भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.179

1.179.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ह्यष्टसप्तत्यधिकशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 179
हरिरुवाच ।
हरितालं यवक्षांरं पत्राङ्गं रक्तचन्दनम् ।
जातिहिङ्गुलकं लाक्षां पक्त्वा दन्तान्प्रलेपयेत्

1.179.2

हरीतकीकषायेण मृष्ट्वा दन्तान्प्रलेपयेत् ।
दन्ताः स्युर्लोहिताः पुंसः श्वेता रुद्र न संशयः

1.179.3

मूलकं स्विद्य मन्दाग्नौ रसं तस्य प्रपूरयेत् ।
कर्णयोः पूरणात्तेन कर्णस्त्रावो विनश्यति

1.179.4

अर्कपत्रं गृहीत्वा तु मन्दाग्नौ तापयेच्छनैः ।
निष्पीड्य पूरयेत्कर्णौ कर्णशूलं विनश्यति

1.179.5

प्रियङ्गुमधुका चैव धातक्युत्पलपाङ्क्तिभिः ।
मञ्जिष्ठा लोध्रलाक्षाभिः कपित्थस्वरसेन च ।
पचेत्तैलं तथा स्त्रीणां नश्येत्क्लेदः प्रपूरणात्

1.179.6

शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुमहौषधम् ।
सतपुष्पावचा कुष्ठं दारु शिग्र रसाञ्जनम्

1.179.7

सौवर्चलं यवक्षारं तथा सर्जकसैन्धवम् ।
तथा ग्रन्थिर्विडं मुस्तं मधुयुक्तं चतुर्गुणम्

1.179.8

मातुलुं गरसस्तद्वत्कदल्याश्च रसो हि तैः ।
पक्वतैलं हरेदाशु स्त्रावादींश्च न संशयः

1.179.9

कर्णयोः कृमिनाशः स्यात्कटुतैलस्य पूरणात् ।
हरिद्रा निम्बपत्राणि पिप्पल्यो मरिचानि च

1.179.10

विडङ्गभद्रं मुस्तञ्च सप्तमं विश्वभेषजम् ।
गोमूत्रेण च पिष्ट्वैव कृत्वा च वटिकां हर ! ।
अजीर्णहृद्भवेच्चैकं द्वयं विषूचिकापहम्

1.179.11

पटोलं मधुना हन्ति गोमूत्रेण तथाबुदम् ।
एषा च शङ्करी वर्तिः सर्वनेत्रामया पहा

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc