भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 6.20

6.20.1

श्रीनारद उवाच ॥
द्वितीयस्यापि दुर्गस्य पूर्वद्वारे विदेहराट् ॥
इन्द्रतीर्थं महापुण्यं कामदं सिद्धिदायकम्

6.20.2

तत्र स्नात्वा नरो राजन्निंद्रलोकं प्रयाति हि ॥
इहैव चन्द्र सादृश्यं वैभवं प्राप्यते नरः

6.20.3

तथा वै दक्षिणे द्वारे सूर्यकुण्डोभिधीयते॥
यत्र सत्राजितेनापि पूजितोभूत्स्यमंतकः

6.20.4

तत्र स्नात्वा पद्मरागं यो ददाति नृपेश्वर ॥
सूर्यप्रभविमानेन सूर्यलोकं प्रयाति हि

6.20.5

तथा वै पश्चिमे द्वारे ब्रह्मतीर्थं विशिष्यते ॥
तत्र स्नात्वा नरो राजन्स्वर्णपात्रे च पायसम् ॥

6.20.6

यो ददाति महबुद्धिस्तस्य पुण्यफलं शृणु ॥
ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान्

6.20.7

इन्द्रलोके पदं धृत्वा बिभ्रद्ब्रह्ममयं वपुः ॥
चन्द्राभेन विमानेन याति ब्रह्मपदं स च

6.20.8

तथा वै उत्तरे द्वारे क्षेत्रं स्यान्नैललोहितम् ॥
यत्र साक्षान्महादेवो राजते नीललोहितः

6.20.9

देवता मुनयः सर्वे तथा सप्तर्षयः परे ॥
वसंति यत्र वैदेह तथा सर्वे मरुद्गणाः

6.20.6.20.10

नीललोहितलिंगं तु यत्र संपूज्य यत्नतः ॥
ऐश्वर्यमतुलं लेभे रावणो लोकरावणः

6.20.11

कैलासस्यापि यात्रायां यत्फलं लभते नृप ॥
तस्माच्छतगुणं पुण्यं नीललोहितदर्शनात्

6.20.12

नीललोहितकुण्डे वै स्नाति यस्त्रिदिनं नरः ॥
स याति शिवलोकाख्यं पापायुतयुतोपि हि

6.20.13

सप्तसामुद्रकं नाम तीर्थं यत्र विराजते ॥
तत्र स्नात्वा नरः पापी पापसंघैः प्रमुच्यते

6.20.14

समानं च समुद्राणां स्नानपुण्यं लभेत्त्वरम् ॥
विष्णुर्विरिंच्यो गिरिश इन्द्रो वायुर्यमो रविः

6.20.15

पर्जन्यो धनदः सोमः क्षितिरग्निरपांपतिः॥
तत्पार्श्वेषु सदा ह्येते तिष्ठंति मनुजेश्वर

6.20.16

सप्तकोटीनि तीर्थानि ब्रह्मांडे यानि कानि च ॥
सर्वाणि तत्र तिष्ठंति सप्तसामुद्रके नृप

6.20.17

तत्र स्नात्वा नरः पश्चात्कृत्वा सर्वपरिक्रमम् ॥
प्राप्नोति द्वारकायाश्च यात्राया सफलं फलम्

6.20.18

सप्तसामुद्रकमृतेन यात्रा फलदा स्मृता ॥
सप्तसामुद्रकतीर्थं विष्णु रूपं विदुः सुराः

6.20.20

इतिश्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे द्वितीयदुर्गे इन्द्रतीर्थ ब्रह्मतीर्थ सूर्यकुण्ड नैललोहित सप्तसमुद्र माहात्म्यंनाम विंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc