गुरुपञ्चाशिका · अध्याय 1
गुरुपञ्चाशिका
ओम् नमो बुद्धाय ।
श्रीवज्रसत्त्वपदवीप्रतिलम्भहेतोर्नत्वा यथाविधि गुरोश्चरणारविन्दम् ।
तत्पर्युपास्तिरमला बहुतन्त्रगीता संक्षिप्य कथ्यत इयं शृणुतादरेण
अभिषेकाग्रलब्धो हि वज्राचार्यस्तथागतैः ।
दशदिग्लोकधातुस्थैस्त्रिकालमेत्य वन्द्यते
त्रिकालं परया भक्त्या सपुष्पाञ्जलिमण्डलैः ।
पर्युपास्यो गुरुः शास्ता शिरसा पादवन्दनात्
सद्धर्मादीन् पुरस्कृत्य गृही वा नवको ऽपि वा ।
वन्द्यो व्रतधरैर्बुद्ध्या लोकावद्यावहानये
सुखासनं समुत्थानमर्थक्रियादिगौरवम् ।
सर्वमेव व्रती कुर्यात् त्यक्त्वा चार्चनवन्दनम्
प्राक् शिष्याचार्यसंबन्धः कार्यः परीक्ष्य सूरिभिः ।
समानसमयभ्रंशो दोषो हि गुरुशिष्ययोः
निष्कृपं क्रोधनं क्रूरं स्तब्धं लघुमसंयतम् ।
स्वोत्कर्षकं च नो कुर्याद् गुरुं शिष्यं च बुद्धिमान्
धीरो विनीतो मतिमान् क्षमावानार्जवो ऽशठः ।
मन्त्रतन्त्रप्रयोगज्ञः कृपालुः शास्त्रकोविदः
दशतत्त्वपरिज्ञाता मण्डलालेख्यकर्मवित् ।
मन्त्रव्याख्याकृदाचार्यः प्रसन्नः स्याज्जितेन्द्रियः
तं नाथं यो ऽवमन्येत शिष्यो भूत्वा सचेतनः ।
सर्वबुद्धापमानेन स नित्यं दुःखमाप्नुयात्
ईत्युपद्रवचौरैश्च ग्रहज्वरविषादिभिः ।
म्रियते ऽसौ महामूढो गुरुपादाभिनिन्दकः
राजवातानलव्यालैर्डाकिनीजलतस्करैः ।
विघ्नैर्विनायकैश्चापि मारितो नरकं व्रजेत्
न कुर्याच्चित्तसंक्षोभमाचार्यस्य कदाचन ।
यदा करोति दुष्प्रज्ञो नरके पच्यते ध्रुवम्
नरका ये समाख्याता अवीच्याद्या भयानकाः ।
तत्र वासः समाख्यात आचार्यस्य हि निन्दनात्
तस्मात् सर्वप्रयत्नेन वज्राचार्यं महागुरुम् ।
प्रच्छन्नवरकल्याणं नावमन्येत् कदाचन
यथेष्टदक्षिणादानाद् गुरुभक्तं सगौरवम् ।
उक्ता ज्वरादयस्तापा न भूयः प्रभवन्ति हि
अदेयैः पुत्रदाराद्यैरसुभिर्वा निजैरपि ।
सेव्यः स्वसंवराचार्य किं पुनर्विभवैश्चलैः
यतः सुदुर्लभं वस्तु कल्पासंख्येयकोटिभिः ।
बुद्धत्वमुद्योगवते ददातीहैव जन्मनि
नित्यं स्वसमयः साध्यो नित्यं पूज्यास्तथागताः ।
नित्यं च गुरवे देयं सर्वबुद्धसमो ह्यसौ
यद्यदिष्टतरं लोके विशिष्टरमेव वा ।
तत्तद्धि गुरवे देयं सदैवाक्षयमिच्छता
दत्ते ऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम् ।
तस्माच्च पुण्यसंभारः संभाराद् बोधिरुत्तमा
ते शिष्याः करुणोत्सर्गशीलक्षान्तिगुणान्विताः ।
ये नान्यत्वं कल्पयन्ति गुरोर्वज्रधरस्य च
चैत्यभङ्गादिभीत्यापि गुरोश्छायां न लङ्घयेत् ।
पादुकासनयानादेर्लङ्घनस्य तु का कथा
श्रूयाद् यत्नाद् गुरोराज्ञां हृष्टचित्तो महामतिः ।
अशक्तः श्रावयेत् तस्मा उपपत्त्या त्वशक्तिताम्
गुरोः सिद्धिं समाप्नोति गुरोः स्वर्गं गुरोः सुखम् ।
तस्मात् सर्वप्रयत्नेन गुरोराज्ञां न लङ्घयेत्
स्वात्मवच्च गुरोर्द्रव्यं गुरुवच्च तदङ्गनाम् ।
स्वजनानिव तल्लोकान् पश्येन्नित्यं समाहितः
शय्यारोहमग्रयानमुष्णीषाद्युपबन्धनम् ।
न कुर्यादासने पादं कटिहस्तं च सन्निधौ
सुप्तेन वा निषण्णेन न स्थेयमुत्थिते गुरौ ।
दक्षश्चोत्साहसम्पन्नस्तत्कार्येषु सदा भवेत्
श्लेष्मादीनां परित्यागः पादप्रसारणं तथा ।
चङ्क्रमणं विवादं च न कुर्यात् पुरतो गुरोः
संवाहनं नर्तनं च न गानं न च बादनम् ।
बहु संलपनं चापि न कुर्यात् पुरतो गुरोः
नत्वासनात् समुत्थेयं निषत्तव्यं च भक्तितः ।
निश्यप्सु सभये मार्गे प्रार्थ्याग्रे गमनं चरेत्
नाङ्गानि चालयेद् धीमान् न जृम्भादि समाश्रयेत् ।
नाङ्गुलिस्फोटनं कुर्यात् पुरः पश्यति शास्तरि
पादयोः क्षालनं चाङ्गप्रोञ्छाभ्यञ्जनमर्दनम् ।
पूर्वं प्रणम्य कर्तव्यं ततः कुर्याद् यदादिशेत्
[आव्हानादौ गुरोर्नाम्नि पूज्यपादादि योजयेत् ।
अन्यदा श्रद्धया ब्रूयात् सादरैस्तु विशेषणैः
आदिश्यताम्, करिष्यामि, प्रवदेत् साञ्जलिर्गुरुम् ।
श्रुत्वादेशं चाविचाल्य यथादिष्टं तथा चरेत्
हासे कासे समुत्पन्ने करेणाच्छादयेन्मुखम् ।
तदन्ते मृदुभिर्वर्णैः स्वाभिप्रायं निवेदयेत्
विनीतः पुरतो भूयात् सज्जो वस्त्रादिबन्धनैः ।
भूजानुः साञ्जलिः श्रोतुं याचयेत् तु त्रिवारकम्
सत्कार्यं सर्वदा कुर्यान्निरहङ्कारचेतसा ।
त्रपया पापभीत्या संवृतो नववधूरिव
न विलासमयीं चेष्टां कुर्यात् शास्तरि संमुखे ।
अन्यच्चैवंविधं कर्म सुपरीक्ष्य त्यजेद् भृशम्
प्रतिष्ठायां मण्डले च होमे वा शिष्यसंग्रहे ।
आख्यानादौ गुरोर्वासे नित्यं कुर्याच्च सन्निधिम्
प्रतिष्ठादौ लभ्यते यत् तत्सर्वं गुरवे ऽर्पयेत् ।
तेन दत्तं च गृण्हीयात् स्वयं चान्यांश्च तोषयेत्
गुरुशिष्ये स्वशिष्यत्वं न विदध्यात् कदाचन् ।
स्वशिष्यं व्यावृतं कुर्यात् सत्कारादेर्गुरोः पुरः
आचार्यो यत्स्वयं दद्याद् गुरुर्वा यत् प्रदापयेत् ।
प्रणम्य धीमता ग्राह्यं बद्धाञ्जलिपुटेन तत्
अविस्मृतः सर्वचर्यां यत्नात् कुर्वन् स्वबान्धवान् ।
अविस्मृतेर्निराकुर्यात् प्रेम्णा हृष्टेन चेतसा
अनुज्ञातो गुरोः कार्यं श्रद्धालुर्नाचरेद् यदि ।
रुग्णस्तु कुशले चित्ते नैवं भवति पापभाक्
किमन्यद्, गुरुतोषाय यच्छक्यं तत्समाचरेत् ।
चर्या कार्या प्रयत्नेन न कदाप्यवहेलयेत्
सर्वथा सर्वदा सिद्धिराचार्य यानुगामिनी ।
गुरुर्वज्रधरस्योक्तेराराध्यः सर्ववस्तुभिः
शिष्यः शुद्धाशयो भूत्वा त्रिरत्नं शरणं व्रजेत् ।
गुरोरधीत्यानुपठेत् कुर्यादुत्सर्गमेव च
ततो मन्त्रादिदानेन कृत्वा सद्धर्मपात्रकम् ।
पठेच्च धारयेच्चापि मूलापत्तीश्चतुर्दश
गुरुमनुगतशिष्यस्यानवद्यस्य कृत्वा सकलसुहितवृद्धिं संचितं यन्मयेदम् ।
कुशलपदमनन्तं तेन वै सर्वसत्वाः विजितसुगतभावा द्राक् सुसिद्धिं लभेयुः
मूल पाठ: Gurupañcāśikā · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0