भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.186

1.186.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मन्त्रतन्त्रवैद्यप्रयोदृपञ्चाशीत्यधिशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 186
हरिरुवाच ।
पीतः सारो गुडूच्याश्च मधुना च प्रमेहनुत् ।
पीतं गोहालिकामूलं तिलदध्याज्यसंयुतम्

1.186.2

निरुद्धमूत्रं क्वथितं निवर्तयति शङ्कर ।
तथा हिक्कां हरेत्पीतं सौवर्चलयुतञ्च वै

1.186.3

गोरक्षकर्कटीमूलं पिष्टं शीतोदकेन च ।
पीतं दिनत्रयेणैव नाशयेद्रुद्र शर्कराम्

1.186.4

पिष्ट्वा वै मालतीमूलं ग्रीष्मकाले समाहितम् ।
साधितं छागदुग्धेन पतिं शर्कस्यान्वितम् ।
हरेन्मूत्रनिरोधञ्च हरेद्वै पाण्डुशर्कराम्

1.186.5

द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा ।
गण्डमालां हरेल्लेपादसाध्यं गलगण्डकम्

1.186.6

रसाञ्जनं हरीतक्याश्चूर्णं तेनैव गुण्ठनात् ।
नाशयेत्पुरुषो व्याधीन्नात्र कार्या विचारणा

1.186.7

करवीरमूललेपाद्वै लेपात्पूगफलस्य च ।
पुंव्याधिर्नश्यते रुद्र योगमन्यं वदाम्यहम्

1.186.8

दन्तीमूलं हरिद्रा च चित्रकं तस्य लेपनात् ।
भगन्दरविनाशः स्यादन्यं योगं वदाम्यहम् ।
जलौकाजग्धरक्तञ्च भगन्दरमुमापते

1.186.9

त्रिफलाजलघृष्टञ्च मार्जारास्थि विलेपितम् ।
ततो न प्रस्त्रवेद्रक्तं नात्र कार्या विचारणा

1.186.10

हरिद्रानेकवारञ्च स्नुहीक्षीरेण भाविता ।
वटिकार्ऽशोविनाशाय तल्लेपाद्वृषभध्वज ।
घोषाफलं सैन्धवञ्च पिष्ट्वा चार्शोहरं परम्

1.186.11

गव्याज्यं साधितं पीतं पलाशक्षारवारिणा ।
त्रिगुणेन त्रिकटुकं अर्शांसि क्षपयेच्छिव

1.186.12

बिल्वस्य च फलं दग्धं रक्तार्शः प्रविनाशनम् ।
जग्धवा कृष्णतिलानेव नवनीतयुतानपि

1.186.13

शुण्ठीचूर्णं यवक्षारयुक्तं तुल्यगुडान्वितम् ।
अग्निवृद्धिं करोत्येव प्रत्यूषे वृषभध्वज

1.186.14

शुण्ठ्या च क्वथितं वारि पीतं चाग्निं करोति वै ।
हरीतकीं सैन्धवञ्च चित्रकं रुद्र पिप्पली

1.186.15

चूर्णमुष्णोदकेनैषां पीतं चातिक्षुधाकरम् ।
साज्यं सूकरमांसं वै पीतं चातिक्षुधाकरम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc