भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.116

1.116.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शौनकोक्तनीतिसारादिवर्णनं नाम पञ्चदशोत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 116
ब्रह्मोवाच ।
व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत् ।
सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः

1.116.2

एकभक्तेन नक्तेन उपवासफलादिना ।
ददाति धनधान्यादि पुत्रराज्यजयादिकम्

1.116.3

वैश्वानरः प्रतिपदि कुबेरः पूजितोर्ऽथदः ।
पोष्य ब्रह्मो प्रतिपद्यर्चितः श्रिस्तथाश्विनी

1.116.4

द्वितीयायां यमो लक्ष्मीनारायण इहार्थदः ।
तृतीयायां त्रिदेवाश्च गौरीविघ्नेशशङ्कराः

1.116.5

चतुर्थ्यां च चतुर्व्यूहः पञ्चम्यामर्चितो हरिः ।
कार्तिकेयो रविः षष्ठ्यां सप्तम्यां भास्करोर्ऽथदः

1.116.6

दुर्गाष्टम्यां नवम्यां च मातरो ऽथ दिशोर्ऽथदाः ।
दशम्यां च यमश्चन्द्र एकादश्यामृषीन्यजेत्

1.116.7

द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः ।
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोर्ऽथदाः

1.116.8

अमावास्यां पूजनीया वारा वै भास्करादयः ।
नक्षत्राणि च योगाश्च पूजिताः सर्वदायकाः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc