भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 4.5

4.5.1

माधुर्यखण्डः - पञ्चमोऽध्यायः
अयोध्यापुरवासिनी-गोपीजन्मोपाख्यानम् -
श्रीनारद उवाच -
अयोध्यावासिनीनां तु गोपीनां वर्णनं शृणु ।
चतुष्पदार्थदं साक्षात्कृष्णप्राप्तिकरं परम्

4.5.2

सिन्धुदेशेषु नगरी चंपका नाम मैथिल ।
बभूव तस्यां विमलो राजा धर्मपरायणः

4.5.3

कुवेर इव कोशाढ्यो मनस्वी मृगराडिव ।
विष्णुभक्तः प्रशांतात्मा प्रह्लाद इव मूर्तिमान्

4.5.4

भार्याणां षट्सहस्राणि बभूवुस्तस्य भूपतेः ।
रूपवत्यः कंजनेत्रा वंध्यात्वं ताः समागताः

4.5.5

अपत्यं केन पुण्येन भूयान् मेऽत्र शुभं नृप ।
एवं चिन्तयतस्तस्य बहवो वत्सरा गताः

4.5.6

एकदा याज्ञवल्क्यस्तु मुनीन्द्रस्तमुपागतः ।
तं नत्वाभ्यर्च विधिवन्नृपस्तत्संमुखे स्थितः

4.5.7

चिंताकुलं नृपं वीक्ष्य याज्ञवल्क्यो महामुनिः ।
सर्वज्ञः सर्वविच्छान्तः प्रत्युवाच नृपोत्तमम्

4.5.8

श्रीयाज्ञवल्क्य उवाच -
राजन् कृशोऽसि कस्मात्त्वं का चिंता ते हृदि स्थिता ।
सप्रस्वगेषु कुशलं दृश्यते सांप्रतं तव

4.5.9

विमल उवाच -
ब्रह्मंस्त्वं किं न जानासि तपसा दिव्यचक्षुषा ।
तथाऽप्यहं वदिष्यामि भवतो वाक्यगौरवात्

4.5.10

आनपत्येन दुःखेन व्याप्तोऽहं मुनिसत्तम ।
किं करोमि तपो दानं वद येन भवेत्प्रजा

4.5.11

श्रीनारद उवाच -
इति श्रुत्वा याज्ञवल्क्यो ध्यानस्तिमितलोचनः ।
दीर्घं दध्यौ मुनिश्रेष्ठो भूतं भव्यं विचिंतयन्

4.5.12

श्रीयाज्ञवल्क्य उवाच -
अस्मिन् जन्मनि राजेन्द्र पुत्रो नैव च नैव च ।
पुत्र्यस्तव भविष्यन्ति कोटिशो नृपसत्तम

4.5.13

राजोवाच -
पुत्रं विना पूर्वऋणान्न कोऽपि
प्रमुच्यते भूमितले मुनीन्द्र ।
सदा ह्यपुत्रस्य गृहे व्यथा स्या-
त्परं त्विहामुत्र सुखं न किंचित्

4.5.14

श्रीयाज्ञवल्क्य उवाच -
मा खेदं कुरु राजेन्द्र पुत्र्यो देयास्त्वया खलु ।
श्रीकृष्णाय भविष्याय परं दायादिकैः सह

4.5.15

तेनैव कर्मणा त्वं वै देवर्षिपितृणामृणात् ।
विमुक्तो नृपशार्दूल परं मोक्षमवाप्स्यसि

4.5.16

श्रीनारद उवाच -
तदाऽतिहर्षितो राजा श्रुत्वा वाक्यं महामुनेः ।
पुनः पप्रच्छ संदेहं याज्ञवल्क्यं महामुनिम्

4.5.17

राजोवाच -
कस्मिन् कुले कुत्र देशे भविष्यः श्रीहरिः स्वयम् ।
कीदृग्‌रूपश्च किंवर्णो वर्षैश्च कतिभिर्गतैः

4.5.18

श्रीयाज्ञवल्क्य उवाच -
द्वापरस्य युगस्यास्य तव राज्यान्महाभुज ।
अवशेषे वर्षशते तथा पञ्चदशे नृप

4.5.19

तस्मिन् वर्षे यदुकुले मथुरायां यदोः पुरे ।
भाद्रे बुधे कृष्णपक्षे धात्रर्क्षे हर्षणे वृषे

4.5.20

बवेऽष्टम्यामर्धरात्रे नक्षत्रेशमहोदये ।
अंधकारावृते काले देवक्यां शौरिमन्दिरे

4.5.21

भविष्यति हरिः साक्षादरण्यामध्वरेऽग्निवत् ।
श्रीवत्सांको घनश्यामो वनमाल्यतिसुन्दरः

4.5.22

पीतांबरः पद्मनेत्रो भविष्यति चतुर्भुजः ।
तस्मै देया त्वया कन्या आयुस्तेऽस्ति न संशयः

4.5.5

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
अयोध्यापुरवासिन्युपाख्यानं नाम पञ्चमोऽध्यायः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc