हर्षचरित, परिशिष्ट · अध्याय 1
परिशिष्टम्
बाण-प्रशस्तयः
श्लेषे केचन शब्दगुम्फविषये केचिद् रसे चापरे
ऽलङ्कारे कतिचित्सदर्थविषये चान्ये कथावर्णने ।
आः सर्वत्र गभीरधीरकविताविन्द्याटवीचातुरी-
सञ्चारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः
(श्रीचन्द्रदेवस्य)
हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां
श्रीहर्षेण समर्पितानि कवये बाणाय कुत्राद्य तत् ।
या बाणेन तु तस्य सूक्तिनिकरैरुट्टङ्किताः कीर्तयस्
ताः कल्पप्रलये ऽपि यान्ति न मनाङ् मन्ये परिम्लानताम्
(रुय्यककृतव्यक्तिविवेकव्याख्याने)
अर्थेश्वरं हन्त भजे ऽभिनन्दं वागीश्वरं वाक्पतिराजमीडे ।
रसेश्वरं नौमि च कालिदासं बाणं तु सर्वश्वरमानतो ऽस्मि
(उदयसुन्दर्यां सोढ्वलस्य)
परिशीलितैव सरसं कविराजैर्बहुभिरत्र वाग्देवी ।
बाणेन तु वैजात्यात् कथयति नामैव वाणीति
(विश्वेश्वरस्य)
कादम्बरीसहोदर्या सुधये वै बुधे हृदि ।
हर्षाख्यायिकया ख्यातिं बाणो ऽब्धिरिव लब्दवान्
शश्वद्बाणद्वितीयेन नमदाकारधारिणा ।
धनुषेव गुणाढ्येन निःशेषो रञ्जितो जनः
(त्रिविक्रमस्य)
जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि ।
प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति
(गोवर्धनस्य)
हृदि लग्नेन बाणेन यन्मन्दो ऽपि पदक्रमः ।
भवेत् कविकुरङ्गाणां चापलं तत्र कारणम्
सुबन्धुर्बाणभट्टश्च कविराज इति त्रयः ।
वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा
सचित्रवर्णविच्छित्तिहारिणोरवनीपतिः ।
श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः
(नवसाहसाङ्के)
प्रतिकविभेदनबाणः कवितातरुगहनविहरणमयूरः ।
सहृदयलोकसुबन्धुर्जयति श्रीभट्टबाणकविराजः
(वीरनारायणचरिते)
युक्तं कादम्बरीं श्रुत्वा कवयो मौनमाश्रिताः ।
बाणध्वनावनध्यायो भवतीति स्मृतिर्यतः
रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति ।
तत्किं तरुणी नहि नहि, वाणी बाणस्य मधुरशीलस्य
सहर्षचरिता शश्वत्कृतकादम्बरीकथा ।
बाणस्य वाण्यनार्तेव स्वच्छन्दं भ्रमति क्षितौ
बाणं सत्कविगीर्वाणमनुबध्नाति कः कविः ।
सिन्धुमन्धुः किमन्वेति द्युमणिः कतमो मणिः
(रघुनाथचरिते)
शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते ।
शिलाभट्टारिकावाचि बाणोक्तिषु च सा यदि
केवलो ऽपि स्फुरन् बाणः करोति विमदान् कवीन् ।
कि पुनः कॢप्तसन्धानपुलिन्दकृतसन्निधिः
(धनपालस्य)
दण्डीत्युपस्थिते सद्यः कवीनां कम्पतां मनः ।
प्रविष्ठे त्वन्तरं बाणे कण्ठे वागेव रुध्यते
मूल पाठ: Harṣacarita, Pariśiṣṭa · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0