भाषा

ENहिગુ
ग्रंथ पाठ

गर्गसंहिता · अध्याय 4.12

4.12.1

माधुर्यखण्डः - द्वादशोऽध्यायः
होली-उत्सवम् -
श्रीनारद उवाच -
इदं मया ते कथितं गोपीनां चरितं शुभम् ।
अन्यसां चैव गोपीनां वर्णनं शृणु मैथिल

4.12.2

वीतिहोत्रोऽग्निभुक् सांबः श्रीकरो गोपतिः श्रुतः ।
व्रजेशः पावनः शांत उपनन्दा व्रजेभवाः

4.12.3

धनवंतो रूपवंतः पुत्रवंतो बहुश्रुताः ।
शीलादिगुणसंपनाः सर्वे दानपरायणाः

4.12.4

तेषां गृहेषु संजाताः कन्यका देववाक्यतः ।
काश्चिद्दिव्या अदिव्याश्च तथा त्रिगुणवृत्तयः

4.12.5

भूमिगोप्यश्च संजाताः पुण्यैर्नानाविधैः कृतैः ।
राधिकासहचर्यस्ताः सख्योऽभूवन् विदेहराट्

4.12.6

एकदा मानिनीं राधां ताः सर्वा व्रजगोपिकाः ।
ऊचुर्वीक्ष्य हरिं प्राप्तं होलिकाया महोत्सवे

4.12.7

गोप्य ऊचुः -
रंभोरु चन्द्रवदने मधुमानिनीशे
राधे वचः सुललितं ललने शृणु त्वम् ।
श्रीहोलिकोत्सवविहारमलं विधातु-
मायाति ते पुरवने व्रजभूषणोऽयम्

4.12.8

श्रीयौवनोन्मदविधूर्णितलोचनोऽसौ
नीलालकालिकलितां सकपोलगोलः ।
सत्पीतकंचुकघनांतमशेषमाराद्
आचालयन्ध्वनिमता स्वपदारुणेन

4.12.9

बालार्कमौलिविमलांगदहारमुद्य-
द्विद्युत्क्षिपन् मकरकुण्डलमादधानः ।
पीतांबरेण जयति द्युतिमण्डलोऽसौ
भूमण्डले सधनुषेव घनो दिविस्थः

4.12.10

आबीरकुंकुमरसैश्च विलिप्तदेहो
हस्ते गृहीतनवसेचनयंत्र आरात् ।
प्रेक्ष्यंस्तवाशु सखि वाटमतीव राधे
त्वद्‌रासरंगरसकेलिरतः स्थितः सः

4.12.11

निर्गच्छ फाल्गुनमिषेण विहाय मानं
दातव्यमद्य च यशः किल होलिकायै ।
कर्तव्यमाशु निजमन्दिररङ्गवारि-
पाटीरपंकमकरन्दचयं च तूर्णम्

4.12.12

उत्तिष्ठ गच्छ सहसा निजमण्डलीभि-
र्यत्रास्ति सोऽपि किल तत्र महामते त्वम् ।
एतादृशोऽपि समयो न कदापि लभ्यः
प्रक्षालितं करतलं विदितं प्रवाहे

4.12.13

श्रीनारद उवाच -
अथ मानवती राधा मानं त्यक्त्वा समुत्थिता ।
सखीसंघैः परिवृता प्रकर्तुं होलिकोत्सवम्

4.12.14

श्रीखण्डागुरुकस्तूरीहरिद्राकुंकुमद्रवैः ।
पूरिताभिर्दृतीभिश्च संयुक्तास्ता व्रजांगनाः

4.12.15

रक्तहस्ताः पीतवस्त्राः कूजन् नूपुरमेखलाः ।
गायंत्यो होलिकागीतीः गालीभिर्हास्यसंधिभिः

4.12.16

आबीरारुणचूर्णानां मुष्टिभिस्ता इतस्ततः ।
कुर्वंत्यश्चारुणं भूमिं दिगन्तं चांबरं तथा

4.12.17

कोटिशः कोटिशस्तत्र स्फुरंत्याबीरमुष्टयः ।
सुगंधारुणचूर्णानां कोटिशः कोटिशस्तथा

4.12.18

सर्वतो जगृहुः कृष्णं कराभ्यां व्रजगोपिकाः ।
यथा मेघं च दामिन्यः संध्यायां श्रावणस्य च

4.12.19

तन्मुखं च विलिम्पन्त्योऽथाबीरारुणमुष्टिभिः ।
कुंकुमाक्तदृतीभिस्तं आर्द्रीचक्रुर्विधानतः

4.12.20

भगवनपि तत्रैव यावतीर्व्रजयोषितः ।
धृत्वा रूपाणि तावंति विजहार नृपेश्वर

4.12.21

राधया शुशुभे तत्र होलिकाया महोत्सवे ।
वर्षासंध्याक्षणे कृष्णः सौदामिन्या घनो यथा

4.12.22

कृष्णोऽपि तद्धस्तकृताक्तनेत्रो
दत्वा स्वकीयं नवमुत्तरीयम् ।
ताभ्यो ययौ नन्दगृहं परेशो
देवेषु वर्षत्सु च पुष्पवर्षम्

4.12.12

इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे
होलिकोत्सवे दिव्यत्रिगुणवृत्तिभूमिगोप्युपाख्यानं नाम द्वादशोऽध्यायः

हरिः ॐ तत्सच्छ्रीकृष्णार्पणमस्तु ॥
वर्गः :गर्ग संहिता

मूल पाठ: gargasaṃhitā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc