भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 4.3

4.3.1

माधुर्यखण्डः - तृतीयोऽध्यायः
मैथिली गोपीगणानां उपाख्यानम् -
श्रीनारद उवाच -
मैथिलीनां गोपिकानामाख्यानं शृणु मैथिल ।
दशाश्वमेधतीर्थस्य फलदं भक्तिवर्धनम्

4.3.2

श्रीरामस्य वराज्जाताः नवनन्दगृहेषु याः ।
कमनीयं नन्दसूनुं दृष्ट्वा ता मोहमास्थिताः

4.3.3

मार्गशीर्षे शुभे मासि चक्रुः कात्यायनीव्रतम् ।
उपचारैः षोडशभिः कृत्वा देवीं महीमयीम्

4.3.4

अरुणोदयवेलायां स्नाताः श्रीयमुनाजले ।
नित्यं समेता आजग्मुर्गायन्त्यो भगवद्‌गुणान्

4.3.5

एकदा ताः स्ववस्त्राणि तीरे न्यस्य व्रजांगनाः ।
विजर्ह्रुर्यमुनातोये कराभ्यां सिंचतीर्मिथः

4.3.6

तासां वासांसि संनीय भगवान् प्रातरागतः ।
त्वरं कदंबमारुह्य चौरवन्मौनमास्थितः

4.3.7

ता न वीक्ष्य स्ववासांसि विस्मिता गोपकन्यकाः ।
नीपस्थितं विलोक्याथ सलज्जा जहसुर्नृप

4.3.8

प्रतीच्छन्तु स्ववासांसि सर्वा आगत्य चात्र वै ।
अन्यथा न हि दास्यामि वृक्षात्कृष्ण उवाच ह

4.3.9

राजंत्यस्ताः शीतजले हसंत्यः प्राहुरानताः

4.3.10

गोप्य ऊचुः -
हे नन्दनन्दन मनोहर गोपरत्‍न
गोपालवंशनवहंस महार्तिहारिन् ।
श्रीश्यामसुन्दर तवोदितमद्य वाक्यं
कुर्मः कथं विवसनाः किल तेऽपि दास्यः

4.3.11

गोपाङ्गनावसनमुण्नवनीतहारी
जातो व्रजेऽतिरसिकः किल निर्भयोऽसि ।
वासांसि देहि न चेन्मथथुराधिपाय
वक्ष्यामहेऽनयमतीव कृतं त्वयाऽ‍त्र

4.3.12

श्रीभगवानुवाच -
दास्यो ममैव यदि सुन्दरमन्दहासा
इच्छन्तु वैत्य किल चात्र कदंबमूले ।
नोचेत्समस्तवसनानि नयामि गेहां-
स्तस्मात्करिष्यथ ममैव वचोऽविलम्बात्

4.3.13

श्रीनारद उवाच - तदा ता निर्गताः सर्वा जलाद्‌गोप्योऽतिवेपिताः ।
आनता योनिमाच्छाद्य पाणिभ्यां शीतकर्शिताः

4.3.14

कृष्णदत्तानि वासांसि ददुः सर्वा व्रजजांगनाः ।
मोहिताश्च स्थितास्तत्र कृष्णे लज्जायितेक्षणाः

4.3.15

ज्ञात्वा तासामभिप्रायं परमप्रेमलक्षणम् ।
आह मन्दस्मितः कृष्णः समन्ताद्‌वीक्ष्य ता वचः

4.3.16

श्रीभगवानुवाच -
भवतीभिर्मार्गशीर्षे कृतं कात्यायनीव्रतम् ।
मदर्थं तच्च सफलं भविष्यति न संशयः

4.3.17

परश्वोऽहनि चाटव्यां कृष्णातीरे मनोहरे ।
युष्माभिश्च करिष्यामि रासं पूर्णमनोरथम्

4.3.18

इत्युक्त्वाऽथ गते कृष्णे परिपूर्णतमे हरौ ।
प्राप्तानन्दा मंदहासा गोप्यः सर्वा गृहान् ययुः

4.3.3

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
मैथिल्युपाख्यानं नाम तृतीयोऽध्यायः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc