गर्गसंहिता · अध्याय 7.5
कच्छ तथा कलिङ्गदेशविजयम्
श्रीबहुलाश्व उवाच -
कन्कान्देशान् ययौ जेतुं क्रमतः श्रीहरेः सुतः ॥
तस्य कर्माण्युदाराणि ब्रूहि देवर्षिसत्तम
अहो श्रीकृष्णचंद्रस्य कृपा भक्तेषु चेदृशी ॥
पुनाति प्रश्रुता ध्याता पापिनं संकुलं जनम्
श्रीनारद उवाच -
साधु साधु त्वया पृष्टं साधु ते विमला मतिः ॥
चरितं कृष्णभक्तानां पुनाति भुवनत्रयम्
तत्काले मेघधाराश्च भूमेः सर्वरजांसि च ॥
कविश्चेद्गणयेद्राजन् न हरेः श्रीमतो गुणान्
चतुर्योजनमात्रं हि छाया यस्य प्रदृश्यते ॥
तेन श्वेतातपत्रेण शोभितो रुक्मिणीसुतः
रथेन शक्रदत्तेन स्वसैन्यपरिवारितः ॥
कच्छदेशान् ययौ जेतुं त्रिपुरान्गिरिशो यथा
कच्छदेशाधिपः शुभ्रो मृगयार्थी विनिर्गतः ॥
सेनां समागतां ज्ञात्वा पुरीं हालां समाययौ
प्रद्युम्नस्यागता सेना गजपादप्रताडनैः ॥
चूर्णयंती तरून्देशान्पातयन्ती च मैथिल
उत्थितैस्तद्रजोवृन्दै-रन्धीभूतं नभोऽभवत् ॥
भयं प्रापुर्जनाः सर्वे कच्छदेशनिवासिनः
तदातिहर्षितः शुभ्रो गजानां हेममालिनाम् ॥
नीत्वा पञ्चशतं सद्यो हयानामयुतं तथा
विंशद्भारं सुवर्णानामागतस्यास्य संमुखे ॥
दत्त्वा बलिं ननामाशु स्रजा बद्ध्वा करद्वयम्
तस्मै तुष्टः शंबरारिः प्रददौ रत्नमालिकाम् ॥
संस्थाप्य राज्ये तं राजंस्तथा हि प्रकृतिः सताम्
कलिंगान्प्रययौ जेतुं रुक्मिणीनन्दनो बली ॥
पतत्पताकैः सत्सैन्यैर्मेघैरिंद्र इव व्रजन्
कलिंगराजः स्वबलैः समर्थद्विपवाहनैः ॥
निर्ययौ संमुखे योद्धुं प्रद्युम्नस्य महात्मनः
कलिंगमागतं वीक्ष्यानिरुद्धो धन्विनां वरः ॥
रथेनैकेन तत्सैन्यैर्युयुधे यादवाग्रतः
शतबाणैश्च कालिंगं दशभिर्दशभी रथान् ॥
आतडयद्गजान् वीरश्चापं टंकारयन्मुहुः
स्वशत्रवश्च स्वे सर्वे साधु साध्विति वादिनः ॥
आनिरुद्धः प्रयुयुधे प्रद्युम्नस्य प्रपश्यतः
अनिरुद्धस्य बाणौघैः केचिद्वीरा द्विधा कृताः ॥
गजाश्च भिन्नशिरसः पादभिन्ना हया नृप
रथाश्च चूर्णचरणा हताश्वा हतनायकाः ॥
रथिसारथयो वातैर्निपेतुः पादपा इव
पलायमानां तां सेनां कलिंगो वीक्ष्य मैथिल ॥
आजगाम गजारूढो विच्छिन्नकवचो रुषा
द्विसप्ततिभारयुतां गदां चिक्षेप सत्वरम् ॥
गजेन पातयन्वीरान् जगर्ज घनवद्बली
गदाप्रहारपतितं किंचिद्व्याकुलमानसम् ॥
अनिरुद्धं मृधे वीक्ष्य यादवाः क्रोधपूरिताः
तदैव तेडुः कालिंगं बाणैस्तीक्ष्णैः स्फुरत्प्रभैः ॥
समांसमुद्भटं श्येनं कुरराश्चंचुभिर्यथा
कालिंगोऽपि तदा क्रुद्धःसज्जं कृत्वा धनुः स्वयम् ॥
टंकारयन्मुहुर्बाणैर्बाणांश्चूर्णीचकार ह
गदो गदां समादाय बलदेवानुजो बली ॥
तद्गजं ताडयामास वामहस्तेन मैथिल
अर्धचंद्रप्रहारेण विशीर्णोऽभूद्गजस्तथा ॥
इन्द्रवज्रप्रहारेण गण्डशैलो यथा नृप
कालिंगः पतितो भूत्वा गृहीत्वा महतीं गदाम् ॥
गदं च ताडयामास कालिंगं च गदस्तदा
कलिंगगदयोस्तत्र घोरं युद्धं बभूव ह ॥
विस्फुलिंगान् क्षरन्त्यौ द्वे गदे चूर्णीबभूवतुः
गदो गृहीत्वा कालिंगं पातयित्वा रणांगणे ॥
चकर्ष स्वकरेणाशु फणिनं गरुडो यथा
गदाप्रहारव्यथितश्चूर्णितास्थिः कलिंगराट् ॥
आययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः
दत्वा बलिं प्राह कलिंगराज-
स्त्वं देवदेवः परमेश्वरोऽसि ॥
कः क्रोधवन्तं प्रसहेत कौ त्वां
जनो यथा दण्डधरं नमस्ते
इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे
कच्छकलिंगविजयो नाम पंचमोऽध्यायः
मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0