भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 5.8

5.8.1

कंसवधम्
श्रीनारद उवाच -
आर्द्रचित्तं नंदराजं वनितानां मनोरथम् ।
स्मृत्वा शत्रून् हन्तुकामः चक्रे युद्धं बलाद्धरिः

5.8.2

गृहीत्वा भुजदंडाभ्यां चाणूरं गगने बलात् ।
चिक्षेप सहसा कृष्णो वातः पद्ममिवोद्‍धृतम्

5.8.3

आकाशात्पतितः सोऽपि तारकेव ह्यधोमुखः ।
उत्थाय मुष्टिना कृष्णं ताडयामास वेगतः

5.8.4

तस्य मुष्टिप्रहारेण न चचाल परात्परः ।
सद्यो गृहीत्वा चाणूरं पातयामास भूतले

5.8.5

भिन्नदंतस्तु चाणूरः क्रोधयुक्तो मदोत्कटः ।
मुष्टिद्वयेन श्रीकृणं तताड हृदि मैथिल

5.8.6

गृहीत्वा करयोस्तं वै कराभ्यां भगवान्स्वयम् ।
कंसस्याग्रे भ्रामयित्वा सर्वेषां पश्यतां नृप

5.8.7

पातयामास भूपृष्ठे कमंडलुमिवार्भकः ।
श्रीकृष्णस्य प्रहारेण चाणूरो भिन्नमस्तकः

5.8.8

उद्वमन् रुधिरं राजन्सद्यो वै निधनं गतः ।
तथैव मुष्टिकं मल्लं मुष्टिभिर्युधि दुर्गमम्

5.8.9

धृत्वांघ्रौ भ्रामयित्वा खे बलदेवो महाबलः ।
पातयामास भूपृष्ठे फणिनं गरुडो यथा ।
मुष्टिको निधनं प्राप प्रोद्वमन् रुधिरं मुखात्

5.8.10

कूटं समागतं वीक्ष्य बलदेवो महाबलः ।
मुष्टिना पातयामास वज्रेणेन्द्रो यथा गिरिम्

5.8.11

प्राप्तं शलं नन्दसूनुर्लत्तया तं तताड ह ।
तीक्ष्णया तुंडया राजन्कद्रुजं गरुडो यथा

5.8.12

गृहीत्वा तोशलं कृष्णो मध्यतः संविदार्य्य च ।
प्राक्षिपत्कंसमंचाग्रे विटपं सिन्धुरो यथा

5.8.13

एते निपातिता रंगे सद्यो वै निधनं गताः ।
तेषां ज्योतींषि वैकुण्ठे विविशुः पश्यतां सताम्

5.8.14

एवं श्रीरामकृष्णाभ्यां मल्लेषु निहतेषु च ।
शेषाः प्रदुद्रुवुर्मल्ला भयार्ता जीवनेच्छया

5.8.15

श्रीदामादीन् वयस्यांश्च गोपानाकृष्य माधवः ।
तै सार्द्धं युद्धमारेभे सर्वेषां पश्यतां सताम्

5.8.16

किरीटकुण्डलधरौ रामकृष्णौ सहार्भकैः ।
विहरंतौ वीक्ष्य रंगे विसिस्मुः पुरवासिनः

5.8.17

कंसं विना सर्वमुखाज्जयशब्दो विनिर्गतः ।
साधु साध्विति वादोऽभून्नेदुर्दुंदुभयस्ततः

5.8.18

स्वस्याजयं वीक्ष्य कंसो महाक्रोधसमाकुलः ।
वर्जयित्वा तूर्यघोषं प्राह प्रस्फुरिताधरः

5.8.19

कंस उवाच -
दुर्बुद्धियुक्तौ वसुदेवनंदनौ
प्रसह्य निःसारयताशु मत्पुरात् ।
हरंतु सर्वं व्रजवासिनां धनं
बध्नीत नंदं सहसाऽतिदुर्मतिम्

5.8.20

अद्योग्रसेनस्य पितुः कुबुद्धेः
शौरेः शिरश्चाशु हि छिंधि छिंधि ।
कौ यत्र तत्रापि तथाऽत्र वृष्णि-
जातान्सुरांशान् किल सूदयध्वम्

5.8.21

श्रीनारद उवाच -
एवं विकत्थमानस्य कंसस्य यदुनंदनः ।
सहसोत्पत्य तं मञ्चमारुहत्क्रोधपूरितः

5.8.22

मृत्युं स्मागतं वीक्ष्य मञ्चादुत्थाय सत्वरम् ।
मदोद्धतो भर्त्सयंस्तं जगृहे खड्गचर्म्मणी

5.8.23

अग्रहीत्सहसा कंसं दोर्भ्यां चर्मासिसंयुतम् ।
यथा तुण्डविभागाभ्यां सविषं फणिनं विराट्

5.8.24

पतत्खड्गश्चलच्चर्मा भुजबंधाद्‌बलाद्‌बली ।
विनिर्ययौ तार्क्ष्यतुण्डात्पुण्डरीको यथा फणी

5.8.25

मंचे तौ बलिनौ वेगान्मर्दयंतौ परस्परम् ।
शैलशृङ्गे यथा सिंहौ शुशुभाते यथातथम्

5.8.26

उत्पतंतं बलात्कंसं शतहस्तं महांबरे ।
अग्रहिच्चोत्पतन् कृष्णः श्येनं श्येनो यथांबरे

5.8.27

गृहीत्वा भुजदण्डाभ्यां प्रचंडं दैत्यपुंगवम् ।
त्रैलोक्यबलधृग्देवो भ्रामयित्वा त्वितस्ततः

5.8.28

आकाशात्पातयामास मंचोपरि रुषान्वितः ।
भग्नदण्डोऽभवन्मञ्चस्तडित्पाते यथा द्रुमः

5.8.29

पतितोऽपि स वज्राङ्ग किंचिद्‌व्यायाकुलमानसः ।
सहसोत्थाय युयुधे श्रीकृष्णेन महात्मना

5.8.30

नीत्वा तं भुजदण्डाभ्यां मंचे क्षिप्त्वा पुनः प्रभुः ।
आरुह्य हृदयं तस्य मौलिं जग्राह माधव

5.8.31

सद्यः प्रगृह्य केशेषु रंगोपरि हरिः स्वयम् ।
मंचात्तं पातयामास शैलाद्‍गंडशिलामिव

5.8.32

तस्योपरिष्ठाच्छ्रीकृष्णः सर्वाधारः सनातनः ।
निपपात स्वयं वेगादनन्तोऽनंतविक्रमः

5.8.33

इत्थं द्वयोर्निपातेन निम्नं भूखंडमंडलम् ।
स्थालीव सहसा राजञ्चकंपे घटिकाद्वयम्

5.8.34

संपरेतं भोजराजं भूमौ तं विचकर्ष ह ।
यथा मृगेन्द्रो नागेन्द्रं सर्वेषां पश्यतां नृप

5.8.35

हाहाकारस्तदैवासीद्धावतां भूभुजां नृप ।
वैरभावेन देवेशं भजन्कंसो महाबलः

5.8.36

जगाम तस्य सारूप्यं भृंगिणः कीटको यथा ।
कंसं प्रपतितं दृष्ट्वा भ्रातरोऽष्टौ महाबलाः ।
सुनामसृष्टिन्यग्रोधतुष्टिमद्राष्ट्रपालकाः

5.8.37

सुहुना कंकशंकुभ्यां क्रोधप्रस्फुरिताधराः ।
खड्गचर्मधरा योद्धुं कृष्णोपरि समाययुः

5.8.38

वीक्ष्य तान्मुद्‌गरं नीत्वा रोहिणीनंदनो बलः ।
आराच्चकार हुंकारं यथा सिंहो मृगान्प्रति

5.8.39

हुंकारेणैव शस्त्राणि तेषां हस्तेभ्य आभयात् ।
पेतुराम्रफलानीव दण्डघातैश्च मैथिल

5.8.40

निःशस्त्रास्ते महावीरा मुष्टिभिः सर्वतो बलम् ।
तेडुः शैलं यथा नागा शुंडादण्डैरितस्ततः

5.8.41

सृष्टिं तथा सुनामानं मुद्‌गरेण बलोऽहनत् ।
न्यग्रोधं भुजवेगेन कंकं वामकरेण वै

5.8.42

शंकुं सुहुं तुष्टिमंतं वामपादेन माधवः ।
राष्ट्रपालं दक्षिणेन पादेनाभिजघान ह

5.8.43

अष्टौ निपेतुः सहसा वृक्षा वातहता इव ।
तेषां ज्योतिर्भगवति लीनं जातं विदेहराट्

5.8.44

देवदुन्दुभयो नेदुर्जयध्वनिरभूत्तदा ।
सद्यो वै ववृषुर्देवाः पुष्पैर्नंदनसंभवैः

5.8.45

विद्याधर्यश्च गंधर्व्यो ननृतुर्हर्षविह्वलाः ।
विद्याधरश्च गंधर्वाः किन्नरास्तद्‌यशो जगुः

5.8.46

ब्रह्माद्या मुनयः सिद्धा विमानैर्द्रष्टुमागताः ।
तुष्टुवू रामकृष्णौ तौ वाग्भिः श्रुतिपरायणाः

5.8.47

ताडयंत्य उरो हस्तैः अस्तिप्राप्त्यादयः स्त्रियः ।
विनिर्गतास्ता रुरुदुर्जातवैधव्यदुःखिताः

5.8.48

स्त्रिय ऊचुः -
हा नाथ हे युद्धपते क्व गतोऽसि महाबल।
त्रैलोक्यविजयी साक्षाद्देवानामपि दुर्जयः

5.8.49

जातमात्राः स्वसुः पुत्रा निर्घृणेन त्वया हताः ।
अनिर्दशा निर्दशाश्चापरेऽपि निहता बलात्

5.8.50

तेन पापेन घोरेण दशामेतादृशीं गतः

5.8.51

श्रीनारद उवाच -
एवमश्रुमुखीर्दीना आश्वास्य नृपयोषितः ।
विधाय यमुनातीरे चिताः श्रीखंडसंयुताः

5.8.52

हतानां कारयित्वाऽसौ क्रियां वै पारलौकिकीम् ।
सर्वान्संबोधयामास भगवाँल्लोकभावनः

5.8.8

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
कंसवधो नाम अष्टमोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc