भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.196

1.196.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाक्ये आचारकाण्डे पञ्चनवत्यधिकशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 196
हरिरुवाच ।
अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्माख्यविद्यया ।
सर्वाञ्छत्रून्विनिर्जित्य ताञ्च वक्ष्ये महेश्वर

1.196.2

पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ।
मुखे शिरस्यानुपूर्वमोङ्का रादीनि विन्यसेत्

1.196.3

नमो नारायणायेति विपर्यासमथापि च ।
करन्यासं ततः कुर्याद्द्वादक्षरविद्यया

1.196.4

प्रणवादियकारान्तमङ्गुल्यं गुष्ठपर्वसु ।
न्यसेद्धृदय ओङ्कारं मनुं मूर्ध्नि समस्तकम्

1.196.5

ओङ्कारन्तु भ्रुवोर्मध्ये शिकानेत्रादिमूर्धतः ।
ओं विष्णवे इति इमं मन्त्रन्यासमुदीरयेत्

1.196.6

आत्मानं परमं ध्यायेच्छेषं यच्छक्तिभिर्युतम् ।
मम रक्षां हरिः कुर्यान्मत्स्यमूर्तिर्जले ऽवतु

1.196.7

त्रिविक्रमस्तथाकाशे स्थले रक्षतु वामनः ।
अटव्यां नरसिंहस्तु रामो रक्षतु पर्वते

1.196.8

भूमौ रक्षतु वाराहौ व्योम्नि नारायणो ऽवतु ।
कर्मबन्धाच्च कपिलो दत्तो रोगाच्च रक्षतु

1.196.9

हयग्रीवो देवताभ्यः कुमारो मकरध्वजात् ।
नारदो ऽन्यार्चनाद्देवः कूर्मो वै नैरृते सदा

1.196.10

धन्वन्तीरश्चापथ्याच्च नागः क्रोधवशात्किल ।
यज्ञो रोगात्समस्ताच्च व्यासो ऽज्ञानाच्च रक्षतु

1.196.11

बुद्धः पाषण्डसंघातात्कल्की रक्षतु कल्मषात् ।
पायान्मध्यन्दिने विष्णुः प्रातर्नारायणो ऽवतु

1.196.12

मधुहा चापराह्ने च सायं रक्षतु माधवः ।
हृषीकेशः प्रदोषे ऽव्यात्प्रत्यूषे ऽव्याज्जनार्दनः

1.196.13

श्रीधरो ऽव्यादर्धरात्रे पद्मनाभो निशीथके ।
चक्रकौमोदकीबाणा घ्नन्तु शत्रूंश्च राक्षसान्

1.196.14

शङ्खः पद्मं च शत्रुभ्यः शार्ङ्गं वै गरुडस्तथा ।
बुद्धीन्द्रियमनः प्राणान्पान्तु पार्श्वविभूषणः

1.196.15

शेषः सर्पस्वरूपश्च सदा सर्वत्र पातु माम् ।
विदिक्षु दिक्षु च सदा नारसिंहश्च रक्षतु

1.196.16

एतद्धारयमाणश्च यं यं पश्यति चक्षुषा ।
स वशी स्याद्विपाप्मा च रोगमुक्तो दिवं व्रजेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc