भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 8.13

8.13.1

बलभद्रखण्डः - त्रयोदशोऽध्यायः
बलराम सहस्रनामम् -
दुर्योधन उवाच -
बलभद्रस्य देवस्य प्राड्‌विपाक महामुने ॥
नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि

8.13.2

प्राड्‌विपाक उवाच -
साधु साधु महाराज साधु ते विमलं यशः ॥
यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम्

8.13.3

नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः ॥
गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे

8.13.4

ॐअस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमंत्रस्य
गर्गाचार्य ऋषिः अनुष्टुप् छन्दः संकर्षणः
परमात्मा देवता बलभद्र इति बीजं रेवतीति शक्तिः
अनंत इति कीलकं बलभद्रप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम्
स्फुरदमलकिरीटं किंकिणीकंकणार्हं
चलदलककपोलं कुंडलश्रीमुखाब्जम् ॥
तुहिनगिरिमनोज्ञं नीलमेघांबराढ्यं
हलमुसलविशालं कामपालं समीडे

8.13.5

ॐ बलभद्रो रामभद्रो रामः संकर्षणोऽच्युतः ॥
रेवतीरमणो देवः कामपालो हलायुधः

8.13.6

नीलांबरः श्वेतवर्णो बलदेवोऽच्युताग्रजः ॥
प्रलंबघ्नो महावीरो रौहिणेयः प्रतापवान्

8.13.7

तालांको मुसली हली हरिर्यदुवरो बली ॥
सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः

8.13.8

कालिंदिभेदनो वीरो बलः प्रबल ऊर्ध्वगः ॥
वासुदेवकलानन्तः सहस्रवदनः स्वराट्

8.13.9

वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः ॥
यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः

8.13.10

द्वारकेशो माथुरेशो दानी मानी महामनाः ॥
पूर्णः पुराणः पुरुषः परेशः परमेश्वरः

8.13.11

परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः ॥
अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः

8.13.12

जीवात्मा परमात्मा च ह्यंतरात्मा ध्रुवोऽव्ययः ॥
चतुर्व्यूहश्चतुर्वेद-श्चतुर्मूर्तिश्चतुष्पदः

8.13.13

प्रधानं प्रकृतिः साक्षी संघातः संघवान् सखी ॥
महामना बुद्धिसखश्चेतोऽहंकार आवृतः

8.13.14

इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च ॥
अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः

8.13.15

विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् ॥
फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः

8.13.16

फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः ॥
मणिहारो मणिधरो वितली सुतली तली

8.13.17

अतली सुतलेशश्च पातालश्च तलातलः ॥
रसातलो भोगितलः स्फुरद्दन्तो महातलः

8.13.18

वासुकिः शंखचूडाभो देवदत्तो धनंजयः ॥
कंबलाश्वो वेगतरो धृतराष्ट्रो महाभुजः

8.13.19

वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः ॥
पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः

8.13.20

कोटिकंदर्पलावण्यो नागकन्यासमर्चितः ॥
नूपुरी कटिसूत्री च कटकी कनकांगदी

8.13.21

मुकुटी कुण्डली दण्डी शिखण्डी खंडमंडली ॥
कलिः कलिप्रियः कालो निवातकवचेश्वरः

8.13.22

संहारकद्रुर्द्रवयुः कालाग्निः प्रलयो लयः ॥
महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः

8.13.23

कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः ॥
वैकुंठो याज्ञिको यज्ञो वामनो हरिणो हरिः

8.13.24

कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् ॥
हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः

8.13.25

सनकः कपिलो मत्स्यः कमठो देवमंगलः ॥
दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः

8.13.26

धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः ॥
रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः

8.13.27

काकुत्स्थः करुणासिंधू राजेन्द्रः सर्वलक्षणः ॥
शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः

8.13.28

सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः ॥
निषंगी कवची खड्गी शरी ज्याहतकोष्ठकः

8.13.29

बद्धगोधाङ्गुलित्राणः शंभुकोदण्डभंजनः ॥
यज्ञत्राता यज्ञभर्ता मारीचवधकारकः

8.13.30

असुरारिस्ताटकारिर्विभीषणसहायकृत् ॥
पितृवाक्यकरो हर्षी विराधारिर्वनेचरः

8.13.31

मुनिर्मुनिप्रियश्चित्र-कूटारण्यनिवासकृत् ॥
कबंधहा दण्डकेशो रामो राजीवलोचनः

8.13.32

मतंगवनसंचारी नेता पंचवटीपतिः ॥
सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः

8.13.33

सेतुबन्धो रावणारि-र्लंकादहनतत्परः ॥
रावण्यरिः पुष्पकस्थो जानकीविरहातुरः

8.13.34

अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः ॥
सूर्यवंशी चंद्रवंशी वंशीवाद्यविशारदः

8.13.35

गोपतिर्गोपवृंदेशो गोपो गोपीशतावृतः ॥
गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः

8.13.36

पूतनारिर्बकारिश्च तृणावर्तनिपातकः ॥
अघारिर्धेनुकारिश्च प्रलंबारिर्व्रजेश्वरः

8.13.37

अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् ॥
अग्निपानो दुग्धपानो वृंदावनलताश्रितः

8.13.38

यशोमतीसुतो भव्यो रोहिणीलालितः शिशुः ॥
रासमंडलमध्यस्थो रासमंडलमंडनः

8.13.39

गोपिकाशतयूथार्थी शंखचूडवधोद्यतः ॥
गोवर्धनसमुद्धर्ता शक्रजिद्‍व्रजरक्षकः

8.13.40

वृषभानुवरो नंद आनन्दो नन्दवर्धनः ॥
नन्दराजसुतः श्रीशः कंसारिः कालियांतकः

8.13.41

रजकारिर्मुष्टिकारिः कंसकोदण्डभंजनः ॥
चाणूरारिः कूटहंता शलारिस्तोशलांतकः

8.13.42

कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः ॥
गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा

8.13.43

मागधारिर्यवनहा पांडुपुत्रसहायकृत् ॥
चतुर्भुजः श्यामलांगः सौम्यश्चौपगविप्रियः

8.13.44

युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः ॥
वीरहा वीरमथनः शंखचक्रगदाधरः

8.13.45

रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः ॥
रेवतीप्राणनाथश्च रेवतीप्रियकारकः

8.13.46

ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् ॥
धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः

8.13.47

मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः ॥
दुर्योधनगुरुर्गुर्वीगदाशिक्षाकरः क्षमी

8.13.48

मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः ॥
कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः

8.13.49

स्यमन्तकमणिर्मान्यो गांडीवी कौरवेश्वरः ॥
कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत्

8.13.50

सेव्यो रैवतजामाता मधुमाधवसेवितः ॥
बलिष्ठपुष्टसर्वांगो हृष्टः पुष्टः प्रहर्षितः

8.13.51

वाराणसीगतः क्रुद्धः सर्वः पौंड्रकघातकः ॥
सुनन्दी शिखरी शिल्पी द्विविदांगनिषूदनः

8.13.52

हस्तिनापुरसंकर्षी रथी कौरवपूजितः ॥
विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः

8.13.53

महाराजच्छत्रधरो महाराजोपलक्षणः ॥
सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः

8.13.54

ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः ॥
करीन्द्रकरदोर्दंडः प्रचंडो मेघमण्डलः

8.13.55

कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः ॥
महविभूतिर्भूतेशो बंधमोक्षी समीक्षणः

8.13.56

चैद्यशत्रुः शत्रुसंधो दंतवक्त्रनिषूदकः ॥
अजातशत्रुः पापघ्नो हरिदाससहायकृत्

8.13.57

शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः ॥
नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत्

8.13.58

गंडकीस्नानवान्स्रग्वी वैजयन्तीविराजितः ॥
अम्लानपंकजधरो विपाशी शोणसंप्लुतः

8.13.59

प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः ॥
गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः

8.13.60

गंगासागरसंगार्थी सप्तगोदावरीपतिः ॥
वेणि भीमरथी गोदा ताम्रपर्णी वटोदका

8.13.61

कृतमाला महापुण्या कावेरी च पयस्विनी ॥
प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा

8.13.62

कृष्णा पंपा नर्मदा च गंगा भागीरथी नदी ॥
सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः

8.13.63

पुष्करः सैंधवो जंबू नरनारायणाश्रमः ॥
कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः

8.13.64

इल्वलात्मजहन्ता च सुदामासौख्यदायकः ॥
विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी

8.13.65

वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः ॥
गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः

8.13.66

रंगवल्लीजलाकारो निर्गुणः सगुणो बृहत् ॥
दृष्टः श्रुतो भवद्‍भूतो भविष्यच्चाल्पविग्रहः

8.13.67

अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः ॥
गुणातीतः समः साम्यः समदृङ् निर्विकल्पकः

8.13.68

गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः ॥
नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः

8.13.69

सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः ॥
अक्लेद्योऽच्छेद्य आपूर्णो शोष्यो दाह्यो निवर्तकः

8.13.70

ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः ॥
अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः

8.13.71

महावायुर्महावीरश्चेष्टारूपतनुस्थितः ॥
प्रेरको बोधको बोधी त्रयोविंशतिको गणः

8.13.72

अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः ॥
महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा

8.13.73

नैमित्तिकः प्राकृतिक आत्यंतिकमयो लयः ॥
सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान्

8.13.74

मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः ॥
स्वयंभूः शांभवः शंकुः स्वायंभुवसहायकृत्

8.13.75

सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः ॥
गिरिशो गणनाथश्च गिरीशो गिरिगह्वरः

8.13.76

विंध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः ॥
पतंगः शिशिरः कंको जारुधिः शैलसत्तमः

8.13.77

कालंजरो बृहत्सानुर्दरीभृन्नंदिकेश्वरः ॥
संतानस्तरुराजश्च मन्दारः पारिजातकः

8.13.78

जयंतकृज्जयंतांगो जयन्तीदिग्जयाकुलः ॥
वृत्रहा देवलोकश्च शशी कुमुदबांधवः

8.13.79

नक्षत्रेशः सुधासिंधुर्मृगः पुष्यः पुनर्वसुः ॥
हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः

8.13.80

ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः ॥
शिशुमारो देवमयो ब्रह्मलोको विलक्षणः

8.13.81

रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः ॥
श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः

8.13.82

भूमिर्वैकुण्ठदेवश्च कोटिब्रह्मांडकारकः ॥
असंख्यब्रह्मांडपति-र्गोलोकेशो गवां पतिः

8.13.83

गोलोकधामधिषणो गोपिकाकंठभूषणः ॥
श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी

8.13.84

कुंतधारी त्रिशूली च बीभत्सी घर्घरस्वनः ॥
शूलसूच्यर्पितगजो गजचर्मधरो गजी

8.13.85

अंत्रमाली मुण्डमाली व्याली दंडकमण्डलुः ॥
वेतालभृद्‌भूतसंघः कूष्मांडगणसंवृतः

8.13.86

प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः ॥
कृतांतकालसंघारिः कूटः कल्पांतभैरवः

8.13.87

षडाननो वीरभद्रो दक्षयज्ञविघातकः ॥
खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः

8.13.88

पिनाकटंकारकरश्चलज्झंकारनूपुरः ॥
पंडितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः

8.13.89

वेदांतकृत्सांख्यशास्त्री मीमांसी कणनामभाक् ॥
काणादिर्गौतमो वादी वादो नैयायिको नयः

8.13.90

वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः ॥
वैयाकरणकृच्छंदो वैयासः प्राकृतिर्वचः

8.13.91

पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः ॥
पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः

8.13.92

अलंकारो लक्षणार्थो व्यंग्यविद्धनवद्‍ध्वनिः ॥
वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित्

8.13.93

शृङ्गार उज्ज्वलः स्वच्छोऽद्‌भुतो हास्यो भयानकः ॥
अश्वत्थो यवभोजी च यवक्रीतो यवाशनः

8.13.94

प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः ॥
गताधिरंबरीषांगो विगाधिर्गाधिनां वरः

8.13.95

नानामणिसमाकीर्णो नानारत्‍नविभूषणः ॥
नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः

8.13.96

नानाचंदनगंधाढ्यो नानापुष्परसार्चितः ॥
नानावर्णमयो वर्णो नानावस्त्रधरः सदा

8.13.97

नानापद्मकरः कौशी नानाकौशेयवेषधृक् ॥
रत्‍नकंबलधारी च धौतवस्त्रसमावृतः

8.13.98

उत्तरीयधरः पर्णो घनकंचुकसंघवान् ॥
पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगंबरः

8.13.99

दिव्यांगो दिव्यरचनो दिव्यलोकविलोकितः ॥
सर्वोपमो निरुपमो गोलोकाङ्गीकृताङ्गणः

8.13.100

कृतस्वोत्संगगो लोकः कुण्डलीभूत आस्थितः ॥
माथुरो माथुरादर्शी चलत्खंजनलोचनः

8.13.101

दधिहर्ता दुग्धहरो नवनीतसिताशनः ॥
तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः

8.13.102

प्रभावतीबद्धकरो दामी दामोदरो दमी ॥
सिकताभूमिचारी च बालकेलिर्व्रजार्भकः

8.13.103

धूलिधूसरसर्वांगः काकपक्षधरः सुधीः ॥
मुक्तकेशो वत्सवृंदः कालिंदीकूलवीक्षणः

8.13.104

जलकोलाहली कूली पङ्कप्रांगणलेपकः ॥
श्रीवृंदावनसंचारी वंशीवटतटस्थितः

8.13.105

महावननिवासी च लोहार्गलवनाधिपः ॥
साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः

8.13.106

रंगनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः ॥
सुकिर्तिः सुयशाः स्फीतो यशस्वी रंगरंजनः

8.13.107

रागषट्को रागपुत्रो रागिणीरमणोत्सुकः ॥
दीपको मेघमल्हारः श्रीरागो मालकोशकः

8.13.108

हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः ॥
तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः

8.13.109

शमी श्यामी शतानन्दः शतयामः शतक्रतुः ॥
जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः

8.13.110

उर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः ॥
ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः

8.13.111

जांबवान् जंबुकाशंकी जंबूद्वीपो द्विपारिहा ॥
शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः

8.13.112

कुशधारी कुशः कौशी कौशिकः कुशविग्रहः ॥
कुशस्थलीपतिः काशीनाथो भैरवशासनः

8.13.113

दाशार्हः सात्वतो वृष्णिर्भोजोऽधकनिवासकृत् ॥
अंधको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः

8.13.114

शूरसेनोऽनुविषयो भोजवृष्ण्यंधकेश्वरः ॥
आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक्

8.13.115

उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः ॥
सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक्

8.13.116

सभाशीलः सभादीपः सभाग्निश्च सभारविः ॥
सभाचंद्रः सभाभासः सभादेवः सभापतिः

8.13.117

प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः ॥
द्वारकादुर्गसंचारी द्वारकाग्रहविग्रहः

8.13.118

द्वारकादुःखसंहर्ता द्वारकाजनमंगलः ॥
जगन्माता जगत्त्राता जगद्‌भर्ता जगत्पिता

8.13.119

जगद्‌बंधुर्जगद्‌भ्राता जगन्मित्रो जगत्सखः ॥
ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत्

8.13.120

ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः ॥
विप्रांघ्रिजलपूतांगो विप्रसेवापरायणः

8.13.121

विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः ॥
विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः

8.13.122

विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः ॥
अक्षौहिणीवृतो योद्धा प्रतिमापंचसंयुतः

8.13.123

चतुरोंऽगिराः पद्मवर्ती सामंतोद्‍धृतपादुकः ॥
गजकोटिप्रयायी च रथकोटिजयध्वजः

8.13.124

महारथश्चातिरथो जैत्रं स्यंदनमास्थितः ॥
नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्‌भटः

8.13.125

मदोत्कटो युद्धवीरो देवासुरभयंकरः ॥
करिकर्णमरुत्प्रेजत्कुंतलव्याप्तकुंडलः

8.13.126

अग्रगो वीरसंमर्दो मर्दलो रणदुर्मदः ॥
भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः

8.13.127

खड्गखंडितसर्वांगः षोडशाब्दः षडक्षरः ॥
वीरघोषः क्लिष्टवपुर्वज्रांगो वज्रभेदनः

8.13.128

रुग्णवज्रो भग्नदंडः शत्रुनिर्भत्सनोद्यतः ॥
अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः

8.13.129

कलः पटहवादित्रो हुंकारो गर्जितस्वनः ॥
साधुर्भक्तपराधीनः स्वतंत्रः साधुभूषणः

8.13.130

अस्वतंत्रः साधुमयः साधुग्रस्तमना मनाक् ॥
साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः

8.13.131

साधुचारी साधुचित्तः साधुवासी शुभास्पदः ॥
इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम्

8.13.132

सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् ॥
शतवारं पठेद्यस्तु स विद्यावान् भवेदिह

8.13.133

इन्दिरां च विभूतिं चाभिजनं रूपमेव च ॥
बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः

8.13.134

गंगाकूलेऽथ कालिंदिकूले देवालये तथा ॥
सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते

8.13.135

पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥
बंधात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते

8.13.136

अयुतावर्तपाठे च पुरश्चर्याविधानतः ॥
होमतर्पणगोदानविप्रार्चनकृतोद्यमात्

8.13.137

पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च ॥
महामंडलभर्ता स्यान्मंडितो मंडलेश्वरैः

8.13.138

मत्तेभकर्णप्रहिता मदगंधेन विह्वला ॥
अलंकरोति तद्द्वारां भ्रमद्‍भृंगावली भृशम्

8.13.139

निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः ॥
नाम्नां सहस्रं राजेंद्र स जीवन्मुक्त उच्यते

8.13.140

सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः ॥
महापातक्यपि जनः पठेन्नामसहस्रकम्

8.13.141

छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह ॥
परात्परं महाराज गोलोकं धाम याति हि

8.13.142

श्रीनारद उवाच -
इति श्रुत्वाऽच्युताग्रजस्य बलदेवस्य पंचांगं
धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया
भक्त्या प्राड्‌विपाकं पूजयामास ॥ तमनुज्ञाप्याशिषं दत्वा
प्राड्‌विपाको मुनींद्रो गजाह्वयात्स्वाश्रमं जगाम

8.13.143

भगवतोऽनंतस्य बलभद्रस्य परब्रह्मणः कथां
यः शृणुते श्रावयते तयाऽऽनंदमयो भवति

8.13.144

इदं मया ते कथितं नृपेन्द्र
सर्वार्थदं श्रीबलभद्रखंडम् ॥
शृणोति यो धाम हरेः स याति
विशोकमानंदमखंडरूपम्

8.13.13

इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्‌विपाकदुर्योधनसंवादे
बलभद्रसहस्रनामवर्णनं नाम त्रयोदशोऽध्यायः

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc