक्तैर् भूषणैः सर्व्âरम्भैश् च, भग्नैर् वलयैर् मनो-रथैश् च, चरण-लग्नाभिः, परिचारिकाभिर् दर्भ्âङ्कुर-सूचीभिश् च, हृदय-विनिहितेन चक्षुषा प्रियेण च, दीर्घैः शोक-स्वसितैः केशैश् च, क्षीणेन वपुषा पुण्येन च पादयोः पतन्तीभिर् वृद्धाभिर् अश्रु-धाराभिश् च, स्व्-अल्प्âवशेषेण परिजनेन जीवितेन च, अलसाम् उन्मेषे, दक्षाम् अश्रु-मोक्षे, संततां चिन्तासु, विच्छिन्नाम् आशासु, कृसां काये, स्थूलां श्वसिते, पूरितां दुःखेन, रिक्तां सत्त्वेन, अध्यासिताम् आयासेन, शून्यां हृदयेन, निश्-चलां निश्चयेन, चलितां धैर्यात्, अपि च वसतिं व्यसनानाम्, आधानम् आधीनाम्, अवस्थानम् अन्-अवस्थानाम्, आधारम् अ-धृतीनाम्, आवासम् अवसादानाम्, आस्पदम् आपदाम्, अभियोगम् अ-भाग्यानाम्, उद्वेगम् उद्वेगानाम्, कारणं करुणायाः, पारं पर्âयत्तताया योषितम्. चिन्तितवान् अस्मि च चित्रम् ईदृशीम् अप्य् आकृतिम् उपतापाः स्पृशन्त्îति. सा तु समीप-गते मयि तद्-अवस्थ्âपि स-बहु-मानम् आनत-मौलिः
[244] प्रणतवती. अहं तु प्रबल-करुणा-प्रेर्यमाणस् ताम् आलपितु-कामः पुनः कृतवान् मनसि: "कथम् इव मह्âनुभावाम् एनाम् आमन्त्रये. "वत्से" इत्य् अति-प्रणयः, "मातः" इति चाटु, "भगिनि" इत्य् आत्म-संभावना, "देवि" इति परिजन्âलापः, "रज-पुत्रि" इत्य् अ-स्फुटम्, "उपासिके" इति मनो-रथः, "स्वामिनि" इति भृत्य-भाव्âभ्युपगमः, "भद्रे" इत्îतर-स्त्री-समुचितम्, "आयुष्मति" इत्य् अवस्थायाम् अ-प्रियम्, "कल्याणिनि" इति दशायां विरुद्धम्, "चन्द्र-मुखि" इत्य् अ-मुनि-मतम्, "बाले" इत्य् अ-गौरव्ôपेतम्, "आर्ये" इति जर्âरोपणम्. "पुण्यवति" इति फल-विपरीतम्, "भवति" इति सर्व-साधारणम्. अपि च "कासि" इत्य् अन्-अभिजातम्, "किम्-अर्थं रोदिषि" इति दुःख-कारण-स्मरण-कारि, "मा रोदीः" इति शोक-हेतुम् अन्-अपनीय न शोभते, "समाश्वसिहि" इति किम् आश्रित्य, "स्व्-आगतम्" इति यातयामम्, "सुखम् आस्यते" इति मित्या". इत्य् एवं चिन्तयत्य् एव मयि तस्मात् स्त्रैणाद् उत्थाय्âन्यतरा योषिद्-आर्य-रूप्êव शोक-विक्लवा समुपसृत्य कतिपय-पलित-शारं शिरो नीत्वा मही-तलम् अ-तुल-हृदय-संताप-सूचकैर् अश्रु-बिन्दुभिस् चरण-युगलं दहन्ती मम्âति-कृपणैर् अक्षरैश् च हृदयम् अभिहितवती: "भगवन्! सर्व-सत्त्व्âनुकम्पिनी प्रायः प्रव्रज्या. प्रतिपन्न-दुःख-क्षपण-दीक्षा-दक्षाश् च भवन्ति सौगताः. करुणा-कुल-गृहं च भगवतः शाक्य-मुनेः शासनम्. सकल-जन्ôपकार-सज्जा सज्-जनता जैनी. पर-लोक-साधनं च धर्मो मुनीनाम्. प्राण-रक्षणाच् च न परं पुण्य-जातं जगति गीयते जनेन. अनुकम्पा-भूमयः प्रकृत्य्âइव युवतयः किं पुनर् विपद्-अभिभूताः? साधु-जनश् च सिद्ध-क्षेत्रम् आर्त-वचसाम्. यत इयं नः स्वामिनी मरणेन पितुर् अ-भावेन भर्तुः प्रवासेन च भ्रातुः भ्रंशेन च शेषस्य बान्धव-वर्गस्य्âति-मृदु-हृदयतय्âन्-अपत्यतया च निर्-अवलम्बना, परिभवेन च नीच्âराति-कृतेन, प्रकृति-मनस्विनी अमुना च मह्âटवी-पर्यटन-क्लेशेन कद्-अर्थित-सौकुमार्या, दग्ध-दैव-दत्तैर् एवं-विधैर् बहुभिर् उपर्य्-उपरि व्य- [245] -सनैर् विक्लवी-कृत-हृदया, दारुणं दुःखम् अपारयन्ती सोढुं निवारयन्तम् अन्-आक्रान्त-पूर्वं स्वप्ने ऽप्य् अवगणय्य गुरु-जनम् अनुनयन्तीर् अ-खण्डित-प्रणया नर्मस्व् अपि समवधीर्य प्रिय-सखीर् विज्ञापयन्तम् अ-शरणम् अन्-आथम् अश्रु-व्याकुल-नयनम् अ-परिभूत-पूर्वं मनस्âपि परिभूय भृत्य-वर्गम् अग्निं प्रविशति. परित्रायताम्. आर्यो ऽपि तावद् अ-सह्य-शोक्âपनयन्ôपाय्ôपदेश-निपुणां व्यापारयतु वाणीम् अस्याम्" इति च्âति-कृपणं व्याहरन्तीम् अहम् उत्थाप्य्ôद्विग्नतरः शनैर् अभिहितवान्: "आर्ये! यथा कथयसि तथा. अस्मद्-गिराम् अ-गोचरो ऽयम् अस्याः पुण्य्âशयायाः शोकः. शक्यते चेन् मुहूर्त-मात्रम् अपि त्रातुम् उपरिष्टान् न व्य्-अर्थ्êयम् अभ्यर्थना भविष्यति. मम हि गुरुर् अ-पर इव भगवान् सुगतः समीप-गत एव ।
कथिते मय्âस्मिन्न् उदन्ते नियतम् आगमिष्यति परम-दयालुः. दुःख्âन्ध-कार-पटल-भिदुरैश् च सौगतैः सु-भाषितैः स्वकीयैश् च दर्शित-निदर्शनैर् नाना-गम-गुरुभिर् गिरां कौशलैः कुशल-शीलाम् एनां प्रबोध-पदवीम् आरोपयिष्टति" इति. तच् च श्रुत्वा "त्वरताम् आर्यः" इत्य् अभिदधाना सा पुनर् अपि पादयोः पतितवती. सो ऽहम् उपगत्य त्वरमाणो व्यतिकरम् इमम् अ-धृति-करम् अ-शरण-कृपणं बहु-युवति-मरणम् अति-करुणम् अत्र-भवते गुरवे निवेदितवान्" इति.
अथ भूभृद् भैक्षवं समवधार्य तद्-भाषितम् अश्रु-मिश्रितम् अ-श्रुते ऽपि स्वसुर् नाम्नि निम्नी-कृत-मना मन्युना सर्व्âकार-संवादिन्या दशय्âइव दूरी-कृत-संदेहो दग्ध इव स्ôदर्य्âवस्था-श्रवणेन श्रवणयोः श्रमण्âचार्यम् उवाच: "आर्य! नियतं स्âइव्êयम् अन्-आर्यस्य्âस्य जनस्य्âति-कठिन-हृदयस्य्âति-नृशंसस्य मन्द-भाग्यस्य भगिनी भाग-धेयैर् एताम् अवस्थां नीता निष्-कारण-वैरिभिर् वराकी विदीर्यमाणं मे हृदयम् एवं निवेदयति" इत्य् उक्त्वा तम् अपि श्रमणम् अभ्यधात्: "आर्य! उत्तिष्ठ. दर्शय क्व्âसौ. यतस्व प्रभूत-प्राण-परित्राण-पुण्य्ôपार्जनाय यामः, यदि कथं-चिज् जीवन्तीं संभावयामः" इति भाषमाण एव्ôत्तस्थौ.
अथ समग्र-शिष्य-वर्घ्âनुगतेन्âचार्येण तुरगेभ्यश् च्âवतीर्य समस्तेन [246] सामन्त-लोकेन पश्चाद् आकृष्यमाण्âश्वीयेन्âनुगम्यमानः पुरस्ताच् च तेन शाक्य-पुत्रीयेण प्रदिश्यमान-वर्त्मा पद्भ्याम् एव तं प्रदेशम् अ-विरलैः पदैः पिबन्न् इव प्रावर्तत. क्रमेण च समीपम् उपगतः शुश्राव लता-वन्âन्तरितस्य मुमूर्षोर् महतः स्त्रैणस्य तत्-काल्ôचितान् अन्-एक-प्रकारान् आलापान्: "भगवन् धर्म! धाव शीघ्रम्. क्व्âसि कुल-देवते. देवि धरणि, धीरयसि न दुखितां दुहितरम्. क्व नु खलु प्रोषिता पुष्पभूति-कुटुम्बिनी लक्ष्मीः. अ-नाथां नाथ मुखर-वंश्य, विविध्âधिविधुरां वधूं विधवां विबोधयसि किम् इति न्êमाम्. भगवन्, भक्त-जने संज्वरिणि सुगत सुप्तो ऽसि. राज-धर्म पुष्पभूति-भवन-पक्ष-पातिन्, उदासीनी-भूतो ऽसि कथम्. त्वय्य् अपि विपद्-बान्धव विन्ध्य, वन्ध्यो ऽयम् अञ्जलि-बन्धः. मातर् मह्âटवि, रटन्तीं, न शृणोष्îमाम् आपत्-पतिताम्. पतङ्ग, प्रसीद पाहि पति-व्रताम् अ-शरणाम्. प्रयत्न-रक्षित कृतघ्न चारित्र-चण्डाल, न रक्षसि राज-पुत्रीम्. किम् अवधृतं लक्षणैः. हा देवि दुहितृ-स्नेहमयि यशोमति, मुषित्âसि दग्ध-दैव-दस्युना. देव, दुहितरि दह्यमानायां न्âपतसि प्रताप-शील, शिथिली-भूतम् अपत्य-प्रेम. महा-राज राज्यवर्धन, न धावसि मन्दी-भूता भगिनी-प्रीतिः. अहो निष्ठुरः प्रेत-भावः. व्यपेहि पाप पावक स्त्री-घात-निर्घृण, ज्वलन् न लज्जसे. भ्रातर् वात, दासी तव्âस्मि. संवादय द्रुतं देवी-दाहं देवाय दुःखित-जन्âर्तिहराय हर्षाय. नितान्त-निः-शूक शोक-श्वपाक, स-कामो ऽसि. दुःख-दायिन् वियोग-राक्षस, संतुष्टोऽसि. वि-जने वने कम् आक्रन्दामि कस्मै कथयामि, कम् उपयामि शरणम्, कां दिशं प्रतिपद्ये, करोमि किम् अ-भाग-धेया. गान्धारिके, गृहीतो ऽयं लता-पाशः. पिशाचि मोचनिके, मुञ्च शाखा-ग्रहण-कलहम्. कलहंसि हंसि, किम् अतः परम् उत्तम्âङ्गम्. मङ्गलिके मुक्त-गलं किम् अद्य्âपि रुद्यते. सुन्दरि, दूरी-भवति सखी-स्âर्थः. स्थास्यसि कथम् इव्â-शिवे शव-शिबिरे शबरिके. सुतनु, तनून् अपाति पतिष्यसि त्वम् अपि. मृणाल-कोमले मालावति, म्लान्âसि. मातर् मातङ्गिके, अङ्गी-कृतस् त्वय्âपि मृत्युः. वत्से [247] वत्सिके, वत्स्यसि कथम् अन्-अभिप्रेते प्रेत-नगरे. नागरिके, गरिमाणम् आगत्âस्य् अनया स्वामि-भक्त्या. विराजिके, विराजित्âसि राज-पुत्री-विपदि जीवित-व्यय-व्यवसायेन. भृगुपतनाभ्युद्यम-भाग्âभिज्ञे भृङ्गार-धारिणि, धन्य्âसि. केतकि, कुतः पुनर् ईदृशी स्वप्ने ऽपि सु-स्वामिनी. मेनके, जन्मनि जन्मनि देवी-दास्यम् एव ददातु देवो देहं दहन् दहनः. विजये, वीजय कृशानुम्. सानुमति, नमत्îन्दीवरिका दिवं गन्तु-कामा. कामदासि, देहि दहन-प्रदक्षिण्âवकाशम्. विचारिके, विरचय वह्निम्. विकिर किरातिके, कुसुम-प्रकरम्. कुररिके, कुरु कुरुबक-कोर-काचितां चिताम्. चामरं चामर-ग्राहिणि, गृहाण. पुनर् अपि कण्ठे मर्षयितव्यानि नर्मदे, नर्म-निर्मितानि निर्-मर्याद-हसितानि. भद्रे सुभद्रे, भद्रम् अस्तु ते पर-लोक-गमनम्. अ-ग्रामीण-गुण्âनुरागिणि ग्रामेयिके, गच्छ सु-गतिम्. वसन्तिके, अन्तरं प्रयच्छ. आपृच्छते छत्र-धारी देवि, देहि दृष्टिम्. इष्टा तव जहाति जीवितं विजयसेना. स्êयं मुक्तिका मुक्त-कण्ठम् आरटति निकटे नाटक-सूत्र-धारी. पादयोः पतति ते ताम्बूल-वाहिनी बहु-मता राजपुत्रि, पत्रलता. कलिङ्गसेने, अयं पश्चिमः परिष्वङ्गः. पीडय निर्भरम् उरसा माम्. असवः प्रवसन्ति वसन्तसेने. मञ्जुलिके, मार्जयसि कतिकृत्वः सु-दुः-सह-दुःख-सहस्र्âस्र-दिग्धं चक्षुर् इदं रोदिषि कियद् आश्लिष्य च माम्. निर्माणम् ईदृशं प्रायशो यशोधने. धीरयस्य् अद्य्âपि किं मां माधविके. क्व्êयम् अवस्था संस्थापनानाम्. गतः कालः कालिन्दि, सखी-जन्âनुनय्âञ्जलीनाम्. उन्मत्तिके मत्तपालिके, कृताः पृष्टतः प्रणयिनी-प्रणिपात्âनुरोधाः. शिथिलय चकोरवति, चरण-ग्रहणं ग्रहिणि. कमलिनि, किम् अनेन पुनः-पुनर्-दैव्ôपालम्भेन. न प्राप्तं चिरं सखी-जन-संगम-सुखम्. आर्ये महत्तरिके तरङ्गसेने, नमस्-कारः. सखि सौदामिनि, दृष्ट्âसि. समुपनय हव्य-वाहन्âर्चन-कुसुमानि कुमुदिके. देहि चित्âरोहणाय रोहिणि, हस्त्âवलम्बनम्. अम्ब, धात्रि, धीरा भव. भवन्त्य् एवं-विधा एव कर्मणां विपाकाः पाप- [248] -कारिणीनाम्. आर्य-चरणानाम् अयम् अञ्जलिः. परः पर-लोक-प्रयाण-प्रणामो ऽयं मातः. मरण-समये कस्माल् लवलिके, हलहलको बलीयान् आनन्दमयो हृदयस्य मे. हृष्यन्त्य् उच्च-रोमाञ्च-मुञ्चि किम् अङ्गी-कृत्य्âङ्गानि. वामनिके, वामेन मे स्फुरितम् अक्ष्णा. वृथा विरमसि वयस्य वायस, वृक्षे क्षीरिणि क्षणे क्षणे क्षीण-पुण्यायाः पुरः. हरिणि, हेषितम् इव हयानाम् उत्तरतः. कस्य्êदम् आतपत्रम् उच्चम् अत्र पादप्âन्तरेण प्रभावति, विभाव्यते. कुरङ्गिके, केन सु-गृहीत-नाम्नो नाम गृहीतम् अ-मृतमयम् आर्यस्य. देवि, दिष्ट्या वर्धसे देवस्य हर्षस्य्âगमनम् अह्ôत्सवेन." इत्य् एतच् च श्रुत्वा स-त्वरम् उपससर्प. ददर्श च मुह्यन्तीम् अग्नि-प्रवेशाय्ôद्यतां राजा राज्यश्रियम्. आललम्बे च मूर्च्छा-मीलित-लोचनाया ललाटं हस्तेन तस्याः स-संभ्रमम्.
अथ तेन भ्रातुः प्रेयसः प्रकोष्ठ-बद्धानाम् ओषधीनां रस-विरसम् इव प्रत्युज्जीवन-क्षमं क्षरता वमत्êव पारिहार्य-मणीनाम् अ-चिन्त्यं प्रभावम् अ-मृतम् इव नख-चन्द्र-रश्मिभिर् उद्गिरता बध्नत्êव चन्द्र्ôदय-च्युत-शिशिर-शीकरं चन्द्र-कान्त-चूडा-मणिं मूर्धनि मृणालमय्âङ्गुलिन्êव्âति-शीतलेन निर्वापयता दह्यमानं हृदयं प्रत्यानयत्êव कुतो ऽपि जीवितम् आह्लादकेन हस्त-संस्पर्शेन सहस्âइव समुन्मिमील राज्यश्रीः. तथा च्â-संभावित्âगमनस्य्â-चिन्तित-दर्शनस्य सहसा प्राप्तस्य भ्रातुः स्वप्न-दृष्ट-दर्शनस्य्êव कण्ठे समाश्लिष्य तत्-काल्âविर्-भाव-निर्भरेण्âभिभूत-सर्व्âत्मना दुःख-संभारेण निर्-दयं नदी-मुख-प्रणालाभ्याम् इव मुक्ताभ्यां स्थूल-प्रवाहम् उत्सृजन्ती बाष्प-वारि विलोचनाभ्याम् "हा तात, हा अम्ब हा सख्यः" इति व्याहरन्ती, मुहुर्-मुहुर् उच्चैस् तरां च समुद्भूत-भगिनी-स्नेह-सद्-भाव-भार-भावित-मन्युना मुक्त-कण्ठम् अति-चिरं विक्रुश्य "वत्से, स्थिरा भव त्वम्" इति भ्रात्रा कर-स्थगित-मुखी समाश्वास्यमान्âपि, "कल्याणिनि, कुरु वचनम् अग्रजस्य गुरोः" इत्य् आचार्येण याच्यमान्âपि, "देवि, न पश्यसि देवस्य्âवस्थाम्. अलम् अति-रुदितेन" इति रज-लोकेन्âभ्यर्थ्यमान्âपि, "स्वामिनि, भ्रातरम् अवेक्षस्व" इति परिजनेन विज्ञाप्यमान्âपि, "दुहितर्, विश्रम्य पुनर् आरटितव्यम्" इति निवार्यमाण्âपि बान्धव-वृद्धाभिः, "प्रिय-सखि, कियद् रोदिषि, [249] तूष्णीम् आस्स्व. दृढं दूयते देव" इति सखीभिर् अनुनीयमान्âपि, चिरं संभावित्âन्-एक-दुः-सह-दुःख-निवह-निर्ववण-बाष्प्ôत्पीड-पीड्यमान-कण्ठ-भागा, प्रभूत-मन्यु-भार-भरित्âन्तः-करणा करुणं काहलेन स्वरेण कति-चित् कालम् अति-दीर्घं रुरोद. विगते च मन्यु-वेगे वह्नेः समीपाद् आक्षिप्य भ्रात्रा नीता निकट-वर्तिनि तरु-तले निषसाद.
शनैर् आचार्यस् तु तथा हर्ष इति विज्ञाय विवर्धित्âदरः सु-तरां मुहूर्तम् इव्âतिवाह्य निभृत-संज्ञा-ज्ञापितेन शिष्येण्ôपनीतं नलिनी-दलैः स्वयम् एव्âदाय नम्रो मुख-प्रक्षालनाय्ôदकम् उपनिन्ये. नर्êन्द्रो ऽपि स्âदरं गृहीत्वा प्रथमम् अन्-अवरत-रोदन्âताम्रं चिर-प्रवृत्त्âश्रु-जल-जालं रक्त-पङ्गजम् इव स्वसुश् चक्षुर् अक्षालयत् पश्चाद् आत्मनः. प्रक्षालित-मुख-शशिनि च मही-पाले सर्वतो निः-शब्दः संबभूव सकलो लिखित इव लोकः. ततो नर्êन्द्रो मन्द-मन्दम् अब्रवीत् स्वसारम्: "वत्से! वन्दस्व्âत्र-भवन्तं भदन्तम्. एष ते भर्तुर् हृदयं द्वितीयम् अस्माकं च गुरुः" इति. राज-वचनात् तु राज-दुहितरि पति-परिचय-श्रवण्ôद्घातेन पुनर् आनीत-नेत्र्âम्भसि नमन्त्याम् आचार्यः प्रयत्न-रक्षित्âगम्âगत-बाष्प्âम्भः-संभार-भज्यमान-धैर्य्âर्द्र-लोचनः किं-चित् परावृत्त-नयनो दीर्घं निःशश्वास. स्थित्वा च क्षणम् एकं प्रदर्शित-प्रश्रयो मृदु-वादी मधुरया वाचा व्याजहार: "कल्याण-राशे! अलं रुदित्वा न चिरम् आस्ते. राज-लोको न्âद्य्âपि रोदनान् निवर्तते. क्रियताम् अवश्य-करणीयः स्नान-विधिः. स्नात्वा च गम्यतां ताम् एव भूयो भुवम्" इति.
अथ भू-पतिर् अनुवर्तमानो लौकिकम् आचारम् आचार्य-वचनं च्ôत्थाय स्नात्वा गिरि-सरिति सह स्वस्रा ताम् एव भूमिम् अयासीत्. तस्यां च स-परिजनां प्रथमम् आहित्âवधानः पार्श्व-वर्ती परवतीं शुचा पति-पिण्ड-प्रदर्शित-प्रयत्न-प्रतिपन्नाभ्यवहार-कारणां भगिनीम् अभोजयत्. अन्-अन्तरं च स्वयम् आहार-स्थितिम् अकरोत्. भुक्तवांश् च बन्धनात् प्रभृति विस्तरतः स्वसुः कान्यकुब्जाद् गौड-संभ्रमं गुप्तितो गुप्त-नाम्ना कुल-पुत्रेण निष्-कासनं निर्गतायाश् च राज्यवर्धन-मरण-श्रवणं श्रुत्वा च्âहार- [250] -निर्-आकरणम् अन्-आहार-पराहतायाश् च विन्ध्य्âटवी-पर्यटन-खेदं जात-निर्-वेदायाः पावक-प्रवेश्ôपक्रमणं यावत्-सर्वम् अशृणोद् व्यतिकरं परिजनतः. ततः सुख्âसीनम् एकत्र तरु-तले विविक्त-भुवि भगिनी-द्वितीयं दूर-स्थित्âनुजीवि-जनं राजानम् आचार्यः समुपसृत्य शनैर् आसां-चक्रे. स्थित्वा च कं-चित् काल्âंशं लेशतो वक्तुम् उपचक्रमे: "श्रीमन्! आकर्ण्यताम्. आख्येयम् अस्ति नः किं-चित्:
अयं हि यौवन्ôन्मादात् परिभूय भूयसीर् भार्या यौवन्âवतार-तरल-तरास् तारा-राजो रजनी-कर्णपूरः पुरा पुरु-हूत-पुरोधसो धिषणस्य पुरंध्रीं धर्म-पत्नीं पत्नीयन्न् अति-तरलस् तारां नाम्âपजहार. नाकतश् च पलायां-चक्रे. चकित-चकोर-लोचनया च तया सह्âति-कामया सर्व्âकार्âभिरामया रममाणो रमणीयेषु देशेषु चचार. चिराच् च कथं-चित् सर्व-गीर्वाण-वाणी-गौरवाद् गिरां पत्युः पुनर् इप प्रत्यर्पयाम् आस ताम्. हृदये त्व् अन्-इन्धनम् अदह्यत विरहाद् वर्âरोहायास् तस्याः सततम्.
एकदा तु शैलाद् उदयाद् उदयमानो विमले वारिणि वरुण्âलयस्य संक्रान्तम् आत्मनः प्रतिबिम्बं विलोकितवान्. दृष्ट्वा च तत् तदा स-स्मरः सस्मार स्मेर-गण्ड-स्थलस्य ताराया मुखस्य. मुमोच स मन्मथ्ôन्माद-मथ्यमान-मानसः स्वः-स्थो ऽप्य् अ-स्वस्थः स्थवीयसः पीत-सकल-कुमुद-वन-प्रभा-प्रवाह-धवल-ताराभ्याम् इव लोचनाभ्यां बाष्प-वारि-बिन्दून्. अथ पततस् तान् उदन्वति समस्तान् एव्âचेमुर् मुक्ता-शुक्तयः. तासां च कुक्षि-कोषेषु मुक्ता-फली-भूतान् अवाप तान् कथम् अपि रसा-तल-निवासी वासुकिर् नाम विषमुचाम् ईशः. स च तैर् मुक्ता-फलैः पाताल-तले ऽपि तारा-गणम् इव दर्शयद्भिर् एक्âवलीम् अकल्पयत्. चकार च मन्दाकिन्îति नाम तस्याः. सा च भगवतः सोमस्य सर्वासाम् ओषधीनाम् अधिपतेः प्रभावाद् अत्य्-अन्त-विषघ्नी हिम्â-मृतसंभवत्वाच् च स्पर्शेन सर्व-सत्त्व-संताप-हारिणी बभूव. यतः स तां सर्वदा विष्ôष्म-शान्तये वासुकिः पर्यधत्त.
समतिक्रामति च कियत्य् अपि काले कदा-चिन् नाम्âइक्âवलीं तस्मान् नाग-राजान् नागार्जुनो नाम नागैर् एव्âनीतः पाताल-तलं भिक्षुर् अभि- [251] -क्षत लेभे च. निर्गत्य च रसा-तलात् त्रि-समुद्र्âधिपतये सातवाहन-नाम्ने नर्êन्द्राय सुहृदे स ददौ ताम्. सा च्âस्माकं कालेन शिष्य-परम्परया कथम् अपि हस्तम् उपगता. "यद्य् अपि च परिभव इव भवति भवादृशां दत्त्रिम उपचारस् तथ्âप्य् ओषधि-बुद्ध्या बुद्धिमता सर्व-सत्त्व-राशि-रक्षा-प्रवृत्तेन रक्षणीय-शरीरेण्âयुष्मता विष-रक्ष्âपेक्षया गृह्यताम्" इत्य् अभिधाय भिक्षोर् अभ्याश-वर्तिनश् चीवर-पट्âन्त-संयतां मुमोच ताम् एक्âवलीं मन्दाकिनीम्.
उन्मुच्यमानाया एव यस्याः प्रभा-लेपिनि लब्ध्âवकाशे विशद-महसि महीयसि विसर्पति रश्मि-मण्डले युगपद्-धवलायमानेषु दिङ्-मुकेषु मुकुलित-लता-वध्ûत्कण्ठितैर् आ-मूलाद् विकसितम् इव तरुभिः, अभिनव-मृणाल-लुब्धैर् धावितम् इव धुत-पक्ष-पुट-पटल-धवलित-गगनं वन-सरसी-हंस-यूथैः, स्फुटितम् इव भर-वश-विशीर्यमाण-धूलि-धवलैर् गर्भ-भेद-सूचित-सूची-संचय-शुचिभिः केतकी-वाटेः, उद्दलित-दन्तुराबिः प्रबुद्धम् इव कुमुदिनीभिः, विधुत-सित-सटा-भार-भरित-दिक्-चक्रैश् चलितम् इव केसरि-कुलैः, प्रहसितम् इव सित-दशन्âंशु-माल्âलोक-लिप्यमान-वनं वन-देवताभिः, विकसितम् इव शिथिलित-कुसुम-कोश-केसर्âट्टहास-निर्-अङ्कुशं काश-काननैः, भ्रान्तम् इव संभ्रम-भ्रमित-बाल-पल्लव-परिवेष-श्वेतायमानैश् चमरी-कदम्बकैः, प्रसृतम् इव स्फायमान-फेनिल-तरलतर-तरङ्ग्ôद्गारिणा गिरि-नदी-पूरेण, अ-पर-तारा-गण-लोभ-मुदितेन्ôदितम् इव विकच-मरीचि-चक्र्âक्रान्त-ककुभा पूर्ण-चन्द्रेण, प्रक्षालित इव दाव्âनल-धूलि-धूसरित-दिग्-अन्तो दिवसः, पुनर् इव धौतान्य् अश्रु-जल-क्लिष्टानि नारीणां मुखानि.
राजा तु मांसलैस् तस्याः संमुखैर् मयूखैर् आकुली-क्रियमाणं मुहुर्-मुहुर् उन्मीलयन् निमीलयंश् च चक्षुः कथम् अपि प्रयत्नेन ददर्श सर्व्âशा-पूरणीं पङ्क्ती-कृताम् इव दिङ्-नाग-कर-शीकर-संहतिम्, घन-मुक्तां शारदीम् इव लेखी-कृतां ज्योत्स्नाम्, प्रकट-पदक-चिह्नां संचार-वीथीम् इव बाल्êन्दोर् निश्-चली-भूतां सप्त-र्षि-मालाम् इव हस्त-मुक्ताम्, अभिभूत-सकल- [252] -भुवन-भूषण-भूति-प्रभावाम् इव्âइशानीं शशि-कलाम्, धवलता-गुण-परिगृहीतां कान्तिम् इव निर्गतां क्षीर-राशेः, अन्-एक-महा-मही-भृत्-परम्पर्âगतां गङ्गाम् इव दुर्गति-हराम्, अन्-अवरत-स्फुरित-तरल्âंशुकां पुरः-सर-पताकाम् इव मह्êश्वर-भाव्âगमस्य, घन-सार-शुक्लां दन्त-पङ्क्तिम् इव्âभिमुखस्य्êश्वरस्य, वर-मनो-रथ-पूरण-समर्थां स्वयं-वर-स्रजम् इव भुवन-श्रियः, निज-कर-पल्लव्âवरण-दुर्-लक्ष्यां चक्षू-राग-विहसतिकाम् इव वसुधायाः, मन्त्र-कोश-साधन-प्रवृत्तस्य्âक्ष-मालाम् इव राज-धर्मस्य, समुद्र्âलं-कार-भूतां संख्य्âलेख्य-पट्टिकाम् इव कुबेर-कोशस्य. पश्यंश् च्âइतां विस्मयम् आजगाम मनसा सु-चिरम्. आचार्यस् तु ताम् उद्धृत्य बबन्ध बन्धुरे स्कन्ध-भागे भू-पतेः. अथ नर-पतिर् अपि प्रतिप्रीतिम् उपदर्शयन् प्रत्यवादीत्: "आर्य! रत्नानाम् ईदृशानाम् अन्-अर्हाः प्रायेण पुरुषाः. तपः-सिद्धिर् इयम् आर्यस्य देवता-प्रसादो वा. के च वयम् इदानीम् आत्मनो ऽपि किम् उत ग्रहणस्य प्रत्याख्यानस्य वा. दर्शनात् प्रभृति प्रभूत-गुरु-गुण-गण-हृतेन हृदयेन परवन्तो वयम्. संकल्पितम् इदम् आ-मरणाद् आर्य्ôपयोगाय शरीरम्. अत्र काम-चारो वः कर्तव्यानाम्" इति. समतिक्रान्ते च कियत्य् अपि काले गते च्âइक्âवली-वर्णन्âलापे लोकस्य्âन्-अन्तरं लब्ध-विश्रम्भा राज्य-श्रीस् ताम्बूल-वाहिनीं पत्र-लताम् आहूय्ôपांशु किम् अपि कर्ण-मूले शनैर् आदिदेश. दर्शित-विनया च पत्र-लता पार्थिवं व्यज्ञापयत्: "देव! देवी विज्ञापयति न स्मराम्य् आर्यस्य पुरः कदा-चिद् उच्चैर् वचनम् अपि. कुतो विज्ञापनम्. इयं हि [253] शुचाम् अ-सह्यतां व्यापारयन्ती हत-दैव-दत्ता च दशा शिथिलयति विनयम्. अ-बलानां हि प्रायशः पतिर् अपत्यं व्âवलम्बनम्. उभय-विकलानां तु दुःख्âनल्êन्धनायमानं प्राणितम् अ-शालीनत्वम् एव केवलम्. आर्य्âगमनेन च कृतो ऽपि प्रतिहतो मरण-प्रयत्नः. यतः काषाय-ग्रहण्âभ्यनुज्ञय्âनुगृह्यताम् अयम् अ-पुण्य-भाजनं जनः" इति. जन्âधिपस् तु तद् आकर्ण्य तूष्णीम् एव्âवतिष्ठत् .
अथ्âचार्यः सु-धीरम् अभ्यधात्: "आयुष्मति! शोको हि नाम पर्यायः पिशाचस्य, रूप्âन्तरम् आक्षेपस्य, तारुण्यं तमसो विशेषणं. विषस्य्âन्-अन्तकः प्रेत-नगर-नायकः, अयम् अ-निर्वृति-धर्मा दहनः, अयम् अ-क्षयो राजयक्ष्मा, अयम् अ-लक्ष्मी-निवासो जनार्दनः, अयम् अ-पुण्य-प्रवृत्तः क्षपणकः, अयम् अ-प्रतिबोधो निद्रा-प्रकारः, अयम् अन्-अलस-धर्मा संनिपातः, अयम् अ-शिव-सहचरो विनायकः, अयम् अ-बुध-सेवितो ग्रह-वर्गः, अयम् अ-योग-समुत्थो ज्योतिः-प्रकारः, अयं स्नेहाद् वायु-प्रकोपः, मानसाद् अग्नि-संभवः, आर्द्र-भावाद् रजः-क्षोभः, रसाद् अभिशोषः, रागात् काल-परिणामः. तद् अस्य्â-जस्र्âस्र-स्राविणो हृदय-महा-व्रणस्य बहल-दोष्âन्ध-कार-लब्ध-प्रवेश-प्रसरस्य प्राण-तस्करस्य शून्यता-हेतोर् महा-भूत-ग्राम-घातकस्य सकल-विग्रह-क्षपण-दक्षस्य दोष-चक्र- [254] -वर्तिनः कार्श्य-श्वास-प्रलाप्ôपद्रव-बहलस्य दीर्घ-रोगस्य्â-सद्-ग्रहस्य सकल-लोक-क्षय-धूम-केतोर् जीवित्âपहार-दक्षस्य्âक्षण-रुचेर् अन्-अभ्र-वज्र-पातस्य स्फुरद्-अन्-अ-वद्य-विद्या-विद्युद्-विद्योतमानानि गहन-ग्रन्थ-गूढ-गर्भ-ग्रहण-गम्भीराणि भूरि-काव्य-कथा-कठोराणि बहु-शास्त्र्ôद्वहन-बृहन्ति विदुषाम् अपि हृदयानि न्âलं सोढुम् आपातं किम् उत नव-मालिका-कुसुम-कोमलानां सरस-बिस-तन्तु-दुर्-बलकम् अ-बलानां हृदयम्.
एवं सति सत्य-व्रते! वद किम् अत्र क्रियते, कतम उपालभ्यते, कस्य पुर उच्चैर् आक्रन्द्यते, हृदय-दाहि दुःखं वा ख्याप्यते? सर्वम् अक्षिणी निमील्य सोढव्यम् अ-मूढेन मर्त्य-धर्मणा. पुण्यवति! पुरातन्यः स्थितय एताः केन शक्यन्ते ऽन्यथा-कर्तुम्. संसरन्त्यो नक्तं-दिवं द्राघीयस्यो जन्म-जरा-मरण-घटन-घटी-यन्त्र-राजि-रज्जवः सर्व-पञ्च-जनानाम्. पञ्च-महा-भूत-पञ्च-कुल्âधिष्ठित्âन्तः-करण-व्यवहार-दर्शन-निपुणाः सर्वंकषा विषमा धर्म-राज-स्थितयः. क्षणम् अपि क्षममाणा गलन्त्य् आयुष्-कला-कलन-कुशला निलये निलये काल-नालिकाः. जगति सर्व-जन्तु-जीवित्ôपहार-पातिनी संचरति झटिति चण्डिका यम्âज्ञा. रटन्त्य् अन्-अवरतम् अखिल-प्राणि-प्रयाण-प्रकटन-पटवः प्रेत-पति-पटहाः. प्रति-दिशं पर्यटन्ति पेटकैः प्रति-पुरं प्रतप्त-लोह-लोहित्âक्षाः काल-कूट- [255] -कान्ति-काल-कायाः काल-पाश-पाणयः काल-पुरुषाः. प्रति-भवनं भ्रमन्ति भीषण-किंकर-कर-घट्टित-यम-घण्टा-पुट-पटु-टांकार-भयं-कराः सर्व-सत्त्व-संघ-संहरणाय घोर्âघात-घोषणाः. दिशि दिशि वहन्ति बहु-चिता-धूम-धूसरित-प्रेत-पति-पताका-पटु-पतित-गृध्र-दृष्टयः शोक-कृत-कोलाहल-कुल-कुटुम्बिनी-विकीर्ण-केश-कलाप-शबल-शव-शिबिका-सहस्र-संकुलाः किल-किलायमान-श्मशान-शिबिर-शिवा-शावकाः पर-लोक्âवसथ-पथिक-स्âर्थ-प्रस्थान-विशिखा वीथयः. सकल-लोक-कवल्âवलेह-लम्पटा बहला वहं-लिहा लेढि लोहित्âचिता चित्âङ्गार-काली काल-रात्रि-जिह्वा जीवितानि जीविनाम्. तृप्तम् अ-शिक्षिता च भगवतः सर्व-भूत-भुजो बुभुक्षा मृत्योः. अति-द्रुत-वाहिनी च्â-नित्यता-नदी. क्षणिकाश् च महा-भूत-ग्राम-गोष्ठ्यः. रात्रिषु भह्गुराणि गात्र-यन्त्र-पञ्जर-दारूणि देहिनाम्. अ-शुभ-शुभ्âवेश-विवशा विशरारवः शरीर-निर्माण-परम्âणवः. छिदुरा जीव-बन्धन-पाश-तन्त्री-तन्तवः. सर्वम् आत्मनो ऽन्-ईश्वरं विश्वं नश्वरम्. एवम् अवधृत्य न्âत्य्-अर्थम् एव्âर्हसि मेधाविनि मृदुनि मनसि तमसः प्रसरं दातुम्. एको ऽपि प्रतिसंख्यान-क्षण आधारी-भवति धृतेः. अपि च दूर-गते ऽपि हि शोके नन्व् इदानीम् अपेक्षणीय एव्âयं ज्येष्ठः पितृ-कल्पो भ्राता भवत्या गुरुः. इतरथा को न बहु-मन्येत कल्याण-रूपम् ईदृसं संकल्पम् अत्र-भवत्याः काषाय-ग्रहण-कृतम्. अखिल-मनो-ज्वर-प्रशमन-कारणं हि भगवती प्रव्रज्या. ज्यायः खल्व् इदं परम्âत्मवताम्. महा-भागस् तु भिनत्ति मनो-रथ-मधुना. यद् अयम् आदिशति तद् एव्âनुष्ठेयम्. यदि भ्रात्êति यदि ज्येष्ठ इति यदि वत्स इति यदि गुणवान् इति यदि राज्êति सर्वथा स्थातव्यम् अस्य नियोगे" इत्य् उक्त्वा व्यरंसीत्.
[256] उपरत-वचसि च तस्मिन् निजगाद नर-पतिः: "आर्यम् अपहाय को ऽन्य एवम् अभिदध्यात्. अन्-अभ्यर्थित-दैव-निर्मिता हि विषम-विपद्-अवलम्बन-स्तम्भा भवन्तो लोकस्य. स्नेह्âर्द्र-मूर्तयो मोह्âन्ध-कार-ध्वंसिनश् च धर्म-प्रदीपाः. किं तु प्रणय-प्रदान-दुर्-ललिता दुर्-लभम् अपि मनो-रथम् अति-प्रीतिर् अभिलषति. धीरस्य्âपि धार्ष्ट्यम् आरोपयति हृदय-लघिम-लङ्घितम् अति-वल्लभत्वम्. युक्त्â-युक्त-विचार-शून्यत्वाच् च शालीनम् अपि शिक्षयन्ति स्व्âर्थ-तृष्णाः प्रागल्भ्यम्. अभ्यर्थनाया रक्षन्ति च जल-निधय इव मर्यादाम् आर्याः. दत्तम् एव च शरीरम् इदम् अन्-अभ्यर्थितेन प्रथमम् एव्âतिथ्याय माननीयेन भवता मह्यम्. अतः किं-चिद् अर्थये भदन्तम् इयं नः स्वसा बाला च बहु-दुःख-खेदिता च सर्व-कार्य्âवधीरण्ôपरोधेन्âपि यावल् लालनीया नित्यम्. अस्माभिश् च भ्रातृवध्âपकारि-रिपु-कुल-प्रलय-करण्ôद्यतस्य बाहोर् विधेयैर् भूत्वा सकल-लोक-प्रत्यक्षं प्रतिज्ञा कृता. पूर्व्âवमान-नाभि-भवम् अ-सहमानैर् अर्पित आत्मा कोपस्य. अतो नियुक्तां कियन्तम् अपि कालम् आत्मानम् आर्यो ऽपि कार्ये मदीये. दीयताम् अतिथये शरीरम् इदम्. अद्य-प्रभृति यावद् अयं जनो लघयति प्रतिज्ञा-भारम्, आश्वासयति च तात-विनाश-दुःख-विक्लवाः प्रजाः, तावद् इमाम् अत्र-भवतः कथाभिश् च धर्म्याभिः, कुशल-प्रतिबोध-विधायिभिर् उपदेशैश् च दूर्âपसारित-रजोभिः, शील्ôपशम-दायिनीभिश् च देशनाभिः, क्लेश-प्रहाण-हेतु-भूतैश् च तथा-गतैर् दर्शनैः, अस्मत्-पार्श्व्ôपयायिनीम् एव प्रतिबोध्यमानाम् इच्छामि. इयं तु ग्रहीष्यति मय्âइव समं समाप्त-कृत्येन काषायाणि. अर्थि-जने च किम्-इव न्âतिसृजन्ति महान्तः. सुर-नाथम् आत्म्âस्थिभिर् अपि यावत् कृत्âर्थम् अकरोद् धैर्य्ôदधिर् दधीचः. मुनि-नाथो ऽप्य् अन्-अपेक्षित्âत्म-स्थितिर् अनुकम्प्êति कृत्वा कृपावान् आत्मानं वठर-सत्त्वेभ्यः कतिकृत्वो न दत्तवान्. अतः परं भवन्त एव बहुतरं जानन्ति." इत्य् उक्त्वा तूष्णीं बभूव भू-पतिः.
[257] भूयस् तु बभाषे भदन्तः: "भव्या न द्विर् उच्चारयन्ति वाचम्. चेतसा प्रथमम् एव प्रतिग्राहिता गुणास् तावकाः काय-बलिम् इमाम्. अमुना जनेन्ôपयोगस् तु निर्-उपयोगस्य्âस्य लघुनि गुरुणि वा कृत्ये गुणवद् आयत्तः" इति. अथ तथा तस्मिन्न् अभिनन्दित-प्रणये प्रीयमाणः पार्थिवस् तत्र ताम् उषित्वा विभावरीम् उषसि च वसन्âलं-कार्âदि-प्रदान-परितोषितं विसर्ज्य निर्घातम् आचार्येण सह स्वसारम् आदाय प्रयाणकैः कतिपयैर् एव कटकम् अनु-जाह्नवि निविष्टं प्रत्याजगाम.
तत्र च राज्यश्री-प्राप्ति-व्यतिकर-कथां कथयत एव प्रणयिभ्यो रविर् अपि ततार गगन-तलम्. बहल-मधु-पङ्क-पिङ्गलः पङ्गज्âकर इव संचुकोच चक्र-वाक-वल्लभो वासरः. प्रकीर्णानि नव-रुधिर-रस्âरुण-वर्णानि लोक्âलोक-जूंषि यजूंष्îव कुपित-याज्ञवल्क्य-वक्त्र-वान्तानि निज-वपुषि पूषा पाप-मूंषि पुनर् अपि संजहार जालकानि रोचिषाम्. क्रमेण च समुपोह्यमान-मांसल-राग-रोचिष्णुर् उष्ण्âंशुर् उष्णीष-बन्ध-सहज-चूडा-मणिर् इव वृकोदर-कर-पुट्ôत्पाटितः, प्रत्यग्र-शोणित-शोण्âङ्ग-राग-रौद्रो द्रौणायनस्य, रुद्र-भिक्षा-दान-शौण्ड-पुर-मथन-मुक्त-मुण्ड-सिरा-नाडि-रुधिर-पूरण-शोणित-कपिलः कपाल-कर्पर इव च पैतामहः, पितृ-वध-रुषित-राम-राग-रचितः, पृथु-विकट-कार्तवीर्य्âंस-कूट-कुट्टाक-कुठार-तुण्ड-तष्ट- [258] -दुष्ट-क्षत्रिय-कण्ठ-कुहर-रुधिर-कुल्या-प्रणाल-सहस्र-पूरितो ह्रद इव दूर-रोधी रौधिरो भय-निगूढ-कर-चरण-मुण्ड-मण्डल्âकृतिर् गुरु-गरुड-नख-पञ्जर्âक्षेप-क्षपण-क्षिप्त-क्षतज्ôक्षितो व्य्-असुर् विभावसुः, कण्ठ इव च लोठ्यमानः, नभस्य् अरुण-गर्भ-मांस-पिण्ड इव च खण्डिमानम् आनीतः, नियत-काल्âतिपात-दूयमान-दाक्षायणी-क्षिप्तः, धातु-तट इव च सुमेरोर् अ-सुर-वध्âभिचार-चरु-पचन-पिशुनः, शोणित-क्वाथ-कषायित-कुक्षिर् अति-विसंकटः कटाह इव च बार्हस्पत्यः, सद्यो-गलित-गज-दानव-देह-लोहित्ôपलेप-भीषणः मुख-मण्डल्âभोग इव महाभैरवस्य मुहूर्तम् अदृश्यत. जल-निधि-जल-प्रतिबिम्बित-रवि-बिम्बा-राजि-भास्वर्âभ्र्âवलम्बिनी गृहीत्âर्द्र-मांस-भार्êव च्âबभासे वासर्âवसान-वेला वेताल-निभा. ज्वलत्-संध्या-राग-रज्यमान-जल-प्रवाहः पुनर् इव पुराण-पुरुष-पीवर्ôरु-संपुट-पिष्ट-मधु-कैटभ-रुधिर-पटल-पाटल-वपुर् अभवद् अधिपतिर् अर्णसाम्. समवसिते च संध्या-समये समन्-अन्तरम् अ-परिमित-यशः-पान-तृषिताय मुक्ता-शैल-शिला-चषक इव निज-कुल-कीर्त्या, कृत-युग-करण्ôद्यताय्âदि-राज-राजत-शासन-मुद्रा-निवेश इव राज्य-श्रिया, सकल-द्वीप-जिगीषा-चलिताय श्वेत-द्वीप-दूत इव च्âयत्या, श्वेत-भानुर् उपानीयत निशया नर्êन्द्राय्êति भद्रम् ओम्.
इति श्री-महा-कवि-बाण-भट्ट-कृतौ हर्षचरिते ऽष्टम उच्छ्वासः
मूल पाठ: Harṣacarita · Edition: Parab: The Harṣacharita of Bāṇabhaṭṭa. 7th ed. Bombay : Nirnaya-Sagar Press 1946 · Data entry Jens Thomas Willem Bollée · GRETIL (Göttingen) · CC BY-NC-SA 4.0