भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 7.28

7.28.1

श्रीनारद उवाच ॥
अथ कार्ष्णिर्महाबाहुः सुमेरोरुत्तरान्कुरून्॥
ययौ शृंगवतः पार्श्वे विचित्रानृद्धिसंवृतान्

7.28.2

भद्रां गंगां ततः स्नात्वा वाराहीं नगरीं ययौ ॥
कुरुखण्डाधिपस्तस्यां चक्रवर्ती गुणाकरः

7.28.3

महासंभृतसंभारो देवर्षिगणसंवृतः ॥
अश्वमेधं समारेभे दशमं स गुणाकरः

7.28.4

तेनोत्सृष्टं हयं श्वेतं श्यामकर्णमनोहरम् ॥
तस्य पुत्रो वीरधन्वा रक्षितुं निर्गतोभवत्

7.28.5

अक्षौहिणीभिर्दशभिर्मंडितश्चंडविक्रमः ॥
विचचार महावीरो वीक्ष्यमाणस्तुरंगमम्

7.28.6

वीरश्चंद्रश्च सेनश्च चित्रगुर्वेगवान्नृपः॥
आमः शंकुर्वसुःश्रीमान्कुंतीनाग्नजितेः सुताः

7.28.7

सर्वतस्तं हयं शुभ्रं ग्रहीत्वा हर्ष पूरिताः ॥
कस्योत्सृष्टं वदंतस्ते कार्ष्णिसैन्यं समाययुः

7.28.8

प्रद्युम्नस्तद्भालपत्रं पठित्वा विस्मितोभवत् ॥
सर्वे विसिस्मुर्यदवो गृहीतपरमायुधाः

7.28.9

तदैव सेना संप्राप्ता विचिन्वंती हयं नृप ॥
दृष्ट्वा रजोयदुबलाद्दूरे तस्थौ सुविस्मिता

7.28.7.28.10

गुणाकरे राजनि चण्डविक्रमे न दस्यवः स्युः कुरुखण्ड मण्डले ॥
गवां न कालो न हि चक्रवातकः कुतो रजःप्राप्तमहोर्कमण्डलम्

7.28.11

एवं वदंती परवाहिनीस्वतः कोदंडघोषं दरदस्वनं परम्॥
करींद्रचीत्कार तुरंगहेषणं वादित्रमिश्रं समुपाशृणोत्ततः

7.28.12

तदोद्धवः कृष्णसुतप्रणोदितो बलं समेत्याशु स वीरधन्वनः ॥
प्रणम्य तं प्राह रथास्थितं नृपं गुणाकर- स्यौरसमर्कतेजसम्

7.28.13

उग्रसेनः क्षितीशेंद्रो द्वारकेशो यदूत्तमः ॥
जंबूद्वीपनृपाञ्जित्वा राजसूयं करिष्यति

7.28.14

तेन प्रणोदितो वीरः प्रद्यु- म्नो धन्विनां वरः ॥
जित्वा तं भारतं खण्डं तथा किंपुरुषं नृपः

7.28.15

हरिवर्षं ततो जित्वा कुरुखण्डं समागतः ॥
प्रदास्यति बलिं सोपि प्रद्युम्नाय महात्मने

7.28.16

अक्षौहिणीदशयुतो धनदेनापि पूजितः ॥
उपायनं त्वया देयं प्रद्युम्नाय महात्मने

7.28.17

तेन नीतं यज्ञपशुमाहर्तुं कः क्षमः क्षितौ ॥
श्रीकृष्णचन्द्रो भगवान्सहायस्तस्य विद्यते

7.28.18

शुभं स्याद्दानमानाभ्यां न चेद्युद्धं भविष्यति ॥
वीरधन्वोवाच ॥
गुणाकरो नृपेशो यः शक्रेणापि प्रपूजितः

7.28.19

न दास्यति बलिं सोपि प्रद्युम्ना- य महात्मने ॥
शृंगवत्पर्वते रम्ये वाराहो विद्यते हरिः

7.28.7.28.20

यस्य सेवां सदा भूमिः करोति परमादरात् ॥
यस्य क्षेत्रे तपस्तेपे ध्यात्वा देवं गुणाकरः

7.28.21

वर्षाणामयुते पूर्णे हरिर्वाराहरूपधृक् ॥
सन्तुष्टो नृपतिं भक्तं वरं ब्रूहीत्युवाच ह

7.28.22

राजोवाच हरिं नत्वा रोमांचप्रेमविह्वलः ॥
भगवंस्त्वामृते देवो सुरोन्योपि नरोथ वा

7.28.23

मां जेता न भवेद्भूमावीप्सितोयं वरो मया ॥
तथास्तु चोक्त्वा भगवांस्तत्रैवांतरधीयत

7.28.24

तस्मात्तस्य यशः शीघ्रं कर्तव्यं मोचनं स्वतः ॥
न चेद्भवद्भिश्च कलिं करिष्यामि न संशयः

7.28.25

श्रीनारद उवाच ॥
इत्युक्त उद्धवस्तस्मात्स्वां सेनामेत्य भूपते ॥
शशंस सर्वं यद्भूतं यदूनां सदसि त्वरम्

7.28.26

श्रुतकर्मा वृषो वीरः सुबाहुर्भद्रएकलः ॥
शांतिर्दर्शःपूर्णमासः सोमको वर एव च

7.28.27

कालिन्दीनंदना ह्येते प्रद्युम्नस्य प्रपश्यतः ॥
अक्षौहिणीभिर्दशभिर्वृता योद्धुं समागताः

7.28.28

उत्तरेकुरुभिः सार्द्धं यदूनां चंडविक्र- मैः ॥
बभूव तुमुलं युद्धमब्धीनामब्धिभिर्यथा

7.28.29

स्फुरद्भिर्निशितैः शस्त्रै रेजिरे वरिपुंगवाः ॥
क्षणमात्रेण रुधिरप्रभवा रौद्ररूपिणी

7.28.7.28.30

नदी बभूव राजेंद्र शतयोजनविस्तृता ॥
विदुद्रुवुस्तदा शेषा उत्तराकुरवो जनाः

7.28.31

शरत्काले यथा प्राप्ते मेघसंघा इतस्ततः ॥
पूर्णमासो महावीरः कालिंदीनंदनो बली

7.28.32

चूर्णयामास बाणौघैः स्यंदनं वीरधन्वनः ॥
वीरधन्वापि विरथो धनुष्टंकारयन्मुहुः

7.28.33

जघान बाणविंशत्या पूर्णमासं महाबलम् ॥
पूर्णमासः स्वबाणेन मध्यतस्तान्द्विधाऽकरोत्

7.28.34

वीरधन्वाथ चिच्छेद धनुर्ज्यां तस्य नादिनीम्॥
बाणेनैकेन राजेंद्र कुवाक्येनेव मित्रताम्

7.28.35

लक्षभारमयीं गुर्वी गदामादाय सत्वरम् ॥
जघान वीरधन्वानं पूर्णमासो महाबलः

7.28.36

गदाप्रहारव्यथितो वीरधन्वा मदोत्कटः ॥
परिघेण जघाना शु पूर्णमासं हरेसुतः

7.28.37

पूर्णमासः समुत्थाय पवनं नाम पर्वतम् ॥
समुत्पाट्य स्थितो भूत्वा हस्ताभ्यां श्रीहरेसुतः

7.28.38

भ्रामयित्वाथ चिक्षेप वारा- ह्यां पुरि वेगतः

7.28.39

वीरधन्वा प्रपतितो गुणाकरक्रतुस्थले ॥
मूर्च्छितो भग्नवेगोभूदुद्वमन्रुधिरं मुखात्

7.28.7.28.40

हाहाकारो महानासीद्वाराह्यां पुरि- वेगतः ॥
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा

7.28.41

पूर्णमासोपरि सुराः पुष्पवर्षं प्रचक्रिरे॥
यज्ञादुत्थाय नृपतिः पुत्रं दृष्ट्वा च मूर्च्छितम्

7.28.42

गृहीत्वा दिव्यकोदंडं युद्धं कर्तुं मनो दधे ॥
होता धर्मविदां श्रेष्ठो मुनींद्रः सर्ववित्कविः ॥
गंतुमभ्युत्थितं वीक्ष्य वामदेवस्तमब्रवीत्

7.28.43

वामदेव उवाच ॥
राजंस्त्वं हि न जानासि परिपूर्णतमं हरिम् ॥
सुराणां महदर्थाय जातं यदुकुले स्वयम् ॥
भुवो भारावताराय भक्तानां रक्षणाय च

7.28.44

भूत्वा यदुकुले साक्षाद्द्वारकायां विराजते ॥
तेन कृष्णेन पुत्रोयं प्रद्युम्नो यादवेश्वरः ॥
उग्रसेनमखार्थाय जगज्जेतुं प्रणोदितः

7.28.45

गुणाकर उवाच ॥
परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥
लक्षणं वद मे ब्रह्मंस्त्वं परावरवित्तमः

7.28.46

॥ वामदेव उवाच ॥
यस्मिन्सर्वाणि तेजांसि विलीयंते स्वतेजसि ॥
तं वदंति परं साक्षात्परिपूर्णतमं हरिम्

7.28.47

अंशांशोंशस्तथावेशः कला पूर्णः प्रकथ्यते ॥
व्यासाद्यैश्च स्मृतः षष्ठः परिपूर्णतमः स्वयम्

7.28.48

परिपूर्णतमः साक्षाच्छ्रीकृष्णो नान्य एव हि ॥
एककार्यार्थमागत्य कोटिकार्यं चकार ह

7.28.49

श्रीनारद उवाच ॥
श्रुत्वा कृष्णस्य माहात्म्यं बलिं नीत्वा गुणाकरः ॥
वैरं विसृज्य प्रद्युम्नदर्शनार्थं समाययौ

7.28.7.28.50

कार्ष्णिं प्रदक्षिणीकृत्य नत्वा दत्त्वा बलिं ततः ॥
अश्रुपूर्णमुखो भूत्वा प्राह गद्गदया गिरा

7.28.51

गुणाकर उवाच ॥
अद्य मे सफलं जन्म कुलं मेद्यदिने शुभम्॥
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात्

7.28.52

त्वदंघ्रिभक्तिः परमार्थलक्षणा सदा भवेत्सज्जनसंगमात्परा॥
त्वमेव साक्षान्निजभक्तवत्सलः परेशभूमन्परिपाहि पाहि

7.28.53

प्रद्युम्न उवाच ॥
ज्ञानवैराग्यसंयुक्ता भक्तिस्ते प्रेमलक्षणा ॥
मद्भक्तसंगमो भूयाच्छ्रीः स्याद्भागवतां त्विह ॥

7.28.54

श्रीनारद उवाच ॥
इत्युक्त्वा भगवान्कार्ष्णिः प्रसन्नो भक्तवत्सलः ॥
ददौ तस्मै नृपतये हयमेधतुरंगमम्

7.28.28

इति श्रीमद्गर्गसंहितायां विश्वजित्खंडे नारदबहुलाश्वसंवादे उत्तरकुरुखंडविजयोनामाष्टाविंशोध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc