भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 5.21

5.21.1

रागगणानां वाक्ये अपमानबोधितेन नारदेन सरस्वती-आराधना, साक्षात्कारः स्तवं तथा तत्कर्तृक-ताल-मान-स्वरेभ्यः सह ५५-कोटि प्रकारेण रागरागिणी शिक्षा -
श्रीराधोवाच -
धन्योऽयं मुनिशार्दूलस्त्वद्‌भक्ते प्रेमवान्महान् ।
त्वत्सारूप्यं जगामासौ त्वमप्यश्रुमुखो यतः

5.21.2

अस्य देहक्रियां कर्तुं योग्योऽसि वृजिनार्दन ।
तपसा चास्य देहोऽयं प्रस्फुरत्यमलाकृतिः

5.21.3

श्रीनारद उवाच -
वदंत्यां तत्र राधायां तद्देहोऽप्यभवत्सरित् ।
वहंती पापहंत्री च दृश्यते रोहिते गिरौ

5.21.4

तद्देहस्यापि सरितं वीक्ष्य राधाऽतिविस्मिता ।
नन्दराजात्मजं प्राह वृषभानुवरात्मजा

5.21.5

श्रीराधोवाच -
कथं जलत्वमापन्नो देहोऽयं वै महामुनेः ।
एतन्मे संशयं देव छेत्तुमर्हस्यशेषतः

5.21.6

श्रीभगवानुवाच -
प्रेमलक्षणया भक्त्या संयुतोऽयं मुनीश्वरः ।
तस्मादस्य तु देहोऽयं रम्भोरु द्रवतां गतः

5.21.7

दृष्ट्वा त्वया मां वरदं हर्षितोऽभून्महामुनिः ।
जलत्वं प्राप तद्देहो यथाऽहं द्रवतां पुरा

5.21.8

श्रीराधोवाच -
द्रवतां त्वं कथं प्राप्तो देवदेव दयानिधे ।
एतत् चित्रं हि मे जातं सर्वं त्वं वद विस्तरात्

5.21.9

श्रीभगवानुवाच -
अत्रैवोदाहरन्तीमितिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिः परं भवेत्

5.21.10

यन्नाभिपंकजाज्जातः पुरा ब्रह्मा प्रजापतिः ।
असृजत्प्रकृतिं शश्वत्तपसा मद्वरोर्जितः

5.21.11

उत्संगान्नारदो जज्ञे ब्रह्मणः सृजतः शुभः ।
भक्त्युन्मत्तो मत्पदानि निजगौ पर्यटन्महीम्

5.21.12

एकदा नारदं प्राह देवो ब्रह्मा प्रजापतिः ।
प्रजाः सृज महाबुद्धे वृथा चंक्रमणं त्यज

5.21.13

नारदस्तद्‌वचः श्रुत्वा प्राहेदं ज्ञानतत्परः ।
न सृजामि पितः सृष्टिं शोकमोहादिकारिणीम्

5.21.14

करिष्यामि हरेर्भक्तिं तत्कीर्तनसमन्विताम् ।
त्वमपि सृष्टिरचनां त्यज दुःखातुरो भृशम्

5.21.15

क्रुद्धः शशाप तं ब्रह्मा प्राह प्रस्फुरिताधरः ।
सदा गानपरः कल्पं गन्धर्वो भव दुर्मते

5.21.16

एवं तच्छापतो राधे गन्धर्व उपबर्हणः ।
बभूव गन्धर्वपतिः कल्पमात्रं सुरालये

5.21.17

एकदा ब्रह्मणो लोके स्त्रीभिः परिवृतो गतः ।
सुन्दरीषु मनः कृत्वा जगौ तालविवर्जितम्

5.21.18

पुनर्ब्रह्मा तं शशाप त्वं शूद्रो भव दुर्मते ।
अथासौ ब्रह्मशापेन दासीपुत्रो बभूव ह

5.21.19

सत्संगेन पुरा राधे प्राप्तोऽभूद्‍ब्रह्मपुत्रताम् ।
भक्त्युन्मत्तो मत्पदानि निजगौ पर्यटन्महीम्

5.21.20

मुनीन्द्रो वैष्णवश्रेष्ठो मत्प्रियो ज्ञानभास्करः ।
परं भागवतः साक्षान्नारदो मन्मनाः सदा

5.21.21

एकदा नारदो लोकान् पश्यन् वै गानतत्परः ।
इलावृतं नाम खंडं गतवान्सर्वतो गतिः

5.21.22

यत्र जंबूनदी श्यामा जंबूफलरसोद्‌भवा ।
तथा जांबूनदं नाम सुवर्णं भवति प्रिये

5.21.23

तद्देशे वेदनगरं रत्‍नप्रासादनिर्मितम् ।
ददर्श नारदो योगी दिव्यनारीनरैर्वृतम्

5.21.24

कांश्चिद्वै पादरहितान् विगुल्फाञ्जानुवर्जितान् ।
विजंघाञ्जघनव्यंगान् कृशोरुन्कुब्जमध्यकान्

5.21.25

श्लथद्दन्तोन्नतस्कंधान् नताननविकंधरान् ।
स्त्रीजनान्पुरुषांश्चासावङ्गभङ्गान्ददर्श ह

5.21.26

अहो किमेतच्चित्रं हि सर्वान्दृष्ट्वाऽवदन्मुनिः ।
सर्वे यूयं पद्ममुखा दिव्यदेहाः शुभाम्बराः

5.21.27

किं देवा उपदेवा वा यूयं किं ऋषिसत्तमाः ।
वादित्रसहिताः सर्वे रम्यगानपरायणाः

5.21.28

अंगभंगाः कथं यूयं वदताशु ममैव हि ।
इत्युक्तास्तेन ते सर्वे प्रत्यूचुर्दीनमानसाः

5.21.29

रागा ऊचुः -
महादुःखं मुने जातं अस्माकं तनुषु स्वतः ।
तस्याग्रे कथनीयं वै दूरीकर्त्तुं च यः क्षमः

5.21.30

रागा वयं वेदपुरे वसामः सर्वदा मुने ।
अंगभंगा वयं जाताः कारणं शृणु मानद

5.21.31

जातो हिरण्यगर्भस्य पुत्रो नारदनामभाक् ।
प्रेमोन्मत्तो विकालेन गायन् ध्रुवपदानि च

5.21.32

विचचार महीमेतां स्वेच्छया स महामुनिः ।
विकाले तस्य गानैश्च विस्वरैस्तालवर्जितैः ।
विगानैश्च वयं सर्वे अंगभंगा बभूविम

5.21.33

इति श्रुत्वाऽथ तद्वाक्यं नारदो विस्मितोऽभवत् ।
उवाच गतमानोऽसौ रागान् परिहससन्निव

5.21.34

मुनिरुवाच -
तस्य केन प्रकारेण ज्ञानं वै कालतालयोः ।
भवेदिह स्वरैर्युक्तं वदताशु ममैव हि

5.21.35

रागा ऊचुः -
वैकुंठस्य पतेः साक्षात् प्रिया मुख्या सरस्वती ।
कुर्याच्छिक्षां यदा तस्मै तदा स्यात्कालविन्मुनिः

5.21.36

तेषां वाक्यं ततः श्रुत्वा नारदो दीनवत्सलः ।
सरस्वत्याः प्रसादार्थं त्वरं शुभ्रं गिरिं ययौ

5.21.37

दिव्यवर्षशतं शश्वत्तपस्तेपे सुदुष्करम् ।
निरन्नं निर्जलं वाणीध्यानयुक्तं व्रजेश्वरि

5.21.38

शुभ्रं नाम विसृज्याथ पवित्रीकृतभूधरम् ।
नारदो नाम शैलोऽभूत्तपसा नारदस्य च

5.21.39

तपोऽन्ते आगतां साक्षाद्‌वाग्देवीं श्रीसरस्वतीम् ।
विष्णोः प्रियां दिव्यवर्णामपश्यन्नारदो मुनिः

5.21.40

सहसोत्थाय तां नत्वा परिक्रम्य नताननः ।
तद्‌रूपगुणमाधुर्यस्तुतिं चक्रे मुनीश्वरः

5.21.41

श्रीनारद उवाच -
नवार्कबिंबद्युतिमुद्‌गलज्ज्वल-
त्ताटंककेयूरकिरीटकंकणाम् ।
स्फुरत्क्वणन्नुपुररावरञ्जितां
नमामि कोटींदुमुखीं सरस्वतीम्

5.21.42

वंदे सदाऽहं कलहंस उद्‌गते
चलत्पदे चंचलचंचुसंपुटे ।
निर्धौतमुक्ताफलहारसंचयं
संधारयंतीं सुभगां सरस्वतीम्

5.21.43

वराभयं पुस्तकवल्लकीयुतं
परं दधानां विमले करद्वये ।
नमाम्यहं त्वां शुभदां सरस्वतीं
जगन्मयीं ब्रह्ममयीं मनोहराम्

5.21.44

तरंगितक्षौमसितांबरे परे
देहि स्वरज्ञानमतीव मंगले ।
येनाद्वितीयो हि भवेयमक्षरे
सर्वोपरि स्यां पररागमंडले

5.21.45

श्रीभगवानुवाच -
स्तोत्रं जाड्यापहं दिव्यं प्रातरुत्थाय यः पठेत् ।
नारदोक्तं सरस्वत्याः स विद्यावान् भवेदिह

5.21.46

ततः प्रसन्ना वाग्देवी नारदाय महात्मने ।
देवदत्तां ददौ वीणां स्वरब्रह्मविभूषिताम्

5.21.47

रागैश्च रागिणीभिश्च तत्पुत्रैश्च तथैव च ।
देशकालादिभेदैश्च तालमानस्वरैः सह

5.21.48

षट्‍पंचाशत्कोटिभेदैरन्तर्भेदैरसंख्यकैः ।
ग्रामैर्नृत्यैः सवादित्रैर्मूर्च्छनासहितैः शुभैः

5.21.49

वैकुंठस्य पतेः साक्षात्प्रिया मुख्या सरस्वती ।
स्वरगम्यैः पदैः सिद्धैः पाठयामास नारदम्

5.21.50

अद्वितीयं रागकरं कृत्वा तं रासमंडले ।
वैकुंठं प्रययौ राधे वाग्देवी विष्णुवल्लभा

5.21.21

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे
नारदोपाख्यानं नामैकविंशोऽध्यायः

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc