भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 4.21

4.21.1

कृष्ण्कृतं गोपीगणानां दावग्नि-मोक्षं तथा विप्रपत्‍नीभ्यः अन्नभिक्षा
श्रीनारद उवाच -
अथ क्रीडाप्रसक्तेषु गोपेषु सबलेषु च ।
तृणलोभेन विविशुर्गावः सर्वा महद्वनम्

4.21.2

ता आनेतुं गोपबालाः प्राप्ता मुंजाटवीं पराम् ।
संभूतस्तत्र दावाग्निः प्रलयाग्निसमो महान्

4.21.3

गोभिर्गोपाः समेतास्ते श्रीकृष्णं सबलं हरिम् ।
वदन्तः पाहि पाहीति भयार्ताः शरणं गताः

4.21.4

वीक्ष्य वह्निभयं स्वानां कृष्णो योगेश्वरेश्वरः ।
न्यमीलयत मा भैष्ट लोचनानीत्यभाषत

4.21.5

तथाभूतेषु गोपेषु तमग्निं भयकारकम् ।
अपिबद्‍भगवान्देवो देवानां पश्यतां नृप

4.21.6

एवं पीत्वा महावह्निं नीत्वा गोपालगोगणम् ।
प्राप्तोऽभूत् यमुनापारे शुभाशोकवने हरिः

4.21.7

तत्र क्षुत्पीडिता गोपाः श्रीकृष्णं सबलं हरिम् ।
कृतांजलिपुटा ऊचुः क्षुधार्ताः स्मो वयं प्रभो

4.21.8

तदा तान्प्रेषयामास यज्ञ आंगिरसे हरिः ।
ते गत्वा तं यज्ञवरं नत्वोचुर्विमलं वच

4.21.9

गोपा ऊचुः -
गोपालबालैः सबलः समागतो
गाश्चारयन् श्रीव्रजराजनन्दनः ।
क्षुत्संयुतोऽस्मै सगणाय भूसुराः
प्रयच्छताश्वन्नमनंगमोहिने

4.21.10

श्रीनारद उवाच -
न किंचिदूचुस्ते सर्वे वचः श्रुत्वा द्विजा नृप ।
गोपा निराशा आगत्य इत्यूचुः सबलं हरिम्

4.21.11

गोपा ऊचु -
त्वमस्यधीशो व्रजमंडले बली
श्रीगोकुले नन्दपुरोऽग्रदण्डधृक् ।
न वर्तते दण्डमलं मधोः पुरि
प्रचंडचंडांशुमहस्तव स्फुरत्

4.21.12

श्रीनारद उवाच -
पुनस्तान् प्रेषयामास तत्पत्‍नीभ्यो हरिः स्वयम् ।
यज्ञवाटं पुनर्गत्वा नत्वा विप्रप्रियास्तदा ।
कृतांजलिपुटा ऊचुर्गोपाः कृष्णप्रणोदिताः

4.21.13

गोपा ऊचुः -
गोपालबालैः सबलः समागतो
गाश्चारयन् श्रीव्रजराजनन्दनः ।
क्षुत्संयुतोऽस्मै सगणाय चांगनाः
प्रयच्छताश्वन्नमनंगमोहिने

4.21.14

श्रीनारद उवाच -
कृष्णं समागतं श्रुत्वा कृष्णदर्शनलालसाः ।
चक्रुस्तथाऽन्नं पात्रेषु नीत्वा सर्वा द्विजांगनाः

4.21.15

त्यक्त्वा सद्यो लोकलज्जां कृष्णपार्श्वं समाययुः ।
अशोकानां वने रम्ये कृष्णातीरे मनोहरे

4.21.16

यथा श्रुतं तथा दृष्टं श्रीहरेर्रूपमद्‌भुतम् ।
प्राप्यानंदं गताः सर्वास्तुरीयं योगिनो यथा

4.21.17

श्रीभगवानुवाच -
धन्या यूयं दशनार्थमागता हे द्विजांगनाः ।
प्रतियात गृहाञ्छीघ्रं निःशंका भूमिदेवताः

4.21.18

युष्माकं तु प्रभावेण पतयो वो द्विजातयः ।
सद्यो यज्ञफलं प्राप्य युष्माभिः सह निर्मलाः

4.21.19

गमिष्यंति परं धाम गोलोकं प्रकृतेः परम् ।
अथ नत्वा हरिं सर्वा आजग्मुर्यज्ञमण्डले

4.21.20

श्रीनारद उवाच -
ता दृष्ट्वा ब्राह्मणाः सर्वे स्वात्मानं धिक् प्रचक्रिरे ।
दिदृक्षवस्ते श्रीकृष्णं कंसाद्‌भीता न चागताः

4.21.21

भुक्त्वाऽन्नं सबलः कृष्णो गोपालैः सह मैथिल ।
गाः पालयन्नाजगाम वृन्दारण्यं मनोहरम्

4.21.21

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
दावाग्निमोक्ष विप्रपत्‍नीदर्शनं नामैकविंशोऽध्यायः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc