गर्गसंहिता · अध्याय 8.11
बलभद्रखण्डः - एकादशोऽध्यायः
बलरामस्तोत्रम् -
दुर्योधन उवाच -
स्तोत्रं श्रीबलदेवस्य प्राड्विपाक महामुने ॥
वद मां कृपया साक्षात्सर्वसिद्धिप्रदायकम्
प्राड्विपाक उवाच -
स्तवराजं तु रामस्य वेदव्यासकृतं शुभम् ॥
सर्वसिद्धिप्रदं राजञ्छृणु कैवल्यदं नृणाम्
देवादिदेव भगवन् कामपाल नमोऽस्तु ते ॥
नमोऽनन्ताय शेषाय साक्षाद्रामाय ते नमः
धराधराय पूर्णाय स्वधाम्ने सीरपाणये ॥
सहस्रशिरसे नित्यं नमः संकर्षणाय ते
रेवतीरमण त्वं वै बलदेवाच्युताग्रजः ॥
हलायुध प्रलंबघ्न पाहि मां पुरुषोत्तम
बलाय बलभद्राय तालांकाय नमो नमः ॥
नीलांबराय गौराय रौहणेयाय ते नमः
धेनुकारिर्मुष्टिकारिः कूटारिर्बल्वलांतकः ॥
रुक्म्यरिः कूपकर्णारिः कुम्भांडारिस्त्वमेव हि
कालिंदीभेदनोऽसि त्वं हस्तिनापुरकर्षकः ॥
द्विविदारिर्यादवेंद्रो व्रजमंडलमंडनः
कंसभातृप्रहन्तसि तीर्थयात्राकरः प्रभुः ॥
दुर्योधनगुरुः साक्षात्पाहि पाहि प्रभो त्वतः
जय जयाच्युतदेव परात्पर
स्वयमनन्तदिगंतगतश्रुत ॥
सुरमुनींद्रफणीन्द्रवराय ते
मुसलिने बलिने हलिने नमः
यः पठेत्सततं स्तवनं नरः
स तु हरेः परमं पदमाव्रजेत् ॥
जगति सर्वबलं त्वरिमर्दनं
भवति तस्य धनं स्वजनं धनम्
इति श्रीगर्गसंहितायां बलभद्रखण्डे
बलभद्रस्तवराजवर्णनं नामैकादशोऽध्यायः
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
वर्गःगर्ग संहिता
मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0